शास्त्रदीपिका · भाग 2140
तथा भूतानुमानेषु भूतत्वमवभासते ।
न च वर्तमानस्य ज्ञानस्य भूतत्वमात्मा संभवति* ॥॥
भिन्नत्वे ऽपि ग्राहकाद्ग्राह्यस्य ज्ञानमेवातीतमुत्तरस्य ग्राह्यं नार्थ इति चेत्, न, प्रमाणाभावात् ।
अत्र चातीतं त्रेधा विकल्प्य अतीतं यच्च विज्ञानमित्यादिना दूषणमित्युक्तम् ।
उत्तरमपि त्रेधैव विकल्प्य द्व्याकारक्लपनायां च इत्यादिना दूषणमित्युक्तमिति विवेचनीयम् ।
तस्मादिदमपि वैभाषिकमतमयुक्तमेव ।
तस्माद् बाह्यार्थाकार एव नीलादिर्न ज्ञानाकारः* ॥॥
कथं तर्हि स्वप्ने, तत्रापि बाह्यमेव देशकालान्तरगतमदृष्टोद्बोधितसंस्कारवशात्स्मर्यमाणं निद्रा- दूषितमनस्कतया भ्रान्त्या संनिहितदेशकालमिव मन्यते ।
विस्पष्टं चैतदनन्तरदिवसानुभूतस्य स्वप्ने वर्तमानवभासदर्शनात्, अन्यत्रापि स्वप्ने तथाङ्गीकर्तुं युक्तम् ।
शिरश्छेदो ऽप्यन्यत्रावगतः स्वसंबन्धितया दोषवशादवगम्यते ।
सर्वत्र संसर्गमात्रमसदेवावभासते ।
संसर्गिणस्तु सन्त एव ।
सेयं विपरीतख्यातिरुच्यते मीमांसकैः ।
असत्ख्यातिवादिनस्यैव शुक्तिकाशकलस्यानात्मभूतैवात्मतयावगम्यते ।
तथा वन्ध्यासुतादिष्वपि विद्यमान एव सुतशब्दार्थो वन्ध्यान्विततया तत्पदसंनिधिदोषादवगम्यते ॥
स्वीयविपरीतख्यातिमतोपन्यासः ।
यत्तु कैश्चिदेवमादिषु तदाकारावभासमपह्नुत्य भ्रान्तिरित्युक्तं, तत्संविद्विरोधादेवोपेक्षणीयम् ।
को हि नामाङ्गुलिनिपीडितदृष्टिश्चन्द्रद्वित्वं न प्रकाशत इति ब्रूयात् ।
किञ्चैकं एवायं चन्द्रो न द्वाविवेकं चन्द्रस्य विस्पष्टमनुसंदधानस्य चक्षुषा द्वित्वभ्रमो जायमानः कथं विवेकाग्रहणनिमित्तः स्यात् ।
एवमवगतदिक्कस्य दिग्भ्रमो नाग्रहनिमित्तः संभवति* ॥॥
कथं पुनर्द्वित्वस्यावगमः, न स्मरणम् ।
तद्धेत्वभावात्, न ग्रहणम्, अप्राप्तस्य चक्षुषा ग्रहणसंभवात् ।
उच्यते- देशद्वयं नेत्रेण प्राप्तं चन्द्रश्च, तयोश्च संसर्गो दोषवशादवगम्यते, देशद्वये चन्द्रंप्रतीत्यदेशगतं द्वित्वं दोषवशाच्चन्द्रे ऽध्यवस्यति ।
तथा पित्तवर्तिपीतत्वं शङ्खस्वरूपं च चक्षुषा गृह्णन्दोषवशात्संबन्धं बुध्यत इत्यवगन्तव्यम्* ॥॥
किञ्च यदि सम्यग्रजतबोधे तादात्म्यवभासते न शुक्तिरजतवेदने ततो ऽवभास्यभेदादवभासस्य वैलक्षण्यं प्रागेव बाधकादनुसंधातुं शक्नुयात् ।
वैलक्षण्यवगमाच्च न प्रवर्तेत ।
किञ्च यदि रजतार्थी शुक्तेरुपादानं कार्यतयावगच्छेत्,
ततो ऽकार्यस्य कार्यतया भानागद्विपरीतख्यात्यापत्तिः ।
अथ नावगच्छेत्, न प्रवर्तेत- तत्कार्यावगमाधीनत्वात्प्रवृत्तेः* ॥॥
अथ कार्यत्वानवगमे ऽपि तत्कार्यावगतिसादृश्यात्प्रवृत्तिः, ततस्तत्कार्यावगतिसादृश्यमप्यस्तीति निवृत्तिरपि स्यात् सादृश्ययोरविशेषात् ।
नचासति कारणे कारणसदृशं तत्कार्यं साधयितुमर्हति- मासीषधच्छुक्तिकारजतकार्यमाभरणम्* ॥॥
ननु व्रीहिकार्यमपूर्वं नीवारः साधयन्ति ।
नैवम् ।
व्रीह्यंशा एव तत्र कार्यं कुर्वन्ति, तेच विकलाः सन्तो ऽप्यशक्त्यवस्थायां तत्साधनत्वेन यथाशक्तिप्रयोगविधानादवगता इति नाकारणात्तत्सदृशात्कार्योत्पत्तिः* ॥॥
अथ त्वकार्यानवगतिरेव प्रवृत्तेः कारणं, ततो बाह्या अपि वेदार्थे प्रवर्तेरन् अकार्यत्वानवगमात् ।
अथ त्वकार्यमेव ते ऽवगच्छेयुः, ततः कार्यस्याकार्यतयावगमाद्विपरीतख्यातिरित्यास्तां तावत् ।
तस्मात्स्वप्नादिष्वपि बाह्यस्यैवान्यथाभूतस्यैवान्यथावभासात्सिद्धं सर्वत्र बाह्यालम्बनत्वम् ।
योगाचारमतखण्डनम् । 59 ।
अथ स्वप्नप्रत्ययत्वात्स्तम्भादिविज्ञानमन्यथाभूतमित्यनुमीयते, तदसत्, तथासति प्रत्ययत्वाविशेषात्त्वदीयमप्यनुमानं मिथ्या स्यात् ।
मिथ्यात्वग्राहिणो ऽनुमानस्यामिथ्यात्वे वा तत्रैव हेतोर्व्यभिचारः ।
तस्मात्सूक्तं यस्य च दुष्टं करणं यत्र च मिथ्येति प्रत्ययः स एवासमीचीनः प्रत्ययो नान्यः शाभा इति ।
तस्मादव्यभिचारात्प्रत्यक्षं न परीक्षितव्यम् ।
इति शून्यवादः ॥
अनुमानपरिच्छेदः ।
प्रत्यक्षस्य सत्संप्रयोगजन्यत्वलक्षणेन लोकसिद्धेनाव्यभिचारमुक्त्वा, इदानीमनुमानादेरव्यभिचारार्थे लोकसिद्धमेव लक्षणमाह- अनुमानं ज्ञातसंबन्धस्यैकदेशदर्शनीदेकदेशान्तरे ऽसंनिकृष्टेर्थे बुद्धिः शा भा ।
यस्य यादृशस्य येन यादृशेन सह साक्षाद्वा प्रणाड्या वा यादृशः संबन्धः संयोगः समवाय एकार्थसमवायः कार्यकारणत्वमन्यो वा दृष्टान्तधर्मिषु नियतो ज्ञातस्तं तादृशं साध्यधर्मिषु दृष्टवतस्तस्मिंस्तादृशे तादृशसंबन्धसंबन अधिनि प्रबलेन प्रमाणेन ताद्रूप्यतद्विपर्ययाभ्यामपरिच्छिन्ने या बुद्धिः सानुमानम् ।
यथा धूमस्यानुपरतोर्ध्वगमनस्याग्निसाहित्यं महानसादिषु नियतमुपलब्धवतः पर्वते तद्दर्शनादग्निज्ञानम्* ॥॥
अनुमाने प्राभाकरमतम् ।
ननु नियमावधारणाधीनत्वे कथं ताद्रूप्येणापरिच्छिन्ने प्रवृत्तिः, ईदृशो हि नियमः- यत्र यत्र धामस्तत्रतत्राग्निः, यद्यद्रसवत्तत्तद्रूपवदिति ।
एवञ्चेद्यावद्धूममग्निसद्भावो ऽवगत एवेति नापरिच्छिन्नविषयत्वमनुमानस्य संभवतीति ।
अत एव चोद्याद्बिभ्यतः केचिदसंनिकृष्टग्रहणं स्मरणाभिमाननिरासार्थं व्याचक्षते गृहीतग्राहित्वमेवानुमानस्य स्वीकुर्वाणः ।
तथापि नाप्रामाण्यम् ।
नह्यग्रहीतग्रहणं प्रमाणलक्षणम् ।
अनुभूतिर्हि तल्लक्षणम् ।
अनुमानं च गृहीतग्राहित्वे ऽपि प्रत्युत्पन्नलिङ्गकारणजन्यत्वेन संस्कारमात्रजन्यत्वाभावादनुभूतिरेवेति युक्तमस्य प्रामाण्यम्* ॥॥
अथ स्मृतिप्रमोषः कस्मान्नाश्रीयते, प्रत्युत्पन्नकारणसद्भावात्, संस्कारतिरिक्तकारणसद्भावेन हि इदं रजतम्, इत्यत्रानुभवरूपस्यापि रजतज्ञानस्य बलात्स्मृतित्वमाश्रित्य प्रमोषो ऽङ्गीकृतः ।
अत्रतु लिङ्गस्यानुभवकारणस्य सद्भालादयुक्तं प्रतीतिसिद्धस्यानुभवरूपस्यापह्नवेन स्मृतिप्रमोषाङ्गीकरणमिति ।
सो ऽयमेषामकारणकस्त्रासः ।
तथाहि- यदि यावद्व्याप्यव्यापकसद्भावो ऽवगतः स्यात्ततो गृहीतग्राहित्वमाशङ्क्येतापि, नत्वेवमस्ति, महानसादिष्वेव हि दृष्टान्तधर्मिषु प्रागनुमानाद्धूमस्याग्निसाहित्यमवगतं न सर्वत्र, प्रमाणसंभवात् ।
यथाचासंभवस्तथा न्यायरत्नमालायामेव प्रपञ्चितम्* ॥॥
दृष्टान्तधर्मिष्वेव बहुशो ऽग्निसाहित्यमुपलब्धवतो ऽनग्नौ च क्वचिदपि प्रयत्नेनान्विष्यमाणे धूमदृष्टवतः साध्यधर्मिष्वग्निमत्ताज्ञानमुत्पद्यते ।
आह च- साहित्ये मितदेशत्वात्प्रसिद्धे वह्निधूमयोः ॥
व्यतिरेकस्य चादृष्टेर्गमकत्वं प्रकल्प्यते इति ।
ममत्वदृष्टिमात्रेण गमकः सहाचारिणः इथि च ।
ततश्चानुमित्सता न सर्वेषां धूमवतामग्निमत्तावगन्तव्या ।
नापि सर्वत्रानग्नौ धूमस्याभावः ।
भूयो ऽग्निसाहित्यं व्यभिचारादर्शनमित्येतावदेवानुमानार्थिभिरभ्यर्थनीयं नाधिकं किञ्चित् ।
यत्त्विदं यत्र यत्र धूमस्तत्रतत्राग्निरिति ज्ञानं तदनुमानमेवेति तत्रैवोक्तम् ॥
गृहीतग्राहित्वखण्डनम् ।
नन्वेवमप्यनेनैव सामान्यानुमानेन सर्वधूमवतामग्निमत्तावगतेति यत्पुनः पर्वतादिदेशविशेषेषु धूमदर्शनादग्न्यनुमानं तस्य गृहीतग्राहित्वं तदवस्थमेव स्यात् ।
मैवम् ।
सामान्यविशेषभेदात् ।
सामान्येन हि धूमवतामग्निमत्तावगता, पर्वतादेस्तु देशविशेषस्य स्वरूपमपि प्रागमवगतं, नतरामग्निमत्त्वम् ।
यस्त्ववगतमेवेति मन्यते, तेन पर्वतस्वरूपमेव तावदप्राप्तं पर्वतसमीपस्थैः केन प्रमाणेनावगतमिति वक्तव्यम्, नप्रत्यक्षेण, नान्येन प्रमाणेन ।
नचानवगतपर्वतस्तस्याग्निमत्तामवधारयितुमलम् ।
यदि चेदानीन्तनं पर्वतस्याग्निमत्त्वं प्रागेवावगतं स्यात् ततो ऽग्न्यर्थी विनैव धूमदर्शनेनाग्नये पर्वतमारोहेत् ।
नह्यग्न्यर्थिनो ऽवगतेग्नौ धूमदर्शनेनार्थः कश्चित्* ॥॥
किञ्च धूनोपलक्षितस्य पर्वतादिदेशविशेषस्याग्निसंबन्धो ऽवगत इति वदता धूमसंबन्धो ऽप्यवगत इति वक्तव्यम् ।
नह्यज्ञातसंबन्धमुपलक्ष्यमुपलक्षयितुं क्षणम्* ॥॥
अथ देशमात्रस्य धूमेनोपलक्षणं न देशविशेषस्य, ततो ऽग्निमत्त्वमपि तन्मात्रस्यावगतं न देशविशेषस्य, अतो लिङ्गलिङ्गिनोरविशेषात् लिङ्गस्यैव देशकालातिरेको न लिङ्गिनः इति प्रलापमात्रम् ।
अपि च यत्राग्नीन्धनसंयोगस्तत्र धूम इत्यनेन धूमो ऽप्यवगत एवेति न किञ्चिदप्यवगन्तव्यमवशिष्यते धूमज्ञानेनेत्यलं बालजल्पितेन* ॥॥
यदि चावगतमेवानुमानेनावगम्यते ततः स्मरणमेव प्रमुषिततद्भावमनुमानज्ञानं स्यात् ।
नच प्रत्युत्पन्नकारणजत्वादस्मृतित्वम्, संस्कारश्चोद्बोधितः स्मृतिं जनयतीत्यविवादम्, स्मृतेश्च प्रमोषः शुक्तिकारजतादिवेदनेषु कॢप्त एव ।
तदेवं कॢप्तेनैव
मार्गेण धूमादग्निज्ञानोत्पत्तौ कोनामाकॢप्तम् लिङ्गस्य लिङ्गज्ञानहेतुत्वं कल्पयेत् ।
क्लपनायां वा शुक्तावपि रजतवेदनस्यानुभवरूपत्वात्तदुपपत्तये दोषस्यैवानुभवहेतुत्वं कल्पनीयम् ।
नन्वग्निविशेषस्यागृहीतसंबन्धस्यैमननुमेयत्वात्सामान्यमेवानुमेयं तच्च प्रागवगतमेवेति कथमगृहीतग्राहित्वम् ।
यथाहुः- विशेषे ऽनुगमाभावः सामान्ये सिद्धसाध्यता ।
अनुमाभङ्गपङ्के ऽस्मिन्निमग्ना वादिदन्तिनः इति ।
नैष दोषः ।
अवगतस्यापि सामान्यस्य देशान्तरकालान्तरसंबन्धस्यागृहीतस्यग्रहणादुपपन्नं प्रमेयत्वम्* ॥॥
इदञ्चापरमेकदेशिना वक्तव्यं- केन प्रमाणेन धूमदर्शनस्याग्निज्ञानहेतुत्वमवगम्यत इति ।
तदानन्तर्यादितिचेत् ।
न ।
तस्य संस्कारद्वारेणाप्युपपत्तेः ।
अनुभवरूपत्वमनुपपन्नमितिचेत् ।
न ।
स्मरणस्यापि तत्परामर्शप्रमोषेणानुभवाभिमानोपपत्तेः ।
वस्तुतो ऽनुभवत्वं त्वसिद्धमेव प्रमाणाभावात् ।
नह्यग्निज्ञानस्यानुभवत्वे प्रत्यक्षमन्यद्वा प्रमाणमस्ति ।
अस्ति तु स्मृतिप्रमोषत्वे* ॥॥
अथ स्मृतिप्रमोषस्याप्यबाधदर्शनात् ।
मणिप्रभादर्शिनो मणिबुद्धिस्तावदत्स्मृतिप्रमोष एव, अन्यथा विपरीतख्यातिप्रसङ्गात् ।
अथ च प्रवृत्तस्य मणिलाभान्न बाधकमस्ति, तस्मात्स्मृतिरेवानुमानमित्यप्रमाण्यापत्तिः* ॥॥
कथं च गृहीतग्राहित्वमनुमास्य, अत्यन्तापरिदृष्टे देशे काले चाग्निरनुमीयते स केन प्रमाणेन प्रागवगतः ।
न प्रत्यक्षेण ।
तस्य विद्यमानोपलम्भनत्वात् ।
नचान्येन केनचित् ।
