भाषा

ENहिગુ
ग्रंथ पाठ

शास्त्रवार्त्तासमुच्चय · अध्याय 4.5

4.5.324

नानात्वाबाधानाच्चेह कुतः स्वकृतवेदनम्
सत्य् अप्य् अस्मिन् मिथो ऽत्यन्तं तद्भेदाद् इति चिन्त्यताम् ॥

4.5.325

वास्यवासकभावाच् चेन् नैतत् तस्याप्य् असंभवात्
असंभवः कथं न्व् अस्य विकल्पानुपपत्तितः ॥

4.5.326

वासकाद् वासना भिन्ना अभिन्ना वा भवेद् यदि
भिन्ना स्वयं तया शून्यो नैवान्यं वासयत्य् असौ ॥

4.5.327

अथाभिन्ना न संक्रान्तिस् तस्या वासकरूपवत्
वास्ये सत्यां च संसिद्धिर् द्रव्यांशस्य प्रजायते ॥

4.5.328

असत्याम् अपि संक्रान्तौ वासयत्य् एव चेद् असौ
अतिप्रसंगः स्याद् एवं स च न्यायबहिष्कृतः ॥

4.5.329

वास्यवासकभावश् च न हेतुफलभावतः
तत्त्वतो ऽन्य इति न्यायात् स चायुक्तो निदर्शितः ॥

मूल पाठ: Śāstravārttāsamuccaya · Edition: K. K. Dixit, Ahmedabad : Lalbhai Dalpatbhai Bharatiya 1969 (L. D. Series, 22) · Data entry Yasunori Harada · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc