सौन्दरानन्द · अध्याय 11
सौन्दरनन्द महाकाव्ये "स्वर्गदर्शन" नाम दशम सर्ग समाप्त ।
एकादशः सर्गः
स्वर्ग की हीनता
ततस्ता योषितो दृष्ट्वा नन्दो नन्दनचारिणीः ।
बबन्ध नियमस्तम्भे दुर्दमं चपलं मनः
सो ऽनिष्टनैष्क्रम्यरसो म्लानतामरसोपमः ।
चचार विरसो धर्मं निवेश्याप्सरसो हृदि
तथा लोलेन्द्रियो भूत्वा दयितेन्द्रियगोचरः ।
इन्द्रियार्थवशादेव बभूव नियतेन्द्रियः
कामचर्यासु कुशलो भिक्षुचर्यासु विक्लवः ।
परमाचार्यविष्टब्धो ब्रह्मचर्यें चचार सः
संवृतेन च शान्तेन तीव्रेण मदनेन च ।
जलाग्नेरिव संसर्गाच्छशाम च शुशोष च
स्वभावदर्शनीयो ऽपि वैरूप्यमगमत् परम् ।
चिन्तयाप्सरसां चैव नियमेनायतेन च
प्रस्तावेष्वपि भार्यायां प्रियभार्यस्तथापि सः ।
वीतराग इवातस्थौ न जहर्ष न चुक्षुभे
तं व्यवस्थितमाज्ञाय भार्यारागात् पराङ्मुखम् ।
अभिगम्याब्रवीन्नन्दमानन्दः प्रणयादिदम्
अहो सदृशमारब्धं श्रुतमस्याभिजनस्य च ।
निगृहीतेन्द्रियः स्वस्थो नियमे यदि संस्थितः
अभिष्वक्तस्य कामेषु रागिणो विषयात्मनः ।
यदियं संविदुत्पन्ना नेयमल्पेन हेतुना
व्याधिरल्पेन यत्नेन मृदुः प्रतिनिवार्यते ।
प्रबलः प्रबलैरेव यत्नैर्नश्यति वा न वा
दुर्हरो मानसो व्याधिर्बलवांश्च तवाभवत् ।
विनिवृत्तो यदि [च] ते सर्वथा धृतिमानसि
दुष्करं साध्वनार्येण मानिना चैव मार्दवम् ।
अतिसर्गश्च लुब्धेन ब्रह्मचर्यं च रागिणा
एकस्तु मम संदेहस्तवास्यां नियमे धृतौ ।
अत्रानुनयमिच्छामि वक्तव्यं यदि मन्यसे
आर्जवाभिहितं वाक्यं न च मन्तव्यमन्यथा ।
रूक्षमप्याशये शुद्धे रुक्षतो नैति सज्जनः
अप्रियं हि हितं स्निग्धमस्निग्धमहितं प्रियम् ।
दुर्लभं तु प्रियहितं स्वादु पथ्यमिवौषधम्
विश्वासश्चार्थचर्या च सामान्यं सुखदुःखयोः ।
मर्षणं प्रणयश्चैव मित्रवृत्तिरियं सताम्
तदिदं त्वां विवक्षामि प्रणयान्न जिघांसया ।
त्वच्छ्रेयो हि विवक्षा मे यतो नार्हाम्युपेक्षितुम्
अप्सरोभृतको धर्मं चरसीत्यभिधीयसे ।
किमिदं भूतमाहोस्वित् परिहासो ऽयमीदृशः
यदि तावदिदं सत्यं वक्ष्याम्यत्र यदौषधम् ।
औद्धत्यमथ वक्तृणामभिधास्यामि तद्रजः
श्लक्ष्णपूर्वमथो तेन हृदि सो ऽभिहतस्तदा ।
ध्यात्वा दीर्घं निशश्वास किञ्चिच्चावाङ्मुखो ऽभवत्
ततस्तस्येङ्गितं ज्ञात्वा मनःसंकल्पसूचकम् ।
बभाषे वाक्यमानन्दो मधुरोदर्कमप्रियम्
आकारेणावगच्छामि तव धर्मप्रयोजनम् ।
यज्ज्ञात्वा त्वयि जातं मे हास्यं कारुण्यमेव च
यथासनार्थं स्कन्धेन कश्चिद् गुर्वीं शिलां वहेत् ।
तद्वत्त्वमपि कामार्थं नियमं वोढुमुद्यतः
तिताडयिषया दृप्तो यथा मेषो ऽपर्सति ।
तद्वदब्रह्मचर्याय ब्रह्मचर्यमिदं तव
चिक्रीषन्ति यथा पण्यं वणिजो लाभलिप्सया ।
धर्मचर्या तव तथा पण्यभूता न शान्तये
यथा फलविशेषार्थ बीजं वपति कार्षकः ।
तद्वद् विषयकार्पण्याद् विषयांस्त्यक्तवानसि
आकाङ्क्षेच्च यथा रोगं प्रतीकारसुखेप्सया ।
दुःखमन्विच्छति भवांस्तथा विषयतृष्णया
यथा पश्यति मध्वेव न प्रपातमवेक्षते ।
पश्यस्यप्सरसस्तद्वद् भ्रंशमन्ते न पश्यसि
हृदि कामाग्निना दीप्ते कायेन वहतो व्रतम् ।
किमिदं ब्रह्मचर्यं ते मनसाब्रह्मचारिणः
संसारे वर्तमानेन यदा चाप्सरसस्त्वया ।
प्राप्तास्त्यक्ताश्च शतशस्ताभ्यः किमिति ते स्पृहा
तृप्तिर्नास्तीन्धनैरग्नेर्नाम्भसा लवणाम्भसः ।
नापि कामैः सतृष्णस्य तस्मात् कामा न तृष्तये
अतृप्तौ स कुतः शान्तिरशान्तौ च कुतः सुखम् ।
असुखे च कुतः प्रीतिरप्रीतौ च कुतो रतिः
रिरंसा यदि ते तस्मादध्यात्मे धीयतां मनः ।
प्रशान्ता चानवद्या च नास्त्यध्यात्मसमा रतिः
न तत्र कार्यं तूर्यैस्ते न स्त्रीभिर्न विभूषणैः ।
एकस्त्वं [यत्र]तत्रस्थस्तया रत्याभिरंस्यसे
मानसं बलवद् दुःखं तर्षे तिष्ठति तिष्ठति ।
तं तर्षं छिन्धि दुःखं हि तृष्णा चास्ति च नास्ति च
संपत्तौ वा विपत्तौ वा दिवा वा नक्तमेव वा ।
कामेषु हि सतृष्णस्य न शान्तिरुपपद्यते
कामानां प्रार्थना दुःखा प्राप्तौ तृप्तिर्न विद्यते ।
वियोगान्नियतः शोको वियोगश्च ध्रुवो दिवि
कृत्वापि दुष्करं कर्म स्वर्गे लब्ध्वापि दुर्लभम् ।
नृलोकं पुनरेवैति प्रवासात् स्वगृहं यथा
यदा भ्रष्टस्य कुशलं शिष्टं किंचिन्न विद्यते ।
तिर्यक्षु पितृलोके वा नरके चोपपद्यते
तस्य भुक्तवतः स्वर्गे विषयानुत्तमानपि ।
भ्रष्टस्यार्तस्य दुःखेन किमास्वादः करोति सः
श्येनाय प्राणिवात्सल्यात् स्वमांसान्यपि दत्तवान् ।
शिविः स्वर्गात् परिभ्रष्टस्तादृक् कृत्वापि दुष्करम्
शक्रस्यार्धासनं गत्वा पूर्वपार्थिव एंव यः ।
स देवत्वं गतः काले मान्धाताधः पुनर्ययौ
राज्यं कृत्वापि देवानां पपात नहुषो भुवि ।
प्राप्तः किल भुजंगत्वं नाद्यापि परिमुच्यते
तथैवेलिविलो राजा राजवृत्तेन संस्कृतः ।
स्वर्गं गत्वा पुनर्भ्रष्टः कूर्मीभूतः किलार्णवे
भूरिद्युम्नो ययातिश्च ते चान्ये च नृपर्षभाः ।
कर्मभिर्द्यामभिक्रीय तत्क्षयात् पुनरत्यजन्
असुराः पूर्वदेवास्तु सुरैरपहृतश्रियः ।
श्रियं समनुशोचन्तः पातालं शरणं ययुः
किं च राजर्षिभिस्तावदसुरैर्वा सुरादिभिः ।
महेन्द्राः शतशः पेतुर्माहात्म्यमपि न स्थिरम्
संसदं शोभायित्वैन्द्रीमुपेन्द्रश्चेन्द्रविक्रमः ।
क्षीणकर्मा पपातोर्वीं मध्यादप्सरसां रसन्
हा चैत्ररथ हा वापि हा मन्दाकिनि हा प्रिये ।
इत्यार्ता विलपन्तो ऽपि गां पतन्ति दिवौकसः
तीव्रं ह्युत्पद्यते दुःखमिह तावन्मुमूर्षताम् ।
किं पुनः पततां स्वर्गादेवान्ते सुखसेविनाम्
रजो गृण्हन्ति वासांसि म्लायन्ति परमाः स्रजः ।
गात्रेभ्यो जायते स्वेदो रतिर्भवति नासने
एतान्यादौ निमित्तानि च्युतौ स्वर्गाद् दिवौकसाम् ।
अनिष्टानीव मर्त्यानामरिष्टानि मुमूर्षताम्
सुखमुत्पद्यते यच्च दिवि कामानुपाश्नताम् ।
यच्च दुःखं निपततां दुःखमेव विशिष्यते
तस्मादस्वन्तमत्राणमविश्वास्यमतर्पकम् ।
विज्ञाय क्षयिणं स्वर्गमपवर्गे मतिं कुरु
अशरीरं भवाग्रं हि गत्वापि मुनिरुद्रकः ।
कर्मणो ऽन्ते च्युतस्तस्मात् तिर्यग्योनिं प्रपत्स्यते
मैत्रया सप्तवार्षिक्या ब्रह्मलोकमितो गतः ।
सुनेत्रः पुनरावृत्तो गर्भवासमुपेयिवान्
यदा चैश्वर्यवन्तो ऽपि क्षयिणः स्वर्गवासिनः ।
को नाम स्वर्गवासय क्षेष्णवे स्पृहयेद् बुधः
सूत्रेण बद्धो हि यथा विहंगो व्यावर्तते दूरगतो ऽपि भूयः ।
अज्ञानसूत्रेण तथावबद्धो गतो ऽपि दूरं पुनरेति लोकः
कृत्वा कालविलक्षणं प्रतिभुवा मुक्तो यथा बन्धनाद्
भुक्त्वा वेश्मसुखान्यतीत्य समयं भूयो विशेद् वन्धनं ।
तद्वद् द्यां प्रतिभूवदात्मनियमैर्ध्यानादिभिः प्राप्तवान्
काले कर्मसु तेषु भुक्तविषयेष्वाकृषते गां पुनः
अन्तर्जालगताः प्रमत्तमनसो मीनास्तडागे यथा
जानन्ति व्यसनं न रोधजनितं स्वस्थाश्चरन्त्यम्भसि ।
अन्तर्लोकगताः कृतार्थमतयस्तद्वद्दिवि ध्यायिनो
मन्यन्ते शिवमच्युतं ध्रुवमिति स्वं स्थानमावर्तकम्
तज्जन्मव्याधिमृत्युव्यसनपरिगतं मत्वा जगदिदं
संसारे भ्राम्यमाणं दिवि नृषु नरके तिर्यक्पितृषु च ।
यत्त्राणं निर्भयं यच्छिवममरजरं निःशोकममृतं
तद्धेतोर्ब्रह्मचर्यं चर जहि हि चलं स्वर्गं प्रति रुचिम्
मूल पाठ: Saundarānanda · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0