शास्त्रवार्त्तासमुच्चय · अध्याय 7.1
अन्ये त्व् आहुर् अनाद्य् एव जीवाजीवात्मकं जगत्
सदुत्पादव्ययध्रौव्य युक्तं शास्त्रकृतश्रमाः ॥
घटमौलिसुवर्णार्थी नाशोत्पादस्थितिष्व् अयम्
शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकम् ॥
पयोवतो न दध्यत्ति न पयो ऽत्ति दधिव्रतः
अगोरसव्रतो नोभे तस्मात् तत्त्वं त्रयात्मकम् ॥
अत्राप्य् अभिदधत्य् अन्ये विरुद्धं हि मिथस्त्रयम्
एकत्रैवैकदा नैतद् घटां प्राञ्चति जातुचिद् ॥
उत्पादो ऽभूतभवनं विनाशस् तद्विपर्ययः
ध्रौव्यं चोभयशून्यं यद् एकदैकत्र तत् कथम् ॥
शोकप्रमोदमाध्यस्थ्यम् उक्तं यच् चात्र साधनम्
तदप्य् असाम्प्रतं यत् तद् वासनाहेतुकं मतम् ॥
किञ्च स्याद्वादिनो नैव युज्यते निश्चयः क्वचित्
स्वतन्त्रापेक्षया तस्य न मानं मानम् एव यत् ॥
संसार्य् अपि न संसारी मुक्तो ऽपि न स एव हि
तदतद्रूपभावेन सर्वम् एवाव्यवस्थितम् ॥
त आहुर् मुकुटोत्पादो न घटानाशधर्मकः
स्वर्णान् न वान्य एवेति न विरुद्धं मिथस्त्रयम् ॥
न चोत्पादव्ययौ न स्तो ध्रौव्यवत् तद्धिया गतेः
नास्तित्वे तु तयोर् ध्रौव्यं तत्त्वतो ऽस्तीति न प्रमा ॥
न नास्ति ध्रौव्यम् अप्य् एवम् अविगानेन तद्गतेः
अस्याश् च भ्रान्ततायां न जगत्य् अभ्रान्ततागतिः ॥
उत्पादो ऽभूतभवनं स्वहेत्वन्तरधर्मकम्
तथाप्रतीतियोगेन विनाशस् तद्विपर्ययः ॥
तथैतद् उभयाधार स्वभावं ध्रौव्यम् इत्य् अपि
अन्यथा त्रितयाभाव एकदैकत्र किं न तत् ॥
एकत्रैवैकदैवैतद् इत्थं त्रयम् अपि स्थितम्
न्याय्यं भिन्ननिमित्तत्वात् तदभेदे न युज्यते ॥
इष्यते च परैर् मोहात् तत् क्षणस्थितिधर्मिणि
अभावे ऽन्यतम् अस्यापि तत्र तत्त्वं न यद् भवेत् ॥
भावमात्रं तद् इष्टं चेत् तद् इत्थं निर्विशेषणम्
क्षणस्थितिस्वभावत्वं न ह्य् उत्पादव्ययौ विना ॥
तदित्थं भूतम् एवेति द्राग्नभस्तो न जातुचित्
भूत्वाभावश् च नाशो ऽपि तद् एवेति न लौकिकम् ॥
वासनाहेतुकं यच् च शोकादि परिकीर्तितम्
तदयुक्तं यतश् चित्रा सा न जात्वनिबन्धना ॥
सदाभावेतरापत्तेर् एकभावाच् च वस्तुनः
तद्भावे ऽतिप्रसंगादि नियमात् संप्रसज्यते ॥
न मानं मानम् एवेति सर्वथानिश्चयश् च यः
उक्तो न युज्यते सो ऽपि यद् एकान्तनिबन्धनः ॥
मानं तन्मानम् एवेति प्रत्यक्षं लैङ्गिकं न तु
तत् तच् चेन् मानम् एवेति स्यात् तद्भावादृते कथम् ॥
न स्वसत्त्वं परासत्त्वं सदसत्त्वविरोधतः
स्वसत्त्वासत्त्ववन्न्यायान् न च नास्त्य् एव तत्र तत् ॥