किञ्चाग्निधूमयोर्मिथः संबन्धो देशकालानवच्छिन्नः प्रत्यक्षेणावगत इत्येतावदेव भवान्ब्रवीति, नचैतावता देशान्तरकालान्तरसंबन्धो ऽग्नेरवगतो भवति, तस्मादगृहीतग्राह्येवानुमानम्* ॥॥
किमत्रागृहीतम्, अग्निसामान्यं तावद्गृहीतमेव, पर्वतो ऽपि प्रत्यक्षेणावगतः, अग्निविशिष्टस्तु पर्वतो न केनाप्यवगत इति सो ऽनुमेयो भविष्यति ।
तत्र च प्राप्ताप्राप्तविवेकेन संबन्धमात्रं प्रमेयमवशिष्यते ।
यथा दध्ना जुहोतीति विशिष्टविषयो ऽपि विधिर्विशेषणपरो भवति तथेहापि, विशिष्टविषयमेवानुमानम्, विशेषणविशेष्ययोस्तु प्राप्तत्वात् यजुर्युक्तं रथमध्वर्यवे ददातीतिवत्संबन्धविषयं भवतीति ।
अनुमानावयवनिरूपणम् ।
यस्तु प्रतिपन्नमर्थं परमनुमानेन प्रतिपादयिषति तेन साधनं प्रयोक्तव्यम् ।
येन वाक्येन यस्यानुमानबुद्धिरुत्पद्यते ।
- तच्च केचिद्द्वयमन्ये वयं त्रयम् ।
उदाहरणपर्यन्तं यद्वोदाहरणादिकम्* ॥॥
अक्षपादीयस्तावत्- प्रतिज्ञाहेतूदाहरणोपनयननिगमनैः पञ्चावयवं साधनं मन्यन्ते ।
अनित्यः शब्द इति प्रतिज्ञा, कृतकत्वादिति हेतुः यत्कृतकं तदनित्यं दृष्टं यथा घटादीत्युजाहरणम्, कृतकश्च शब्द इत्युपनयः, तस्मादनित्य इति निगमनम्* ॥॥
अयं त्वतिविस्तरो गतार्थख इति मन्वानः सौगता द्व्यायवमुदाहरणोपनयात्मकं मन्यन्ते ।
स्मर्यमाणनियमं हि लिङ्गं साध्यधर्मिण्यनुसंधानस्य स्वयमेव लिङ्गबुद्धिरुत्पद्यते ।
तेन यत्कृतकं तदनित्यमिति कृतकत्वस्यानित्यत्वेन व्याप्तिनियमं स्मारयित्वा कृतकश्च शब्द इत्युपनयमात्रे कृते शब्दस्यानित्यत्वमवगम्यत एवेति कृतमवयवान्तरैः* ॥॥
एवं त्वत्यन्तसाकाङ्क्षमेव वाक्यं क्लेशगम्यार्थं भवतीति त्र्यवयवमेव युक्तम्- अनित्यः शब्दः कृतकत्वात् यत्कृतकं तदनित्यं यथा घटादीत्येवमुदाहरणान्तं साधनं सर्वत्र वार्तिककारः प्रयुङ्क्ते ।
अथवा यत्कृतकं तदनित्यं यथा घटादि, कृतकश्च शब्दस्तस्मादिनित्यः- इत्युदाहरणप्रभृति प्रयोक्तव्यम् ।
एवमप्यन्यूनाधिकमेव साधनम् ।
तथा च यत्कर्म तत्फलवत् होमो ऽपि कर्म तेनापि तत्फलवता भवितव्यमित्येव सर्वत्र
भाष्यकारः प्रयुङ्क्ते ।
प्रतिज्ञादोषाः प्रत्यक्षविरोधादयो ऽप्रसिद्धविशेषणत्वादयश्च वार्तिके प्रपञ्चिताः ।
हेत्वाभासनिरूपणम् ।
असिद्धिः, अनैकान्तिकत्वं, बाधकत्वं, चेति त्रयो हेतुदोषाः पञ्चधा- बुद्धो धर्माधर्मवेदी सर्वज्ञत्वादिति स्वरूपासिद्धिः, नहि सर्वज्ञत्वस्वरूपं क्वचिदस्ति? ।
वह्निरदाहकः शीतत्वादिति संबन्धासिद्धिः, शैत्यस्य
वह्निसंबन्धाभावात्2* ॥॥
नन्वेवं समुद्रवृद्धौ चन्द्रोदयस्य हेतुत्वं न स्यात्, उदयस्य समुद्रसंबन्धाभावात्, एककालसंबन्धादुभयोरदोषः ।
यदा तर्हि चन्द्रस्य नभोमध्ये स्थितिं दृष्ट्वा पञ्चदशनाडिकातिक्रान्ता समुद्रवृद्धिरनुमीयते तदा कथं, तत्रापि परम्परासंबन्धादुभयोरदोषः ।
नहि साक्षात्संबन्ध एव सर्वत्राश्रीयते, यद्धि येन साक्षात्प्रणाड्या वा केनापि संबन्धेन नियतं तत्तस्य तथैवानुमापकं भवतीति दर्शितमेवैतत् ।
तेन यादृशः संबन्धो हेतोर्वादिना दर्शितस्तदसिद्धौ दोषो भवति नान्यथा ।
गोशब्दः सास्नादिमद्वचनो गोशब्दत्वादिति व्यतिरेकासिद्धिः ।
नहि धर्मिव्यतिरेकेण गोशब्दत्वं नाम किञ्चिदस्ति3 ।
नित्यमाकाशमनवयवद्रव्यादिति व्यप्त्यसिद्धिः मूर्तत्वस्याकाशे व्यप्त्यभावादिति5* ॥॥
अनैकन्तिकत्वं द्विविधम्- सव्यभिचारं सप्रतिसाधनं च ।
नित्यः शब्दो मूर्तत्वादिति कर्मादिष्वनित्येष्वप्यमूर्तत्वस्य संभवाद्व्यभिचार्यमूर्तत्वम् ।
अप्रत्यक्षो वायुर्द्रव्यत्वे सत्यरूपत्वात् प्रत्यक्षो वायुर्महत्त्वे सति स्पर्शवत्त्वादिति संप्रतिसाधनत्वादुभयमप्यनिर्णायकं संधयहेतुः, अगृह्यमाणबलाबलत्वादुभयोः* ॥॥
कश्चित्त्वाह- न विरुद्धार्थं हेतुद्वयं तुल्यबलमेकत्र संभवति, तद्भावे वस्तुनि नित्यंसशयापत्तेः ।
द्रव्यत्वे सत्यरूपत्वस्यापरोक्षावभासीविरोधादप्रत्यक्षत्वमनुमापयितुमसामथ्र्याद्दौर्बल्यम् ।
स्पार्शनानुमानं त्वविरुद्धं बलवदिति न द्वयोस्तुल्यबलवत्त्वं, अतो नास्ति सप्रतिसाधनो हेतुरिति ।
स वक्तव्यः- सव्यभाचारो ऽपि तर्हि न संशयहेतुः स्यान्नित्यसंशयापत्तिप्रसङ्गादेव* ॥॥
सत्यपि तस्य संशयहेतुत्वे प्रमाणान्तरेण निर्णयसंभवान्न नित्यसंशयापत्तिरिति चेत्, तर्हीहापि प्रमाणान्तरेण निर्णयसंभवाददोषः ।
तथासति यत्प्रमाणान्तरविरुद्धं तस्य दुर्बलत्वादितरस्य बलीयस्त्वादतुल्यबलत्वमितचेत्, केन चोक्तमुभयं तुल्यबलमिति, किन्त्वगृह्यमाणबलाबलत्वमात्रम्* ॥॥
तथाहि- यः स्थाणुत्वं पुरुषत्वं वा नावधारयति तस्योर्ध्वत्वं संशयहेतुर्भवति, निर्णीते त्वन्यतरस्मिन्रूपे संशयो निवर्तते ।
तथा यो वायोरपरोक्षावभासं नावधारितवान् तस्य पृथिव्यादिषु प्रत्यक्षत्वव्याप्तं स्पर्शवत्त्वं व्योमादिषु चाप्रत्यक्षत्वव्याप्तमरुपत्वं वायावुपलभमानस्य भवत्येव संशयः ।
सतु प्रमाणान्तरेण निर्णये सति निवर्तत इत्यास्तां तावत् ।
तस्मात्सप्रतिसाधनमपि सव्यभिचारवत्संशयहेतुः ।
तथा च भाष्यकारः यत्कर्म तत्फलवत् होमो ऽपि कर्म तेनापि फलवता भवितव्यमित्यस्य- उपरते कर्मणि द्रव्याणां तत्संयोगानां च द्रव्यान्तरं फलं दृष्टमिति द्रव्यमपि फलवत्स्यात् इति प्रतिसाधनं ब्रुवन्सप्रतिसाधनत्वमपि दूषणमिति दर्शयति, तस्मात्सो ऽपि संशयहेतुः* ॥॥
असाधरणं तु गन्धवत्वं पृथिव्यां दृष्टं न क्वचिदपि बुद्धिमादधातीति न संशयहेतुः ।
साधारणं हि द्वयोः साध्यतदभावयोर्दृष्टत्वादुभयत्राप्यनवस्थया बुद्धिमादधत्संशयहेतुरिति युक्तम् ।
तथा विरुद्धार्थव्याप्तमपि हेतुद्वयमेकत्र दृश्यमानं स्वव्यापकमेकस्मिन्धर्मिण्युपसंहरदेकस्य विरुद्धोभयरूपधर्मत्वासंभवात्संशयं जनयति ।
नचैवं भावो ऽसाधारणस्य संभवतीति नायं संशयहेतुः* ॥॥
तथा बाधको नाम हेत्वाभासो यो विरुद्ध इति तार्किकैरभिधीयते ।
सच षड्विधि इति केचित्, धर्मधर्म्युभयेषां स्वरूपस्य विशेषस्य च बाधात् ।
चतुधति केचित् ।
उभयबाधस्य धर्मधर्मिबाधान्तर्गतत्वात् ।
एकधेत्यपरे- सर्वधा समीहितधर्मविपर्ययसाधनत्वात्, इदमेव च युक्तम्, अवान्तरभेदस्यानुपयोगात् ।
यद्यवश्यमवान्तरभेदो वक्तव्यस्तर्हि द्वैविध्यमेव वक्तव्यम्- धर्मस्वरूपबाधनं चेति ।
नहि धर्मितद्विशेषबाधकत्वं नाम हेतोर्दूषणं संभवतीति स्वयमेव वार्तिककारेण- धर्मिस्वरूपबाधेन विरुद्धो यो ऽभिधीयत इत्यादिना दर्शितम्* ॥॥
तथा हि द्रव्यातिरिक्तः समावाय इह प्रत्ययहेतुत्वात्संयोगवदिति अत्रेह प्रत्ययहेतुत्वसमवायत्वेन भेदेन च व्याप्तं संयोगे दृष्टम्, समवायस्यासमवायत्वं भेदं चापादयत् समवायधर्मिस्वरूपं तद्विशेषणं चैकत्वं बाधत इत्युदाहृतम् ।
तदयुक्तम् ।
इह प्रत्ययहेतुत्वं हि समवाये धर्मिणि दृष्टं न वा, यद्यदृष्टं ततो ऽसिद्धत्वान्न कस्यचिदपि साधकं बाधकं वा भवति, यदि दृष्टं तत्कथं तत्रैव दृश्यमानं तस्यैव बाधनं कुर्यात्, विरोधे हि सति बाधेत, नचतद्धर्मतया दृश्यमानस्य कथञ्चिदपि तेन विरोधः संभवति ॥
समवायत्वबाधे प्रश्नः ।
ननु समवायत्वं बाधत इत्युक्तम् ।
यदि समवायत्वं नाम समवायधर्मिणो ऽतिरिक्तं तद्बाधे ऽपि न धर्मिस्वरूपं बाधितं स्यात् ।
अथ धर्म्येव तन्न तस्य बाधकं संभवतीत्युक्तम् ।
तस्मान्न धर्मिस्वरूपबाधनं नाम हेतुदोषः क्वचित्संभवति बाधो नत्वेतद्दूषणम् ।
यदि खल्विह प्रत्ययहेतुत्वं समवायस्यैकत्वं विरुन्ध्यात् ततो द्रव्यातिरेकं साधयतः किं हीयते ।
न हि द्रव्यातिरेकसाधनकृतमेकत्वसाधनं, यतस्तस्य दूषणत्वेन संभाव्येत ।
तस्माद्धर्मस्वरूपस्य तद्विशेषस्य च बाधनाद्द्विविधमेव बाधकम् ।
तत्र नित्यः शब्दः कृतकत्वादिति कृतकत्वमनित्यत्वेन व्याप्तत्वान्नित्यस्वरूपमेव बाधते* ॥॥
यस्तु- स्वरूपमेव शब्दानामभिधेयं नार्थान्तरमित्येतमर्थं प्रतिपिपादयिषुस्तत्सिद्ध्यर्थमेवं प्रयुङ्क्ते- अगृहीतसंबन्धावस्थो ऽपि शब्दः स्वाभिधेयमर्थं प्रतिपादयति विभक्तिमत्त्वात् गृहीतसंबन्धवदिति, तस्य धर्मविशेषविपर्ययसाधनो हेतुः, पश्चाद्धि संबन्धग्रहणादस्वरूपप्रतिपादनं
दृष्टमिति तद्वदेव प्रागस्वरूपार्थत्वं तेनाव हेतुना प्रसज्येत, स्वरूपप्रतिपादने च बाधितेर्ऽथप्रतिपादनमपि तद्धर्मस्वरूपं बाधितमेव ।
नहि प्राक् संबन्धग्रहादर्थान्तरप्रतिपत्तिः शक्यते वक्तुं प्रतीतिविरोधादेव* ॥॥
सर्वत्र यो हेतुर्यादृग्विशेषविशेष्टेन साध्येन दृष्टान्तधर्मिषु नियतः स तादृग्विशेषविशिष्टस्य साध्यस्य धर्मिणि प्रमाणान्तरविरोधात्साधनासमभवेन विपरीतं विशेषं नियमबलात्स्वयमेव बाधमानो निर्विशेषस्य च साध्यस्यासंभवात्साध्यमेव न साधयति ।
यथा शरीरिचेतनकर्तृकत्वेन घटादिषु व्याप्तमुत्पत्तिमत्त्वं देहाङ्कुरादीनां चेतनकर्तृकत्वसाधनायोच्यमानं शरीरिणश्चेतनस्यानुपलब्धिविरोधेन साधयितुमशक्यत्वादशरीरस्य तेनैव हेतुना घटादिवन्निवारणाद्विधाद्वयशून्यस्य चेतनस्यासंभवाच्चेतनकर्तृकत्वमेवाङ्कुरादीनां न साधयति ।
तेन धर्मविशेषविरोधो हेतोः साध्यसिद्धिमेव निरुणद्धीति भवति दूषणम् ।
धर्मिविशेषविरोधस्तु साध्याविरोधित्वान्न दूषणं, प्रत्युत सिद्धान्तान्तरदूषणत्वात्प्रतिवादिन एव निग्रहस्थानत्वाद्दूषणं तद्भवति न वादिनः* ॥॥
यस्तु दृष्टान्तपरिदृष्टसाध्यविशेषविरोधसंभवे ऽपि तद्रहितं साध्यमात्रं हेतुः साधयत्येव, तच्च विशेषान्तरमाक्षिप्य सिद्ध्यतीति वदति, तस्य- उष्णाग्निनियतस्तृणादिविकारो हिमे दृश्यमानः शैत्यप्रत्यक्षविरोधादौष्ण्यसंभवे ऽप्यनुष्णमेवाग्निं साधयेत्, तस्माद्धर्मिविशेषविपर्ययसाधनत्वं हेतोरदूषणमेव ।
अनुमाने दृष्टान्तनिरूपणम् ।
उदाहरणं द्विविधम्- साधर्म्योदाहरणं, वैधर्म्योदाहरणं च ।
साधर्म्यं- लिङ्गमुद्दिश्य लिङ्गेन उपादानम्- यो यो धीमवान् महानसादिः स सर्वो ऽग्निमान् दृष्ट इति, सम्यगुक्ते च साधर्म्येन न वैधर्म्यं वक्तव्यं गतार्थत्वात् ।
यदा वक्तव्यमापतति तदा लिङ्ग्यभावमुद्दिश्य लिङ्गाभावोपादानम्- यत्राग्निर्नास्ति तत्र धूमो ऽपि नास्ति यथा तोयादिष्विति ।
यत भावेन भावः साध्यते तत्रैव विधिरूपं साधर्म्यं तत्प्रतिषेधरूपं च वैधर्म्यम् ।
यत्र तु मेधाभावादिना वृष्ट्याद्यभावः साध्यते तत्र साधर्म्यमेव प्रतिषेधरूपं यथा- यदा यत्र मेघोत्पत्तिर्नास्ति तदा तत्र वृष्टिर्नास्तीति ।
वैधर्म्ये तु विधिरूपम्- यत्र वृष्टिरस्ति तत्र मेघोत्पत्तिरस्तीति ।
तेन यद्भिक्षुणोक्तं- प्रसज्यप्रतिषेधात्मकमेव इति तदनादरणीयम्* ॥॥
साधर्म्याभासाश्च साध्यविकलत्वादयः, वैधर्म्याभासाश्च साध्याभाववैकल्यादयो वार्तिक एव द्रष्यव्या इति ॥
अनुमाने प्राभाकरानुवादः ॥
तत्तु द्विविधमिति दृष्टस्वलक्षणविषयमेवानुमानमिति मन्वानान्निराकर्तुमदृष्टस्वलक्षणविषयमप्यनुमानं क्रियादिविषयमस्तीति दर्शयितुं द्वैविध्याभिधानम् ।
नहि क्रिया स्वलक्षणं प्रत्यक्षेण कदाचिद्गृह्यते पूर्वोत्तरदेशसंयोगविभागमात्रस्य प्रत्यक्षेण ग्रहणम्, याभ्यामेवागन्तुकाभ्यामागन्तुकं कारणमनुमीयते, तच्च क्रियेत्युच्यते* ॥॥
ननु द्रव्यमेव कारणं स्यात्, न ।
तस्य प्रागपि सद्भावात् ।
ननु क्षणान्तरे ऽन्यद्द्रव्यं सर्वसंस्काराणां क्षणिकत्वात्, सादृश्यात्तु प्रत्यभिज्ञानम् ।
तद्यदा समानदेशे पूर्वपूर्वमुत्तरोत्तरमारभते तदा तिष्ठतीति लक्ष्यते ।
यदा त्वनन्तरदेशे पूर्वपूर्वमुत्तरोत्तरमरभते तदा गच्छतीति लक्ष्यते ।
दीपगमनवच्छायागमनवच्च सदृशापरापरक्षणानामुत्तरोत्तरदेशप्रारब्धानां गमनाभासनिमित्तत्वात्कृतं क्रियया ।
किञ्चानुत्पन्नस्य क्षणस्य क्रियाश्रयत्वायोगात्, उत्पन्नस्य च विनाशग्रस्तत्वात्कथं क्रियारम्भकत्वम् ।
यथाहुः- क्षणिकाः सर्वसंस्कारा अस्थिराणां कुतः क्रिया इति ।
तदिदं शब्दाधिकरणे निराकरिष्यामः ।
ततः स्थिरत्वे सति तन्मात्रेणानुपपत्तेः क्रियानुमानं युक्तमिति ।
न युक्तम् ।
कार्यं हि कारणमात्रमपेक्षते तच्चेह दृष्टमेवास्ति ।
प्रयत्नविशेषानन्तरं हि शरीरे देशसंयोगविभागाख्यं फलमुत्पद्यमानमुपलभ्यते ततः स एव निमित्तम् ।
तद्वदात्मशरीरसंयोगश्चासमवायिशरीरं च समवायीति किमत्रादृष्टकारणानुमानेन ॥
परमुखेन प्राभाकरखण्डनम् ।
नन्वसमवायिकारणभूतस्य संयोगस्य स्वाश्रये स्वाश्रयसमवेते वा कार्यं नान्यत्र, तन्तुसंयोगानामिव स्वाश्रयेषु तन्तुषु पटः, तन्तुतुरीसंयोगस्य वा पटतुरीयसंयोगः ।
प्रयत्नवदात्मसंयोगस्त्वनेवंविधे व्योम्नि कथं संयोगमारभते ।
अतः कारणान्तरं कल्पनीयमितिचेत् । न ।
तन्तुसंयोगान्नोदनाख्याद्युगपदेव पटस्य बहुतन्तुव्यापितत्वात्, संयोगानां च द्वयोर्द्वयोरेव वृत्तेः ।
किञ्च शरज्यासंयोगान्नोदनाख्याद्युगपदेव शरे शरावयवेषु च सर्वेष्वन्तर्बहिर्विर्तिषु बहूनिकर्माण्युत्पद्यते, तत्र येषामवयवानां ज्योसंयोगो नास्ति तेष्वाश्रयेषु स्वाश्रयासमवेतेषु च ज्यासंयोगः कर्मारभत इति व्यभिचारः ।
नहि ते संयोगाश्रयीभूते शरे समवेताः शरस्यैव तेषु समवायात्* ॥॥
किं च प्रयत्नवगात्मसंयोगानन्तरं युगपदेव हस्ते प्रयत्नवदात्मसंयुक्ते तत्संयुक्तेचाङ्गदे ऽअङ्गुलीयके च तल्लग्ने मणौ च कर्मोत्पद्यते, अथैवमादिषु न चोदनात् न प्रयत्नवदात्मसंयोगाच्च तदनन्तरे ।
तथात्मसंयोगाद्धस्ते, तत्संयोगादङ्गदे, तत्संयोगान्मणावपीति ।
एवं तर्ह्यत्रापि शक्यते वक्तुम् ।
प्रयत्नवदात्मसंयुक्तशरीराकाशसंयोगाच्छरीराकाशदेशविभागस्तत्संयोगाच्च तदनन्तरदेशसंयोग इति दृष्टेनैव संयोगेन संयोगविभागसिद्धेर्न कर्मकल्पनावकल्पते* ॥॥
किञ्च न संयोगस्यैवायं धर्मः, सर्वाण्येवासमवायिकारणानि स्वाश्रये स्वाश्रयमवेते वा कार्यमारभते नान्यत्र ।
ततश्च कर्माप्यसमवायिकारणत्वेनानुमीयमानं वियति विहङ्गमे चोभयत्रानुमीयेत ।
न हि विहगकर्मणा वियति कार्यं संभवति, ततश्च वियत्यपि चलतीति बुद्धिः स्यात्, अतो नानुमेयं कर्म ।
किमिदानीं नास्त्येव क्रियातत्वम् ।
अस्ति प्रत्यक्षावगमात्* ॥॥
ननु संयोगविभागागिरिक्तं न किञ्चिदत्र ।
दृश्यते हि सर्पति सर्पे भूमेः सर्पस्य च द्वयोर्मिथः संयोगविभागाविशेषे ऽपि सर्पमेव चलतीति बुद्धिरालम्बतेल न भूमिम् ।
अतो ऽस्या बुद्धेरालम्बनमस्ति सर्पे चलनं नाम तत्वम् ।
तद्भावाभावाभ्यां सर्पभूम्योश्चलतीति बुद्धेर्भावावित्यङ्गीकार्यम् ।
नचेयमानुमानिकी संभवतीत्युक्तम्, तस्मान्नैवमभिप्रायमिदं भाष्यं, किन्तु विशेषविषयं सामान्यविषयं सिद्धसाध्यता इति, ते ऽनेन निराक्रियन्ते ।
उभयोरपि विशेषत्वोपपत्तेः ।
यत्र विशेषस्यैवानुगमस्तत्र विशेषविषयत्वं, सामान्यानुगमेतु सामान्यविषयत्वम् ।
न च सिद्धसाध्यत्वं देशान्तरकालान्तरसेबन्धस्यागृहीतस्य ग्रहणादिति प्रागेव वर्णितम् इत्यनुमानवादः ।
शास्त्रं शब्दविज्ञानादसंनिकृष्टेर्ऽथे तच्छाब्दं नाम प्रमाणम् ।
तल्लोकसिद्धत्वान्न परीक्षितव्यम् ।
तच्च द्वविधं पौरुषेयमपौरुषेयं चेति ।
तत्र पौरुषेयमाप्तवाक्यम् ।
अपौरुषेयं च वेदवाक्यम् ।
उभयमप्यनाप्तप्रणीतत्वदोषविरहात्स्वतश्च शब्दस्यादुष्टत्वात्प्रमाणम् ।
तच्च पुनर्द्विविधम्- सिद्धार्थे विधायकञ्चेति द्विविधम्- उपदेशकमतिदेशकं च ।
इत्थमिदं कर्तव्यमित्युपदेशः ।
यथा लोके- दधिघृतसूपशाल्यादिभिर्देवदत्तो भोजयितव्या इति ।
वेदेपि- प्रयाजावघातादिप्रकारेण दर्शपूर्णमासाभ्यां स्वर्गं कुर्यादिति तद्वदिदं कर्तव्यमित्यतिदेशः ।
यथा- लोके देवदत्तवद्ययज्ञदत्तो भोजयितव्या इति ।
वेदेपि- सौर्येण कुर्याद्यथाग्नेयेनेति ।
शब्दान्तरादिभिः श्रुतिलिङ्गादिभिः श्रुत्यर्थादिभिश्च विचित्रो ऽयमुपदेशो भेदविनियोगक्रमानवबोधयति ।
वचनानामधेयचोदनालिङ्गैश्चातिदेशोषऽन्यत्र विहितस्यनानापदार्थविशष्टस्य प्रकारस्य तत्प्रतिपादकस्य वा शास्त्रस्य विध्यन्तापरनामधेयस्यान्तेन संबन्धं विकारं बाधं वा बोधयतीत्यूहनीयम् ।
असंनिकृष्टग्रहणं च पूर्ववत्ताद्द्रूप्यपर्ययपरिच्छेदनिरासार्थमा ।
एतदेशिनां तु तदनर्थकमेव स्यात् ।
विपरीतपरिच्छिन्ने तावन्नास्त्येव शब्दाज्ज्ञानम् ।
यदि स्यात् पुरुषदोषाणां शब्दे संक्रान्त्यनभ्युपगमात् स्वाभाविकमेव शब्दस्याप्रामाण्यं स्यादिति वेदाप्रामाण्यं स्यात् ।
यदि परं तद्रूपपरिच्छिन्नविषयस्यानुवादस्य निरासः स्यात् ।
तच्चायुक्तम् ।
तस्यापि शास्त्रत्वात् ।
नहि तस्याप्यप्रामाण्यम् ।
अनुभूतित्वात् ।
प्रत्यक्षाद्यन्तर्भावाभावाच्च शास्त्रत्वमेवेत्यास्तां तावत् ॥
औलुक्यमतानुवादः ।
इदं च अस्येदं कारणं संबध्येकार्थसमवायिविरोधि चेति लैङ्गिकमित्युनुमानलक्षणमभिधाय एतेनैव शाब्दं व्याख्यातम् इति काश्यपीयाः प्रत्यक्षानुमानं च द्वे एव प्रमाणे इति ब्रुवाणः सौगताश्चानुमानादभिन्नमिति मन्यन्ते ।
तत्र यत्तावत्पदार्थज्ञानं तदवगतार्थविषयत्वात्प्रमाणमेव न भवतीति किं तस्य भेदाभेदपरीक्षया ।
यत्तु वाक्यार्थज्ञानं तदगृहीतसंबन्धैरेव पदार्थैरुपजायमानं नानुमानशङ्कामर्हति ।
नहि सर्वैर्वाक्यार्थविशेषैः संबन्धग्रहणमस्ति ।
नच संभवत्यनन्तैः संबन्धग्रहणम् ।
अत्यन्तापूर्वो ऽपि वाक्यार्थविशेषः पदार्थैरवगम्यते दूरदेशवार्तास्विति सर्वजनीनमेतत् ।
यत्त्वाप्तवाक्यत्वादविसंवादानुमानं तद्वाक्यार्थावगमोत्तरकालत्वान्न तस्यानुमानत्वमापादयति ।
वाक्यश्रवणानन्तरमेव ह्याप्तानाप्रज्ञानानपेक्षैरेव पदार्थैर्वाक्यार्थो ऽवगम्यते ।
अत्यान्तादृष्टपुरुषप्रणीते ऽपि वाक्ये ऽवगते तु वाक्यार्थे सत्यासत्यत्वसंशये प्रणेतुराप्तत्वावगमे सति सत्यत्वमनुमीयमानं न वाक्यार्थावगतेराप्तत्वावधारणानपेक्षजन्मनो ऽनुमानत्वमापादयति ।
तस्मात्प्रमाणान्तरमेव लोके शाब्दमित्यपौरुषेयस्यापि वेदस्य सिद्धं प्रामाण्यम् ।
एकदेशिनां तु लोकवचसामनुमानत्वमङ्गीकुर्वतां यथा वेदप्रामाण्यं न सिद्ध्यतितथोक्तम् ।
इति शब्दप्रमाणवादः ।
अथोपमानपरिच्छेदः ।
उपमानमपि सादृश्यमसंनिकृष्टेर्ऽथे बुद्धिमुत्पादयति ।
यथा गवयदर्शनं गोस्मरणस्य पूर्वदृष्टे स्मर्यमाणेर्ऽथे दृश्यमानार्थसादृश्यज्ञानमुपमानम् ।
या सावस्माभिर्नगरे दृष्ट्वा गौः सानेन गमयेन सदृशीति ।
किं पुनः सादृश्यम् ।
अर्थान्तरयोगिभिः संबन्धिसामान्यैरर्थान्तरस्य तादृशयोगः सादृश्यम् ।
यथा गोजातियोगिभिः कर्माद्यवयवसामान्यैर्गवयजातेर्योगो गवयस्य गोसादृश्यं गवयसंयोगिभिश्च गोर्योगस्तत्सादृश्यम् ।
अत एव च सामान्ययोगातिरिक्तमन्यदेव तत्वं सादृश्यं तेषां प्रकर्षाप्रकर्षभेदः किंनिमित्त इति चिन्तनीयम् ।
न च तत्त्वान्तरत्वे प्रमाणमपि किञ्चिदस्तीत्यास्तां तावत् ।
नचेदमुपमानं प्रत्यक्षान्तर्गतम् ।
अनिन्द्रियसंनिकृष्टत्वान्नगरस्थस्य गोः ।
नचानुमानमगृहीतसंबन्धस्याप्युपजायमानत्वात् ।
एवं किलानुमीयेत
गौर्गवयसदृशो गवयसादृश्यप्रतियोगि तत्तत्सदृशं दृष्टं युगपन्न दृष्टवानेकमेव तु गामुपलभ्य नगरे वने गवयं पश्यति सो ऽपि गां गवयसादृश्यविशिष्टामुपमिनोत्येव तस्मान्नानुमानम् ।
शाब्दत्वं तु न शङ्क्यमेव ।
अतः प्रमाणान्तरम्, प्रसिद्धत्वाच्च न परीक्षितव्यम् ।
इत्युपमानवादः ॥
अर्थापत्तिनिरूपणम् ।
अर्थापत्तिरिति दृष्टः वार्ऽथो ऽन्यथा नोपपद्यत इत्यर्थकल्पना ।
यथा जीवतो देवदत्तस्य गृहाभावदर्शनेन बहिर्भावस्यादृष्टस्य परिकल्पना ।
प्रमितस्यार्थान्तरेण विनानुपपन्नादुपपादकल्पना सा अर्थापत्तिः, अनुमानमेव तर्हि, तत्रापि वह्निमन्तरेणानुपपन्नाद्धूमाह्निः कल्प्यते ।
स्यादेवम् ।
यद्यनुपपन्नं गमकं स्यात् ।
इह तु यन्नोपपद्यते तदेव गम्यम् ।
गृहाभावेन हि विनाबहिर्भावो नोपपद्यते ।
किमिदानीमुपपादकादनुपपन्ने बुद्धिरर्थापत्तिः ।
को दोषः ।
न खलु कश्चिद्दोषः ।
किं त्वसौ नैवास्ति ।
न ह्युपपादकदर्शनादनुपपन्नार्थे बुद्धिर्भवति ।
यदि स्यात्, वृक्षत्वदर्शनाच्छिंशपात्वं कल्प्येत ।
वृक्षत्वेन विना शिंशपात्वस्यानुपपत्तेः ।
तस्मादनुपपन्नमेव गमकं नोपपादकम्* ॥॥
अथोच्यते ।
नाविनाभावेनानुपपत्तिरित्युच्यते किं तु संशयापत्तिः ।
यस्य हि जीवनं गृहसंबन्ध्येव प्रायशो ऽवगतं तस्य गृहाभावे दृष्टे जीवनं सांशयिकं भवद्बहिर्भावकल्पनया समाधीयते ।
