भाषा

ENहिગુ
ग्रंथ पाठ

सौन्दरानन्द · अध्याय 14

14.1

सौन्दरनन्द महाकाव्ये "शील एवं इन्द्रियसंयम" नाम त्रयोदश सर्ग समाप्त ।
चतुर्दशः सर्गः
आदिप्रस्थान
अथ स्मृतिकवाटेन पिधायेन्द्रियसंवरम् ।
भोजने भव मात्राज्ञो ध्यानायानामयाय च

14.2

प्राणापानौ निगृण्हाति ग्लानिनिद्रे प्रयच्छति ।
कृतो ह्यत्यर्थमाहारो विहन्ति च पराक्रमम्

14.3

यथा चात्यर्थमाहारः कृतो ऽनर्थाय कल्पते ।
उपयुक्तस्तथात्यल्पो न सामर्थ्याय कल्पते

14.4

आचयं द्युतिमुत्साहं प्रयोगं बलमेव च ।
भोजनं कृतमत्यल्पं शरीरस्यापकर्षति

14.5

यथा भारेण नमते लघुनोन्नमते तुला ।
समा तिष्ठति युक्तेन भोज्येनेयं तथा तनुः

14.6

तस्मादभ्यवहर्त्तव्यं स्वशक्तिमनुपश्यता ।
नातिमात्रं न चात्यल्पं मेयं मानवशादपि

14.7

अत्याक्रान्तो हि कायाग्निर्गुरुणान्नेन शाम्यति ।
अवच्छन्न इवाल्पो ऽग्निः सहसा महतेन्धसा

14.8

अत्यन्तमपि संहारो नाहारस्य प्रशस्यते ।
अनाहारो हि निर्वाति निरिन्धन इवानलः

14.9

यस्मान्नास्ति विनाहारात् सर्वप्राणाभृतां स्थितिः ।
तस्माद् दुष्यति नाहारो विकल्पो ऽत्र तु वार्यते

14.10

न ह्येकविषये ऽन्यत्र सज्यन्ते प्राणिनस्तथा ।
अविज्ञाते यथाहारे बोद्धव्यं तत्र कारणम्

14.11

चिकित्सार्थं यथा धत्ते व्रणस्यालेपनं व्रणी ।
क्षुद्विघातार्थमाहारस्तद्वत् सेव्यो मुमुक्षुणा

14.12

भारस्योद्वहनार्थं च रथाक्षो ऽभ्यज्यते यथा ।
भोजनं प्राणयात्रार्थं तद्वद् विद्वान्निषेवते

14.13

समतिक्रमणार्थं च कान्तारस्य यथाध्वगौ ।
पुत्रमांसानि खादेतां दम्पती भृशदुःखितौ

14.14

एवमभ्यवहर्त्तव्यं भोजनं प्रतिसंख्यया ।
न भूषार्थं न वपुषो न मदाय न दृप्तये

14.15

धारणार्थं शरीरस्य भोजनं हि विधीयते ।
उपस्तम्भः पिपतिषोर्दुबलस्येव वेश्मनः

14.16

प्लवं यत्नाद् यथा कश्चिद् बध्नीयाद् धारयेदपि ।
न तत्स्नेहेन यावत्तु महौघस्योत्तितीर्षया

14.17

तथोपकरणैः कायं धारयन्ति परीक्षकाः ।
न तत्स्नेहेन यावत्तु दुःखौघस्य तितीर्षया

14.18

शोचता पीड्यमानेन दीयते शत्रवे यथा ।
न भक्त्या नापि तर्षेण केवलं प्राणगुप्तये

14.19

योगाचारस्तथाहारं शरीराय प्रयच्छति ।
केवलं क्षुद्विघातार्थं न रागेण न भक्तये

14.20

मनोधारणया चैव परिणाम्यात्मवानहः ।
विधूय निद्रां योगेन निशामप्यतिनामयेत्

14.21

हृदि यत्संज्ञिनश्चैव निद्रा प्रादुर्भवेत्तव ।
गुणवत्संज्ञितां संज्ञां तदा मनसि मा कृथाः

14.22

धातुरारम्भधृत्योश्च स्थामविक्रमयोरपि ।
नित्यं मनसि कार्यस्ते बाध्यमानेन निद्रया

14.23

आम्नातव्याश्च विशदं ते धर्मा ये परिश्रुताः ।
परेभ्यश्चोपदेष्टव्याः संचिन्त्याः स्वयमेव च

14.24

प्रक्लेद्यमद्भिर्वदनं विलोक्याः सर्वतो दिशः ।
चार्या दृष्टिश्च तारासु जिजागरिषुणा सदा

14.25

अन्तर्गतैरचपलैर्वशस्थायिभिरिन्द्रियैः ।
अविक्षिप्तेन मनसा चंक्रम्यस्वास्व वा निशि

14.26

भये प्रीतौ च शोके च निद्रया नाभिभूयते ।
तस्मान्निद्राभियोगेषु सेवितव्यमिदं त्रयम्

14.27

भयमागमनान्मृत्योः प्रीतिं धर्मपरिग्रहात् ।
जन्मदुःखादपर्यन्ताच्छोकमागन्तुमर्हसि

14.28

एवमादिः क्रमः सौम्य कार्यो जागरणं प्रति ।
वन्ध्यं हि शयनादायुः क प्राज्ञः कर्तुमर्हसि

