भाषा

ENहिગુ
ग्रंथ पाठ

सौन्दरानन्द · अध्याय 12

12.1

सौन्दरनन्द महाकाव्ये "स्वर्ग की हीनता" नाम एकादश सर्ग समाप्त ॥
द्वादशः सर्गः
विवेक
अप्सरोभृतको धर्मं चरसीत्यथ चोदितः ।
आनन्देन तदा नन्दः परं व्रीडमुपागमत्

12.2

तस्य व्रीडेन महता प्रमोदो हृदि नाभवत् ।
अप्रामोद्येन विमुखं नावतस्थे व्रते मनः

12.3

कामरागप्रधानो ऽपि परिहाससमो ऽपि सन् ।
परिपाकगते हेतौ न स तन्ममृषे वचः

12.4

अपरीक्षकभावाच्च पूर्वं मत्वा दिवं ध्रुवम् ।
तस्मात् क्षेष्णुं परिश्रुत्य भृशं संवेगमेयिवान्

12.5

तस्य स्वर्गान्निववृते संकल्पाश्वो मनोरथः ।
महारथ इवोन्मार्गादप्रमत्तस्य सारथेः

12.6

स्वर्गतर्षान्निवृत्तश्च सद्यः स्वस्थ इवाभवत् ।
मृष्टादपथ्याद् विरतो जिजीविषुरिवातुरः

12.7

विसस्मार प्रियां भार्यामप्सरोदर्शनाद् यथा ।
तथानित्यतयोद्विग्नस्तत्याजाप्सरसो ऽपि सः

12.8

महतामपि भूतानामावृत्तिरिति चिन्तयन् ।
संवेगाच्च सरागो ऽपि वीतराग इवाभवत्

12.9

बभूव स हि संवेगः श्रेयसस्तस्य वृद्धये ।
धातुरेधिरिवाख्याते पठितो ऽक्षरचिन्तकैः

12.10

न तु कामान्मनस्तस्य केनचिज्जगृहे धृतिः ।
त्रिषु कालेषु सर्वेषु निपातो ऽस्तिरिव स्मृतः

12.11

खेलगामी महाबाहुर्गजेन्द्र इव निर्मदः ।
सो ऽभ्यगच्छद् गुरुं काले विवक्षुर्भावमात्मनः

12.12

प्रणम्य च गुरौ मुर्ध्ना बाष्पव्याकुललोचनः ।
कृत्वाञ्जलिमुवाचेदं ह्रिया किंचिदवाङ्मुखः

12.13

अप्सरः प्राप्तये यन्मे भगवन् प्रतिभूरसि ।
नाप्सरोभिर्ममार्थो ऽस्ति प्रतिभूत्वं त्यजाम्यहम्

12.14

श्रुत्वा ह्यावर्तकं स्वर्गं संसारस्थ च चित्रताम् ।
न मर्त्येषु न देवेषु प्रवृत्तिर्मम रोचते

12.15

यदि प्राप्य दिवं यत्नान्नियमेन दमेन च ।
अवितृप्ताः पतन्त्यन्ते स्वर्गाय त्यागिने नमः

12.16

अतश्च निखिलं लोकं विदित्वा सचराचरम् ।
सर्वदुःखक्षयकरे त्वद्धर्मे परमे रमे

12.17

तस्माद् व्याससमासाभ्यां तन्मे व्याख्यातुमर्हसि ।
यच्छ्रुत्वा शृण्वतां श्रेष्ठ परमं प्राप्नुयां पदम्

12.18

ततस्तस्याशयं ज्ञात्वा विपक्षाणिन्द्रियाणि च ।
श्रेयश्चैवामुखीभूतं निजगाद तथागतः

12.19

अहो प्रत्यवमर्शो ऽयं श्रेयसस्ते पुरोजवः ।
अरण्यां मथ्यमानायामग्नेर्धूम इवोत्थितः

12.20

चिरमुन्मार्गविहृतो लोलैरिन्द्रियवाजिभिः ।
अवतीर्णो ऽसि पन्थानं दिष्ट्या दृष्ट्यविमूढया

12.21

अद्य ते सफलं जन्म लाभो ऽद्य सुमहांस्तव ।
यस्य कामरसज्ञस्य नैष्क्रम्यायोत्सुकं मनः

12.22

लोके ऽस्मिन्नालयारामे निवृत्तौ दुर्लभा रतिः ।
व्यथन्ते ह्यपुनर्भावात् प्रपातादिव बालिशाः

12.23

दुःखं न स्यात् सुखं मे स्यादिति प्रयतते जनः ।
अत्यन्तदुःखोपरमं सुखं तच्च न बुध्यते

12.24

अरिभूतेष्वनित्येषु सततं दुःखहेतुषु ।
कामादिषु जगत् सक्तं न वेत्ति सुखमव्ययम्

12.25

सर्वदुःखापहं तत्तु हस्तस्थममृतं तव ।
विषं पीत्वा यदगदं समये पातुमिच्छसि

12.26

अनर्हसंसारभयं मानार्हं ते चिकीर्षितम् ।
रागाग्निस्तादृशो यस्य धर्मोन्मुख पराङ्मुखः

12.27

रागोद्दामेन मनसा सर्वथा दुष्करा धृतिः ।
सदोषं सलिलं दृष्ट्वा पथिनेव पिपासुना

12.28

ईदृशी नाम बुद्धिस्ते विरुद्धा रजसाभवत् ।
रजसा चण्डवातेन विवस्वत इव प्रभा

12.29

सा जिघांसुस्तमो हार्दं या संप्रति विजृम्भते ।
तमो नैशं प्रभा सौरी विनिर्गीर्णेव मेरुणा

12.30

युक्तरूपमिदं चैव शुद्धसत्त्वस्य चेतसः ।
यत्ते स्यान्नैष्ठिके सूक्ष्मे श्रेयसि श्रद्दधानता

12.31

धर्मच्छन्दमिमं तस्माद्विवर्धयितुमर्हसि ।
सर्वधर्मा हि धर्मज्ञ नियमाच्छन्दहेतवः

12.32

सत्यां गमनबुद्धौ हि गमनाय प्रवर्तते ।
शय्याबुद्धौ च शयनं स्थानबुद्धौ तथा स्थितिः

12.33

अन्तर्भूमिगतं ह्यम्भः श्रद्दधाति नरो यदा ।
अर्थिंत्वे सति यत्नेन तदा खनति गामिमाम्

12.34

नार्थी यद्यग्निना वा स्याच्छ्रद्दध्यात्तं न वारणौ ।
मथ्नीयान्नारणिं कश्चित्तभआवे सति मथ्यते

12.35

सस्योत्पत्तिं यदि न वा श्रद्दध्यात् कार्षकः क्षितौ ।
अर्थी सस्येन वा न स्याद् बीजानि न वपेद् भुवि

12.36

अतश्च हस्त इत्युक्ता मया श्रद्धा विशेषतः ।
यस्माद् गृण्हाति सद्धर्मं दायं हस्त यतो यथाः

12.37

प्राधान्यादिन्द्रियमिति स्थिरत्वाद् बलमित्यतः ।
गुणदारिद्रयशमनाद् धनमित्यभिवर्णिता

12.38

रक्षणार्थेन धर्मस्य तथेषीकेत्युदाहृता ।
लोके ऽस्मिन् दुर्लभत्वाच्च रत्नमित्यभिभाषिता

12.39

पुनश्च बीजमित्युक्ता निमित्तं श्रेयसो यदा ।
पावनार्थेन पापस्य नदीत्यभिहिता पुनः

12.40

यस्माद्धर्मस्य चोत्पत्तौ श्रद्धा कारणमुत्तमम् ।
मयोक्ता कार्यतस्तस्मात्तत्र तत्र तथा तथा

12.41

श्रद्धाङ्कुरमिमं तस्मात् संवर्धयितुमर्हसि ।
तद्वृद्धौ वर्धते धर्मो मूलवृद्धौ यथा द्रुमः

12.42

व्याकुलं दर्शनं यस्य दुर्बलो यस्य निश्चयः ।
तस्य पारिप्लवा श्रद्धा न हिं कृत्याय वर्तते

12.43

यावत्तत्त्वं न भवति हि दृष्टं श्रुतं वा तावच्छ्रद्धा न भवति बलस्था स्थिरा वा ।
दृष्टे तत्त्वे नियमपरिभूतेन्द्रियस्य श्रद्धावृक्षो भवति सफलश्चाश्रयश्च

मूल पाठ: Saundarānanda · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc