भाषा

ENहिગુ
ग्रंथ पाठ

सौन्दरानन्द · अध्याय 18

18.1

सौन्दरनन्द महाकाव्य में "अमृतप्राप्ति" नामक सप्तदश सर्ग समाप्त ।
अष्टादशः सर्गः
आज्ञाव्याकरण
अथ द्विजो बाल इवाप्तवेदः क्षिप्रं वणिक् प्राप्त इवाप्तलाभः ।
जित्वा च राजन्य इवारिसैन्यं नन्दः कृतार्थो गुरुमभ्यगच्छत्

18.2

द्रष्टुं सुखं ज्ञानसमाप्तिकाले गुरुर्हि शिष्यस्य गुरोश्च शिष्यः ।
परिश्रमस्ते सफलो मयीति यतो दिदृक्षास्य मुनौ बभूव

18.3

यतो हि येनाधिगतो विशेषस्तस्योत्तमांसो ऽर्हति कर्तुमीड्याम् ।
आर्यः सरागो ऽपि कृतज्ञभावात् प्रक्षीणमानः किमु वीतरागः

18.4

यस्यार्थकामप्रभवा हि भक्तिस्ततो ऽस्य सा तिष्ठति रूढमूला ।
धर्मान्वयो यस्य तु भक्तिरागस्तस्य प्रसादो हृदयावगाढः

18.5

काषायवासाः कनकावदातस्ततः स मूर्ध्ना गुरवे प्रणेमे ।
वातेरितः पल्लवताम्ररागः पुष्पोज्ज्वलश्रीरिव कर्णिकारः

18.6

अथात्मनः शिष्यगुणस्य चैव महामुनेः शास्तृगुणस्य चैव ।
संदर्शनार्थं स न मानहेतोः स्वां कार्यसिद्धिं कथयाम्बभूव

18.7

यो दृष्टिशल्यो हृदयावगाढः प्रभो भृशं मामतुदत् सुतीक्ष्णः ।
त्वद्वाक्यसंदंशमुखेन मे स समुद्धृतः शल्यहृतेव शल्यः

18.8

कथंकथाभावगतोस्मि येन छिन्नः स निःसंशय संशयो मे ।
त्वच्छासनात् सत्पथमागतो ऽस्मि सुदेशिकस्येव पथि प्रनष्टः

18.9

यत्पीतमास्वादवशेन्द्रियेण दर्पेण कन्दर्पविषं मयासीत् ।
तन्मे हतं त्वद्वचनागदेन विषं विनाशीव महागदेन

18.10

क्षयं गतं जन्म निरस्तजन्मन् सद्धर्मचर्यामुषितो ऽस्मि सम्यक् ।
कृत्स्नं कृतं मे कृतकार्य कार्यं लोकेषु भूतो ऽस्मि न लोकधर्मा

18.11

मैत्रीस्तनीं व्यञ्जनचारुसास्नां सद्धर्मदुग्धां प्रतिभानशृङ्गाम् ।
तवास्मि गां साधु निपीय तृप्तस्तृषेव गामुत्तम वत्सवर्णः

18.12

यत्पश्यतश्चाधिगमो ममायं तन्मे समासेन मुने निबोध ।
सर्वज्ञ कामं विदितं तवैतत् स्वं तूपचारं प्रविवक्षुरस्मि

18.13

अन्ये ऽपि सन्तो विमुमुक्षवो हि श्रुत्वा विमोक्षाय नयं परस्य ।
मुक्तस्य रोगादिव रोगवन्तस्तेनैव मार्गेण सुखं घटन्ते

18.14

उर्व्यादिकान् जन्मनि वेदिम धातुन् नात्मानमुर्व्यादिषु तेषु किञ्चित् ।
यस्मादतस्तेषु न मे ऽस्ति सक्तिर्बहिश्च कायेन समा मतिर्मे

18.15

स्कन्धांश्च रूपप्रभृतीन् दशार्धान् पश्यामि यस्माच्चपलानसारान् ।
अनात्मकांश्चैव वधात्मकांश्च तस्माद् विमुक्तो ऽस्म्यशिवेभ्य एभ्यः

18.16

यस्माच्च पश्याम्युदयं व्ययं च सर्वास्ववस्थास्वहमिन्द्रियाणाम् ।
तस्मादनित्येषु निरात्मकेषु दुःखेषु मे तेष्वपि नास्ति संगः

18.17

यतश्च लोकं समजन्मनिष्ठं पश्यामि निःसारमसच्च सर्वम् ।
अतो धिया मे मनसा विबद्धमस्मीति मे नेञ्जितमस्ति येन

18.18

चतुर्विधे नैकविधप्रसङ्गे यतो ऽहमाहारविधावसक्तः ।
अमूर्च्छितश्चाग्रथितश्च तत्र त्रिभ्यो विमुक्तो ऽस्मि ततो भवेभ्यः

18.19

अनिश्चितश्चाप्रतिबद्धचित्तो दृष्टश्रुतादौ व्यवहारधर्मे ।
यस्मात् समात्मानुगतश्च तत्र तस्माद् विसंयोगगतो ऽस्मि मुक्तः

18.20

इत्येवमुक्त्वा गुरुबाहुमान्यात् सर्वेण कायेन स गां निपन्नः ।
प्रवेरितो लोहितचन्दनाक्तो हैमो महास्तम्भ इवाबभासे

18.21

ततः प्रमादत् प्रसृतस्य पूर्वं श्रुवा धृतिं व्याकरणं च तस्य ।
धर्मान्वयं चानुगतं प्रसादं मेघस्वरस्तं मुनिराबभाषे

18.22

उत्तिष्ठ धर्मे स्थित शिष्यजुष्टे किं पादयोर्मे पतितो ऽसि मुर्ध्ना ।
अभ्यर्चनं मे न तथा प्रणामो धर्मे यथैषा प्रतिपत्तिरेव

18.23

अद्यासि सुप्रव्रजितो जितात्मन्नैश्वर्यमप्यात्मनि येन लब्धम् ।
जितात्मनः प्रव्रजनं हि साधु चलात्मनो न त्वजितेन्द्रियस्य

18.24

अद्यासि शौचेन परेण युक्तो वाक्कायचेतांसि शुचीनि यत्ते ।
अतः पुनश्चाप्रयतापसौम्यां यत्सौम्य नो वेक्ष्यसि गर्भशय्याम्

18.25

अद्यार्थवत्ते श्रुतवच्छ्रुतं तच्छ्रुतानुरूपं प्रतिपद्य धर्मम् ।
कृतश्रुतो विप्रतिपद्यमानो निन्द्यो हि निर्वीर्य इवात्तशस्त्रः

18.26

अहो धृतिस्ते ऽविषयात्मकस्य यत्त्वं मतिं मोक्षविधावकार्षीः ।
यास्यामि निष्ठामिति बालिशो हि जन्मक्षयात् त्रासमिहाभ्युपैति

18.27

दिष्ट्या दुरापः क्षणसंनिपातो नायं कृतो मोहवशेन मोघः ।
उदेति दुःखेन गतो ह्यधस्तात् कूर्मो युगच्छिद्र इवार्णवस्थः

18.28

निर्जित्य मारं युधि दुर्निवारमद्यासि लोके रणशीर्षशूरः ।
शूरो ऽप्यशूरः स हि वेदितव्यो दोषैरमित्रैरिव हन्यते यः

18.29

निर्वाप्य रागाग्निमुदीर्णमद्य दिष्ट्या सुखं स्वप्स्यसि वीतदाहः ।
दुःखं हि शेते शयने ऽप्युदारे क्लेशाग्निना चेतसि दह्यमानः

18.30

अभ्युच्छ्रितो द्रव्यमदेन पूर्वमद्यासि तृष्णोपरमात् समृद्धः ।
यावत् सतर्षः पुरुषो हि लोके तावत् समृद्धो ऽपि सदा दरिद्रः

18.31

अद्यापदेष्टुं तव युक्तरूपं शुद्धोदनो मे नृपतिः पितेति ।
भ्रष्टस्य धर्मात् पितृभिर्निपातादश्लाघनीयो हि कुलापदेशः

18.32

दिष्ट्यासि शान्तिं परमामुपेतो निस्तीर्णकान्तार इवाप्तसारः ।
सर्वो हि संसारगतो भयार्तो यथैव कान्तारगतस्तथैव

18.33

आरण्यकं भैक्षचरं विनीतं द्रक्ष्यामि नन्दं निभृतं कदेति ।
आसीत् पुरस्तात्त्वयि मे दिदृक्षा तथासि दिष्ट्या मम दर्शनीयः

18.34

भवत्यरूपो ऽपि हि दर्शनीयः स्वलंकृतः श्रेष्ठतमैगुर्णैः स्वैः ।
दोषैः परीतो मलिनीकरैस्तु सुदर्शनीयो ऽपि विरूप एव

18.35

अद्य प्रकृष्टा तव बुद्धिमत्ता कृत्स्नं यया ते कृतमात्मकार्यम् ।
श्रुतोन्नतस्यापि हि नास्ति बुद्धिर्नोत्पद्यते श्रेयसि यस्य बुद्धिः

18.36

उन्मीलितस्यापि जनस्य मध्ये निमीलितस्यापि तथैव चक्षुः ।
प्रज्ञामयं यस्य हि नास्ति चक्षुश्चक्षुर्न तस्यास्ति सचक्षुषो ऽपि

18.37

दुःखप्रतीकारनिमित्तमार्तः कृष्यादिभिः खेदमुपैति लोकः ।
अजस्रमागच्छति तच्च भूयो ज्ञानेन यस्याद्य कृतस्त्वयान्तः

18.38

दुःखं न मे स्यात् सुखमेव मे स्यादिति प्रवृत्तः सततं हि लोकः ।
न वेत्ति तच्चैव तथा यथा स्यात् प्राप्तं त्वयाद्यासुलभं यथावत्

18.39

इत्येवमादि स्थिरबुद्धिचित्तस्तथागतेनाभिहितो हिताय ।
स्तवेषु निन्दासु च निर्व्यपेक्षः कृताञ्जलिर्वाक्यमुवाच नन्दः

18.40

अहो विशेषेण विशेषदर्शिन् स्त्वयानुकम्पा मयि दर्शितेयं ।
यत्कामपङ्के भगवन्निमग्नस्त्रातो ऽस्मि संसारभयादकामः

18.41

भ्रात्रा त्वया श्रेयसि दैशिकेन पित्रा फलस्थेन तथैव मात्रा ।
हतो ऽभविष्यं यदि न व्यमोक्ष्यं सार्थात् परिभ्रष्ट इवाकृतार्थः

18.42

शान्तस्य तुष्टस्य सुखो विवेको विज्ञाततत्त्वस्व परीक्षकस्य ।
प्रहीणमानस्य च निर्मदस्य सुखं विरागत्वमसक्तबुद्धेः

18.43

अथो हि तत्त्वं परिगम्य सम्यङ्निर्धूय दोषानधिगम्य शान्तिम् ।
स्वं नाश्रमं सम्प्रति चिन्तयामि न तं जनं नाप्सरसो न देवान्

18.44

इदं हि भुक्त्वा शुचि शामिकं सुखं न मे मनः कांक्षति कामजं सुखम् ।
महार्हमप्यन्नमदैवताहृतं दिवौकसो भुक्तवतः सुधामिव

18.45

अहो ऽन्धविज्ञाननिमीलितं जगत् पटान्तरे पश्यति नोत्तमं सुखम् ।
सुधीरमध्यत्मसुखं व्यपास्य हि श्रमं तथा कामसुखार्थमृच्छति

18.46

यथा हि रत्नाकरमेत्य दुर्मतिर्विहाय रत्नान्यसतो मणीन् हरेत् ।
अपास्य संबोधिसुखं तथोत्तमं श्रमं व्रजेत् कामसुखोपलब्धये

18.47

अहो हि सत्त्वेष्वतिमैत्रचेतसस्तथागतस्यानुजिघृक्षुता परा ।
अपास्य यद्ध्यानसुखं मुने परं परस्य दुःखोपरमाय खिद्यसे

18.48

मया नु शक्यं प्रतिकर्तुमद्य किं गुरौ हितैषिण्यनुकम्पके त्वयि ।
समुद्धृतो येन भवार्णवादहं महार्णवाच्चूर्णितनौरिवोर्मिभिः

18.49

ततो मिनिस्तस्य निशम्य हेतुमत् प्रहीणसर्वास्रवसूचकं वचः ।
इदं बभाषे वदतामनुत्तमो यदर्हति श्रीघन एव भाषितुं

18.50

इदं कृतार्थः परमार्थवित् कृती त्वमेव धीमन्नभिधातुमर्हसि ।
अतीत्य कान्तारमवाप्तसाधनः सुदैशिकस्येव कृतं महावणिक्

18.51

अवैति बुद्धं नरदम्यसारथिं कृती यथार्हन्नुपशान्तमानसः ।
न दृष्टसत्यो ऽपि तथावबुध्यते पृथग्जनः किंबत बुद्धिमानपि

18.52

रजस्तमोभ्यां परिमुक्तचेतसस्तवैव चेयं सदृशी कृतज्ञता ।
रजःप्रकर्षेण जगत्यवस्थिते कृतज्ञभावो हि कृतज्ञ दुर्लभः

18.53

सधर्म धर्मान्वयतो यतश्च ते मयि प्रसादो ऽधिगमे च कौशलम् ।
अतो ऽस्ति भूयस्त्वयि मे विवक्षितं नतो हि भक्तश्च नियोगमर्हसि

18.54

अवाप्तकार्यो ऽसि परां गतिं गतो न ते ऽस्ति किञ्चित् करणीयमण्वपि ।
अतःपरं सौम्य चरानुकम्पया विमोक्षयन् कृच्छ्रगतान् परानपि

18.55

इहार्थमेवारभते नरो ऽधमो विमध्यमस्तूभयलौकिकीं क्रियाम् ।
क्रियाममुत्रैव फलाय मध्यमो विशिष्टधर्मा पुनरप्रवृत्तये

18.56

इहोत्तमेभ्यो ऽपि मतः स तूत्तमो य उत्तमं धर्ममवाप्य नैष्ठिकम् ।
अचिन्तयित्वात्मगतं परिश्रमं शमं परेभ्यो ऽप्युपदेष्टुमिच्छति

18.57

विहाय तस्मादिह कार्यमात्मनः कुरु स्थिरात्मन् परकार्यमप्यथो ।
भ्रमत्सु सत्त्वेषु तमावृतात्मसु श्रुतप्रदीपो निशि धार्यतामयम्

18.58

ब्रवीतु तावत् पुरि विस्मितो जनस्त्वयि स्थिते कुर्वति धर्मदेशनाः ।
अहो बताश्चर्यमिदं विमुक्तये करोति रागी यदयं कथामिति

18.59

ध्रुवं हि संश्रुत्य तव स्थिरं मनो निवृत्तनानाविषयैर्मनोरथैः ।
वधूर्गृहे सापि तवानुकुर्वती करिष्यते स्त्रीषु विरागिणीः कथाः

18.60

त्वयि परमधृतौ निविष्टतत्त्वे भवनगता न हि रंस्यते ध्रुवं सा ।
मनसि शमदमात्मके विविक्ते मतिरिव कामसुखैः परीक्षकस्य

18.61

इत्यर्हतः परमकारुणिकस्य शास्तुर्मूर्ध्ना वचश्च चरणौ च समं गृहीत्वा ।
स्वस्थः प्रशान्तहृदयो विनिवृत्तकार्यः पार्श्वान्मुनेः प्रतिययौ विमदः करीव

18.62

भिक्षार्थं समये विवेश स पुरं दृष्टीर्जनस्याक्षिपन्
लाभालाभसुखासुखादिषु समः स्वस्थेन्द्रियो निस्पृहः ।
निर्मोक्षाय चकार तत्र च कथां काले जनायार्थिने
नैवोन्मार्गगतान् परान् परिभवन्नात्मानमुत्कर्षयन्

18.63

इत्येषा व्युपशान्तये न रतये मोक्षार्थगर्भा कृतिः
श्रोतृणां ग्रहणार्थमन्यमनसां काव्योपचारात् कृता ।
यन्मोक्षात् कृतमन्यदत्र हि मया तत्काव्यधर्मात्
कृतं पातुं तित्कमिवौषधं मधुयुतं हृद्यं कथं स्यादिति

18.64

प्रायेणालोक्य लोकं विषयरतिपरं मोक्षात् प्रतिहतं
काव्यव्याजेन तत्त्वं कथितमिह मया मोक्षः परमिति ।
तद्बुद्ध्वा शमिकं यत्तदवहितमितो ग्राह्यं न ललितं
पांसुभ्यो धातुजेभ्यो नियतमुपकरं चामीकरमिति

मूल पाठ: Saundarānanda · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc