सौन्दरानन्द · अध्याय 13
सौन्दरनन्द महाकाव्य में "विवेक" नामक द्वादश सर्ग समाप्त ।
त्रयोदशः सर्गः
शील एवं इन्द्रियसंयम
अथ संराधितो नन्दः श्रद्धां प्रति महर्षिणा ।
परिषिक्तो ऽमृतेनेव युयुजे परया मुदा
कृतार्थमिव तं मेने संबुद्धः श्रद्धया तया ।
मेने प्राप्तमिव श्रेयः स च बुद्धेन संस्कृतः
श्लक्ष्णेन वचसा कांश्चित् कांश्चित् परुषया गिरा ।
कांश्चिदाभ्यामुपायाभ्यां स विनिन्ये विनायकः
पांसुभ्यः काञ्चनं जातं विशुद्धं निर्मलं शुचि ।
स्थितं पांसुष्वपि यथा पांसुदोषैर्न लिप्यते
पद्मपर्णं यथा चैव जले जातं जले स्थितम् ।
उपरिष्टादधस्ताद्वा न जलेनोपलिप्यते
तद्वल्लोके मुनिर्जातो लोकस्यानुग्रहं चरन् ।
कृतित्वान्निर्मलत्वाच्च लोकधर्मैर्न लिप्यते
श्लेषं त्यागं प्रियं रूक्षं कथां च ध्यानमेव च ।
मन्तुकाले चिकित्सार्थं चक्रे नात्मानुवृत्तये
अतश्च सन्दधे कायं महाकरुणया तया ।
मोचयेयं कथं दुःखात् सत्त्वानीत्यनुकम्पकः
अथ संहर्षणान्नन्दं विदित्वा भाजनीकृतम् ।
अब्रवीद् ब्रुवतां श्रेष्ठः क्रमज्ञः श्रेयसां क्रमम्
अतः प्रभृति भूयस्त्वं श्रेद्धेन्द्रियपुरःसरः ।
अमृतस्याप्तये सौम्य वृत्तं रक्षितुमर्हसि
प्रयोगः कायवचसोः शुद्धो भवति ते यथा ।
उत्तानो विवृतो गुप्तो ऽनवच्छिद्रस्तथा कुरु
उत्तानो भावकरणाद् विवृतश्चाप्यगूहनात् ।
गुप्तो रक्षणतात्पर्यादच्छिद्रश्चानवद्यतः
शरीरवचसोः शुद्धौ सप्तांगे चापि कर्मणि ।
आजीवसमुदाचारं शौचात् संस्कर्तुमर्हसि
दोषाणां कुहनादीनां पञ्चानामनिषेवणात् ।
त्यागाच्च ज्योतिषादीनां चतुर्णां वृत्तिघातिनाम्
प्राणिधान्यधनादीनां वर्ज्यानामप्रतिग्रहात् ।
भैक्षाङ्गानां निसृष्टानां नियतानां प्रतिग्रहात्
परितुष्टः शुचिर्मञ्जुश्चौक्षया जीवसंपदा ।
कुर्या दुःखप्रतीकारं यावदेव विमुक्तये
कर्मणो हि यथादृष्टात् कायवाक्प्रभवादपि ।
आजीवः पृथगेवोक्तो दुःशोधत्वादयं मया
गृहस्थेन हि दुःशोधा दृष्टिर्विविधदृष्टिना ।
आजीवो भिक्षुणा चैव परेष्वायत्तवृत्तिना
एतावच्छीलमित्युक्तमाचारो ऽयं समासतः ।
अस्य नाशेन नैव स्यात् प्रव्रज्या न गृहस्थता
तस्माच्चारित्रसम्पन्नो ब्रह्मचर्यमिदं चर ।
अणुमात्रेष्वद्येषु भयदर्शी दृढव्रतः
शीलमास्थाय वर्तन्ते सर्वा हि श्रेयसि क्रियाः ।
स्थानाद्यानीव कार्याणि प्रतिष्ठाय वसुन्धराम्
मोक्षस्योपनिषत् सौम्य वैराग्यमिति गृह्यताम् ।
वैराग्यस्यापि संवेदः संविदो ज्ञानदर्शनम्
ज्ञानस्योपनिषच्चैव समाधिरुपधार्यताम् ।
समाधेरप्युपनिषत् सुखं शारीरमानसम्
प्रश्रब्धिः कायमनसः सुखस्योपनिषत् परा ।
प्रश्रब्धेरप्युपनिषत् प्रीतिरप्यवगम्यताम्
तथा प्रीतेरुपनिषत् प्रामोद्यं परमं मतम् ।
प्रामोद्यस्याप्यहृल्लेखः कुकृतेष्वकृतेषु वा
अहृल्लेखस्य मनसः शीलं तूपनिषच्छुचि ।
अतः शीलं नयत्यग्र्यमिति शीलं विशोधय
शीलनाच्छीलमित्युक्तं शीलनं सेवनादपि ।
सेवनं तन्निदेशाच्च निदेशश्च तदाश्रयात्
शीलं हि शरणं सौभ्य कान्तार इव दैशिकः ।
पित्रं बन्धुश्च रक्षा च धनं च बलमेव च
यतः शीलमतः सौम्य शीलं संस्कर्तुमर्हसि ।
एतत्स्थानमथान्ये [नन्यं] च मोक्षारम्भेषु योगिनाम्
ततः स्मृतिमधिष्ठाय चपलानि स्वभावतः ।
इन्द्रियाणीन्द्रियार्थेभ्यो निवारयितुमर्हसि
भेतव्यं न तथा शत्रोर्नाग्नेर्नाहेर्न चाशनेः ।
इन्द्रियेभ्यो यथा स्वेभ्यस्तैरजस्रं हि हन्यते
द्विषद्भिः शत्रुभिः कश्चित् कदाचित् पीड्यते न वा ।
इन्द्रियैर्बाध्यते सर्वः सर्वत्र च सदैव च
न च प्रयाति नरकं शत्रुप्रभृतिभिर्हतः ।
कृष्यते तत्र निघ्नस्तु चपलैरिन्द्रियैर्हतः
हन्यमानस्य तैर्दुःखं हार्दं भवति वा न वा ।
इन्द्रियैर्बाध्यमानस्य हार्दं शारीरमेव च
संकल्पविषदिग्धा हि पञ्चेन्द्रियमयाः शराः ।
चिन्तापुङ्खा रतिफला विषयाकाशगोचराः
मनुष्यहरिणान् घ्नन्ति कामव्याधेरिता हृदि ।
विहन्यन्ते यदि न ते ततः पतन्ति तैः क्षताः
नियमाजिरसंस्थेन धैर्यकार्मुकधारिणा ।
निपतन्तो निवार्यास्ते महता स्मृतिवर्मणा
इन्द्रियाणामुपशमादरीणां निग्रहादिव ।
सुखं स्वपिति वास्ते वा यत्र तत्र गतोद्धवः
तेषां हि सततं लोके विषयानभिकाङ्क्षताम् ।
संविन्नैवास्ति कार्पण्याच्छुनामाशावतामिव
विषयैरिन्द्रियग्रामो न तृप्तिमधिगच्छति ।
अजस्रं पूर्यमाणो ऽपि समुद्रः सलिलैरिव
अवश्यं गोचरे स्वे स्वे वर्तितव्यमिहेन्द्रियैः ।
निमित्तं तत्र न ग्राह्यमनुव्यञ्जनमेव च
आलोक्य चक्षुषा रूपं धातुमात्रे व्यवस्थितः ।
स्त्री वेति पुरुषो वेति न कल्पयितुमर्हसि
सचेत् स्त्रीपुरुषग्राहः क्वचिद् विद्येत कश्चन् ।
शुभतः केशदन्तादीन्नानुप्रस्थातुमर्हसि
नापनेयं ततः किंचित् प्रक्षेप्यं नापि किञ्चन ।
द्रष्टव्यं भूततो भूतं यादृशं च यथा च यत्
एवं ते पश्यतस्तत्त्वं शश्वदिन्द्रियगोचरम् ।
भविष्यति पदस्थानं नाभिध्यादौर्मनस्ययोः
अभिध्या प्रियरूपेण हन्ति कामात्मकं जगत् ।
अरिर्मित्रमुखेनेव प्रियवाक्कलुषाशयः
दौर्मनस्याभिधानस्तु प्रतिघो विषयाश्रितः ।
मोहाद्येनानुवृतेन परत्रेह च हन्यते
अनुरोधविरोधाभ्यां शितोष्णाभ्यामिवार्दितः ।
शर्म नाप्नोति न श्रेयश्चलेन्द्रियमतो जगत्
नेन्द्रियं विषये तावत् प्रवृत्तमपि सज्जते ।
यावन्न मनसस्तत्र परिकल्पः प्रवर्तते
इन्धने सति वायौ च यथा ज्वलति पावकः ।
विषयात् परिकल्पाच्च क्लेशाग्निर्जायते तथा
अभूतपरिकल्पेन विषयस्य हि वध्यते ।
तमेव विषयं पश्यन् भूततः परिमुच्यते
दृष्ट्वैकं रूपमन्यो हि रज्यते ऽन्यः प्रदुष्यति ।
कश्चिद् भवति मध्यस्थस्तत्रैवान्यो घृणायते
अतो न विषयो हेतुर्बन्धाय न विमुक्तये ।
परिकल्पविशेषेण संगो भवति वा न वा
कार्यः परमयत्नेन तस्मादिन्द्रियसंवरः ।
इन्द्रियाणि ह्यगुत्पानि दुःखाय च भवाय च
कामभोगभोगवद्भिरात्मदृष्टिदृष्टिभिः प्रमादनैकमूर्द्धभिः प्रहर्षलोलजिव्हकैः ।
इन्द्रियोरगैर्मनोबिलश्रयैः स्पृहाविषैः शमागदादृते न दृष्टमस्ति यच्चिकित्सेत्
तस्मादेषामकुशलकराणामरीणां चक्षुर्घ्राणश्रवणरसनस्पर्शनानाम् ।
सर्वावस्थं भव विनियमादप्रमत्तो मास्मिन्नर्थे क्षणमपि कृथास्त्वं प्रमादम्
मूल पाठ: Saundarānanda · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0