14.29

दोषव्यालानतिक्रम्य व्यालान् गृहगतानिव ।
क्षमं प्राज्ञस्य न स्वप्तुं निस्तितीर्षोर्महद् भयम्

14.30

प्रदीप्ते जीवलोके हि मृत्युव्याधिजराग्निभिः ।
कः शयीत निरुद्वेगः प्रदीप्त इव वेश्मनि

14.31

तस्मात्तम इति ज्ञात्वा निद्रां नावेष्टुमर्हसि ।
अप्रशान्तेषु दोषेषु सशस्त्रेष्विव शत्रुषु

14.32

पूर्वं यामं त्रियामायाः प्रयोगेणातिनाम्य तु ।
सेव्या शय्या शरीरस्य विश्रामार्थं स्वतन्त्रिणा

14.33

दक्षिणेन तु पार्श्वेन स्थितयालोकसंज्ञया ।
प्रबोधं हृदये कृत्वा शयीथाः शान्तमानसः

14.34

यामे तृतीये चोत्थाय चरन्नासीन एव वा ।
भूयो योगं मनःशुद्धौ कुर्वीथा नियतेन्द्रियः

14.35

अथासनगतस्थानप्रेक्षितव्याहृतादिषु ।
संप्रजानन् क्रियाः सर्वाः स्मृतिमाधातुमर्हसि

14.36

द्वाराध्यक्ष इव द्वारि यस्य प्रणिहिता स्मृतिः ।
धर्षयन्ति न तं दोषाः पुरं गुप्तमिवारयः

14.37

न तस्योत्पद्यते क्लेशो यस्य कायगता स्मृतिः ।
चित्तं सर्वास्ववस्थासु बालं धात्रीव रक्षति

14.38

शरव्यः स तु दोषाणां यो हीनः स्मृतिवर्मणा ।
रणस्थः प्रतिशत्रूणां विहीन इव वर्मणा

14.39

अनाथं तन्मनो ज्ञेयं यत्स्मृतिर्नाभिरक्षति ।
निर्णेता दृष्टिरहितो विषमेषु चरन्निव

14.40

अनर्थेषु प्रसक्ताश्च स्वार्थेभ्यश्च पराङ्मुखा ।
यद्भये सति नोद्विग्नाः स्मृतिनाशो ऽत्र कारणम्

14.41

स्वभूमिषु गुणाः सर्वे ये च शीलादयः स्थिताः ।
विकीर्णा इव गा गोपः स्मृतिस्ताननुगच्छति

14.42

प्रनष्टममृतं तस्य यस्य विप्रसृता स्मृतिः ।
हस्तस्थममृतं तस्य यस्य कायगता स्मृतिः

14.43

आर्यो न्यायः कुतस्तस्य स्मृतिर्यस्य न विद्यते ।
यस्यार्यो नास्ति च न्यायः प्रनष्टस्तस्य सत्पथः

14.44

प्रनष्टो यस्य सन्मार्गो नष्टं तस्यामृतं पदम् ।
प्रनष्टममृतं यस्य स दुःखान्न विमुच्यते

14.45

तस्माच्चरन चरो ऽस्मीति स्थितो ऽस्मीति चाधिष्ठितः ।
एवमादिषु कार्येषु स्मृतिमाधातुमर्हसि

14.46

योगानुलोमं विजनं विशब्दं शय्यासनं सौम्य तथा भजस्व ।
कायस्य कृत्वा हि विवेकमादौ सुखो ऽधिगन्तुं मनसो विवेकः

14.47

अलब्धचेतःप्रशमः सरागो यो न प्रचारं भजते विविक्तम् ।
स क्षण्यते ह्यप्रतिलब्धमार्गश्चरन्निवोर्व्यां बहुकण्टकायाम्

14.48

अदृष्टतत्त्वेन परीक्षकेण स्थितेन चित्रे विषयप्रचारे ।
चित्तं निषेद्धुं न सुखेन शक्यं कृष्टादको गौरिव सस्यमध्यात्

14.49

अनीर्यमाणस्तु यथानिलेन प्रशान्तिमागच्छति चित्रभानुः ।
अल्पेन यत्नेन तथा विविक्तेष्वघट्टितं शान्तिमुपैति चेतः

14.50

क्वचिद्भुक्त्वा यत्तद् वसनमपि यत्तत्परिहितो
वसन्नात्मारामः क्वचन विजने यो ऽभिरमते ।
कृतार्थः स ज्ञेयः शमसुखरसज्ञः कृतमतिः
परेषां संसर्गं परिहरति यः कण्टकमिव

14.51

यदि द्वन्द्वारामे जगति विषयव्यग्रहृदये
विविक्ते निर्द्वन्दो विहरति कृती शान्तहृदयः ।
ततः पीत्वा प्रज्ञारसममृतवत्तृप्तहृदयो
विविक्तः संसक्तं विषयकृपणं शोचति जगत्

14.52

वसञ्शून्यागारे यदि सततमेको ऽभिरमते
यदि क्लेशोत्पादैः सह न रमते शत्रुभिरिव ।
चरन्नात्मारामो यदि च पिबति प्रीतिसलिलं
ततो भुङ्क्ते श्रेष्ठं त्रिदशपतिराज्यादपि सुखम्

मूल पाठ: Saundarānanda · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc