सौन्दरानन्द · अध्याय 16
सौन्दरनन्द महाकाव्ये "वितर्कप्रहाण" नाम पञ्चदश सर्ग समाप्त ।
षोडशः सर्गः
आर्यसत्य
एवं मनोधारणया क्रमेण व्यपोह्य किञ्चित् समुपोह्य किञ्चित् ।
ध्यानानि चत्वार्यधिगम्य योगी प्राप्नोत्यभिज्ञा नियमेन पञ्च
ऋद्धिप्रवेकं च बहुप्रकारं परस्य चेतश्चरितावबोधम् ।
अतीतजन्मस्मरणं च दीर्घं दिव्ये विशुद्धे श्रुतिचक्षुषी च
अतः परं तत्त्वपरिक्षणेन मनो दधात्यास्रवसंक्षयाय ।
ततो हि दुःखप्रभृतीनि सम्यक् चत्वारि सत्यानि पदान्यवैति
बाधात्मकं दुःखमिदं प्रसक्तं दुःखस्य हेतुः प्रभवात्मको ऽयम् ।
दुःखक्षयो निःसरणात्मको ऽयं त्राणात्मको ऽयं प्रशमाय मार्गः
इत्यार्यसत्यान्यवबुध्य बुद्ध्या चत्वारि सम्यक् प्रतिविध्य चैव ।
सर्वास्रवान् भावनयाभिभूय न जायते शान्तिमवाप्य भूयः
अबोधतो ह्यप्रतिवेधतश्च तत्त्वात्मकस्यास्य चतुष्टस्य ।
भवाद् भवं याति न शन्तिमेति संसारदोलामधिरुह्य लोकः
तस्माज्जरादेर्व्यसनस्य मूलं समासतो दुःखमवैहि जन्म ।
सर्वौषधीनामिव भूर्भवाय सर्वापदां क्षेत्रमिदं हि जन्म
यज्जन्मरूपस्य हि सेन्द्रियस्य दुःखस्य तन्नैकविधस्य जन्म ।
यः संभवश्चास्य समुच्छ्रयस्य मृत्योश्च रोगस्य च संभवः सः
सद्वाप्यसद्वा विषमिश्रमन्नं यथा विनाशाय न धारणाय ।
लोके तथा तिर्यगुपर्यधो वा दुःखाय सर्वं न सुखाय जन्म
जरादयो नैकविधाः प्रजानां सत्यां प्रवृत्तौ प्रभवन्त्यनर्थाः ।
प्रवात्सु घोरेष्वपि मारुतेषु न ह्यप्रसूतास्तरवश्चलन्ति
आकाशयोनिः पवनो यथा हि यथा शमीगर्भशयो हुताशः ।
आपो यथान्तर्वसुधाशयाश्च दुःखं तथा चित्तशरीरयोनिः
अपां द्रवत्वं कठिनत्वमुर्व्या वायोश्चलत्वं ध्रुवमौष्ण्यमग्नेः ।
यथा स्वभावो हि तथा स्वभावो दुःखं शरीरस्य च चेतसश्च
काये सति व्याधिजरादि दुःखं क्षुत्तर्षवर्षोष्णहिमादि चैव ।
रूपाश्रिते चेतसि सानुबन्धे शोकारतिक्रोधभयादि दुःखम्
प्रत्यक्षमालोक्य च जन्मदुःखं दुःखं तथातीतमपीति विद्धि ।
यथा च तद्दुःखमिदं च दुःखं दुःखं तथानागतमप्यवेहि
बीजस्वभावो हि यथेह दृष्टो भूतो ऽपि भव्यो ऽपि तथानुमेयः ।
प्रत्यक्षतश्च ज्वलनो यथोष्णो भूतो ऽपि भव्यो ऽपि तथोष्ण एव
तन्नामरूपस्य गुणानुरूपं यत्रैव निर्वृत्तिरुदारवृत्त ।
तत्रैव दुःखं न हि तद्विमुक्तं दुःखं भविष्यत्यभवद् भवेद् वा
प्रवृत्तिदुःखस्य च तस्य लोके तृष्णादयो दोषगणा निमित्तम् ।
नैवेश्वरो न प्रकृतिर्नं कालो नापो स्वभावो न विधिर्यदृच्छा
ज्ञातव्यमेतेन च कारणेन लोकस्य दोषेभ्य इति प्रवृत्तिः ।
यस्मान्म्रियन्ते सरजस्तमस्का न जायते वीतरजस्तमस्कः
इच्छाविशेषे सति तत्र तत्र यानासनादेर्भवति प्रयोगः ।
यस्मादतस्तर्षवशात्तथैव जन्म प्रजानामिति वेदितव्यम्
सत्त्वान्यभिष्वङ्गवशानि दृष्ट्वा स्वजातिषु प्रीतिपराण्यतीव ।
अभ्यासयोगादुपपादितानि तैरेव दोषैरिति तानि विद्धि
क्रोधप्रहर्षादिभिराश्रयाणामुत्पद्यते चेह यथा विशेषः ।
तथैव जन्मस्वपि नैकरूपो निर्वर्तते क्लेशकृतो विशेषः
दोषाधिके जन्मनि तीव्रदोष उत्पद्यते रागिणि तीव्ररागः ।
मोहाधिके मोहबलाधिकश्च तदल्पदोषे च तदल्पदोषः
फलं हि यादृक् समवैति साक्षात् तदागमाद् बीजमवैत्यतीतम् ।
अवेत्य बीजप्रकृतिं च साक्षादनागतं तत्फलमभ्युपैति
दोषक्षयो जातिषु यासु यस्य वैराग्यतस्तासु न जायते सः ।
दोषाशयस्तिष्ठति यस्य यत्र तस्योपपत्तिर्विवशस्य तत्र
तज्जन्मनो नैकविधस्य सौम्य तृष्णादयो हेतव इत्यवेत्य ।
तांश्छिन्धि दुःखाद् यदि निर्मुमुक्षा कार्यक्षयः कारणसंक्षयाद्धि
दुःखक्षयो हेतुपरिक्षयाच्च शान्तं शिवं साक्षिकुरुष्व धर्मं ।
तृष्णाविरागं लयनं निरोधं सनातनं त्राणमहार्यमार्यम्
यस्मिन्न जातिर्न जरा न मृत्युर्न व्याधयो नाप्रियसंप्रयोगः ।
नेच्छाविपन्न प्रियविप्रयोगः क्षेमं पदं नैष्ठिकमच्युतं तत्
दीपो यथा निर्वृतिमभ्युपेतो नैवावनिं गच्छति नान्तरिक्षम् ।
दिशं न कांचिद् विदिशं न कांचित् स्नेहक्षयात् केवलमेति शान्तिम्
एवं कृती निर्वृतिमभ्युपेतो नैवावनिं गच्छति नान्तरिक्षम् ।
दिशं न कांचिद् विदिशं न कांचित् क्लेशक्षयात् केवलमेति शान्तिम्
अस्याभ्युपायो ऽधिगमाय मार्गः प्रज्ञात्रिकल्पः प्रशमद्विकल्पः ।
स भावनीयो विधिवद् बुधेन शीले शुचौ त्रिप्रमुखे स्थितेन
वाक्कर्म सम्यक् सहाकायकर्म यथावदाजीवनयश्च शुद्धः ।
इदं त्रयं वृत्तविधौ प्रवृत्तं शीलाश्रयं कर्मपरिग्रहाय
सत्येषु दुःखादिषु दृष्टिरार्या सम्यग्वितर्कश्च पराक्रमश्च ।
इदं त्रयं ज्ञानविधौ प्रवृत्तं प्रज्ञाश्रयं क्लेशपरिक्षयाय
न्यायेन सत्याधिगमाय युक्ता सम्यक् स्मृतिः सम्यगथो समाधिः ।
इदं द्वयं योगविधौ प्रवृत्तं शमाश्रयं चित्तपरिग्रहाय
क्लेशांकुरान्न प्रतनोति शीलं बीजाङ्कुरान् काल इवातिवृत्तः ।
शुचौ हि शीले पुरुषस्य दोषा मनः सलज्जा इव धर्षयन्ति
क्लेशांस्तु विष्कम्भयते समाधिर्वेगानिवाद्रिर्महतो नदीनाम् ।
स्थिते समाधौ हि न धर्षयन्ति दोषा भुजंगा इव मन्त्रबद्धाः
प्रज्ञा त्वशेषेण निहन्ति दोषांस्तीरद्रुमान् प्रावृषि निम्नगेव ।
दग्धा यया न प्रभवन्ति दोषा वज्राग्निनेवानुसृतेन वृक्षाः
त्रिस्कन्धमेतं प्रविगाह्य मार्गं प्रस्पष्टमष्टाङ्गमहार्यमार्यम् ।
दुःखस्य हेतून् प्रजहाति दोषान् प्राप्नोति चात्यन्तशिवं पदं तत्
अस्योपचारे धृतिरार्जवं च ह्रीरप्रमादः प्रविविक्तता च ।
अल्पेच्छता तुष्टिरसंगता च लोकप्रवृत्तावरतिः क्षमा च
याथात्म्यतो विन्दति यो हि दुःखं तस्योद्भवं तस्य च यो निरोधम् ।
आर्येण मार्गेण स शान्तिमेति कल्याणमित्रैः सह वर्तमानः
यो व्याधितो व्याधिमवैति सम्यग् व्याधेर्निदानं च तदौषधं च ।
आरोग्यमाप्नोति हि सो ऽचिरेण मित्रैरभिज्ञैरुपचर्यमाणः
तद्व्याधिसंज्ञां कुरु दुःखसत्ये दोषेष्वपि व्याधिनिदानसंज्ञाम् ।
आरोग्यंज्ञां च निरोधसत्ये भैषज्यसंज्ञामपि मार्गसत्ये
तस्मात् प्रवृत्तिंपरिगच्छ दुःखं प्रवर्तकानप्यवगच्छ दोषान् ।
निवृत्तिमागच्छ च तन्निरोधं निवर्तकं चाप्यवगच्छ मार्गम्
शिरस्यथो वाससि संप्रदीप्ते सत्यावबोधाय मतिविचार्या ।
दग्धं जगत् सत्यनयं ह्यदृष्ट्वा प्रदह्यते संप्रति धक्ष्यते च
यदैव यः पश्यति नामरूपं क्षयीति तद्दर्शनमस्य सम्यक् ।
सम्यक् च निर्वेदमुपैति पश्यन् नन्दीक्षयाच्च क्षयमेति रागः
तयोश्च नन्दीरजसोः क्षयेण सम्यग्विमुक्तं प्रवदामि चेतः ।
सम्यग्विमुक्तिर्मनसश्च ताभ्यां न चास्य भूयः करणीयमस्ति
यथास्वभावेन हि नामरूपं तद्धेतुमेवास्तगमं च तस्य ।
विजानतः पस्यत एव चाहं ब्रवीमि सम्यक् क्षयमास्रवाणाम्
तस्मात् परं सौम्य विधाय वीर्यं शीघ्रं घटस्वास्त्रवसंक्षयाय ।
दुःखाननित्यांश्च निरात्मकांश्च धातून् विशेषेण परीक्षमाणः
धातून् हि षड् भूसलिलानलादीन् सामान्यतः स्वेन च लक्षणेन ।
अवैति यो नान्यमवैति तेभ्यः सो ऽत्यन्तिकं मोक्षमवैति तेभ्यः
क्लेशप्रहाणाय च निश्चितेन कालो ऽभ्युपायस्श्च परीक्षितव्यः ।
योगो ऽप्यकाले ह्यनुपायतश्च भवत्यनर्थाय न तद्गुणाय
अजातवत्सां यदि गां दुहीत नैवाप्नुयात् क्षीरमकालदोही ।
काले ऽपि वा स्यान्न पयो लभेत मोहेन शृङ्गाद् यदि गां दुहीत
