भाषा

ENहिગુ
ग्रंथ पाठ

शास्त्रदीपिका · भाग 120

रेfएरेन्चे:
जैम्_ = जैमिनि, मिमम्ससुत्र
(?) = उन्च्लेअर्
शास्त्रदीपिका ।
प्रथमाध्याये प्रथमस्तर्कपादः ।
लक्ष्मीकौस्तुभवक्षसं मुररिपुं शङ्खासिकौमोदकीहस्तं पद्मपलाशताम्रनयनं पीताम्बर शार्ङ्गिणम् ।
मेधश्याममुदारपीवरचतुर्बाहुं प्रधानात्परं श्रीवत्साङ्कमनाथनाथममृतं वन्दे मुकुन्दं मुदा ॥1 ॥
न्यायाभासतमश्छन्नशास्त्रतत्त्वार्थदर्शिकाम् ।
कुमारिलमतेनाहं करिष्ये शास्त्रदीपिकाम् ॥2 ॥
अथातो धर्मजिज्ञासा
अनेन सूत्रेण प्रारीप्सितस्य शास्त्रस्य श्रोतृप्रवृत्तिसिद्धये धर्मज्ञानं प्रयोजनं कथ्यते ।
यदा हि धर्मजिज्ञासा कर्तव्येत्युक्ते शास्त्रमारभ्यमाणं दृश्यते तदा नूनमिदं शास्त्रं धर्मज्ञानप्रयोजनमित्यवगम्यते* ॥॥
विदितं तावत्प्रयोजनम् ।
संबन्धो ऽपि शास्त्रस्य प्रस्तावहेतुर्वक्तव्यः ।
यथा शस्त्रान्तरेषु शिष्यप्रश्नानन्तर्यादिसंबन्धः प्रस्तावको वर्ण्यते तथेहापि शास्त्रारम्भे शिष्यप्रश्नानन्तर्यादिसंबन्धः प्रस्तावको वर्ण्यते तथेहापि शास्त्रारम्भे प्रयोजकानां संबन्धानामन्यतमो वक्तव्यः- अनेन संबन्धेनेदं शास्त्रमायातमिति ।
अन्यथा ह्यसंबद्धप्रलपितं स्यात् ।
सत्यम् ।
इहतु य एवायं प्रयोजनेन सह शास्त्रस्य साध्यसाधनत्वसंबन्धः स एव शास्त्रस्य प्रस्तावको नान्यः ।
भवति हि साधनत्वमेव साध्यार्थिनः साधने प्रवृत्तिहेतुः ।
सचायं संबन्धः प्रयोजनोक्त्यैवार्थज्ज्ञायत इति न सूत्रकारेण पृथगुक्त इत्यदोषः* ॥॥
अत्रेदं चिन्त्यते- किमध्ययनानन्तरं धर्मजिज्ञासया गुरुगृहे ऽस्थातव्यम्, उत गुरुगृहात्समावर्तितव्यमिति ।
यदि हि स्वाध्यायाध्ययनविधिना धर्ममात्रार्थमध्ययनं स्वर्दाद्यर्थेन विधीयते ततस्मान्मात्रेणैव शास्त्रार्थस्य समाप्तत्वात् ऽअधीत्यस्नायात्ऽ इति स्मृतिवचनबलेन च समावर्तितव्यमिति ।
अध्ययनविधिविचारः ।
अथाक्षरग्रहणादिपरम्परोपजायमानवाक्यार्थज्ञानार्थमध्ययनं विधीयते ।
ततस्तस्य विचारमन्तरेणासंभवादध्ययनविधिनैवार्थाद्विचारो विहित इति गुरुगृह एवावस्थाय विचारयितव्यो धर्मः ।
तत्र- ऽविनापि विधिना ज्ञानलाभान्नहि तदर्थता ॥
कल्प्यस्तु विघिसामर्थ्यात्स्वर्गो विश्वजिदादिवत्ऽ* ॥॥
स्वाध्यायसंस्कारद्वारेणाध्ययनस्यार्थज्ञानहेतुत्वं विनैव विधिना प्रमाणान्तरेण सिद्धमेवेति तादर्ध्ये विध्यानर्थक्यम् ।
नचावघातादिविधिवन्नियमार्थत्वम् ।
अवधातो हि दर्शपूर्णमासपूर्वे नियम्यते ।
अवघातनिष्पन्नैरेव तण्डुलैरपूर्वं सिध्यतीति न तण्डुलस्वरूपे, प्रमाणान्तरविरोधात् ।
तद्वदिहापि ज्ञानस्याध्ययनमन्तरेणापि दर्शनात्तत्स्वरूपे नियमासंभवात् क्रत्वपूर्वेष्वेवाध्ययननियमो विधातव्यः ।
अधीतैरेव वेदैरवगतानि कर्माणि फलदानीति ।
नचैवं युक्तम् ।
अक्रत्वर्थत्वादध्ययनस्य अनारभ्याधीतत्वात्, श्रुत्याद्यभावाच्चाक्रत्वर्थत्वम् ।
तस्माददृष्टार्थमेव स्वाध्यायाध्ययनमित्यध्ययनमात्रेण समाप्ते शास्त्रार्थे गुरुगृहात्समावर्तितव्यमिति प्राप्ते ऽभिधीयते- ऽलभ्यमाने फले दृष्टे नादृष्टपरिकल्पना ॥
विधेश्च नियमार्थत्वान्नानर्थक्यं भविष्यति* ॥॥
तथाहि असत्यध्ययनविधावग्निहोत्रादिशास्त्राणि विद्वांसमलभमानान्यविद्वांसमेवाधिकृत्य विद्यामन्तरेणानुष्ठानासंभवाद्विद्यामाक्षिपत्यविशेषाच्चतुरो वर्णानधिकुर्युः ।
सतित्वध्ययनविधौ त्रैवर्णिकानामेव विदुषामधिकारो भवति न तुरीयादेः* ॥॥
तथाहि- वसन्ते ब्राह्मणमुपनयीत, ग्रीष्मे राजन्यं, शरदिवैश्यम्ऽ इति द्वितीयानिर्देशादुपनयनसंस्कृतास्त्रैवर्णिकाः किमस्माभिः कर्तव्यमित्यपेक्षन्ते ।

तत्संनिधौ चाध्ययनमनिर्दिष्टकर्तृकं विधीयमानं कर्तारमपेक्षते ।
तत्रापेक्षासंनिधियोग्यत्वैरेवं विज्ञायते- त्रैवर्णिकैरेवोपनीतैरक्षरग्रहणेनाध्ययनादिपरम्परयार्थज्ञानं कर्तव्यमिति ।
एवञ्च फलवदध्ययनकर्कतृभूतमाणवसंस्कारत्वादुपनयनमध्ययनीङ्गं, अध्ययनमपि दृष्टार्थज्ञानार्थम्, अर्थज्ञानं त्वनुष्ठानौपयिकत्वात्प्रसिद्धफलकमेवेति सर्वेषां फलवत्त्वम् ।
अध्ययनाधिकारनियमः ।
एवञ्च त्रैवर्णिकेषु विद्वसु लब्धेषु नाग्निहोत्रादिविधयश्चतुर्थवर्णस्य विद्यामाक्षिपन्ति, किन्तु त्रैवार्णिकानेव विदुषो ऽधिकुर्वन्ति ।
सो ऽयमधिकारनियमो ऽपशूद्राधिकरणे वक्ष्यमाणो ऽध्ययनविधिप्रसादलभ्य इति फलवानेव विधिः ।
तेनार्थज्ञानावसानमध्ययनमध्ययनविधिना विधीयत इति विचारमन्तरेण तदनुपपत्तेरध्ययनविधिरेव विचारमाक्षिपंस्तद्विरुद्धं स्मार्ता स्नानं बाधयत इति सिद्धमध्ययनानन्तरं धर्मजिज्ञासा कर्तव्येति* ॥॥
केचित्पुनराचार्यकरणविधिप्रयुक्तत्वमध्ययनस्याङ्गीकृत्य किमाचार्यकसिद्धिरेवाध्ययनस्य प्रयोजनमुतार्थज्ञानमिति विचार्य
अन्तरङ्गत्वादर्थज्ञानमित्याहुः ।
किं पुनः कारणमाचार्यकरणविधिप्रयुक्तत्वे ऽध्ययनस्य, अध्ययनविधेरधिकारिशून्यत्वादाचार्यकरणविधिप्रयुक्त्या चात्मलाभे विश्वजिदादिवत्फलकल्पनानुपपत्तिः ।
कः पुनराचार्यकरणविधिः, कथं वा तेनाध्ययनस्य प्रयुक्तिः ।
उच्यते- उपनीय तु यः शिष्यं वेदमध्यापयेद्द्विजः ॥
सकल्पं सहहस्यं च तमाचार्य प्रचक्षते ॥
इति स्मृत्यनुमितः ।
उपनीयाध्यापनेनाचार्यकं कुर्याद्ऽ इत्याचार्यकरणविधिः ।
अत्र चाध्यापनमाचार्यत्वसाधनम् ।
उपनयनं तु क्त्वाप्रत्ययात्तस्यैवाङ्गम् ।
तच्च केन द्वारेणाध्यापलस्योपकरोतीत्यपेक्षायां उपनेयासत्तिरेवाज्य द्वारमङ्गीक्रियते लिङ्गात् ।
तदुपनेयो ऽपि नाकिञ्चित्करो ऽङ्गमिति तद्व्यापारत्वेनाध्यवसीयते ।
तदेवं स्वाङ्गभूतमुपनयनं प्रयुञ्जानो ऽध्यापनविधिस्तद्द्वारेणाध्ययनं प्रयुङ्क्ते* ॥॥
तदेतदनुपपन्नम् ।
तथाहि- नियोगार्थस्याध्ययनस्याचार्यकप्रयोजनार्थज्ञानप्रयोजनता वा न शक्यते शास्त्रेण बोधयितुं साध्यद्वयस्यैकत्रासंभवात् ।
नियोगार्थतैव शास्त्रेण बोध्यते अर्थज्ञानार्थतायां त्वनुज्ञामात्रमितिचेत् तथाप्यर्थद्वयं स्यादेव* ॥॥
किञ्चैवं सकृदुच्चरितस्य लिङ्प्रत्ययस्य विध्यर्थत्वमनुज्ञार्थत्वं चेति वैरूप्यमपि स्यात् तेन संशय एवानुपपन्नः ।
तथा सिद्धान्तो ऽप्यनुपपन्न एव- प्रमाणान्तरसिद्धत्वादर्थज्ञानार्थत्वं न शास्त्रगोचरतामनुभवतीति ।
तत्र यदेवास्मदभिप्रेतं विधेर्नियमार्थत्वं महता प्रयत्नेन भवद्भिर्दूषितं तदेव भवद्भिरपि मुक्तलज्जैरनन्यगतिकत्वादाश्रयणीयमापन्नम् ।
नियमानङ्गीकारे च पूर्वपक्ष एव श्रेयानापद्यते ।
आचार्यत्वस्यादृष्टत्वेन प्रयोजनतोपपत्तेः ।
अर्थज्ञानार्थत्वे चाध्ययनं स्वाध्यायसंस्कारो नियोगार्थत्वे तु प्रधानकर्मेति वैरूप्यमपि स्यात्* ॥॥
अर्थाज्जातमर्थज्ञानं प्रयोजनं न शास्त्रत इतिचेत्, आचार्यत्वमपि प्रयोजनं न स्यात् तस्याप्यर्थाज्जातत्वात् ।
स्मृतिबाधेन च स्नानोत्कर्षो न स्यादशास्त्रस्वीकृतत्वाद्विचारस्य ।
अध्ययनविधौ नियोज्यकल्पना ।
किञ्च- नियोज्यः कल्पनीयो ऽत्र विध्यर्थानुपपत्तिः ।
नचोपनयनस्याङ्गभावो ऽस्त्यध्यापनं प्रति ।
द्वितीयाश्रुतिसामर्थ्यात्सा माणवकसंस्क्रिया ॥
तथासत्यन्तरङ्गत्वादङ्गमध्ययनस्य तत्* ॥॥
यत्तावन्नियोज्याभावादप्रयोजकत्वमध्ययनविरोधेरिति, तदयुक्तं, अभावासिद्धेः, अश्रुतस्यापि विश्वजितादिवत्कल्पनात् ।
कार्यं हि विध्यर्थः, संबन्धिशब्दश्चायं कार्यमिति, कस्यचिद्धि किञ्चित्कार्यं
भवति न सर्वं सर्वस्य, अतः कस्येदं कार्यमित्यस्ति संबन्ध्यपेक्षा, सावश्यमध्याहृतेन केनचिन्निवर्तनीया- अस्येदं कार्यमिति, यस्येदं कार्यं स एव नियोज्य इत्युच्यते* ॥॥
यद्यपि कथञ्चित्परप्रयुक्तानुष्ठानादेवात्मलाभः स्यात्, तथापि न तावता कार्यत्वं सिध्यति ।

नहि कृतिसाध्यतामात्रं कार्यत्वम् ।
किं तर्हि, यत्कृतिसाध्यं कृतिंप्रति प्रधानभूतं तत्कार्यमित्युच्यते ।
प्राधान्यं च कृतेस्तदुद्देशेन प्रवृत्तिः, ततश्चाध्ययननियोगेन कार्येण भवतावश्यं पुरुषव्यापारोद्देश्येन भवितव्यम्* ॥॥
नचासति नियोज्ये तदुद्देशेन कश्चित्प्रवर्तेत ।
अध्यापनविधिना हि प्रवर्त्यमानो माणवकः कथञ्चिदध्ययनमात्रमनुतिष्ठन्नत्वपूर्वमुद्दिशेत् ।
नहि तस्य तदुद्देश्यं प्रमाणाभावात् ।
प्रयाजाद्यपूर्वाणि दर्शपूर्णमासापूर्वोपकारित्वात्तधिकृतेन पुरुषेण तत्सिद्ध्यर्थमुद्दिश्य क्रियमाणानीति युक्तं यदसत्यपि साक्षान्नियोज्योपादाने कार्यत्वं लभन्ते, अध्ययननियोगस्य तु नान्यौपयिकत्वं यतस्तद्रूपेणोद्देश्यता स्यात् ।
अर्थज्ञानस्य च नियामफलत्वेन नियोगापेक्षत्वात् ।
तस्मादस्य कार्यत्वसिद्धये ऽवश्यं नियोज्यः कल्पनीयः* ॥॥
यच्चाध्यापनविधेरुपनयनद्वारमध्ययप्रयोजकत्वमुक्तम्, तदप्ययुक्तम्- उपनयनप्रयुक्तेरेवाभावात्, तद्द्वारेणाध्ययनप्रयुक्तिर्दूरापास्ता ।
क्त्वाप्रत्ययेन हि समानकर्तृकत्वमेवोच्यते तेन चैकप्रयोगता कल्प्यते, अङ्गाङ्गिभावस्त्वेकप्रयोगतावशात्कल्पनीयः, द्वितीयया तु साक्षादङ्गित्वमेवोच्यते, अतो यथा त्रिवृता यूपपरिव्याणां यूपार्थं नोपाकरणार्थं एवमुपनयनमपि माणवकसंस्कारार्थं नाध्यापनार्थम् ।
स्मृतिगतश्च क्त्वा प्रत्ययः, प्रत्यक्षवेदगता तु वसन्ते ब्राह्मणम्ऽ इति द्वतीया, अतो ऽपि मणवकार्थत्वम्* ॥॥
भवतु माणवकसंस्कारस्तद्द्वारेण त्वध्यारनाङ्गं नाध्ययनाङ्गमितिचेत्, मैवं, अन्तरङ्गत्वादध्ययनस्य तदर्थ्यमेव संस्कारस्य युक्तम् ।
अध्ययनमपि फलवदध्यापनमपि तयोः कस्यायं माणवकसंस्कारो ऽङ्गं भवत्वित्यपेक्षायामध्यापनस्य पुरुषान्तरगामित्वेन बहिरङ्गत्वान्माणवकगताध्ययनार्थत्वमेव युक्तम् ।
यथैव ह्यध्ययनस्याचार्यकसिद्धिप्रयोजनतामनाहृत्य वेदमधीत्य स्नायाद्ऽ इति स्मृतिं बाधित्वान्तरङ्गत्वादर्थज्ञानार्थतैवाश्रीयते, तथोपनयनस्याप्यध्ययनार्थता वेदितव्या ।
व्याकरणादपि पाणिनीयादध्ययनाङ्गतैवोपनयनस्यानगम्यते ।
अध्ययनाङ्गता हि स्मरन्नाचार्यकरणे नयतेरात्मनेपदं विधत्ते, अध्यापनाङ्गत्वे हि कर्त्रभिप्रायत्वात्क्रियाफलस्य त्रित्वादेवात्मनेपदं सिध्येत् ।
ऽउपनीय तु यः शिष्यम्ऽ इति क्त्वाप्रत्ययो हि कथञ्चित् ऽदर्शपूर्णमासाभ्यामिष्ट्वेतिवदसत्यप्यङ्गाङ्गिभावे ऽवकल्प्यते पुनर्विधानं
चात्मनेपदस्यात्यन्तानर्थकम्, तस्मादध्ययनाङ्गमुपनयनं स्यात्* ॥॥
न स्यात् ।
तज्जन्यः संस्कारो हि माणवकसमवायी ।
सत्यम्, माणवकसमवेतो ऽपि न तदर्थः, कर्त्रर्थत्वं च फलस्य कर्त्रभिप्रायत्वं नतु तत्समवायः, अन्यथाहि ऽअग्नीनादधीतेत्यात्मनेपदं न स्यात्- आधानफलस्याहवनीयत्वादेरग्निसमवेतत्वेन कर्तृसमवायाभावात् ।
इयं च स्मृतिः ऽउपनीय तु यः शिष्यम्ऽ इति, अतो बलीयसी द्वितीया श्रुतिः, तस्मान्नाध्यापनाङ्गमुपनयनमिति न तद्द्वारेणाध्यापनस्य प्रयुक्तिः ॥
प्राभाकरमतखण्डनम् ।
यच्च ऽउपनीतस्य व्यापारापेक्षायामुपनयनं प्रक्रम्य विहितमध्ययनं तद्व्यापारत्वेनाध्यवसीयतऽ इति, तदप्यबुद्धिपूर्वकम्- एवं हि वदताध्यापनाङ्गमध्ययनमित्युपपादितं भवति ।
यदाह्यध्यापनार्थत्वेनोपनीतस्य माणवकस्य तदुपयोगिव्यापारापेक्षायामध्ययनविधिरध्ययनं तदुपयोगिव्यापारतया विधत्ते- त्रैवर्णिकैरुपनीतैरध्यापनौपयिकव्यापारापेक्षैरध्ययनव्यापारः कर्तव्य इति तदापि स्पष्टमेवाध्ययनमर्थज्ञानार्थतया विधत्ते नाध्यापनौपयिकतया, तदाह्यध्ययनस्य तदौपयिकत्वं केन प्रमाणेन गम्यते, नह्यत्र प्रत्यक्षादीनि क्रमन्ते ।
संनिधानादिति चेत्, न संनिधानं नाम स्वयं प्रमाणं शब्दस्य त्वर्थं प्रतिपादयतः संनिध्यपेक्षायोग्यत्वानीतिकर्मतव्यता नेत्रस्येवोन्मीलनम् ।
शब्दश्चेदध्यापनौपयिकतया विदध्यात् नार्थज्ञानार्थता सिध्येत् ।
अतो नोपनयनसंनिधौ ऽस्वाध्यायो ऽध्येतव्यऽ इति विहितस्याध्ययनस्योपनयनद्वाराध्यापनविधिना प्रयुक्तिसंभवः* ॥॥
यदि परमध्यापनस्याध्ययनमन्तरेणासंभवात्तदर्थाध्ययनमाक्षिप्यते, तथासत्यविहितेन लौकिकेनाध्ययनेन तत्संभवान्न विहितस्याध्ययनस्य नियोगतस्तत्प्रयुक्तिः ।
