सौन्दरानन्द · अध्याय 17
सौन्दरनन्द महाकाव्ये "आर्यसत्य" नाम षोडश सर्ग समाप्त ।
सप्तदशः सर्गः
अमृतप्राप्ति
अथैवमादेशिततत्त्वमार्गो नन्दस्तदा प्राप्तविमोक्षमार्गः ।
सर्वेण भावेन गुरौ प्रणम्य क्लेशप्रहाणाय वनं जगाम
तत्रावकाशं मृदुनीलशष्पं ददर्श शान्तं तरुषण्डवन्तम् ।
निःशब्दया निम्नगयोपगूढं वैडूर्यनीलोदकया वहन्त्या
स पादयोस्तत्र विधाय शौचं शुचौ शिवे श्रीमति वृक्षमूले ।
मोक्षाय बद्ध्वा व्यवसायकक्षां पर्यङ्कमङ्कावहितं बबन्ध
ऋजुं समग्रं प्रणिधाय कायं काये स्मृतिं चाभिमुखीं विधाय ।
सर्वेन्द्रियाण्यात्मनि संनिधाय स तत्र योगं प्रयतः प्रपेदे
ततः स तत्त्वं निखिलं चिकीर्षुर्मोक्षानुकूलांश्च विधींश्चिकीर्षन् ।
ज्ञानेन शीलेन शमेन चैव चचार चेतः परिकर्मभूमौ
संधाय धैर्यं प्रणिधाय वीर्यं व्यपोह्य सक्तिं परिगृह्य शक्तिम् ।
प्रशान्तचेता नियमस्थचेताः स्वस्थस्ततोभूद् विषयेष्वनास्थः
आतप्तबुद्धेः प्रहितात्मनो ऽपि स्वभ्यस्तभावादथ कामसंज्ञा ।
पर्याकुलं तस्य मनश्चकार प्रावृट्सु विद्युज्जलमागतेव
स पर्यवस्थानमवेत्य सद्यश्चिक्षेप तां धर्मविघातकर्त्रीम् ।
प्रियामपि क्रोधपरीतचेता नारीमिवोद्वृत्तगुणां मनस्वी
आरब्धवीर्यस्य मनःशमाय भूयस्तु तस्याकुशलो वितर्कः ।
व्याधिप्रणाशाय निविष्टवुद्धेरुपद्रवो घोर इवाजगाम
स तद्विघाताय निमित्तमन्यद् योगानुकूलं कुशलं प्रपेदे ।
आर्तायनं क्षीणबलो बलस्थं निरस्यमानो बलिनारिणेव
पुरं विधायानुविधाय दण्डं मित्राणि संगृह्य रिपून् विगृह्य ।
राजा यथाप्नोति हि गामपूर्वां नीतिर्मुमुक्षोरपि सैव योगे
विमोक्षकामस्य हि योगिनो ऽपि मनः पुरं ज्ञानविधिश्च दण्डः ।
गुणाश्च मित्राण्यरयश्च दोषा भूमिर्विमुक्तिर्यतते यदर्थम्
स दुःखजालान्महतो मुमुक्षुर्विमोक्षमार्गाधिगमे विविक्षुः ।
पन्थान्मार्यं परमं दिदृक्षुः शमं ययौ किंचिदुपात्तचक्षुः
यः स्यान्निकेतस्तमसो ऽनिकेतः श्रुत्वापि तत्त्वं स भवेत् प्रमत्तः ।
यस्मात्तु मोक्षाय स पात्रभूतस्तस्मान्मनः स्वात्मनि संजहार
सम्भारतः प्रत्ययतः स्वभावादास्वादतो दोषविशेषतश्च ।
अथात्मवान्निःसरणात्मतश्च धर्मेषु चक्रे विधिवत् परीक्षाम्
स रूपिणं कृत्स्नमरूपिणं च सारं दिदृक्षुर्विचिकाय कायम् ।
अथाशुचिं दुःखमनित्यमस्वं निरात्मकं चैव चिकाय कायम्
अनित्यतस्तत्र हि शून्यतश्च निरात्मतो दुःखत एव चापि ।
मार्गप्रवेकेण स लौकिकेन क्लेशद्रुमं संचलयांचकार
यस्मादभूत्वा भवतीह सर्वं भुत्वा च भूयो न भवत्यवश्यम् ।
सहेतुकं च क्षयि हेतुमच्च तस्मादनित्यं जगदित्यविन्दत्
यतः प्रसूतस्य च कर्मयोगः प्रसज्यते बन्धविघातहेतुः ।
दुःखप्रतीकारविधौ सुखाख्ये ततो भवं दुःखमिति व्यपश्यत्
यतश्च संस्कारगतं विविक्तं न कारकः कश्चन वेदको वा ।
समग्र्यतः संभवति प्रवृत्तिः शून्यं ततो लोकमिमं ददर्श
यस्मान्निरीहं जगदस्वतन्त्रं नैश्वर्यमेकः कुरुते क्रियासु ।
तत्तत्प्रतीत्य प्रभवन्ति भावा निरात्मकं तेन विवेद लोकम्
ततः स वातं व्यजनादिवोष्णे काष्ठाश्रितं निर्मथनादिवाग्निम् ।
अन्तःक्षितिस्थं खननादिवाम्भो लोकोत्तरं वर्त्म दुरापमाप
सज्ज्ञानचापः स्मृतिवर्म बद्ध्वा विशुद्धशीलव्रतवाहनस्थः ।
क्लेशारिभिश्चित्तरणाजिरस्थैः सार्धं युयुत्सुर्विजयाय तस्थौ
ततः स बोध्यङ्गशितात्तशस्त्रः सम्यक्प्रधानोत्तमवाहनस्थः ।
मार्गाङ्गमातङ्गवता बलेन शनैः शनैः क्लेशचमूं जगाहे
स स्मृत्युपस्थानमयैः पृषत्कैः शत्रून् विपर्यासमयान् क्षणेन ।
दुःखस्य हेतूंश्चतुरश्चतुर्भिः स्वैः स्वैः प्रचारायतनैर्ददार
आर्यैर्बलैः पञ्चभिरेव पञ्च चेतःखिलान्यप्रतिमैर्बभञ्ज ।
मिथ्याङ्गनागांश्च तथाङ्गनागैर्विनिर्दुधावाष्टभिरेव सो ऽष्टौ
अथात्मदृष्टिं सकलां विधूय चतुर्षु सत्येष्वकथंकथः सन् ।
विशुद्धशीलव्रतदृष्टधर्मा धर्मस्य पूर्वां फलभूमिमाप
स दर्शनादार्यचतुष्टयस्य क्लेशैकदेशस्य च विप्रयोगात् ।
प्रत्यात्मिकाच्चापि विशेषलाभात् प्रत्यक्षतो ज्ञानिसुखस्य चैव
दार्ढ्यात् प्रसादस्य धृतेः स्थिरत्वात् सत्येष्वसंमूढतया चतुर्षु ।
शीलस्य चाच्छिद्रतयोत्तमस्य निःसंशयो धर्मविधौ बभूव
कुदृष्टिजालेन स विप्रयुक्तो लोकं तथाभूतमवेक्षमाणः ।
ज्ञानाश्रयां प्रीतिमुपाजगाम भूयः प्रसादं च गुरावियाय
यो हि प्रवृत्तिं नियतामवैति निवान्यहेतोरिह नाप्यहेतोः ।
प्रतीत्य तत्तत्समवैति तत्तत्स नैष्ठिकं पश्यति धर्ममार्यम्
शान्तं शिवं निर्जरसं विरागं निःश्रेयसं पश्यति यश्च धर्मम् ।
तस्योपदेष्टारमथार्यवर्यं स प्रेक्षते बुद्धमवाप्तचक्षुः
यथोपदेशेन शिवेन मुक्तो रोगादरोगो भिषजं कृतज्ञः ।
अनुस्मरन् पश्यति चित्तदृष्ट्या मैत्र्या च शास्त्रज्ञतया च तुष्टः
आर्येण मार्गेण तथैव मुक्तस्तथागतं तत्त्वविदार्यतत्त्वः ।
अनुस्मरन् पश्यति कायसाक्षी मैत्र्या च सर्वज्ञतया त तुष्टः
स नाशकैर्दृष्टिगतैर्विमुक्तः पर्यन्तमालोक्य पुनर्भवस्य ।
भक्त्वा घृणां क्लेशविजृम्भितेषु मृत्योर्न तत्रास न दुर्गतिभ्यः
त्वक्स्नायुमेदोरुधिरास्थिमांसकेशादिनामेध्यगणेन पूर्णम् ।
ततः स कायं समवेक्षमाणः सारं विचिन्त्याण्वपि नोपलेभे
स कामरागप्रतिघौ स्थिरात्मा तेनैव योगेन तनू चकार ।
कृत्वा महोरस्कतनुस्तनू तौ प्राप द्वितीयं फलमार्यधर्मे
