शास्त्रवार्त्तासमुच्चय · अध्याय 4.6
तत् तज्जननस्वभावं जन्यभावं तथापरम्
अतः स्वभावनियमान् नायुक्तः स कदाचन ॥
उभयोर् ग्रहणाभावे न तथाभावकल्पनम्
तयोर् न्याय्यं न चैकेन द्वयोर् गहणम् अस्ति वः ॥
एकम् अर्थं विजानाति न विज्ञानद्वयं यथा
विजानाति न विज्ञानम् एकम् अर्थद्वयं तथा ॥
वस्तुस्थित्या तयोस् तत्त्वे एकेनापि तथाग्रहात्
नो बाधकं न चैकेन द्वयोर् गहणम् अस्त्य् अदः ॥
तथाग्रहस् तयोर् नेत -रेतरग्रहणात्मकः
कदाचिद् अपि युक्तो यद् अतः कथम् अबाधकम् ॥
तथाग्रहे च सर्वत्रा विनाभावग्रहं विना
न धूमादिग्रहाद् एव ह्य् अनलादिगतिः कथम् ॥
समनन्तरवैकल्यं तत्रेत्य् अनुपपत्तिकम्
तुल्ययोर् अपि तद्भावे हन्त क्वचिद् अदर्शनात् ॥
न तयोस् तुल्यतैकस्य यस्मात् कारणकारणम्
औघात् तद्धेतुविषयं न त्व् एवम् इतरस्य च ॥
यः केवलानलग्राहि ज्ञानकारणकारणः
सो ऽप्य् एवं न च तद्धेतोस् तज्ज्ञानाद् अपि तद्गतिः ॥
तज्ज्ञानं यन् न वै धूम ज्ञानस्य समनन्तरः
तथाभूद् इत्य् अतो नेह तज्ज्ञानाद् अपि तद्गतिः ॥
तथेति हन्त को न्व् अर्थः तत्तथाभावतो यदि
इतरत्रैकम् एवेत्थं ज्ञानं तद्ग्राहि भाव्यताम् ॥
तदभावे ऽन्यथा भावस् तस्य सो ऽस्यापि विद्यते
अनन्तरचिरातीतं तत् पुनर्वस्तुतः समम् ॥
अग्निज्ञानजम् एतेन धूमज्ञानं स्वभावतः
तथा विकल्पकृन् नान्यद् इति प्रत्युक्तम् इष्यताम् ॥
अतः कथंचिद् एकेन तयोर् अग्रहणे सति
तथाप्रतीतितो न्याय्यं न तथाभावकल्पनम् ॥
प्रत्यक्षानुपलम्भाभ्यां हन्तैवं साध्यते कथम्
कार्यकारणता तस्मात् तद्भावादेर् अनिश्चयात् ॥
न पूर्वम् उत्तरं चेह तदन्याग्रहणाद् ध्रुवम्
गृह्यते ऽत इदं नातो न त्व् अतीन्द्रियदर्शनम् ॥
विकल्पो ऽपि तथा न्यायाद् युज्यते न ह्य् अनीदृशः
तत्संस्कारप्रसूतत्वात् क्षणिकत्वाच् च सर्वथा ॥
नेत्थं बोधान्वयाभावे घटते तद्विनिश्चयः
माध्यस्थ्यम् अवलम्ब्यैतत् चिन्त्यतां स्वयम् एव तु ॥
अग्न्यादिज्ञानम् एवेह न धूमज्ञानतां यतः
व्रजत्य् आकारभेदेन कुतो बोधान्वयस् ततः ॥
तदाकारपरित्यागात् तस्याकारान्तरस्थितिः
बोधान्वयः प्रदीर्घैकाध्य् -अवसायप्रवर्तकः ॥
स्वसंवेदनसिद्धत्वात् न च भ्रान्तो ऽयम् इत्य् अपि
कल्पना युज्यते युक्त्या सर्वभ्रान्तिप्रसंगतः ॥
प्रदीर्घाध्यवसायेन नश्वरादिविनिश्चयः
अस्य च भ्रान्ततायां यत् तत् तथेति न युक्तिमत् ॥
तस्माद् अवश्यम् एष्टव्यं विकल्पस्यापि कस्यचित्
येन केन प्रकारेण सर्वथाभ्रान्तरूपता ॥
सत्याम् अस्यां स्थितो ऽस्माकम् उक्तवन्न्याययोगतः
बोधान्वयो ऽदलोत्पत्त्य भावाच् चातिप्रसंगतः ॥
अन्यादृशपदार्थेभ्यः स्वयम् अन्यादृशो ऽप्य् अयम्
यतश् चेष्टस् ततो नास्मात् तत्रासंदिग्धनिश्चयः ॥
तत्तज्जननभावत्वे ध्रुवं तद्भावसंगतिः
तस्यैव भावो नान्यो यज् जन्याच् च जननं तथा ॥
एवं तज्जन्यभावत्वे ऽप्य् एषा भाव्या विचक्षणैः
तद् एव हि यतो भावः स चेतरसमाश्रयः ॥
इत्य् एवम् अन्वयापत्तिः शब्दार्थाद् एव जायते
अन्यथा कल्पनं चास्य सर्वथा न्यायबाधितम् ॥
तद्रूपशक्तिशून्यं तत् कार्यं कार्यान्तरं यथा
व्यापारो ऽपि न तस्यापि नापेक्षासत्त्वतः क्वचित् ॥
तथापि तु तयोर् एव तत्स्वभावत्वकल्पनम्
अन्यत्रापि समानत्वात् केवलं ध्यान्ध्यसूचकम् ॥
मूल पाठ: Śāstravārttāsamuccaya · Edition: K. K. Dixit, Ahmedabad : Lalbhai Dalpatbhai Bharatiya 1969 (L. D. Series, 22) · Data entry Yasunori Harada · GRETIL (Göttingen) · CC BY-NC-SA 4.0