परिकल्पितम् एतच् चेन् न त्व् इत्थं तत्त्वतो न तत्
ततः क इह दोषश् चेन् न तु तद्भावसंगतिः ॥
अनेकान्तत एवातः सम्यग् मानव्यवस्थितेः
स्याद्वादिनो नियोगेन युज्यते निश्चयः परः ॥
एतेन सर्वम् एवेति यद् उक्तं तन् निराकृतम्
शिष्यव्युत्पत्तये किञ्चित् तथाप्य् अपरम् उच्यते ॥
संसारी चेत् स एवेति कथं मुक्तस्य संभवः
मुक्तो ऽपि चेत् स एवेति व्यपदेशो ऽनिबन्धनः ॥
संसाराद् विप्रमुक्तो यन् मुक्त इत्य् अभिधीयते
नैतत् तस्यैव तद्भावम् अन्तरेणोपपद्यते ॥
तस्यैव च तथाभावे तन्निवृत्तीतरात्मकम्
द्रव्यपर्यायवद् वस्तु बलाद् एव प्रसिद्ध्यति ॥
लज्जते बाल्यचरितैर् बाल एव न चापि यत्
युवा न लज्जते चान्यस् तैर् आयत्यैव चेष्टते ॥
युवैव न च वृद्धो ऽपि नान्यार्थं चेष्टनं च तत्
अन्वयादिमयं वस्तु तदभावो ऽन्यथा भवेत् ॥
अन्वयो व्यतिरेकश् च द्रव्यपर्यायसंज्ञितौ
अन्योन्यव्याप्तितो भेदा भेदवृत्त्यैव वस्तु तौ ॥
नान्योन्यव्याप्तिर् एकान्त भेदे ऽभेदे च युज्यते
अतिप्रसंगाद् ऐक्याच् च शब्दार्थानुपपत्तितः ॥
अन्योन्यम् इति यद् भेदं व्याप्तिश् चाह विपर्ययम्
भेदाभेदे द्वयोस् तस्माद् अन्योन्यव्याप्तिसंभवः ॥
एवं न्यायाविरुद्धे ऽस्मिन् विरोधोद्भावनं नृणाम्
व्यसनं धीजडत्वं वा प्रकाशयति केवलम् ॥
न्यायात् खलु विरोधो यः स विरोध इहोच्यते
यद्वदेकान्तभेदादौ तयोर् एवाप्रसिद्धितः ॥
मृद्द्रव्यं यन् न पिण्डादि धर्मान्तरविवर्जितम्
तद् वा तेन विनिर्मुक्तं केवलं गम्यते क्वचित् ॥
ततो ऽसत् तत् तथा न्यायाद् एकं चोभयसिद्धितः
अन्यत्रातो विरोधस् तद् अभावापत्तिलक्षणः ॥
जात्यन्तरात्मके चास्मिन् नानवस्थादिदूषणम्
नियतत्वाद् विविक्तस्य भेदादेश् चाप्य् असंभवात् ॥
नाभेदो भेदरहितो भेदो वाभेदवर्जितः
केवलो ऽस्ति यतस् तेन कुतस् तत्र विकल्पनम् ॥
येनाकारेण भेदः किं तेनासाव् एव वा द्वयम्
असत्त्वात् केवलस्येह सतश् च कथितत्वतः ॥
यतश् च तत् प्रमाणेन गम्यते ह्य् उभयात्मकम्
अतो ऽपि जातिमात्रं तद् अनवस्थादिकल्पनम् ॥
एवं ह्य् उभयदोषादि दोषा अपि न दूषणम्
सम्यग् जात्यन्तरत्वेन भेदाभेदप्रसिद्धितः ॥
एतेनैतत् प्रतिक्षिप्तं यद् उक्तं पूर्वसूरिभिः
विहायानुभवं मोहाज् जातियुक्त्यनुसारिभिः ॥
द्रव्यपर्याययोर् भेदे नैकस्योभयरूपता
अभेदे ऽन्यतरस्थान निवृत्ती चिन्त्यतां कथम् ॥
यन्निवृत्तौ न यस्येह निवृत्तिस् तत् ततो यतः
भिन्नं नियमतो दृष्टं यथा कर्कः क्रमेलकात् ॥
निवर्तते च पर्यायो न तु द्रव्यं ततो न सः
अभिन्नो द्रव्यतो ऽभेदे ऽनिवृत्तिस् तत्स्वरूपवत् ॥
प्रतिक्षिप्तं च यद् भेदा भेदपक्षो ऽन्य एव हि
भेदाभेदविकल्पाभ्यां हन्त जात्यन्तरात्मकः ॥
जात्यन्तरात्मकं चैनं दोषास् ते समियुः कथम्
भेदाभेदे च ये ऽत्यन्तं जातिभिन्ने व्यवस्थिताः ॥
किञ्चिन् निवर्तते ऽवश्यं तस्याप्य् अन्यत् तथा न यत्
अतस् तद्भेद एवात्र निवृत्त्याद्यन्यथा कथम् ॥
तस्येति योगसामर्थ्याद् भेद एवेति बाधितम्
अभिन्नदेशस् तस्येति यत् तद्व्याप्त्या तथोच्यते ॥
अतस् तद्भेद एवेति प्रतीतिविमुखं वचः
तस्यैव च तथाभावात् तन्निवृत्तीतरात्मकम् ॥
नानुवृत्तिनिवृत्तिभ्यां विना यद् उपपद्यते
तस्यैव हि तथाभावः सूक्ष्मबुद्ध्या विचिन्त्यताम् ॥
तस्यैव तु तथाभावे तद् एव हि यतस् तथा
भवत्यतो न दोषो नः कश्चिद् अप्य् उपपद्यते ॥
इत्थम् आलोचनं चेदम् अन्वयव्यतिरेकवत्
वस्तुनस् तत्स्वभावत्वात् तथाभावप्रसाधकम् ॥
न च भेदो ऽपि बाधायै तस्यानेकान्तवादिनः
जात्यन्तरात्मकं वस्तु नित्यानित्यं यतो मतम् ॥
प्रत्यभिज्ञाबलाच् चैतद् इत्थं समवसीयते
इयं च लोकसिद्धैव तद् एवेदम् इति क्षितौ ॥
न युज्यते च सन्न्यायाद् ऋते तत्परिणामिताम्
कालादिभेदतो वस्त्व भेदतश् च तथागतेः ॥
एकान्तैक्ये न नाना यन् नानात्वे चैकम् अप्य् अदः
अतः कथं नु तद्भावः तदेतदुभयात्मकम् ॥
तस्यैव तु तथाभावे कथञ्चिद् भेदयोगतः
प्रमातुर् अपि तद्भावात् युज्यते मुख्यवृत्तितः ॥
नित्यैकयोगतो व्यक्ति भेदे ऽप्य् एषा न संगता
तद् इहेति प्रसंगेन तद् एवेदम् अयोगतः ॥
सादृश्याज्ञानतो न्याय्या न विभ्रमबलाद् अपि
एतद् द्वयाग्रहे युक्तं न च सादृश्यकल्पनम् ॥
न च भ्रान्तापि सद्बाधा ऽभावाद् एव कदाचन
योगिप्रत्ययतद्भावे प्रमाणं नास्ति किञ्चन ॥
नाना योगी विजानात्य नाना नेत्य् अत्र न प्रमा
देशनाया विनेयानु गुण्येनापि प्रवृत्तितः ॥
या च लूनपुनर्जात नखकेशतृणादिषु
इयं संलक्ष्यते सापि तदाभासा न सैव हि ॥
प्रत्यक्षाभासभावे ऽपि नाप्रमाणं यथैव हि
प्रत्यक्षं तद्वद् एवेयं प्रमाणम् अवगम्यताम् ॥
मतिज्ञानविकल्पत्वान् न चानिष्टिर् इयं यतः
एतद् बलात् ततः सिद्धं नित्यानित्यादि वस्तुनः ॥
मूल पाठ: Śāstravārttāsamuccaya · Edition: K. K. Dixit, Ahmedabad : Lalbhai Dalpatbhai Bharatiya 1969 (L. D. Series, 22) · Data entry Yasunori Harada · GRETIL (Göttingen) · CC BY-NC-SA 4.0