ततश्च प्राग्बहिर्भावकल्पनाया जीवनस्य संदिग्धत्वान्न लिङ्गत्वम् ।
न हि सन्दिग्धं लिङ्गं भवति ।
जीवनरहितञ्च गृहाभावमात्रं मृते ऽपि सद्भावादनैकान्तिकं न बहिर्भावमनुमापयितुमलम् ।
अतो ऽनुमानासंभवात्प्रमाणान्तरमेवेदम् ।
यथा चानुमाने निश्चितं गमकम् ।
एवमर्थापत्तौ सन्दिग्धं गमकमिति दर्शनहलादभ्युपगम्यते ।
संशयश्चात्र पूर्वदृष्टरूपविसंवादात् ॥
अर्थापत्तिसमाधानम् ।
तदिदमसंबद्धम् ।
न हि संदिग्धे जीवने बहिर्भावः शक्यते कल्पयितुम् ।
कथं हि जीवति वा मृतो देवदत्तः इति संदिहानस्तस्य बहिर्भावं कल्पयेत् ।
न हि भावाभावसंशयस्य
बहिर्भावकल्पनयापनोदः संभवति ।
सर्वत्र हि संशयस्य निदानोच्छेदादुच्छेदो भवति ।
अन्यतरपक्षावधारणाद्वा ।
न च बहिर्भावकल्पनया तावन्निदानोच्छेदः ।
जीवनस्य प्रायेण गृहसंबन्धित्वात्तद्विपर्ययो ऽत्र संशयहेतुत्वेनोपन्यस्तः ।
नचासौ बहिर्भावे कल्पिते समुच्छिद्यते ।
प्रत्युत विपर्यय एव दृढमवस्थाप्यते ।
नचान्यतरपक्षावधारणमपि विद्यते जीवनभावाभावौ ह्यत्र संदिह्यते ।
नचानयोरन्यतरस्यापि बहिर्भावकल्पनया निर्णयो भवति ।
अन्यद्धि जीवनं अन्यश्च बहिर्देशसंबन्धः ।
नच गृहाभावनिबन्धनार्थापत्तिर्जीवननिर्णयायालं भवति ।
नह्येवं संभवति यस्माद्देवदत्तो गृहे नास्ति तस्माज्जीवतीति, प्रत्युत पूर्वनिश्चितमेव जीवनं गृहाभावादेव संदिग्धं कथं तत एव निर्णीयते ।
न हि संशयहेतुरेव निर्णयहेतुर्भवति ।
तस्माज्जीवनं संदिग्धं तत्तावदन्यतो निश्चित्य पश्चाद्बहिःसंबन्धः कल्पयितव्यः ।
यस्माद्देवदत्तो जीवति गृहे च नास्ति तस्मान्नूनं बहिरवस्थित इति ।
न तु संदिह्यमाने जीवने तत्कल्पनं संभवति ।
यस्मादविद्यमानो गृहे जीवति वा नवा तस्माद्बहिः स्थित इत्यसंबद्धमेव स्यात् ।
तस्माद्बहिर्भावनियतं गृहाभावसहितं जीवनं निश्चित्य बहिर्भावः कल्प्यत इत्यनुमानमेवेदं न प्रमाणान्तरमिति ॥
सिद्धान्तेन तर्कमतनिराकरणम् ।
अत्राभिधीयते- न तावद्गृहाभावमात्रं लिङ्गं मृते ऽपि संभवात् ।
न जीवनमात्रं गृहे ऽपि सद्भावात् ।
अतो जीवनसंसृष्टो गृहाभावो लिङ्गमिति वक्तव्यम् ।
प्रथमं च लिङ्गमवगम्य पश्चाल्लिङ्ग्यनुमानेन भवितव्यम् ।
न तु लिङ्गावगमसमय एव लिङ्ग्यवगमः ।
अत्र च न बहिर्भावावगममन्तरेण गृहाभावो जीवनं च संसृष्टं प्रत्येतुं शक्यते विरोधात् ।
जीवता ह्यवश्यं गृहे वा बहिर्वा स्थातव्यमित्यसंदिग्धम् ।
अतश्च बहिर्भावमनन्तर्भाव्य जीवनगृहाभावौ समुच्चित्य प्रतिपद्यमानस्येदृशी प्रतिपत्तिरापद्यते देवदत्तो गृहे ऽनवस्थितो गृहे वा बहिर्वावस्थित इति ।
नचैवं संभवति भावाभावयोरेकत्र देशे समुच्चेतमशक्यत्वात् ।
अतो ऽवश्यं देशभेदेनैव देवदत्तस्य भावाभावौ समुच्चेतव्यौ ।
तेन भावाभावसंसर्गबुद्ध्यैव बहुर्भावस्य बुद्धत्वान्न पश्चात्किञ्चित्प्रमेयमस्ति ।
आह च विद्यमानत्वसंसृष्टगेहाभावधियानया ॥
गेहादुत्कालिता सत्ता बहिरेवावतिष्ठते इति ।
ननु प्रमाणान्तरत्वेपि जीवनमात्रस्य गृहाभावमात्रस्य वावगमकत्वाभावात्संसृष्टमुभयं गमकमित्यङ्गीकर्तव्यम् ।
संसृष्टधियैव च बहिर्भावस्य बुद्धत्वान्न पश्चात् किञ्चुत्प्रमेयमवशिष्यत इति तुल्यो ऽयं दोषः ।
उच्यते- इयमेव संसृष्टधीरर्थापत्तिरित्यवगम्य शाम्यतु भवान् किं पुनस्तस्याः कारणम् ।
द्वयोर्गृहाभावदजीवनयोः परस्परप्रतिघात इति ब्रूमः ।
यथा खल्वेकेन नद्यास्तीरे फलानि सन्तीत्युक्ते परेण च न सन्तीत्युक्ते परेण न सन्तीत्युक्ते बलाबलविशेषमजानानः श्रोता मिथः प्रतिहतमुभयं बुद्ध्यते ।
नचान्यतरदपि त्युक्तुं गृहीतुं वा शक्नोति ।
तथापि तु न
सत्वासत्वे समुच्चिनोति विरोधात् ।
एवमिहापि गृहे वा बहिर्वावस्थितो देवदत्त इति केनचित्प्रमाणेन प्रतीतम् ।
अन्येन च गृहे नास्तीति तदुभयं समुच्चितम् परस्परप्रतिघाति प्रतीयते सो ऽयं प्रतिघातो न फलसद्भाववदसमाधेयः किन्तु बहिर्भावकल्पनया समाधातुं शक्यत इत्येतावान्विशेषः ।
तेन प्रमाणसिद्धयोर्द्वयोरर्थयोः परस्परं प्रतिघातोर्ऽथान्तरकल्पनया समाधेयत्वेनालोच्यमानोर्ऽथापत्तेः कारणम् ।
तत्समाधानाय चार्थान्तरकल्पनार्थापत्तिः प्रमाणान्तरमनुमानात् ।
यश्चायं प्रतीतस्य प्रमाणान्तरेण प्रतिघातः स एवार्थानुपपत्तिरित्युच्यते ॥
अर्थापत्तावनुमानस्यान्तर्भावशङ्का ।
भवत्वर्थापत्तिः प्रमाणं अनुमानं त्वर्थापत्तावेवान्तर्भवति ।
तथाहि यत्र यत्र धूमस्तत्रतत्राग्निरित्यवगतम् ।
पर्वतस्य च धूमवत्तावगता ।
यदि पर्वते ऽग्निर्न स्यात्तदी धूमवत्ता वा मिथ्या स्यात् ।
सर्वधूमवतां वागिमत्त्वं मिथ्या स्यात् कथं तदुभयमप्यमिथ्या स्यादित्यग्निमत्वं कल्प्यत इत्यर्थापत्तिरेषा ।
स्यादेवं यदि सर्वधूमवतामग्निमत्त्वमनुमानादन्येनावगतं स्यात् ।
नत्वेवमस्ति ।
दृष्टान्तधर्मिष्वेव हि धूमस्याग्निनियमो ऽवगतो न सर्वत्र ।
अनुमानस्तु सर्वधूमवतामग्निमत्तावगतिरित्युक्तम् ।
न च दृष्टान्तधर्मिष्वेवावगतस्याग्निनियमस्य सर्वधूमवदग्निमत्तां विना कश्चिद्विरोधो येनार्थापत्तिः स्यात् ।
तस्मादसंकीर्णविषयत्वादनुमानेनावगतं तस्य पर्वतादिषु धूमदर्शनाद्यदाग्निविज्ञानं तदद्द्वेधापि संभवति दृष्टान्तपरिदृष्टनियमस्मरणाद्वानुमानम् ।
प्रतिघातलोचनयावार्थापत्तिः ।
तस्मादर्थापत्तिः प्रमाणान्तरम् ।
यापि क्वचिदवस्थितस्य देवदत्तस्यान्यत्र सर्वत्राभावप्रतिपत्तिः साप्यर्थापत्तिः ।
तथाहि मूर्तस्यार्थस्य युगपत्कार्स्न्येनानेकदेशसंबन्धो न घटत इति स्वशरीरे ऽवगतम् ।
स्वशरीरस्य हि क्वचिदवस्थितस्य ततो ऽन्यत्र सर्वत्राभावो दृश्यादर्शनेनावगतः, अतो ऽन्यस्यापि देवदत्तादेर्युगुपदनेकदेशसंबन्धो नास्तीत्यनुमीयते ।
ततो देवदत्तं क्वचित्प्रत्यक्षेणावगच्छन्युगपदनेकदेशासंबन्धं चानुमानेनावधारयन्नुभयोपपत्तये देशान्तरेषु सर्वेष्वभावं कल्पयति ।
नन्वनुमानमेवेदं संभवति देवदत्तो ऽधुना सर्वत्र नास्ति गृहे ऽवस्थितत्वान्मद्वदिति ।
सत्यम् ।
देवदत्तेन सहैकदेशावस्थितस्य संभवति, यस्तु क्वचिद्गृहे ऽवस्थितस्तदनन्तरं गृहमप्यतीत्य तृतीये गृहे देवदत्तं केनचित्प्रमाणेनावगतवान् स तद्गृहातिरिक्ते मध्यगृहे देशान्तरेषु च सर्वेष्वभावं देवदत्तस्य केन लिङ्गेन प्रतीयात् ।
अथ क्वचिद्देवदत्तं पश्यन् तद्देशव्यतिरिक्ते च प्रत्यासन्ने देशे तदभावमवगच्छन्नन्येषामपि सर्वदेशानां प्रत्यासन्नदेवदत्तद्देशव्यतिरिक्तत्वात्तच्छून्यतामनुमिमीते ।
तत्रापि विरुद्धाव्यभिचारित्वं तद्वदेव हि गम्यते ।
समीपदेशभिन्नत्वाच्चैत्राधिष्ठितदेशवत् ।
इति वार्तिक एव दूषणमुक्तम् तस्मादर्थापत्तिरेवेयम् ।
एतेन बीजादिष्वङ्कुरजननशक्तिकल्पना व्याख्याता ॥
80 ॥
किं पुनः शक्तिकल्पनां विना नोपपद्यते बीजादिषु सत्स्वङ्गुराद्युपपत्तिदर्शनात् असत्सु चादर्शनात् ।
बीजादीनामङ्कुरादिकारणत्वमवगम्यते ।
सत्स्वपि बीजेषु मूषिकाघ्रातेष्वङ्कुरानुत्पत्तेरकारणत्वं प्रतिभासते ।
सो ऽयं कारणत्वाकारणत्वयोर्विरोधः शक्तिकल्पनया समाधीयते- नूनमस्त्यतीन्द्रियमपि रूपं यद्भावात् कदाचिदङ्कुरोत्पत्तिः यस्य च मूषिकाऽघ्राणेन नाशात्कदाचिदनुत्पत्तिरिति कल्प्यते घ्राणाभावो ऽप्यङ्कुरस्य कारणम् ।
घ्राणो च सति तदभावादेवानुत्पत्त्युपपत्तेरलं शक्तिकल्पनयेति चेत् ।
न ।
घ्राणक्रियायाः क्षणिकत्वादुत्तरकालं तदभावे सत्यप्यङ्कुरानुत्पत्तेः ।
प्रागभावः कारणं न प्रध्वंसाभाव इति चेत् ।
न ।
अभावत्वाविशेषात् ।
न हि प्रागभावप्रध्वंसाभावयोः प्रागूर्ध्वकालभेदं मुक्त्वा किञ्चिदपि रूपवैलक्षण्यमस्ति, नचाविलक्षणे कारणे कार्यवैलक्षण्यं संभवति ।
प्रागभावस्य प्रध्वंसाभावाद्विलक्षणमस्ति रूपमिति चेत् कल्प्यमेवं सति किञ्चित् ।
तच्चाभावे कल्प्यतां बीजस्वरूपे वेति बीजस्य साक्षादङ्कुकारणत्वात्तत्रैव कल्पयितुं युक्तम् ।
एवं यागादेरपूर्वस्वर्गादिसाधनशक्तिकल्पनमूहनीयम् ।
कथं पुनः शक्तिमति यागे विनष्टे निराधारा शक्तिरवतिष्ठते, न निराधारा भविष्यति ।
आत्माधारत्वात् ।
कथमन्यशक्तिरन्यत्र स्यात् तथावगमात् ।
नावश्यं स्वाश्रयैव शक्तिरिति नियमो ऽस्ति, सा हि कार्यतः कल्प्यमाना यत्रैव कार्याय
कल्पते तद्गतैव कल्प्या ।
साचेयंपूर्वाख्यातिर्यागाश्रया सती यागविनाशान्न स्वर्गनिष्पत्तये पर्याप्तयादित्यात्माश्रया कल्प्यते ।
यथाह- शक्तिः कार्यानुमेयत्वाद्यद्गतैवोपयुज्यते ॥
तत्रैव साभ्युपेतव्या स्वाश्रयान्याश्रयापि वेति ॥
कथमात्माश्रया सती यागशक्तिरिति व्यपदिश्यते ।
तस्य हि फलसाधनत्वमुपपापादयितुं सा कल्प्यते तावता तच्छक्तित्वम् ।
लोके ऽपि प्रसिद्धमेतत् तैलपानसामर्थ्याच्चिरवृत्ते ऽपि तस्मिन्बलपुष्ट्यादिकमद्य मे जातमिति लौकिका व्यवहरन्ति तस्मादनवद्यम् ॥
दृष्चग्रहणेनैव प्रतीतिमात्रग्रहाच्छौतस्यापि ग्रहणे सिद्धे श्रुतार्थापत्तेः प्रमाणग्राहिणीत्वेन दृष्टार्थापत्तितो वैलक्षण्यमुपपादयितुं श्रुतग्रहणण् ।
तथाहि लोके तावत् द्वारं द्वारमित्यादिषु संपूर्णार्थप्रतिपादनाय संव्रियतामित्यादिशब्दान्तरं श्रुतशब्दैकवाक्थत्वेन
कल्प्यते* ॥॥
तथा वेदे ऽपि विश्वजिता याजेतेत्यत्र स्वर्गकाम इति वा स्वर्गार्थमिति वा येनैव शब्देन श्रुतिशब्दैकवाक्यभूतेन परिपूर्णार्थाभिधानं संपद्यते तदेव हृदयमानीय श्रुतेन सह मेलयित्वा परिपूरणाद्वाक्याद्वाक्यार्थः प्रतीयते, यथा सौर्यं चरुं निर्वपेद्ब्रह्मवर्चसकामः इत्यादिषु विधिष्वितिकर्तव्यताप्रतिपादकशब्दाश्रवणादपूर्णेषु तत्प्रतिपादकशब्दानपेक्षया चोदनालिङ्गोपस्थापितस्याग्नेयविधेख्यंशस्य साध्यसाधनांशप्रतिपादकभागावनपेक्षितत्वादनादृत्य यस्तृतीयोंऽश इत्थंभावो ऽग्न्यत्वाधानादिर्विध्यन्तत्वेन परिकल्पितस्तस्य दिवच्छब्देन कल्पितेन, किन्तु य एवायमाग्नेयविध्यन्तस्तस्यैव व्यवहितस्यापि चोदनालिङ्गबलोपस्थापितस्य विकृतिविधिना सहैकवाक्यतामात्रमर्थापत्त्या कल्प्यते ।
नह्ययमनुषङ्गो येन व्यवहितस्य न स्यादिति ।
अतिदेशस्त्वयं व्यवहितस्यापि कथञ्चिदुपस्थानादुपपन्न एव ।
तथा च वक्ष्यति- विध्यंन्तो वा प्रकृतिवच्चोदनायां प्रवर्तेति विध्यन्त इति प्रधानविधिवर्जितं समस्तमेव पौरोडाशिकं काण्डमभिधीयत इति भाष्यकारः ॥
नन्वेवं शास्त्रातिदेशाङ्गीकरणे दशमाद्यविरोधः स्यात्, ऊहबाधयोश्चासिद्धिः ।
भवेदेवं यदि यथाश्रुतरूपमेव व्रीहिनवहन्तीति वाक्यं विकृतिं नीत्वा तस्य यथासंभवं विकृतिविधिना सहैकवाक्यता परिकल्प्येत ।
यदि तथा क्रियते तत्र कृष्णलचरौ व्रीहिशब्दस्य हविर्लणार्थत्वायोगादवधातस्य बाधः स्यात् ।
एवं नीवारादिष्वपि व्रीहय एवावहन्तव्याः इति न नीवारादिष्ववहन्तिरूह्येत ।
नत्वेवमस्माभिरुच्यते किन्तु प्रकृतौ प्रधानेन सहैकवाक्यतयावगतस्यास्य यावन्परिकरो तादृगतिदिश्यते प्रकृतौ हविष्ट्वात्, तल्लक्षणार्थो, अवघातस्य च तेषु दृष्टं प्रयोजनं तुषविमोचनं संभवतीति तद्द्वारेणास्य प्रधानैकवाक्यता ।
ततश्च- अवघातवितुषीकृतैर्व्रीहिभिः पुरोडाशं कृत्वा तेन यजेतेतीदृशः प्रकृतिविधिः, तस्य साक्षादवघातो विशेषणम्, अवघातविशेषितवितुषीकरणविशिष्टं हि हविर्यागस्य विशेषणं प्रकृतौ, अतस्तदेव विकृतावाकृष्यते ।
कृष्णलयागे च कृष्णलशब्दस्य हविर्वाचिनः प्रत्यक्षश्रवणात्तद्विरोधात्पुरोडाशशब्दो निवर्तते, तन्निवृत्त्या च व्रीहीणामपि निवृत्तिः ।
न हि ते कृष्णलानां प्रकृतित्वेन संभवन्ति ।
वितुषीकरणशब्दो ऽपि यो द्वारप्रतिपादकः सो ऽपि कृष्णलेषु तदसंभवादनिवृत्तो ऽवघात इत्यूहस्यापि सिद्धिः ।
दशमाद्ये च यावच्छ्रुतानामङ्गशास्त्राणामतिदेशमाशङ्क्या प्रकृत्यन्वितानां तेन रूपेणातिदेशः ।
नार्थमात्रेण इत्यलमतिप्रसङ्गेन* ॥॥
नन्वर्थमेवाध्याहृत्य वाक्यं पूर्यतां किं शब्दकल्पनया ।
नार्थमात्रेण पूरणं संभवति, एकवाक्यभूतपदद्वयप्रतिपादिता हि पदार्था वाक्यार्थं प्रतिपादयन्ति नान्यथा ।
न हि आनय इत्येतावत्युक्ते गामित्यनुक्ते प्रत्यक्षप्रतिपन्ने ऽपि गवि गवा सहानयनमन्वीयते ।
एवं च विकृतिषु
सौर्यादिष्वसमवेतार्थाग्र्यादिपदनिवृत्तेर्न्यूनसाकाङ्क्षमन्त्रवाक्यपूरणाय सूर्यादिपदाप्रक्षेपादूहसिद्धिः ॥
अर्थाध्याहारपक्षखण्डनम् ॥
अर्थाध्याहारवादिनां तु सूर्यार्थेनाध्याहृतेन विशिष्टं निर्वपामिपदमेव प्रकाशयतीति नोहः सिध्येत् ।
तथा यत्राधिकारवाक्येर्ऽथवादमात्रं श्रुतं प्रतितिष्ठन्ति ह वा य एता रात्रीरुपयन्तीति तत्रापि भवन्मते विध्यर्थं एवाध्याहार्यो न विधिशब्दः, ततश्च प्राकृतस्योपकारस्य पदार्थानां च नापूर्वैदमर्थ्यं सिध्येत् ।
सत्स्वपि ह्यर्थानामाकाङ्क्षासंनिधियोग्यत्वेषु नाभिधानमन्तरेणान्वयसिद्धिः ।
नचेहापूर्वाभिधायी शब्दो ऽस्ति यो ऽपूर्वं प्राकृतैरन्वितस्तेषामन्वयः नाप्युत्पत्त्यपूर्वेणान्वय एव स्यात्* ॥॥
एवं प्रकृतावपि सर्वेभ्यः कामेभ्यो दर्शपूर्णमासौ इत्यत्र विधिशब्दस्यानाम्नानादनध्याहाराच्च विध्यर्थस्यैव स्वर्गकामाधिकारापूर्वादाग्नेयाद्युत्पत्त्यपूर्वेभ्यश्च पृथग्भूतस्याध्याहारान्न समिदादीनामैदमर्थ्यं सिध्येत् ।
न हि समिदादियजतयो ऽवघातादिवदधिकारापूर्वान्वितं स्वार्थामभिधातुमलं स्वापूर्वविषयत्वव्याघातात् ।
तस्मादीदृदृशेष्वधिकारविधिषु विधिशब्द एवाध्याहार्यो नार्थः* ॥॥
कथं च विध्यर्थस्यात्यन्तालौकिकतया प्रमाणेन तदाभासेन वा बुद्धावारोपयितुमशक्यत्वेनाभिमतस्य बुद्धिसंनिधानत्मको ऽध्याहारो ऽश्रुतविधिशब्दकेष्वधिकारवाक्येषु वा उत्पत्तिवाक्येषु यदाग्नेयो ऽकपालो ऽमावास्यायामित्यादिषु वा शक्यते, इत्यकामेनापि शब्दाध्याहारो ऽङ्गीकर्तव्य इत्यास्तां तावत् ॥
इत्यर्थापत्तिवादः ॥
अभाव(अनुपलब्धि) परिच्छेदः ।
अभावो ऽपि प्रमाणाभावो नास्तीत्यस्यार्थस्यासंनिकृष्टस्येति ।
कथं पुनः प्रमाणाभावः प्रमाणलक्षणं विपरीतत्वात् ।
पूर्वोक्तसदुपलम्भकप्रत्यक्षादिप्रमाणपञ्चकाभिप्रायो ऽयं प्रमाणशब्दः ।
तदभावश्च षष्ठस्य लक्षणमिति नानुपपत्तिः ।
किमस्य प्रमेयम् ।
उक्तं नास्तीत्यर्थस्य इति ।
सर्वं हि वस्तु सदसदात्मना द्वविधं, तद्यदा यत्र सद्रूपेण बोधकानां प्रत्यक्षादीनां सद्रूपबोधनायोत्पत्तुं योग्यत्वे सत्यपि यो ऽनुत्पादोद् दश्यादर्शनयोग्यनुपलम्भादिपर्यायो भाष्ये प्रमाणाभावशब्देनोक्तस्येनैवेन्द्रियशब्दादिस्थानीयेन नास्तीति प्रतीयते भूतले ऽत्र घटो नास्तीति* ॥॥
यस्तु नास्तित्वमपह्नुत्य
प्रमेयाभावात्षष्ठं प्रमाणं नास्तीत्याह तस्य दृश्यादर्शनानन्तरं नास्तीह भूतले घट इत्येवमुपजायमानस्य ज्ञानस्य किमालम्बनम् ।
न भूतलम् ।
सत्यपि घटे प्रसङ्गात् ।
तथा गवि यो ऽश्वो न भवतीति प्रत्ययो रूपे च रसो न भवतीति तस्य किमालम्बनम् ।
न गोरूपम् ।
तस्य प्रतियोग्यनपेक्षप्रतीतिकत्वात् ।
अश्वो न भवतीति ज्ञानस्य प्रतियोग्यपेक्षत्वात् ।
गोरूपालम्बनत्वे सिंहादावश्वो ऽयं न भवतीति प्रत्ययो न स्यात् गोरूपस्य तत्राभावात्* ॥॥
अथ यो ऽश्वाद्भेदो गवादिष्वनुस्यूतः सो ऽस्यालम्बनमित्युच्यते ।
को ऽयं भेदो नाम, यदीतरेतराभावः समाश्रितस्तर्ह्यभावः ।
अथ पृथक्त्वं नाम गुणविशेषो भेद इत्युच्यते, ततस्तस्य द्रव्यगतत्वाद्गुणेषु रूपादिषु ऽरसो न भवति रूपंऽ ऽरूपं न भवति रसःऽ इतीतरेतराभावप्रत्ययो न स्यात् ॥
प्रभाकरमतखण्डनम् ।
यस्तु वैयात्यात् भूतलप्रतीतिव्यतिरेकेण घटो नास्तीत्येवंविधा घटो नास्तीत्येवंविधा प्रतीतिरेव नास्ति इति वदति, स भूतलादिप्रतीतिमप्यपह्नुवीत, अविशेषात्, घटो ऽत्र भूतले नास्तीति व्यवहारस्य किं कारणं, दृश्ये घटे यद्भूतलमात्रविषयं ज्ञानं तदस्य कारणमितिचेत्,
तथासति पटवद्भूतलोपलम्भे घटो नास्तीति व्यवहारो न स्यात् ।
भूतलमात्रोपलम्भाभावात् ।
घटविविक्तभूतलोपलम्भ इति चेत्, को ऽयं घटविवेकः, यदि भूतलरूपमेव, घटवत्यपि प्रसङ्गः ।
घटसंयोगाभावश्चेत्, अङ्गीकृतस्तर्ह्यभावः* ॥॥
स्यान्मतम्, यदभाववादिनो ऽभावज्ञानस्य कारणं तदेवास्माकं व्यवहारकारणं भवत्विति ।
नैवं वक्तुं शक्यम् ।
मम हि दृश्यादर्शनमभावज्ञानकारणम्, अदर्शनं च दर्शनाभावो नचासौ भवताङ्गीकृतः, अभावाभ्युपगमप्रसङ्गात् ।
प्रमाणाभावाङ्गीकारे वा किमपराद्धं प्रमेयाभावेन* ॥॥
ननु प्रथमं प्रत्यक्षेण भूतलं गृहीत्वा पश्चादभावो बोद्धव्यस्तत्राभावत्रानात्प्राक् यादृशं भूतलज्ञानं तादृशादेव व्यवहारो भवतु ।
तदिदमुक्तोत्तरम्, तथाहि- यस्यामवस्थायां भूतलस्वरूपज्ञानं घटतदभावयोश्चाज्ञानं ज्ञानाभावस्तेन घटतदभावज्ञानशून्यं भूतलज्ञानं तस्यामवस्थायामस्माभिरुपेयते तदेव भूतलमात्रवेदनमित्युच्यते* ॥॥
स्वरूपमात्रं दृष्ट्वाचेत्यादिषु मात्रशब्देन हि घटतदभाववेदनयोरभाव उच्यते, भूतलमात्रं ज्ञायते न घटस्तदभावो वेत्यर्थः ।
तेन यदि भवानपि घटादिज्ञानाभावयुक्तं भूतलज्ञानमङ्गीकुर्यात् ततो ज्ञानाभावाङ्गीकर्तव्य इत्युक्तमेव ।
तेन नैवं भ्रमितव्यम्- अभाववादिनापि स्वरूपमात्रं दृष्ट्वा च पश्चात्किञ्चित्स्मरणन्नपीति वदता भावज्ञानातिरेकेण तन्मात्रवेदनमङ्गीकृतम्, तदेव दृश्ये प्रतियोगिनि नास्तीति व्यवहारकारणत्वान्नास्तीति शब्दस्यार्थाभावाद्भूतलवेदनमेव कारणमिति वक्तव्यम् ।
ततश्च घटवत्यपि प्रसङ्ग इति स्थितं दूषणम्* ॥॥
अथ भावे देशान्तरस्थे देशान्तरग्रहणं कारणमिति मतं, ततः शाबलेयस्थितं गोत्वं धावलेये नास्तीति व्यवह्रियेत, स्थूणान्तरस्थितश्च वंशः स्थूणान्तरे ऽनुस्यूतो ऽपि तत्र नास्तीति व्यवहर्तव्यः स्यात्, अतो ऽत्राभाव एव नास्तीति व्यवहारकारणम्, नान्यत्र सद्भावः ।
स्मर्यमाणे घटे भूतलवेदनं नास्तीति व्यवहारकारणमितिचेत् ।
न ।
गृह्यमाणस्यापि पार्श्वदेशेष्वभावव्यवहारात् ।
संप्रत्यानीतस्य च घटस्य गृह्यमाणस्यैव प्रागयमिह नासीत् इति प्राक्कालीनाभावव्यवहारात् ॥
प्रभाकरमतानुवादः ॥
ननु भवन्मते प्रमीयमानस्य घटस्य प्राक्कालीनाभावज्ञानं भावप्रमाणभावो ह्यभावज्ञानकारणम् ।
न च प्रमायमाणो ऽपि घटः प्राक्कालसंबन्धितया न प्रमीयते अतः प्राक्कालसंबन्धगोचरप्रमाणानुदयात्तत्कालीनाभावज्ञानं युक्तमेवेति चेत् ।
न ।
अयोग्यत्वात् ।
न हि प्राक्कालसंबन्धो ऽधुना प्रमातुं योग्यः, योग्यप्रमाणाभावश्चाभावज्ञानकारणं न प्रमाणाभावमात्रम् ।
प्राक्काले तु योग्यस्यैव प्रामाणस्यानुदय आसीत्, न हि तदानीं घटाभावः सन्नपि प्रमितः प्रतियोगिनो घटस्यापरामर्शात् तदपेक्षत्वाच्चाभावज्ञानस्य, अत एव घटाभावो ऽधुना स्मर्यत इति न युक्तम् ।
अप्रमितस्य स्मरणयोगात् ।
यश्चायं प्राक्कालीनः प्रमाणानुदयः सो ऽधुना प्रमाणोदयेन नष्टो नाभावज्ञानमुत्पादयितुमर्हति, उद्धृतमिव नेत्रं रूपबुद्धिम्* ॥॥
अथ नष्टो ऽपि प्रमाणानुदयः संप्रति स्मर्यमाणो ह्यस्तनाग्निज्ञानम् ।
स्यादेवं यदि प्रमाणाभावो ज्ञायमानतया मेयाभावं बोधयेत् लिङ्गमिव लिङ्गिनम् ।
न च तथा संभवति अनवस्थाप्रसङ्गात् ।
प्रमेयाभावं बोधयेत् ज्ञातव्यः ।
सोपिचाभावत्वादन्येनाभावज्ञानेन ज्ञातव्यः, सो ऽप्यन्येनेति न जन्मसहस्रेणापि घटाभावो ऽवधार्येत ।
तस्मात्सत्तामात्रेणैव प्रमाणाभावो ऽभावज्ञानमुत्पादयति नेत्रादिवदित्यङ्गीकर्तव्यम्, अतः प्रमीयमाणस्य घटस्य कथं प्राक्कालाभावप्रमितिरिति वक्तव्यम्* ॥॥
उच्यते- सत्तामात्रेण ज्ञानाभावो ज्ञायाभावं बोधयतीति सम्यगुक्तम्, अस्त्येव त्वधुना दृश्यमानस्यापि घटस्य
प्राक्कालसंबन्धगोचरयोग्यज्ञानानुदयः, सहि प्राक्कालिसंबन्धितया स्मर्तुं योग्यः सन्नपि न स्मर्यते, नचावश्यंप्रमाणाबाव
एवाभावस्य बोधकः स्मरणज्ञानस्यापि योग्यत्वे सत्यनुदयो भावं बोधयत्येव, तेन संप्रति दृश्यमानो ऽपि घटो यदि प्रागप्यासीत्ततो ऽवश्यं तत्र स्थितेन प्रमितः स्यात्, प्रमितश्चाधुना स्मर्तव्यः स्यात्, एवं सत्यपि न स्मर्यते सो ऽयं स्मर्तव्यविषयस्मरणानुदयः संप्रति विद्यमानः संप्रतितनं प्राक्कालीनाभावविषयं विज्ञानं जनयतीति न किञ्चिदनुपपन्नम् ।
भाष्ये च प्रमाणाभावशब्दः स्मरणाभावस्याप्युपलक्षणार्थः, तथा वार्तिके ऽपि ।
यद्वा प्रमाणस्य स्मरणफलत्वात्तदभावो ऽपि फलतः प्रमाणाबाव एवेति शक्यते वक्तुम् ॥
उक्तप्रभाकरखण्डनम् ।
ननु न सत्तामात्रेण योग्यानुपलब्धेरभावबोधकत्वं युक्तं, सत्यामपि तस्यां कदाचिदभावबुद्ध्यनुदयात्, असत्यामपि कदाचिदुदयात् ।
तथाहि यो ऽङ्गुलीयकबुभुत्सया ससन्तमसावपवरकदेशं हस्ताभ्यां सर्वतः परामृष्टवान् तस्य तावत् सर्वदेशपरामर्शात् वस्तुतो योग्यानुपलब्धिर्जातैव, अथ च किं सर्वो देशः परामृष्टः किं वा कश्चिद्देशो स्यादिति संदिहानो योग्यानुपलब्धेरनिश्चयात् सत्यापि तस्यां नाङ्गुलीयकस्याभावमवधारयति ।
कदाचित्तु सर्वतो ऽपरामृश्यापि सर्वतः परामृष्टमिति भ्रान्त्या योग्यानुपलब्धिं निश्चित्यासत्यामेव तस्यां भ्रान्त्याङ्गुलीयकस्याभावमवधारयति ।
तस्माज्ज्ञाततयैव योग्यानुपलब्धिरभावज्ञानकारणमित्यभ्युपगन्तव्यम् ।
तथाचानवस्थाप्रसङ्गः ।
तस्मात्स्वसंवेद्या तन्मात्रसंविदेव दृश्यस्य प्रतियोगिनो ऽभावो न तत्वान्तरम् ।-- ।
ननु चाभावलङ्गीकारे तन्मात्रधीरपि न कदाचिन्निरूपयितुं शक्यते, न च भूतलधीरेव तन्मात्रधीः, संसृष्टधियो ऽपि तन्मात्रतापातात् ।
तत्रापि भूतलावभासात् ।
अतो घटादिवेदनाभावे सति या भूतलधीः सा तन्मात्रधीः ।
एवं च ज्ञानाभावाङ्गीकारादभावपह्नवो ऽनर्थकः ।
कथं तर्ह्येतन्निरूपयितव्म्, तदभिधीयते- घटाद्यभावो ऽस्ति प्रमेयम् ।
योग्यप्रमाणानुदयश्च तस्य सत्तामात्रेणैव नेत्रादिवद्बोधको न ज्ञाततया, यतो अनवस्था स्यात्* ॥॥
यत्तु सत्यापि योग्यानुपलम्भो हि कारणं तत्र योग्यत्वं ज्ञाततयैव कारणं न सत्तामात्रेण, ततः योग्यत्वं कदाचिदज्ञातं नाभावमवधारयति कदाचित्त्वविद्यमानमेव योग्यत्वं भ्रान्त्या निश्चित्याभावमवधारयति ।
उपलब्ध्यभावस्तु सन्मात्रतया कारणं न ज्ञाततया, तेन नानवस्थापत्तिरिति सर्वमवदातम् ।
अतो ऽस्त्यभावाख्यं प्रमेयम् ॥
अभावस्यानुपलब्धिगम्यत्वम् ॥
न च तदैन्द्रियकम्, इन्द्रियव्यापाराभावे ऽपि तज्ज्ञानोत्पत्तिदर्शनात् ।
यो ऽहनि प्रातःकाले गृहे ऽवस्थितो मध्यन्दिनसमये पृच्छ्यते किमस्मिन्गृहे प्रातःकाले माथुरः किश्चित्पुरुषः शुक्लवासा दीर्घतमो लोहितवर्णः समागतः इति स तदानीमेव योग्यस्मरणानुदयात्तस्याभावं प्रातःकालीनमवधारयति विनैवेन्द्रियव्यापारेण ।
न च प्रातरवगतो ऽबावस्तदा स्मर्यत इति वाच्यम् ।
प्रतियोगिनो माथुरस्य तदानीं कथञ्चिदपि बुद्धावनारोहात्, अबुद्धिस्थे च प्रतियोगिनि भावे तदभावज्ञानसंभवात् ।
एवं च यत्रापीदानीमेवानुपरतेन्द्रियव्यापारेण संनिहितदेशकालवर्त्त्यभावः प्रतीयते तत्रापि योग्यज्ञानानुदयस्यैव कॢप्तसामर्थ्यस्य कारणत्वसंभवान्नेन्द्रियस्य कारणत्वं कल्पयितुं शक्यम् ।
तस्मान्न प्रत्यक्षो ऽभावः ।
नाप्यनुमेयः, अज्ञातेन तेन कस्यचिल्लिङ्गस्य संबन्धग्रहणसंभवात्* ॥॥
यदत्र कैश्चिदुच्यते- दृश्यस्य सत्तादर्शनव्याप्ता तेन
व्यापकीभूतदर्शननिवृत्त्या व्याप्यस्य दृश्यस्य निवृत्तिरवसीयत इति तन्निरस्तम् ।
व्यापकनिवृत्त्या व्याप्यनिवृत्तिमनुमिमानेनावश्यं दृष्टान्तधर्मिषु निवृत्तिद्वयमवगम्य ततो दृश्यनिवृत्तिरनुमातव्या, निवृत्तेश्चाभावात्मिकयै न प्रत्यक्षेण ग्रहणं संभवति, निवृत्त्यन्तरेण तदनुमाने तदपि निवृत्तिरूपत्वान्निवृत्त्यन्तरेणानुमातव्यम् तदपि तथेत्यनवस्थापत्तिः ।
अतो ऽवश्यं क्वचित्प्रमाणान्तरभूतयानुपलब्ध्याभावः प्रत्येतव्यः ।
प्रमितेच तस्मिन्पश्चाद्भवत्वनुमानम् ।
सिद्धं तावदभावस्य प्रमाणान्तरत्वं शब्दोपमानार्थापत्तयस्तु नाशङ्गनीया एव ।
अतः सिद्धं षष्ठं प्रमाणम् ।
एतावन्त्येव च प्रमाणानि* ॥॥
यत्त्वधिकं संभवाख्यं प्रमाणं सहस्रादिसंख्ययावयवभूतशतादिसंख्यावगतिः आढकप्रमाणेनावयवकुडवपरिमाणावगतिः कैश्चिदिष्यते, तदविनाभावनिमित्तत्वादनुमानमेव ।
वटेवटे वैश्रवणः इत्यादिकं चैतिह्यं प्रमाणमेव न भवति निर्णयाभावात् ।
प्रामाण्येपि वाऽगमे ऽन्तर्गतत्वान्न प्रमाणान्तरम् ।
प्रातिभाख्यमपि प्रमाणं कैश्चिदिष्टं श्वस्ते भ्रातागन्तेत्यादिकं, तत्तु लिङ्गाद्याभासजं, अनिश्चायकत्वादेवाप्रमाणम् ।
अतो यत्काश्यपीयैः प्रतिभागम्यमृषीणां धर्माधर्मत्वमाश्रितम् तदसारम् ।
लोकप्रसिद्धिरपि प्रत्यक्षान्तर्गतैवेति न प्रमाणान्तरम् ।
अतः षडेव प्रमाणानि ।
तथा च भगवद्रामायणे राम षड्युक्तयो लोके याभिः सर्वो ऽनुदृश्यते इति ।
इत्याभाववादः ॥
चित्राद्यैहिकफलचोदनास्वाक्षेपः ॥
लोकप्रसिद्धस्वतःप्रामाण्यदर्शनेन प्रत्यक्षादीनां तदन्तर्गतस्यापि च शास्त्रस्य स्वतःप्रामाण्यात् चोदनालक्षणोर्ऽथो धर्मः
इति प्रतिज्ञातेर्ऽथे साधिते संप्रति अनिमित्तं विद्यमानोपलम्भनत्वात् इत्यनेन चित्रादिचोदनानामैहिकफलानां प्रत्यक्षादिभिरसंवादेन विसंवादेन च प्रामाण्यमाक्षिप्यते, पूर्वोक्तस्तु नन्वतथाभूतं इत्याक्षेपः परलोकफलस्वर्गकामादिचोदनाविषय इति विषयभेदादपौनरुक्त्यम्* ॥॥
ननु च नन्वतथाभूतमप्यर्थं ब्रूयाच्चोदनेति चोदनामात्रपरिग्रहादविशेषेणैवासावाक्षेपः तथेहापि यदा तावदसौ विद्यमानासीत् तदा फलं न दत्तवती ।
यदा फलमुत्पद्यते तदासौ नास्ति कथमसती फलं दास्यतीत्याक्षेपस्य स्वर्गकामचोदनास्वपि तुल्यत्वादविशेषत्वमिति नास्ति विषयभेदः ।
उच्यते- पूर्वाक्षेपस्तावत्परलोकफलविषय एव ।
तत्र हि प्रमाणान्तरापेक्षः शब्दो न स्वातन्त्र्येण प्रमाणम् ।
न च चोदनार्थे प्रमाणान्तरमस्ति अतो ऽप्रमाणं चोदनेत्ययमाक्षेपः, स चायं परलोकफलविषय एव भवति ।
पशुकामचोदनासु हि यदि तावत्कर्मानन्तरमेव पश्वादीन्युपलभ्यन्ते ततो ऽपेक्षितमूलप्रमाणलाभात्सिद्ध्यति चोदनायाः प्रामाण्यम् ।
अथ नोपलभ्यते ततः प्रमाणान्तरबाधेनैव सुखप्रामाण्यमभिधातुं शक्यत इति किमाक्षेपसारूप्यप्रतिपादनव्यसनेन ।
तस्मात्स तावत्परलोकफलविषय एव ।
अयं त्वैहिकफलविषय ।
न हि पारलौकिकस्य फलस्यानन्तरकालानुपलब्ध्या निरासः संभवति ।
न हि तेनानन्तरं भवितव्यम्, जन्मान्तरभावितत्वात्* ॥॥
ननु असती कथं फलं दास्यतीतीदं तुल्यम् ।
नेति ब्रूमः- अपूर्वद्वारेण संभवात् ।
स्वर्गो हि स्वभावाद्देहान्तरानुभवनीयत्वादनन्तरासंभवित्वेन शास्त्रार्थावधारणवेलायामेव कालान्तरे निश्चीयत इत्यपूर्वमन्तर्भाव्यैव तत्र शास्त्रार्थो ऽवधार्यते, तच्च चिरस्थायीति कारणस्याविनाशात्संभवति कालान्तरे स्वर्गस्योत्पत्तिः ।
पश्चादयस्त्वनन्तरमपि संभवन्तीति तत्साधनत्वेन चोद्यमानानां चित्रादीनां शास्त्रार्थावधारणसमये ऽपूर्वप्रणाडीसमाश्रयणे कारणं न किञ्चिदस्तीति स्वरूपेणैव फलसाधनत्वं शास्त्रार्थो ऽवधार्यते ।
तथाचानन्तरमेव पलेन बवितव्यम् ।
कालान्तरे कर्मस्वरूपस्य विनष्टत्वात् कारणत्वाभावात्, अनन्तरं च फलमनुपलब्ध्यैव निरस्तमित्यप्रामाण्यं चित्रादिचोदनानाम् ॥
चित्रादीचोदनास्वाक्षेपपरिहारौ ।
नचानुष्ठानानन्तरं फलानुपलब्ध्यैव शास्त्रार्थे ऽपूर्वमन्तर्भावयितुं शक्यते शास्त्रार्थावधारणपूर्वकं ह्यनुष्ठानं नानुष्ठानपूर्वकं शास्त्रम्, तस्मादैहिकानामत्राक्षेप इति युक्तो विषयभेदः ।
विषयभेदाच्च न्यायोपि भिद्यते ।
परलोकफलासु प्रमाणापेक्षितत्वामाक्षेपन्यायः ।
अत्रतु प्रमाणान्तरविरोध इति न्यायभेदादपौनरुक्त्यम् ।
अथवा पूर्वोक्तं स्वमते सूत्राणि व्याचक्षणो सूत्रितमेवाक्षेपं दर्शितवान् ।
इदानीं तु वृत्तिकारमतेन सूत्रेणैवाक्षेपः क्रियते* ॥॥
तदिह ।
चित्रादिवाक्यानि प्रमाणान्यप्रमाणानि वेति विचार्यते ।
तदर्थं च किं तेषां प्रमाणान्तरविरोधो ऽस्ति न वेति ।
तत्र फलानामनन्तरमुपलब्धव्यानामनुपलम्भादतत्साधनत्वं चित्रादीनामवगम्यते ।
तदिदं प्रत्यक्षाविसंवादे ऽवश्यंभाविनि सति तदभावादप्रामाण्यम्* ॥॥
क्वचित्तु प्रत्यक्षविरोधादप्रमाण्यं स एष यज्ञायुधी यजमानो ऽञ्जसा स्वर्गं यातीति यज्ञायुधीति हि यज्ञायुधसंयोगाच्छरीरमुच्यते, यजमानशब्दो ऽपि हि कर्तृवचनस्तस्यैव वाचको नात्मनः, तस्य सर्वगतत्वेनाभिमतस्य क्रियोविरहिणः कर्तृत्वायोगाद्यज्ञायुधसंयोगाभावाच्च, संयोगाभिप्रायश्चायं यज्ञायुधीति शब्दः पात्रचयनस्तुत्यर्थत्वात्, न स्वस्वामिसंबन्धाभिप्रायः ।
प्रागपि पात्रचयनात्तत्संभवात् शरीरस्य च प्रत्यक्षविरुद्धं स्वर्गमनम् ।
न च कालान्तरे ऽपि संभवति ।
यातीति वर्तमानापदेशात्, भस्मीभूतस्य च कालान्तरे ऽपि तदसंभवात् ।
न च शरीरव्यतिरिक्तः कश्चिदात्मास्ति तस्मादप्रमाणम् ।
एवमपौरुषेयस्याप्यप्रामाण्ये स्वर्गकामचोदनायामपि नाश्वसितुं युक्तमित्यप्रमाण्यमेवायातम्* ॥॥
एवं प्रत्यक्षानुपलब्धिविरोधेन प्रत्यक्षविरोधेन चाक्षिप्ते प्रामाण्ये विरोधपरिहारमुपेक्ष्यैव कारणदोषनिराकरणेन पूर्वोक्तमेव स्वतःप्रामाण्यं स्वपक्षसाधनत्वेन सिद्धान्तवादी दर्शयति- औत्पत्तिकस्तु शब्दस्यार्थेन संबन्धस्तस्य ज्ञानमुपदेश इति ।
पूर्वं हि प्रत्यक्षादीनां स्वतःप्रामाण्यस्य लोकसिद्धात्वात्तदन्तर्गतत्वाच्च शास्त्रमपि पुरुषानुप्रवेशाभावात्पुरुषाश्रयत्वाच्च शब्ददोषस्यादुष्टेमेव शास्त्रमतः प्रमाणमित्युक्तम् ।
इति चित्राक्षेपवादः ॥
शब्दार्थयोः संबन्धाक्षेपः ।
एवं संबन्धनित्यतयाप्रामाण्यं निराकृत्य स्वतःप्रामाण्ये स्थापिते, परः पुनराह- स्यादेतत् नैव शब्दस्यार्थेनास्ति संबन्धः कुतो ऽस्य पौरुषेयतापौरुषेयतावेति ।
तथाहि न तावत्संयोगो ऽस्ति तद्भावे हि क्षुरादिशब्दोच्चारणे मुख्यस्य पाटनापि स्यात् ।
न च कार्यकारणभावः, द्वयोरपि नित्यत्वात् ।
ननु वर्णस्फोटजात्यादिविकल्पेन व्यक्त्याकृतिसंबन्धादिविकल्पेन च बाह्ययोः शब्दार्थयोर्दुर्निरूपत्वाद्गकाराद्याकारं विज्ञानमेव शब्दः, तज्जनितं च गवाद्याकारविज्ञानमेवार्थं इति कार्यकारणत्वमेव शब्दार्थयोः संबन्धः ।
नैवम् ।
निरालम्बनज्ञानानुत्पत्तेः, संबन्धान्तरं तु नाशङ्गनीयमेव* ॥॥
प्रत्याय्यप्रत्यायकत्वं संबन्ध इति
चेत् न ।
असति संबन्धे प्रत्यायकत्वासंभवात् ।
केन संबन्धेन शब्दोर्ऽथं प्रत्याययतीत्येतदेव हि निरूप्यते ।
