शास्त्रवार्त्तासमुच्चय · अध्याय 6.6
ब्रुवते शून्यम् अन्ये तु सर्वम् एव विचक्षणाः
न नित्यं नाप्य् अनित्यं यद् वस्तु युक्त्योपपद्यते ॥
नित्यम् अर्थक्रियाभावात् क्रमाक्रमविरोधतः
अनित्यम् अपि चोत्पाद व्ययाभावान् न जातुचित् ॥
उत्पादव्ययबुद्धिश् च भ्रान्तानन्दादिकारणम्
कुमार्याः स्वप्नवज्ज्ञेया पुत्रजन्मादिबुद्धिवत् ॥
अत्राप्य् अभिदधत्य् अन्ये किम् इत्थं तत्त्वसाधनम्
प्रमाणं विद्यते किञ्चिद् आहोस्विच्छून्यम् एव हि ॥
शून्यं चेत् सुस्थितं तत्त्वम् अस्ति चेच् छून्यता कथम्
तस्यैव ननु सद्भावाद् इति सम्यग् विचिन्त्यताम् ॥
प्रमाणम् अन्तरेणापि स्याद् एवं तत्त्वसंस्थितिः
अन्यथा नेति सुव्यक्तम् इदम् ईश्वरचेष्टितम् ॥
उक्तं विहाय मानं चेच् छून्यतान्य् अस्य वस्तुनः
शून्यत्वे प्रतिपाद्यस्य ननु व्यर्थः परिश्रमः ॥
तस्याप्य् अशून्यतायां च प्राश्निकानां बहुत्वतः
प्रभूताशून्यतापत्तिर् अनिष्टा संप्रसज्यते ॥
यावताम् अस्ति तन्मानं प्रतिपाद्यास् तथा च ये
सन्ति ते सर्व एवेति प्रभूतानाम् अशून्यता ॥
एवं च शून्यवादो ऽपि तद्विनेयानुगुण्यतः
अभिप्रायत इत्य् उक्तो लक्ष्यते तत्त्ववेदिना ॥
मूल पाठ: Śāstravārttāsamuccaya · Edition: K. K. Dixit, Ahmedabad : Lalbhai Dalpatbhai Bharatiya 1969 (L. D. Series, 22) · Data entry Yasunori Harada · GRETIL (Göttingen) · CC BY-NC-SA 4.0