स लोभचापं परिकल्पबाणं रागं महावैरिणमल्पशेषम् ।
कायस्वभावाधिगतौर्बिभेद योगायुधास्त्रैरशुभापृषत्कैः
द्वेषायुधं क्रोधविकीर्णबाणं व्यापादमन्तःप्रसवं सपत्नम् ।
मैत्रीपृषत्कैर्धृतितूणसंस्थैः क्षमाधनुर्ज्याविसृतैर्जघान
मूलान्यथ त्रीण्यशुभस्य वीरस्त्रिभिर्विमोक्षायतनैश्चकर्त ।
चमूमुखस्थान् धृतकार्मुकांस्त्रीनरीनिवारिस्त्रिभिरायसाग्रैः
स कामधातोः समतिक्रमाय पार्ष्णिग्रहांस्तानभिभूय शत्रून् ।
योगादनागामिफलं प्रपद्य द्वारीव निर्वाणपुरस्य तस्थौ
कामैर्विविक्तं मलिनैश्च धर्मैर्वितर्कवच्चापि विचारवच्च ।
विवेकजं प्रीतिसुखोपपन्नं ध्यानं ततः स प्रथमं प्रपेदे
कामाग्निदाहेन स विप्रमुक्तो ल्हादं परं ध्यानसुखादवाप ।
सुखं विगाह्याप्स्विव धर्मखिन्नः प्राप्येव चार्थ विपुलं दरिद्रः
तत्रापि तद्धर्मगतान् वितर्कान् गुणागुणे च प्रसृतान् विचारान् ।
बुद्ध्वा मनःक्षोभकरानशान्तांस्तद्विप्रयोगाय मतिं चकार
क्षोभं प्रकुर्वन्ति यथोर्मयो हि धीरप्रसन्नाम्बुवहस्य सिन्धोः ।
एकाग्रभूतस्य तथोर्मिभूताश्चित्ताम्भसः क्षोभकरा वितर्काः
खिन्नस्य सुप्तस्य च निर्वृतस्य बाधं यथा संजनयन्ति शब्दाः ।
अद्यात्ममैकाग्र्यमुपागतस्य भवन्ति बाधाय तथा वितर्काः
अथावितर्कं क्रमशो ऽविचारमेकाग्रभावान्मनसः प्रसन्नम् ।
समाधिजं प्रीतिसुखं द्वितीयं ध्यानं तदाध्यात्मशिवं स दध्यौ
तद्ध्यानमागम्य च चित्तमौनं लेभे परां प्रीतिमलब्धपूर्वाम् ।
प्रीतौ तु तत्रापि स दोषदर्शी यथा वितर्केष्वभवत्तथैव
प्रीतिः परा वस्तुनि यत्र यस्य विपर्ययात्तस्य हि तत्र दुःखम् ।
प्रीतावतः प्रेक्ष्य स तत्र दोषान् प्रीतिक्षये योगमुपारुरोह
प्रीतेर्विरागात् सुखमार्यजुष्टं कायेन विन्दन्नथ संप्रजानन् ।
उपेक्षकः स स्मृतिमान् व्यहार्षिद् ध्यानं तृतीयं प्रतिलभ्य धीरः
यस्मात् परं तत्र सुखं सुखेभ्यस्ततः परं नास्ति सुखप्रवृत्तिः ।
तस्माद् बभाषे शुभकृत्स्नभूमिः परापरज्ञः परमेति मैत्र्या
ध्याने ऽपि तत्राथ ददर्श दोषं मेने परं शान्तमनिञ्जमेव ।
आभोगतो ऽपीञ्जयति स्म तस्य चित्तं प्रवृत्तं सुखमित्यस्रम्
यत्रेञ्जितं स्पन्दितमस्ति तत्र यत्रास्ति च स्पन्दितमस्ति दुःखम् ।
यस्मादतस्तत्सुखमिञ्जकत्वात् प्रशान्तिकामा यतयस्त्यजन्ति
अथ प्रहाणात् सुखदुःखयोश्च मनोविकारस्य च पूर्वमेव ।
दध्यावुपेक्षास्मृतिमद् विशुद्धं ध्यानं तथादुःखसुखं चतुर्थम्
यस्मात्तु तस्मिन्न सुखं न दुःखं ज्ञानं च तत्रास्ति तदर्थचारि ।
तस्मादुपेक्षास्मृतिपारिशुद्धिर्निरुच्यते ध्यानविधौ चतुर्थे
ध्यानं स निश्रित्य ततश्चतुर्थमर्हत्त्वलाभाय मतिं चकार ।
संधाय मित्रं बलवन्तमार्यं राजेव देशानजितान् जिगीषुः
चिच्छेद कार्त्स्न्येन ततः स पञ्च प्रज्ञासिना भावनयेरितेन ।
ऊर्ध्वङ्गमान्युत्तमबन्धनानि संयोजनान्युत्तमबन्धनानि
बोध्यङ्गनागैरपि सप्तभिः स सप्तैव चित्तानुशयान् ममर्द ।
द्विपानिवोपस्थितविप्रणाशान् कालो ग्रहैः सप्तभिरेव सप्त
अग्निद्रुमाज्याम्बुषु या हि वृत्तिः कबन्धवाय्वग्निदिवाकराणाम् ।
दोषेषु तां वृत्तिमियाय नन्दो निर्वापणोत्पाटनदाहशोषैः
इति त्रिवेगं त्रिझषं त्रिविचमेकाम्भसं पञ्चरयं द्विकूलम् ।
द्विग्राहमष्टाङ्गवता प्लवेन दुःखार्णवं दुस्तरमुत्ततार
अर्हत्त्वमासाद्य स सत्क्रियार्हो निरुत्सुको निष्प्रणयो निराशः ।
विभीर्विशुग्वीतमदो विरागः स एव धृत्यान्य इवाबभासे
भ्रातुश्च शास्तुश्च तयानुशिष्ट्या नन्दस्ततः स्वेन च विक्रमेण ।
प्रशान्तचेताः परिपूर्णकार्यो वाणीमिमामात्मगतां जगाद
नमो ऽस्तु तस्मै सुगताय येन हितैषिणा मे करुणात्मकेन ।
बहूनि दुःखान्यपवर्तितानि सुखानि भूयांस्युपसंहृतानि
अहं ह्यनार्येण शरीरजेन दुःखात्मके वर्त्मनि कृष्यमाणः ।
निवर्तितस्तद्वचनाङ्कुशेन दर्पान्वितो नाग इवाङ्कुशेन
तस्याज्ञया कारुणिकस्य शास्तुर्हृदिस्थमुत्पाट्य हि रागशल्यम् ।
अद्यैव तावत् सुमहत् सुखं मे सर्वक्षये किंबत निर्वृतस्य
निर्वाप्य कामाग्निमहं हि दीप्तं धृत्यम्बुना पावकमम्बुनेव ।
ह्लादं परं सांप्रतमागतो ऽस्मि शीतं ह्रदं घर्म इवावतीर्णः
न मे प्रियं किंचन नाप्रियं मे न मे ऽनुरोधो ऽस्ति कुतो विरोधः ।
तयोरभावात् सुखितो ऽस्मि सद्यो हिमातपाभ्यामिव विप्रमुक्तः
महाभयात् क्षेममिवोपलभ्य महावरोधादिव विप्रमोक्षम् ।
महार्णवात् पारमिवाप्लवः सन् भीमान्धकारादिव च प्रकाशम्
रोगादिवारोग्यमसह्यरूपादृणादिवानृण्यमनन्तसंख्यात् ।
द्विषत्सकाशादिव चापयानं दुर्भिक्षयोगाच्च यथा सुभिक्षम्
तद्वत्परां शान्तिमुपागतो ऽहं यस्यानुभावेन विनायकस्य ।
करोमि भूयः पुनरुक्तमस्मै नमो नमो ऽर्हाय तथागताय
येनाहं गिरिमुपनीय रूक्मशृङ्गं स्वर्गं च प्लवगवधूनिदर्शनेन ।
कामात्मा त्रिदिवचरीभिरङ्गनाभिर्निष्कृष्टो युवतिमये कलौ निमग्नः
तस्माच्च व्यसनपरादनर्थपङ्कादुत्कृष्य क्रमशिथिलः करीव पङ्कात् ।
शान्ते ऽस्मिन् विरजसि विज्वरे विशोके सद्धर्मे वितमसि नैष्ठिके विमुक्तः
तं वन्दे परमनुकम्पकं महर्षि मूर्ध्नाहं प्रकृतिगुणज्ञमाशयज्ञम् ।
संबुद्धं दशबलिनं भिषक्प्रधानं त्रातारं पुनरपि चास्मि संनतस्तम्
मूल पाठ: Saundarānanda · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0