सौन्दरानन्द · अध्याय 15
सौन्दरनन्द महाकाव्ये "आदिप्रस्थान" नाम चतुर्दश सर्ग समाप्त ॥
पञ्चदशःसर्गः
वितर्कप्रहाण
यत्र तत्र विविक्ते तु बद्ध्वा पर्यङ्कमुत्तमम् ।
ऋजुं कायं समाधाय स्मृत्याभिमुखयान्वितः
नासाग्रे वा ललाटे वा भ्रुवोरन्तर एव वा ।
कुर्वीथाश्चपलं चित्तमालम्बनपरायणम्
सचेत् कामवितर्कस्त्वां धर्षयेन्मानसो ज्वरः ।
क्षेप्तव्यो नाधिवास्यः स वस्त्रे रेणुरिवागतः
यद्यपि प्रतिसंख्यानात् कामानुत्सृष्टवानसि ।
तमांसीव प्रकाशेन प्रतिपक्षेण ताञ्जहि
तिष्ठत्यनुशयस्तेषां छन्नो ऽग्निरिव भस्मना ।
स ते भावनया सौम्य प्रशाम्यो ऽग्निरिवाम्बुना
ते हि तस्मात् प्रवर्तन्ते भूयो वीजादिवाङ्कुराः ।
तस्य नाशेन ते न स्युर्बीजनाशादिवाङ्कुराः
अर्जनादीनि कामेभ्यो दृष्ट्वा दुःखानि कामिनाम् ।
तस्मात्तान्मूलतश्छिन्धि मित्रसंज्ञानरीनिव
अनित्या मोषधर्माणो रिक्ता व्यसनहेतवः ।
बहुसाधारणाः कामा वर्ह्या ह्याशीविषा इव
ये मृग्यमाणा दुःखाय रक्ष्यमाणा न शान्तये ।
भ्रष्टाः शोकाय महते प्राप्ताश्च न वितृप्तये
तृप्तिं वित्तप्रकर्षेण स्वर्गावाप्त्या कृतार्थताम् ।
कामेभ्यश्च सुखोत्पत्तिं यः पश्यति स नश्यति
चलानपरिनिष्पन्नानसाराननवस्थितान् ।
परिकल्पसुखान् कामान्न तान्स्मर्तुमिहार्हसि
व्यापादो वा विहिंसा वा क्षोभयेद् यदि ते मनः ।
प्रसाद्यं तद्विपक्षेण मणिनेवाकुलं जलम्
प्रतिपक्षस्तयोर्ज्ञेयो मैत्री कारुण्यमेव च ।
विरोधो हि तयोर्नित्यं प्रकाशतमसोरिव
निवृत्तं यस्य दौःशील्यं व्यापादश्च प्रवर्तते ।
हन्ति पांसुभिरात्मानं स स्नात इव वारणः
दुःखितेभ्यो हि मर्त्येभ्यो व्याधिमृत्युजरादिभिः ।
आर्यः को दुःखमपरं सघृणो धातुमर्हति
दुष्टेन चेह मनसा बाध्यते वा परो न वा ।
सद्यस्तु दह्यते तावत् स्वं मनो दुष्टचेतसः
तस्मात् सर्वेषु भूतेषु मैत्रीं कारुण्यमेव च ।
न व्यापादं विहिंसां वा विकल्पयितुमर्हसि
यद्यदेव प्रसक्तं हि वितर्कयति मानवः ।
अभ्यासात्तेन तेनास्य नतिर्भवति चेतसः
तस्मादकुशलं त्यक्त्वा कुशलं ध्यातुमर्हसि ।
यत्ते स्यादिह चार्थाय परमार्थस्य चाप्तये
संवर्धन्ते ह्यकुशला वितर्काः संभृता हृदि ।
अनर्थजनकास्तुल्यमात्मनश्च परस्य च
श्रेयसो विघ्नकरणाद् भवन्त्यात्मविपत्तये ।
पात्रीभावोपघातात्तु परभक्तिविपत्तये
मनःकर्मस्वविक्षेपमपि चाभ्यस्तुमर्हसि ।
न त्वेवाकुशलं सौम्य वितर्कयितुमर्हसि
या विकामोपभोगाय चिन्ता मनसि वर्तते ।
न च तं गुणमाप्नोति बन्धनाय च कल्पते
सत्त्वानामुपघाताय परिक्लेशाय चात्मनः ।
मोहं व्रजति कालुष्यं नरकाय च वर्तते
तद् वितर्कैरकुशलैर्नात्मानं हन्तुमर्हसि ।
सुशस्त्रं रत्नविकृतं मृद्धतो गां खनन्निव
अनभिज्ञो यथा जात्यं दहेदगुरु काष्ठवत् ।
अन्यायेन मनुष्यत्वमुपहन्यादिदं तथा
त्यक्त्वा रत्नं यथा लोष्टं रत्नद्वीपाच्च संहरेत् ।
त्यक्त्वा नैःश्रेयसं धर्मं चिन्तयेदशुभं तथा
हिमवन्तं यथा गत्वा विषं भुञ्जीत नौषधम् ।
मनुष्यत्वं तथा प्राप्य पापं सेवेत नो शुभम्
तद् बुद्धवा प्रतिपक्षेण वितर्कं क्षेप्तुमर्हसि ।
सूक्ष्मेण प्रतिकीलेन कीलं दार्वन्तरादिव
वृद्ध्यवृद्ध्योरथ भवेच्चिन्ता ज्ञातिजनं प्रति ।
स्वभावो जीवलोकस्य परीक्ष्यस्तन्निवृत्तये
संसारे कृष्यमाणानां सत्त्वानां स्वेन कर्मणा ।
को जनः स्वजनः को वा मोहात् सक्तो जने जनः
अतीते ऽध्वनि संवृत्तः स्वजनो हि जनस्तव ।
अप्राप्ते चाध्वनि जनः स्वजनस्ते भविष्यति
विहगानां यथा सायं तत्र तत्र समागमः ।
जातौ जातौ तथाश्लेषो जनस्य स्वजनस्य च
प्रतिश्रयं बहुविधं संश्रयन्ति यथाध्वगाः ।
प्रतियान्ति पुनस्त्यक्त्वा तद्वज्ज्ञातिसमागमः
लोके प्रकृतिभिन्ने ऽस्मिन्न कश्चित् कस्यचित् प्रियः ।
कार्यकारणसम्बद्धं वालुकामुष्टिवज्जगत्
बिभर्ति हि सुतं माता धारयिष्यति मामिति ।
मातरं भजते पुत्रो गर्भेणाधत्त मामिति
अनुकूलं प्रवर्तन्ते ज्ञातिषु ज्ञातयो यदा ।
तदा स्नेहं प्रकुर्वन्ति रिपुत्वं तु विपर्ययात्
अहितो दृश्यते ज्ञातिरज्ञातिर्दृश्यते हितः ।
स्नेहं कार्यान्तराल्लोकाश्छिनत्ति च करोति च
स्वयमेव यथालिख्य रज्येच्चित्रकरः स्त्रियम् ।
तथा कृत्वा स्वयं स्नेहं संगमेति जने जनः
यो ऽभवद् बान्धवजनः परलोके प्रियस्तव ।
स ते कर्मथं कुरुते त्वं वा तस्मै करोषि कम्
तस्माज्ज्ञातिवितर्केण मनो नावेष्टुमर्हसि ।
व्यवस्था नास्ति संसारे स्वजनस्य जनस्य च
असौ क्षेमो जनपदः सुभिक्षो ऽसावसौ शिवः ।
इत्येवमथ जायेत वितर्कस्तव कश्चन
प्रहेयः स त्वया सौम्य नाधिवास्यः कथंचन ।
विदित्वा सर्वमादीप्तं तैस्तैर्दोषाग्निभिर्जगत्
ऋतुचक्रनिवर्ताच्च क्षुत्पिपासाक्लमादपि ।
सर्वत्र नियतं दुःखं न क्वचिद् विद्यते शिवम्
क्वचिच्छीतं क्वचिद् धर्मः क्वचिद् रोगो भयं क्वचित् ।
बाधते ऽभ्यधिकं लोकं तस्मादशरणं जगत्
जरा व्याधिश्च मृत्युश्च लोकस्यास्य महद् भयम् ।
नास्ति देशः स यत्रास्य तद् भयं नोपपद्यते
यत्र गच्छति कायो ऽयं दुःखं तत्रानुगच्छति ।
नास्ति काचिद् गतिर्लोके गतो यत्र न बाध्यते
रमणीयो ऽपि देशः सन् सुभिक्षः क्षेम एव च ।