आर्द्राच्च काष्ठाज्ज्वलनाभिकामो नैव प्रयत्नादपि वह्निमृच्छेत् ।
काष्ठाच्च शुष्कादपि पातनेन नैवाग्निमाप्नोत्यनुपायपूर्वम्
तद्देशकालौ विधिवत् परीक्ष्य योगस्य मात्रामपि चाभ्युपायम् ।
बलाबले चात्मनि संप्रधार्य कार्यः प्रयत्नो न तु तद्विरुद्धः
प्रग्राहकं यत्तु निमित्तमुक्तमुद्धन्यमाने हृदि तन्न सेव्यम् ।
एवं हि चित्तं प्रशम न याति प्रवायुना वह्निरिवेर्यमाणः
शमाय यत् स्यान्नियतं निमित्तं जातोद्धवे चेतसि तस्य कालः ।
एवं हि चित्तं प्रशमं नियच्छेत् प्रदीप्यमानो ऽग्निरिवोदकेन
शमावहं यन्नियतं निमित्तं सेव्यं न तच्चेतसि लीयमाने ।
एवं हि भूयो लयमेति चित्तमनीर्यमाणो ऽग्निरिवाल्पसारः
प्रग्राहकं यन्नियतं निमित्तं लयं गते चेतसि तस्य कालः ।
क्रियासमर्थं हि मनस्तथा स्यान्मन्दायमानो ऽग्निरिवेन्धनेन
औपेक्षिकं नापि निमित्तमिष्टं लयं गते चेतसि सोद्धवे वा ।
एवं हि तीव्रं जनयेदनर्थमुपेक्षितो व्याधिरिवातुरस्य
यत्स्यादुपेक्षानियतं निमित्तं साम्यं गते चेतसि तस्य कालः ।
एवं हि कृत्याय भवेत्प्रयोगो रथो विधेयाश्व इव प्रयातः
रागोद्धवव्याकुलिते ऽपि चित्ते मैत्रोपसंहारविधिर्न कार्यः ।
रागात्मको मुह्यति मैत्रया हि स्नेहं कफक्षोभ इवोपयुज्य
रागोद्धते चेतसि धैर्यमेत्य निषेवितव्यं त्वशुभं निमित्तम् ।
रागात्मको ह्येवमुपैति शर्म कफात्मको रूक्षमिवोपयुज्य
व्यापाददोषेण मनस्युदीर्णे न सेवितव्यं त्वशुभं निमित्तम् ।
द्वेषात्मकस्य ह्यशुभा वधाय पित्तात्मनस्तीक्ष्ण इवोपचारः
व्यापाददोषक्षुभिते तु चित्ते सेव्या स्वपक्षोपनयेन मैत्री ।
द्वेषात्मनो हि प्रशमाय मैत्री पित्तात्मनः शीत इवोपचारः
मोहानुबद्धे मनसः प्रचारे मैत्राशुभा वैव भवत्ययोगः ।
ताभ्यां हि संमोहमुपैति भूयो वाय्वात्मको रूक्षमिवोपनीय
मोहात्मिकायां मनसः प्रवृत्तौ सेव्यस्त्विदम्प्रत्ययताविहारः ।
मूढे मनस्येष हि शान्तिमार्गो वाय्वात्मके स्निग्ध इवोपचारः
उल्कामुखस्थं हि यथा सुवर्णं सुवर्णकारो धमतीह काले ।
काले परिप्रोक्षयते जलेन क्रमेण काले समुपेक्षते च
दहेत् सुवर्णं हि धमन्नकाले जले क्षिपन् संशमेयेदकाले ।
न चापि सम्यक् परिपाकमेनं नयेदकाले समुपेक्षमाणः
संप्रग्रहस्य प्रशमस्य चैव तथैव काले समुपेक्षणस्य ।
सम्यङ् निमित्तं मनसा त्ववेक्ष्यं नाशो हि यत्नो ऽप्यनुपायपूर्वः
इत्येवमन्यायनिवर्तनं च न्यायं च तस्मै सुगतो बभाषे ।
भूयश्च तत्तच्चरितं विदित्वा वितर्कहानाय विओधीनुवाच
यथा भिषक् पित्तकफानिलानां य एव कोपं समुपैति दोषः ।
शमाय तस्यैव विधिं विधत्ते व्यधत्त दोषेषु तथैव बुद्धः
एकेन कल्पेन सचेन्न हन्यात् स्वभ्यस्तभावादसुभान् वितर्कान् ।
ततो द्वितीयं क्रमामरभेत न त्वेव हेयो गुणवान् प्रयोगः
अनादिकालोपचितात्मकत्वाद् बलीयसः क्लेशगणस्य चैव ।
सम्यक् प्रयोगस्य च दुष्करत्वाच्छेत्तुं न शक्याः सहसा हि दोषाः
अण्व्या यथाण्या विपुलाणिरन्या निर्वाह्यते तद्विदुषा नरेण ।
तद्वत्तदेवाकुशलं निमित्तं क्षिपेन्निमित्तान्तरसेवनेन
तथाप्यथाध्यात्मनवग्रहत्वान्नैवोपशाम्येदशुभो वितर्कः ।
हेयः स तद्दोषपरीक्षणेन सश्वापदो मार्ग इवाध्वगेन
यथा क्षुधार्तो ऽपि विशेष पृक्तं जिजीविषुर्नेच्छति भोक्तुमन्नम् ।
तथैव दोषावहमित्यवेत्य जहाति विद्वानशुभं निमित्तम्
न दोषतः पश्यति यो हि दोषं कस्तं ततो वारयितुं समर्थः ।
गुणं गुणे पश्यति यश्च यत्र स वार्यमाणो ऽपि ततः प्रयाति
व्यपत्रपन्ते हि कुलप्रसूता मनःप्रचारैरशुभैः प्रवृतैः ।
कण्ठे मनस्वीव युवा वपुष्मानचाक्षुषैरप्रयतैर्विषक्तैः
निर्धूयमानास्त्वथ लेशतो ऽपि तिष्ठेयुरेवाकुशला वितर्काः ।
कार्यान्तरैरध्ययनक्रियाद्यैः सेव्यो विधिर्विस्मरणाय तेषाम्
स्वप्तव्यमप्येव विचक्षणेन कायक्लमो वापि निषेवितव्यः ।
न त्वेव संचिन्त्यमसन्निमित्तं यत्रावसक्तस्य भवेदनर्थः
यथा हि भीतो निशि तस्करेभ्यो द्वारं प्रियेभ्यो ऽपि न दातुमिच्छेत् ।
प्राज्ञस्तथा संहरति प्रयोगं समं शुभस्याप्यशुभस्य दोषैः
एवं प्रकारैरपि यद्युपायैर्निवार्यमाणा न पराङ्मुखाः स्युः ।
ततो यथाश्थूलनिवर्हणेन सुवर्णदोषा इव ते प्रहेयाः
द्रुतप्रयाणप्रभृतींश्च तीक्ष्णात् कामप्रयोगात् परिखिद्यमानः ।
यथा नरः संश्रयते तथैव प्राज्ञेन दोषेष्वपि वर्तितव्यम्
ते चेदलब्धप्रतिपक्षभावा नैवोपशाम्येयुरसद्वितर्काः ।
मुहूर्तमप्यप्रतिवध्यमाना गृहे भुजंगा इव नाधिवास्याः
दन्ते ऽपि दन्तं प्रणिधाय कामं ताल्वग्रमुत्पीड्य च जिव्हयापि ।
चित्तेन चित्तं परिगृह्य चापि कार्यः प्रयत्नो न तु ते ऽनुवृत्ताः
किमत्र चित्रं यदि वीतमोहो वनं गतः स्वस्थमना न मुह्येत् ।
आक्षिप्यमाणो हृदि तन्निमित्तैर्न क्षोभ्यते यः स कृती स धीरः
तदार्यसत्याधिगमाय पूर्वं विंशोधयानेन नयेन मार्गम् ।
यात्रागतः शत्रुविनिग्रहार्थं राजेव लक्ष्मीमजितां जिगीषन्
एतान्यरण्यान्यभितः शिवानि योगानुकूलान्यजनेरितानि ।
कायस्य कृत्वा प्रविवेकमात्रं क्लेशप्रहाणाय भजस्व मार्गम्
कौण्डिन्यनन्दकृमिलानिरुद्धास्तिष्योपसेनौ विमलो ऽथ राधः ।
बाष्पोत्तरौ धौतकिमोहराजौ कात्यायनद्रव्यपिलिन्दवत्साः
भद्दालिभद्रायणसर्पदाससुभूतिगोदत्तसुजातवत्साः ।
संग्रामजिद् भद्रजिदश्वजिच्च श्रोणश्च शोणश्च च कोटिकर्णः
क्षेमाजितो नन्दकनन्दमातावुपालिवागीशयशोयशोदाः ।
महाव्हयो वल्कलिराष्ट्रपालौ सुदर्शनस्वागतमेधिकाश्च
स कप्फिनः काश्यप औरुविल्वो महामहाकाश्यपतिष्यनन्दाः ।
पूर्णश्च पूर्णश्च स पूर्णकश्च शोनापरान्तश्च स पूर्ण एव
शारद्वतीपुत्रसुबाहुचुन्दाः कोन्देयकाप्यभृगुकुण्ठधानाः ।
सशैवलौ रेवतकौष्ठिलौ च मौद्गल्यगोत्रश्च गवांपतिश्च
यं विक्रमं योगविधावकुर्वंस्तमेव शीघ्रं विधिवत् कुरुष्व ।
ततः पदं प्राप्स्यसि तैरवाप्तं सुखावृतैस्त्वं नियतं यशश्च
द्रव्यं यथा स्यत् कटुकं रसेन तच्चोपयुक्तं मधुरं विपाके ।
तथैव वीर्यं कटुकं श्रमेण तस्यार्थ सिद्ध्यै मधुरो विपाकः
वीर्यं परं कार्यकृतौ हि मूलं वीर्यादृते काचन नास्ति सिद्धिः ।
उदेति वीर्यादिह सर्वसंपन्निर्वीर्यता चेत् सकलश्च पाप्मा
अलब्धस्यालाभो नियतमुपलब्धस्य विगमस्
तथैवात्मावज्ञा कृपणमधिकेभ्यः परिभवः ।
तमो निस्तेजस्त्वं श्रुतिनियमतुष्टिव्युपरमो
नृणां निर्वीर्याणां भवति विनिपातश्च भवति
नयं श्रुत्वा शक्तो यदयमभिवृद्धिं न लभते
परं धर्मं ज्ञात्वा यदुपरि निवासं न लभते ।
गृहं त्यक्त्वा मुक्तौ यदयमुपशान्तिं न लभते ।
निमित्तं कौसीद्यं भवति पुरुषस्यात्र न रिपुः
अनिक्षिप्तोत्साहो यदि खनति गां वारि लभते ।
प्रसक्तं व्यामथ्नन् ज्वलनमरणिभ्यां जनयति ।
प्रयुक्ता योगे तु ध्रुवमुपलभन्ते श्रमफलं
द्रुतं नित्यं यान्त्यो गिरिमपि हि भिन्दन्ति सरितः
कृष्ट्वा गां परिपाल्य च श्रमशतैरश्नोति सस्यश्रियं
यत्नेन प्रविगाह्य सागरजलं रत्नश्रिया क्रीडति ।
शत्रूणामवधूय वीर्यमिषुभिर्भुङ्क्ते नरेन्द्रश्रियं
तद्वीर्यं कुरु शान्तये विनियतं वीर्ये हि सर्वर्द्धयः
मूल पाठ: Saundarānanda · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0