शास्त्रवार्त्तासमुच्चय · अध्याय 4.7
किञ्चन्यात् क्षणिकत्वे व आर्षो ऽर्थो ऽपि विरुध्यते
विरोधापादनं चास्य नाल्पस्य तमसः फलम् ॥
इत एकनवते कल्पे शक्त्या मे पुरुषो हतः
तेन कर्मविपाकेन पादे विद्धो ऽस्मि भिक्षवः ॥
मे मयेत्य् आत्मनिर्देशस् तद्गतोक्ता वधक्रिया
स्वयम् आप्तेन यत् तद् वः को ऽयं क्षणिकताग्रहः ॥
सन्तानापेक्षयैतच् चेद् उक्तं भगवता ननु
स हेतुफलभावो यत् तन् मे इति न संगतम् ॥
ममेति हेतुशक्त्या चेत् तस्यार्थो ऽयं विवक्षितः
नात्र प्रमाणम् अत्यक्षा तद्विवक्षा यतो मता ॥
तद्देशना प्रमाणं चेत् न सान्यार्था भविष्यति
तत्रापि किं प्रमाणं चेद् इदं पूर्वोक्तम् आर्षकम् ॥
तथान्यद् अपि यत् कल्प स्थायिनी पृथिवी क्वचित्
उक्ता भगवता भिक्षून् आमन्त्र्य स्वयम् एव तु ॥
पञ्च बाह्या द्विविज्ञेया इत्य् अन्यद् अपि चार्षकम्
प्रमाणम् अवगन्तव्यं प्रक्रान्तार्थप्रसाधकम् ॥
क्षणिकत्वे यतो ऽमीषां न द्विविज्ञेयता भवेत्
भिन्नकालग्रहे ह्य् आभ्यां तच्छब्दार्थोपपत्तितः ॥
एककालग्रहे तु स्यात् तस्यैकस्याप्रमाणता
गृहीतग्रहणाद् एवं मिथ्या तथागतं वचः ॥
इन्द्रियेण परिच्छिन्ने रूपादौ तदनन्तरम्
यद्रूपादि ततस् तत्र मनोज्ञानं प्रवर्तते ॥
एवं च न विरोधो ऽस्ति द्विविज्ञेयत्वभावतः
पञ्चानाम् अपि चेन् न्यायाद् एतद् अप्य् असमञ्जसम् ॥
नैको ऽपि यद् द्विविज्ञेय एकैकेनैव वेदनात्
सामान्यापेक्षयैतच् चेन् न तत्सत्त्वप्रसंगतः ॥
सत्त्वे ऽपि नेन्द्रियज्ञानं हन्त तद् गोचरं मतम्
द्विविज्ञेयत्वम् इत्य् एवं क्षणभेदे न तत्त्वतः ॥
सर्वम् एतेन विक्षिप्तं क्षणिकत्वप्रसाधनम्
तथाप्य् ऊर्ध्वं विशेषेण किञ्चित् तत्रापि वक्ष्यते ॥
मूल पाठ: Śāstravārttāsamuccaya · Edition: K. K. Dixit, Ahmedabad : Lalbhai Dalpatbhai Bharatiya 1969 (L. D. Series, 22) · Data entry Yasunori Harada · GRETIL (Göttingen) · CC BY-NC-SA 4.0