कुदेश इति विज्ञेयो यत्र क्लेशैर्विदह्यते
लोकस्याभ्याहतस्यास्य दुःखैः शारीरमानसैः ।
क्षेमः कश्चिन्न देशो ऽस्ति स्वस्थो यत्र गतो भवेत्
दुःखं सर्वत्र सर्वस्य वर्तते सर्वदा यदा ।
छन्दरागमतः सौम्य लोकचित्रेषु मा कृथाः
यदा तस्मान्निवृत्तस्ते छन्दरागो भविष्यति ।
जीवलोकं तदा सर्वमादीप्तमिव मंस्यसे
अथ कश्चिद् वितर्कस्ते भवेदमरणाश्रयः ।
यत्नेन स विहन्तव्यो व्याधिरात्मगतो यथा
मुहूर्तमपि विश्रम्भः कार्यों न खलु जीविते ।
निलीन इव हि व्याघ्रः कालो विश्वस्तघातकः
बलस्थो ऽहं युवा वेति न ते भवितुमर्हति ।
मृत्युः सर्वास्वस्थासु हन्ति नावेक्षते वयः
क्षेत्रभूतमनर्थानां शरीरं परिकर्षतः ।
स्वास्थ्याशा जीविताशा वा न दृष्टार्थस्य जायते
निर्वृत्तः को भवेत् कायं महाभूताश्रयं वहन् ।
परस्परविरुद्धानामहीनामिव भाजनम्
प्रश्वसित्ययमन्वक्षं यदुच्छ्वसिति मानवः ।
अवगच्छ तदाश्चर्यमविश्वास्यं हि जीवितम्
इदमाश्चर्यमपरं यत्सुप्तः प्रतिबुध्यते ।
स्वपित्युत्थाय वा भूयो बह्वमित्रा हि देहिनः
गर्भात् प्रभृति यो लोकं जिघांसुरनुगच्छति ।
कस्तस्मिन् विश्वसेन्मृत्यावुद्यतासावराविव
प्रसूतः पुरुषो लोके श्रुतवान् बलवानपि ।
न जयत्यन्तकं कश्चिन्नाजयन्नापि जेष्यति
साम्ना दानेन भेदेन दण्डेन नियमेन वा ।
प्राप्तो हि रभसो मृत्युः प्रतिहन्तुं न शक्यते
तस्मान्नायुषि विश्वासं चञ्चले कर्तुमर्हसि ।
नित्यं हरति कालो हि स्थाविर्यं न प्रतीक्षते
निःसारं पश्यतो लोकं तोयबुद्बुद्दुर्बलम् ।
कस्यामरवितर्को हि स्यादनुन्मत्तचेतसः
तस्मादेषां वितर्काणां प्रहाणार्थं समासतः ।
आनापानस्मृतिं सौम्य विषयीकर्तुमर्हसि
इत्यनेन प्रयोगेण काले सेवितुमर्हसि ।
प्रतिपक्षान् वितर्काणां गदानामगदानिव
सुवर्णहेतोरपि पांसुधावकौ विहाय पांसून् बृहतो यथादितः ।
जहाति सूक्ष्मानपि तद्विशुद्धये विशोध्य हेमावयवान् नियच्छति
विमोक्षहेतोरपि युक्तमानसो विहाय दोषान् बृहतस्तथादितः ।
जहाति सूक्ष्मानपि तद्विशुद्धये विशोध्य धर्मावयवान् नियच्छति
क्रमेणाद्भिः शुद्धं कनकमिह पांसुव्यवहितं
यथाग्नौ कर्मारः पचति भृशमावर्तयति च ।
तथा योगाचारो निपुणमिह दोषव्यवहितं
विशोध्य क्लेशेभ्यः शमयति मनः संक्षिपति च
यथा च स्वच्छन्दादुपनयति कर्माश्रयसुखं
सुवर्णं कर्मारो बहुविधमलङ्कारविधिषु ।
मनःशुद्धो भिक्षुर्वशगतमभिज्ञास्वपि तथा
यथेच्छं यत्रेच्छं शमयति मनः प्रेरयति च
मूल पाठ: Saundarānanda · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0