शास्त्रवार्त्तासमुच्चय · अध्याय 8.1
अन्ये त्व् अद्वैतम् इच्छन्ति सद्ब्रह्मादिव्यपेषया
सतो यद् भेदकं नान्यत् तच् च तन्मात्रम् एव हि ॥
यथा विशुद्धम् आकाशं तिमिरोपप्लुतो जनः
संकीर्णम् इव मात्राभिर् भिन्नाभिर् अभिमन्यते ॥
तथेदम् अमलं ब्रह्म निर्विकल्पम् अविद्यया
कलुषत्वम् इवापन्नं भेदरूपं प्रकाशते ॥
अत्राप्य् एवं वदन्त्य् अन्ये अविद्या न सतः पृथक्
तच् च तन्मात्रम् एवेति भेदाभासो ऽनिबन्धनः ॥
सैवाथाभेदरूपापि भेदाभासनिबन्धनम्
प्रमाणम् अन्तरेणैतद् अवगन्तुं न शक्यते ॥
भावे ऽपि च प्रमाणस्य प्रमेयव्यतिरेकतः
ननु नाद्वैतम् एवेति तदभावे ऽप्रमाणकम् ॥
विद्याविद्यादिभेदाच् च स्वतन्त्रेणैव बाध्यते
तत्संशयादियोगाच् च प्रतीत्या च विचिन्त्यताम् ॥
अन्ये व्याख्यानयन्त्य् एवं समभावप्रसिद्धये
अद्वैतदेशना शास्त्रे निर्दिष्टा न तु तत्त्वतः ॥
न चैतत् बाध्यते युक्त्या सच्छास्त्रादिव्यवस्थितेः
संसारमोक्षभावाच् च तदर्थं यत्नसिद्धितः ॥
अन्यथा तत्त्वतो ऽद्वैते हन्त संसारमोक्षयोः
सर्वानुष्ठानवैयर्थ्यम् अनिष्टं सम्प्रसज्यते ॥
मूल पाठ: Śāstravārttāsamuccaya · Edition: K. K. Dixit, Ahmedabad : Lalbhai Dalpatbhai Bharatiya 1969 (L. D. Series, 22) · Data entry Yasunori Harada · GRETIL (Göttingen) · CC BY-NC-SA 4.0