तत्र प्रत्यायकत्वादेव प्रत्यायकत्वमित्यात्माश्रयदोषापत्तिः, तस्मान्नास्ति संबन्धः ।
असति च संबन्धे वस्त्वन्तरस्य वस्त्वन्तरबोधकत्वासंभवादनिरूपितहेतुविशेषं स्वप्नज्ञानवद्यादृच्छिकं शब्दार्थज्ञानं न प्रमाणं भवितुमर्हति ।
लौकिकस्तु व्यवहारो ऽसत्यपि शब्दप्रामाण्ये
प्रमाणान्तरवशात्कथञ्चित्संगच्छेतापि ।
वैदिकस्तु व्यवहारः शब्दैकशरणत्वादनादर्तव्यः स्यान्निर्मूलत्वात्* ॥॥
स्यादेवं यद्यसंबन्धः शब्दार्थयोः, अस्ति तु संबन्धः प्रत्याय्य इत्ययमेव संबन्धो भविष्यति ।
यच्चेन्द्रियलिङ्गादिवत्संनिकर्षव्याप्त्यादिसंबन्धानपेक्षमर्थप्रतिपादनम् इदमेवाभिधानमित्युच्यते, तदेव च संज्ञासंज्ञित्वं, तेनोच्यते संज्ञासंज्ञिलक्षणः संबन्ध इति* ॥॥
किं पुनः शब्दस्यार्थप्रतिपादने प्रमाणम्, शब्दानन्तरमर्थप्रतिपत्तिरेव ।
नन्वियमभिप्रायानुमानद्वारेणैवोपपन्ना, नेति ब्रूमः ।
अर्थाभिप्रायशून्येनापि स्वापाद्यवस्थायां परवशप्रयुक्तैरपि शब्दैरर्थप्रतिपत्तिदर्शनात् ।
तथा पुरुषान्तरकृतमपौरुषेयं वा वेदवाक्यमनर्थज्ञैरपि प्रयुज्यमानं व्युत्पन्नानामर्थबुद्धिं जनयत्येव, तस्मात् प्रत्यायकः शब्दः ।
किमिति तर्हि प्रथमश्रवणे न प्रत्याययति, सहकारिविरहात्संज्ञात्वग्रहणमपि शब्दस्यार्थे प्रत्ययतो ऽङ्गं नेत्रस्येवालोकः, तेन यः पुरुषान्तरेभ्यो अयं पुरुषान्तरेभ्यो अयं शब्दो ऽस्य संज्ञेति ज्ञातवान् तस्यैव प्रत्याययति नान्यस्येति न दोषः ॥
शब्दार्थसंबन्धानित्यत्वे आक्षेपः ।
नन्वेमस्तु नाम संबन्धः, स तु पौरुषेय इति त्वदुक्त्यैवापन्नम् ।
तथाहि न हि शब्दस्यार्थेन संयोगगादात्म्यादिसंबन्धः किन्तु प्रत्यायकत्वम् ।
तच्च पुरुषाधीनमित्युक्तम्, अतो देवदत्तादिशब्दस्येव अस्यार्थस्येयं संज्ञेत्येवं संबन्धे कृते पश्चाच्छब्दस्यार्थप्रतिपादनमिति सिद्धं पौरुषेयत्वम्* ॥॥
इति संबन्धाक्षेपः पूर्वाक्षिप्तं संबन्धनित्यत्वमसमाधायेदानीं अथ गौरित्यत्र कः शब्दः इति कया संगत्या केन वा प्रयोजनेन शब्दस्वरूपं निरूप्यते, संगतिस्तावत्प्रासङ्गीका संबन्धप्रस्तावात् संबन्धिनोरपि शब्दार्थयोः प्रस्तुतत्वात्स्वरूपं निरूप्यते ।
प्रयोजनमपि तदवयवाश्रितानामूहादीनां सत्यत्वं, निरवयवे हि वाक्ये पदे वा वाचके ऽवयवानां मृषात्वात् तदाश्रितान्यपि कार्याणि मृषा भवेयुः* ॥॥
किञ्च संबन्घसिद्ध्यर्थमवश्यं वर्णानां वाचकत्वं समर्थनीयम्, अन्यथा हि तेषां संगत्याभावाद्वाचकभावो निराधारत्वान्न स्यान्नतरां नित्यत्वमिति तत्सिद्ध्यर्थं वाचकत्वं समर्थयितुं शब्दस्वरूपं निरूप्यते ।
कि गौरित्यत्र वर्णा एव शब्दः, उत तेभ्योर्ऽथान्तरमित्येतत्प्राधान्येन निरूप्यते ।
वर्णावयव-गत्व-गोशब्दावयवि-जातिनिराकरणं तु प्रासङ्गिकम् ।
वर्णा एव शब्द इत्यवधारणसमर्थनार्थम्* ॥॥
तत्र वर्णानामपि पुद्गलाख्यानवयवानार्हताः संगिरन्ते तत्त्ववयवानुपलम्भादयुक्तम् ।
प्रत्यक्षेण तावदवयवा नोपलभ्यन्ते, वर्णेषु साकल्यवैकल्यग्रहणाभावात् ।
नानुमानेन, तैः सह कस्यचिल्लिङ्गस्य संबन्धाग्रहणात् ।
न च सामान्यतो दृष्टम्, नहि यद्यद्वस्तु तस्य तस्यावश्यमवयवैर्भवितव्यम्, परमाणूनां निरवयवत्वात् ।
ते ऽपि सावयवा इति चेत्, तदवयवा अपि तथा स्युस्ततः परमपि तथेत्येकस्यैव माषावयविनो ऽनन्तावयवित्वं स्यात्, ततश्चैकेनैव माषेण तिलेन वा सर्वं जगद्व्याप्येत, अनन्तैरवयवैर्मूर्तैरन्योन्यस्यावरकाशमप्रयच्छद्भिरनन्तदेशव्याप्तेः ।
तस्मान्निरवयवाः परमाणवो वर्णाश्च ।
तथा गत्वजातिरौत्वजातिश्च निष्प्रामाणिकैव* ॥॥
ननु द्रुतविलम्बितमध्येषूदात्तानुदात्तस्वरितेषु सानुनासिकनिरनुनासिकयोर्ह्रस्वदीर्घप्लुतेषु च प्रत्यभिज्ञायमाना जातिः कथं नास्तीति शक्यते ऽभिधातुम् ।
सत्यम् ।
प्रत्यभिज्ञा, सातु प्रत्यभिज्ञा, सातु व्यक्तेकत्वादेवोपपन्ना ।
द्रुतादिभेदाभासस्तु द्रुताद्यवस्थाभेदालम्बनो न व्यक्तिभेदमापादयितुमलं भवति ।
गत्वादिजातिनिराकरणम् ।
भेदाभेदावभासो ऽपि द्वेधा भवति ।
क्वचिद्भेदो धर्मिविषयो यथा शाबलेयादिष्वयं गौरयं
गौरयमिति जातेरात्मलाभः ।
क्वचित्तु भेदाभावभासो धर्मादभेदावभासश्च धर्मिणमालम्बते-एकस्मिन्नेव देवदत्ते युवायं वृद्धो ऽयं कृशो ऽयमिति न तत्र जातिरङ्गीक्रियते ।
तदिह द्रुतादिषु धर्मिविषयो ऽभेदो धर्मिविषयस्तु भेदः तथाहि ईदृशो ऽत्रावभासः अनेनायमकारो द्रुतमुच्चारितो ऽनेन विलम्बितमिति न तु अयमकारो द्रुतो ऽयं तु विलम्बित इति येन धर्मिभेदो जातिश्चाङ्गीक्रियेताम्* ॥॥
ननु कार्श्यादीनां क्रमवर्तित्वादेकस्मिन्देवदत्ते युक्तः समावेशः, अनुनासिकादीनान्तु धर्माणां युगपदनेकवक्त्रुच्चारिते वर्णे समवेतानां कथमेकवर्णविषयत्वम् ।
न हि विरुद्धधर्मानेको धर्मी युगपद्बिभर्ति ।
सत्यम् ।
नत्वेते परमार्थतो वर्णधर्मा ध्वनिधर्मास्त्वेते वर्णे केवलमाभासन्ते, यथाल्पे महति च दर्पणे युगपद्दृश्यमाने मुखे ऽल्पत्वं महत्वं चेति ।
तस्माद्वर्णस्य व्यक्त्येकत्वे ऽपि न विरोध इत्यप्रामाणिकी गत्वादिजातिः* ॥॥
एवं गोशब्दावयव्यपि
गकारादीनामयौगपद्यात्सर्वगतत्वाच्चावयव्यारम्भासामर्थ्यात् ।
सर्वत्र हि कारणपरिमाणादधिकं कार्यपरिमाणम् तन्तुपटयोरिव न च विभुभ्यो वर्णेभ्यः परिमाणाधिक्यं कस्यचिद्भवति, अतो नास्यवयवी ।
तदभावे च तदाधारं गोशब्दत्वं दूरापास्तम् ।
तस्माद्वर्ण एव शब्दः* ॥॥
आह- गृह्णीम एतत्- अवयवावयविगद्वादिकं नास्तीति ।
नतु वर्णा एव शब्दा इति ।
अर्थप्रत्ययानुपपत्तेः ।
तथाहि - नह्येकाक्षरविज्ञानादर्थधीरुपजायते ॥
वाचश्च क्रमवर्तित्वात्साहित्यं नावकल्पते ॥
उच्यते- यथाग्नेयादिकर्माणि क्रमवर्तिनि सन्त्यपि ॥
संहत्य कुर्वते कार्यमेकं वर्णास्तथैव नः ॥
वर्णानामर्थप्रत्यायकत्वम् ।
ननु क्रमवर्तिनामप्युत्पत्त्यपूर्ववशेन युक्तं साहित्यम्, वर्णानां तु कथम् ।
तेषामपि संस्कारेण भविष्यति तत्सद्भावे किं प्रमाणम्, यदेवाग्नेयादिषु ।
यथाहि तेषां शास्त्रेण संहत्यकारितावगमात्स्वरूपतश्च तदसंभवादपूर्वं द्वारं कल्प्यते, तथा वर्णानामप्येकैकशो ऽभिधानादर्शनात्सकलोच्चारणे चावगमात्संहत्यकारित्वे निश्चिते स्वरूपेणासंभवात्संस्कारकल्पनं युक्तमेव, तद्वदेव चैककर्तृत्वं क्रमविशेषश्चाद्रियते विपर्ययेणार्थाभिधानादर्शनात् ॥
स्फोटवादखण्डनम् ।
नन्वेवं प्रतिवर्णं संस्कारकल्पनादेककल्पना स्यात् तद्वरमेकमेव शब्दत्वं कल्पितम् ।
नैवम् ।
दृश्यादर्शनेन निरस्तवत् ।
शब्दो हि प्रत्यक्षग्राह्यो ऽभ्युपगम्यते, न च प्रत्यक्षेण किञ्चित्प्रकाशते ।
तेन नास्तीत्यवगच्छामः ।
त्वयापि हि शब्दत्वं कल्पयित्वा पुनः संस्कारकल्पनावश्यं कर्तव्या ।
ध्वनयो हि न प्रत्येकं स्फोटमभिव्यञ्जति, साहित्यं च क्रमवर्तिनां संस्कारद्वारमेवेति तुल्यं तत्कल्पनम्* ॥॥
स्यान्मतम् ।
प्रत्येकमेव नादाः शब्दमभिव्यञ्जन्ति, नचैवमुत्तरनादवैयर्थ्यम्, पूर्वे हि नादाः शब्दस्फुटमभिव्यञ्जन्ति उत्तरोत्तरे स्फुटं स्फुटतरं च व्यञ्जन्तीति नोत्तरेषामानर्थक्यम् ।
यद्येवं ततो य एवोत्तरे नादाः स्फुटाभिव्यक्तिसमर्थास्तैरेव भवितव्यमलं पूर्वेः* ॥॥
ननु न कश्चिदपि नादः स्वतो ऽस्य स्फुटाभिव्यक्तिं करोति किन्तु सर्वे ते प्रत्येकं व्यञ्जकाः ।
स तु न द्रागेव स्फुटमवभासते प्रथममस्फुटावभासितः सन् पुनः पुनः श्रूयमाणः स्फुटः भवति, तद्यथा दूरादवस्थितः सहकारः प्रथमं हस्तिपलालकूटादिसाधारणरूपेण प्रतिभातः पुनरालोच्यमानो वृक्षात्मना प्रकाशते पुनःसहकारात्मना स्फटो भवति तद्वदेव द्रष्टव्यम्* ॥॥
यद्येवं य एव ते पूर्वै नादास्तैरेवाभ्यस्यमानैरीदृशी स्फुटाभिव्यक्तिः स्यात् ।
उत्तरैर्वा केवलैरभ्यस्यमानैः, तत्र विजातीयनादाश्रयणमनर्थकम्* ॥॥
तथा
प्रत्येकं हि व्यञ्जकत्वे सत्युत्तरैरस्फुटाभिव्यक्तिः पूर्वैश्च स्फुटाभिव्यक्तिः स्यादिति व्युत्क्रमेणाप्युच्चारणं स्यात्, अतो ऽपेक्षितक्रमविशेषानेकविजातीयनादसमुच्चयाश्रयणादवश्यं पूर्वनादाहितसंस्कारसहितान्तिमनादाभिव्यङ्ग्यः स्फोट इत्यवश्याङ्गीकर्तव्यमिति तुल्या संस्कारकल्पना ।
यद्वा तवैवेयं संस्कारान्तकल्पना, मत्पक्षे तु स्मृतिहेतुभिरेव संस्कारैः सिद्ध्यत्यर्थावगतिरिति न संस्कारान्तरं कल्पयितव्यम* ॥॥
ननु ममापि त एव भविष्यन्ति ।
न ।
तेषां स्मृतेरन्यत्राव्यापारात् ।
मत्पक्षे तु स्मृतिरेव जनयन्तोर्ऽथप्रतिपत्तिं संस्कारा जनयन्ति ।
तथाहि प्रत्येकवर्णानुभवभावितैः संस्कारैः संहत्य सर्ववर्णगोचरैका स्मृतिर्जन्यते ।
तस्यां च युगपदवभासमाना वर्णा विनैव संस्कारान्तरेण संहत्यार्थप्रत्ययं जनयन्ति* ॥॥
त्वत्पक्षे तु नैवं संभवति, तथाहि नादा हि न ज्ञायमानतया स्फोटं व्यञ्जयन्ति, न च युगपत्सत्तास्ति क्रमवर्तित्वात्, अतः संस्कारद्वारमेव साहित्यमित्यवर्जनीयं संस्कारान्तरकल्पनम्* ॥॥
अथ मतम् ।
सत्यं न स्मृतिहेतुभिः स्फोटाभिव्यक्तिः, ये तु वर्णोपलब्धिहेतवो नादजन्याः श्रोत्रगताः संस्कारास्तैरेव वर्णानामिव स्फोटाभिव्यक्तिर्भविष्यति किं संस्कारान्तरकल्पनयेति ।
तदयुक्तम् ।
तेषां क्षणिकत्वात् ।
नह्यद्यवर्णोपलब्धिहेतुः संस्कारो ऽन्त्यवर्णश्रवणवेलायामवतिष्ठते ।
यद्यवतिष्ठते ततो विसर्जनीयश्रवणवेलायामपि गकारश्रवणमनुवर्तेत, तस्मात्क्षणभङ्गिनस्ते, अतो न तेषां संहत्य स्फोटाभिव्यञ्जकत्वं भवति ।
प्रत्येकाभिव्यक्तौ चोत्तरोत्तरेषामनर्थकत्वमित्युक्तम्* ॥॥
अथवा ध्वनियोग एव श्रोत्रसंस्कारो नान्यः, तस्य च विस्पष्टमेव भङ्गुकत्वमित्युक्तम्* ॥॥
अथवा ध्वनिसंयोग एव श्रोत्रसंस्कारो नान्यः, तस्य च विस्पष्टमेव भङ्गुरत्वं गत्वरत्वाद्घवनीनाम् ।
तस्मादन्ये स्थायिनः संस्काराः कल्प्याः, तथा वर्णातिरिक्तः शब्दः कल्प्य इति बह्वप्रमाणकमापन्नम् ।
मत्पक्षे तु दृढस्मृतिविपरिवर्तिनां वर्णानां वाचकत्वान्न किञ्चिदूनम्* ॥॥
ननु युगपत्स्मर्यमाणानां वाचकत्वे व्युत्क्रमेणाप्युच्चारिता वर्णा वाचकाः स्युः, न, तत्क्रमस्याप्यङ्गत्वात् ।
कः पुनः क्रमो ऽङ्गम्, न हि वर्णानां विभूनां नित्यानां च स्वरूपतः क्रमवत्त्वम् ।
न प्रतीतिक्रमः, तस्याः स्मृतिरूपाया एकत्वात् ।
एवं तर्हि ध्वनिक्रमो यो वर्मेष्वारोपितः प्रतिभासते सो ऽङ्गमित्यदोषः ।
तस्माद्व्यञ्जकानां ध्वनीनां क्रमेण व्यङ्ग्येषु वर्णेषु समारोपितेन तद्वन्तः स्मर्यमाणा वर्णा वाचकाः नान्यः शब्दो ऽस्तीति सिद्धम् ॥
इति स्फोटवादः ॥
पदार्थनिरूपणोपक्रमः ।
अथ गौरित्यस्य शब्दस्य कोर्ऽथः इति वाच्यनिरूपणोपक्रमव्याजेनाकृतिसद्भावं प्रतिपादयति संबन्धनित्यत्वसिद्धये ।
नह्यसत्यामाकृतो व्यक्तिभिः शब्दस्यापौरुषेयः संबन्धः तासामनित्यत्वात्, उपलक्षणस्यापि नित्यस्याभावादाकृत्यभावे, तस्मादाकृतिरस्ति नास्तीति विचार्यते ।
साधिते तु तत्सद्भावे सैव शब्दाभिधेयेत्याकृत्यधिकरणे वक्ष्यते ॥
बौद्धमतेन जातिखण्डनम् ।
तत्र सौगताः स्वलक्षणमेव परमार्थं मन्यमाना नाकृतिसद्भावं मन्यन्ते ।
तथाहि- पृथक्त्वे व्यक्तितो जातिर्दृश्येत पृथगेव सा ।
अभेदे व्यक्तिमात्रं स्याद्वेधा चेन्न विरोधतः ॥
न हि सैव ततोन्या चानन्या च संभवति विरुद्धत्वाद्भेदाभेदयोः ।
यदि च भिन्ना जातिः सा सर्वगता व्यक्तिष्वेव वा, न तावत्सर्वगतत्वम्, अन्तराले ऽनुपलब्धेः ।
व्यक्तिस्था चेद्व्यक्तावुत्पन्नायां तस्मिन्देशे प्रागसती कथं तस्यामुपलभ्यते, न तावत्तत्रोत्पद्यते ।
नित्याया उत्पत्त्ययोगात् ।
न च व्यक्त्यन्तरादागच्छति
अमूर्तत्वात्, तस्मिंश्च व्यक्त्यन्तरे ऽनुपलब्धिप्रसङ्गात् ।
नचांशेनागतांशेन च तत्रैव स्थितेति शक्यं नित्यत्वात् ।
नचान्येत्र याति अमूर्तत्वात् ।
व्यक्त्यन्तरे च पूर्वमेवानस्थिता जातिरिति पुनःप्रवेशे द्विगुणोपलभ्येत ।
यथाहुः- नायाति न च तत्रासीदति पश्चान्न चांशवत् ॥
जहाति पूर्वं नाधारमहो व्यसनसंतति- इति* ॥॥
व्यक्तौ च वर्तमानां यद्येकस्यां व्यक्तौ कार्त्स्न्येन वर्तेत व्यक्त्यन्तरेषु न स्यात् ।
नह्येका मती युगपदनेकत्र कार्त्स्न्येन वर्तेत व्यक्त्यन्तरेषु न स्यात् ।
नह्येका सती युगपदनेकत्र कार्त्स्न्येन वर्तितुं शक्नोति ।
नचावयवशो वर्तते निरवयवत्वात् ।
कथं च नानाविधास्वतीतानागतवर्तमानासु व्यक्तिष्ववयवशो वृत्तिः संभाव्येत ।
व्यक्तौ च वर्तमानेहप्रत्ययमनुभवेत् ।
धास्वतीतानागतवर्तमानासु व्यक्तिष्ववयवशो वृत्तिः संभाव्येत ।
व्यक्तौ च वर्तमानेहप्रत्ययमनुभवेत् ।
नचेह गोत्वमिति कस्यचित्प्रतीतिरस्ति किं त्वियं गौरिति ॥-- ।
अथ व्यक्तेरात्मैव जातिर्न तदाधारं वस्त्वन्तरमिति चेत्, नैवं युक्तम्, कथं हि नानाभूतानामनित्यनां व्यावृत्तस्वभावानामेकरूपा नित्यानुवृत्तस्वभावा च जातिरात्मा स्यात् त्रैलोक्यसंकरप्रसङ्गात्* ॥॥
न च प्रमाणमपि किञ्चिदाकृतिसद्भावे संभवति, न तावत्प्रत्यक्षम् ।
न हि जातिः स्वविषयं ज्ञानं जनयति नित्यत्वाभ्युपगमात् ।
नित्यानां च सर्वार्थक्रियास्वसामर्थ्यात् ।
न हि जातिः स्वविषयं ज्ञानं जनयति नित्यत्वाभ्युपगमात् ।
नित्यानां च सर्वार्थक्रियास्वसामर्थ्यात् ।
नचाजनकस्य विषयत्वं संभवति तल्लक्षणत्वाद्विषयत्वस्य ।
तस्मद्विकल्पाकारमात्रं सामान्यम्, अलीकं वा* ॥॥
ननु यथा ज्ञानवैचित्र्योपपत्तेः* ॥॥
अर्थशून्या अपि विकल्पा विचित्रार्थक्रियासमर्थस्वलक्षणाभिमानिनो जायमानास्तत्र व्यवहारार्थिनं प्रवर्तयन्तः परम्परया तत्प्रभवतया तत्प्रापयन्तो मणिमिव मणिप्रभाविषयमणिबुद्धिर्व्यवहाराविसंवादिनो भवन्तीति न लोकयात्रास्थितेः कश्चिद्विरोधः तस्मान्नास्ति जातिः* ॥॥
एतेनावयविद्रव्यं प्रत्यूढम्, तस्याप्यवयवभेदादिविकल्पाक्षमत्वात् ।
स्थूलावभासस्तु संचितानेकरूपादिपरमाणुवशादेव केशोण्ड्र्कावभासवदुपपन्नो नावयविकल्पनायालम् ।
तदभावे च निराधारत्वाद्दूरापास्तं गोत्वादिसामान्यम्* ॥॥
कथमसत्येकरूपे सामान्ये ऽत्यन्तविलक्षणानि स्वलक्षणान्यविलक्षणरूपं विकल्पं जनयन्ति ।
जनयन्ति चेत् किमिति कानिचिदेव गोविकल्पं जनयन्ति कानिचिदेवाश्वविकल्पम्, नर्वाणि सर्वम्* ॥॥
सामान्यवादिनो वा कथं विलक्षणरूपा व्यक्तयो विलक्षणसामान्यात्मकत्वं तदाश्रयत्वं तदभिव्यञ्जकत्वं वा भजन्ते ।
भजन्तिचेत्किमिति काश्चिदेव व्यक्तयः केनचिदेव सामान्येन संबध्यन्ते न सर्वाः सर्वैः ।
स्वभावादिति चेत्, अस्माकमपि तुल्यमिदमुत्तरम् ॥
स्वमतेन जातिस्थापनम् ।
अथ व्यक्तीनामप्यविलक्षणरूपसामान्यसंबन्धसिद्ध्यर्थं परमविलक्षणरूपमभ्युपगम्यते ततस्तेनापि संबन्धसिद्ध्यर्थमपरापरासामान्यापेक्षयामनवस्था स्यात् ।
तस्माद्विकल्पमात्रमेवेदम्, न परमार्थतः सामान्यं नाम किञ्चित्* ॥॥
अत्राभिधीयते- प्रत्यक्षबलसिद्धस्य सामान्यस्य कुतर्कतः ॥
न शक्यो ऽपह्नवः कर्तुं सर्वं विजयते हि तत् ॥
सर्वेष्वपि वस्तुषु इयमपि गौरियमपि गौः, अयमपि वृक्षो ऽयमपीति व्यावृत्तानुवृत्ताकारं प्रत्यक्षं देशकालावस्थान्तरेष्वविपर्यस्तमुदीयमानं सर्वमेव तर्काभासं विजित्य द्व्याकारं वस्तु व्यवस्थापयत् केनान्येन शक्यते बाधितुम्, न हि ततो ऽन्यद्बलवत्तरमस्ति प्रमाणम्, तन्मूलत्वात्प्रमाणान्तराणां तद्बाधसामर्थ्याभावात् ।
किञ्चानुमानान्यपि सामान्यापेक्षत्वात्सुतरां सामान्यं समर्थयन्ते न तु बाधितुं शक्नुवन्ति, नहि यद्यपेक्षं तत्तस्य बाधं
शक्नोति कर्तुम् ।
तद्बाधे हि स्वात्मापि न सिद्ध्येत् तदपेक्षत्वात्* ॥॥
तथाहि भेदाभेदविकल्पेन सामान्यं निराकुर्वतावश्यमेवं वक्तव्यम्- यद्वस्तु तद्भिन्नमभिन्नं वा भवति सामान्यमपि यदि वस्तु स्यात्ततो ऽनेनापि भिन्नेनाभिन्नेन वा भवितव्यम् ।
न च द्वेधापि संभवति तस्मादवस्तु इति ।
एवं च वदता वस्तुत्वं सामान्यमङ्गीकार्यम्, अन्यथा कथं वस्तुत्वस्य
भेदाभेदाभ्यां व्याप्तत्वाद्व्यापकानुपलब्ध्या सामान्यस्य वस्तुत्वं न संभवतीति भणितुं शक्यम् ॥-- ।
नन्वौलपाधिको वस्तुशब्दो न जातिनिमित्तकस्तत्कथमनेन जात्यापत्तिः ।
उच्यते- जातिर्वा भवतूपाधिर्वा सर्वथा तावत्सामान्यरूपमपेक्षितव्यम् ।
औपाधिकानामपि मूलोपलक्षणमेकमन्तरेणात्मलाभाभावात् ।
न च व्यावृत्तैकरसं सर्वं वस्तुजाममभ्युपगच्छतः सौगतस्य क्वचिदपि किञ्चिदप्यनुवृत्तं रूपं संभवतीत्यौपाधिको व्यवहारो दुर्घट एव, तस्मात्सर्वप्रमाणसिद्धं सामान्यं न शक्यमपह्नोतुम्* ॥॥
कः पुनर्विकल्पानां परिहारः, न तावदपरिहृता अपि शक्नुवन्ति सामान्यमपह्नोतुं, तेषामपि तदपेक्षत्वादित्युक्तं तथापि परिहारो ऽभिधीयते ॥
जातिव्यक्त्योर्भेदाभेदविचारः ॥
भेदाभेदविकल्पे तावत्केचिदाहुः- भिन्नमेव सामान्यं व्यक्तिभ्यः ।
न च पृथगुपलब्धिप्रसङ्गो व्यक्तिसंबन्धित्वात् ।
कः पुनः संबन्धः, समवायः ।
कः पुनरसौ, अयुतसिद्धानामिहप्रत्ययहेतुः संबन्ध इति केचित् ।
तत्त्वयुक्तम् ।
इहप्रत्ययासिद्धेः ।
इयं गौरिति हि सर्वदा सर्वेषां प्रतीतिर्नेहगोत्वमिति ।
काचेयमयुतसिद्धिः, युतसिद्ध्यभावः ।
का पुनर्युतसिद्धिः, पृथग्गतिमत्वं पृथगाश्रयाश्रितत्वं वा, तदभावो ऽयुतसिद्धिः* ॥॥
यद्येवमवयवावयविनोः संबन्धः समवायो न स्यात्, विनाप्यवयविचलनेनावयवानां चलनात्, अवयविनो ऽवयवानां च स्वावयवाश्रयत्वात् ।
तथा सामान्यस्य व्यक्त्याश्रयत्वात् व्यक्तेश्च स्वावयवाश्रितत्वादस्ति पृथगाश्रयाश्रयित्वमिति समवायानुपपत्तिः ।
तस्मादेवं वक्तव्यम्- येन संबन्धेनाधेयमाधारे स्वानुरूपां बुद्धिं जनयति, स्वाकारेण बोधयतीत्यर्थः ।
स संबन्धः समवाय इति* ॥॥
यदि जात्यात्मना व्यक्तिः प्रतीयते ततो जातिव्यक्त्योरभेद एव प्रतीतिबलादापद्यते कथं भेदाभ्युपगमः ।
उच्यते- गौरयं शावलेयो गौरयं बाहुलेय इत्युभयत्र गवाकारो ऽनुवर्तमानो दृश्यते, शावलेयबाहुलेयाकारौ तु व्यावर्तेते, तद्यपि तयोः शाबलेयगवाकारयोरभेदः स्यादेकानुवृत्तावितरो ऽप्यनुवर्तेत, तद्व्यावृत्तौ वा गवाकारो ऽपि व्यावर्तेत ।
किं च तस्यामेव व्यक्तावियं गौरिति गवात्मना प्रतीयमानायामपि नेयंबुद्धिगोबुद्ध्योर्गौरिर्गौरितिवत्पर्यायत्वं प्रतीयते तस्मान्नाभेदः* ॥॥
कथं तर्हि ताद्रूप्यं व्यक्तेः प्रतीयते ।
इदमेव हि ताद्रूप्यं व्यक्तेर्यत् तत् समवायः संबन्धः, तस्यैष महिमा येनाधारमाधेयं स्वबुद्ध्यानुरञ्जयति तस्माददोषः ।
अथवा तादात्म्यप्रतीतेरभेदोप्यस्तु, पूर्वोक्तन्यायेन भेदो ऽपि, तस्मात्प्रमाणबलेन भिन्नाभिन्नत्वमेव युक्तम्* ॥॥
ननु विरुद्धौ भेदाभेदौ कथमेकत्र स्यातां न विरोधः सहदर्शनात् ।
यदि हि इदं रजतं नेदं रजतमितिवत्परस्परोपमर्देन भेदाभेदौ प्रतीयेयातां ततो विरुद्ध्येयातां, न तु तयोः परस्परोपमर्देन प्रतीतिः इयं गौरितिबुद्धिद्वयमपर्यायेण प्रतिभासमानमेकं वस्तु द्व्यात्मकं व्यवस्थापयति- सामानाधिकरण्यं ह्यभेदमापादयति अपर्यायत्वं च भेदम्, अतः प्रतीतिबलादविरोधः* ॥॥
अपेक्षाभेदाच्च ।
तथाहि गोरूपेण निरूप्यमाणया जात्या व्यक्तिरभेदेन प्रतीयते गौरयं शाबलेय इति ।
यदा तु जातिर्वयक्त्यन्तरात्मना निरूप्यते तदेयं व्यक्तिसतो भिन्नरूपावसीयते यो ऽसौ बाहुलेय गौः सो ऽयं शाबलेयो न भवतीति ।
एवं धर्मिणो द्रव्यस्य
रसादिधर्मान्तररूपेण रूपादिभ्यां भेदो द्रव्यरूपेण चाभेदः ।
तथावयविनः स्वरूपेणावयवैरभेदो ऽवयवान्तररूपेण त्ववयवान्तरैर्भेद इत्यूहनीयम् ।
तत्र यथा दीर्घह्रस्वादीनां विरुद्धस्वभावामामप्यपेक्षाभेदादेकत्राप्यविरुद्धं प्रतीतिबलादङ्गीक्रियते तथा भेदाभेदयोरपि द्रष्यव्यं प्रतीत्यविशेषात् ॥
प्राभाकरमतेन भेदाभेदासमानाधिकरण्ये आक्षेपः ।
कश्चित्पुनराह- प्रतीतिरेव भेदाभेदभासिनी न संभवतीति विलक्षणरूपा प्रतीतिर्हि भेदावभासः तद्येन भेदप्रतिभाससमये जातिरूपं व्यक्तिरूपं च प्रतीतम्, तेनाभेदप्रतीतिवेलायां तयोरन्यतरत्प्रत्येतव्यम्, तत्रैकस्य द्विरवभासो ऽयं भवेत्, न पुनरितरेणाभेदः प्रतीतो भवति, तस्मान्नास्ति भेदाभेदयोरेकत्र प्रतीतिः* ॥॥
मूल पाठ: Śāstradīpikā (Jaimini's Mīmāṃsāsūtra 1,1.1-23) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0