नच प्रयुक्तिलाघवादपि विहितोपजीवनम् ।
तदुपजीवने ऽपि प्रयुक्त्यनवलोपात् ।
विहितमप्यध्ययनमध्यापनविधिनैव त्वन्मते प्रयुज्यते न स्वविधिना ।
तस्माल्लौकिकमेवाध्ययनमुपनीतानामध्यापनविधिराक्षिपेत् ।
विधिविहितमध्ययनं परप्रयुक्त्यभावादधिकारं प्रकल्पयेत्* ॥॥
किञ्च यद्युपनयनमध्यापनाङ्गं ततो ऽध्ययनविधिरर्थज्ञानार्थः सन्नाध्यापनार्थतयोपनीतैस्त्रैवर्णिकैः संबध्येत, ये ऽध्यापनार्थतयोपनीतस्त्रैवर्णिकास्तदुपयोगिव्यापारमपेक्षन्ते ते ऽर्थज्ञानार्थमधीयीरन्-इत्यसंबद्धमेव स्यात् ।
ततश्चोपनीतैरसंबध्यमानो ऽध्ययनविधिश्चतुर्णामपि वर्णानां स्यादिति शूद्राधिकारप्रसङ्गः ।
तस्मादुपनीतानां प्रयोजनापेक्षिणामध्ययनकरणिकार्थज्ञानभावना विधीयत इत्यध्ययनाङ्गमेवोपनयनं, स्वविधिप्रयुक्तं चाध्ययनम् ।
प्रपञ्चेनायं पक्षोन्यायरत्नमालायामेव निरस्त इत्यपरम्यते ।
तस्मात्पूर्वोक्त एव विचारः- किमदृष्टार्थमध्ययनमुताक्षरग्रहणादिपरम्परयार्थज्ञानार्थमिति ॥

अध्ययनविध्युपसंहारः ।
अथवा नात्र किञ्चिद्विचार्येत, नावमिकन्यायेनैवाध्ययनस्याक्षरसंस्कारादिपरम्परयार्थज्ञानार्थत्वसिद्धेः ।
नवमे हि-- साम्नामृगक्षराभिव्यक्तिद्वारेण स्तुत्युपयोगित्वदर्शनात्तादर्थ्यमेव नादृष्टार्थत्वमिति वक्ष्यते ।
तेनैव न्यायेनाध्ययनस्यार्थज्ञानार्थत्वसिद्धेरध्ययनानन्तरं धर्मजिज्ञासा कर्तव्येति सिद्धमेवैतत्प्रयोजनविवक्षया सूत्रकारेणोच्यते ।
यदाहुः-- "धर्माख्यं विषयं वक्तुं मीमांसायाः प्रयोजनम्" इति ।
नन्वत्र कश्चिद्वेदवाक्यार्थो विचार्यते ।
तदप्याहुः--"नचात्र चोदनाव्याख्या गौरवं तत्र चोदितम्" इति तत्सिद्धमध्ययनानन्तरं धर्मजिज्ञासा कर्तव्येति ।
सा चतुर्विधा-- धर्मस्वरूप- प्रमाण- साधन- फलैः ॥
नन्वध्ययनविधिना वेदवाक्यार्थविचारमात्राक्षेपाद्धर्मस्वरूपप्रमाणजिज्ञासयोः कः प्रसङ्गः ।
उच्यते-- उपोद्धातत्वात्प्रसङ्गः ।
यदि हि वेदवाक्यार्थो धर्मः स्याद्वेदश्च प्रमाणं ततो ऽसौ विचारः कर्तव्यो भवति ।
इतरथा काकदन्तपरीक्षावत्स्यात्, तदध्ययनविधिरेव प्रमाणादिविचारमाक्षिपति ।
धर्मग्रहणं चोपलक्षणार्थम्-- अधर्मस्यापि हानाय जिज्ञास्यत्वात् ।
अकारप्रश्लेषणे वा सूत्रमधर्मजिज्ञासायामपि व्याख्येयमिति निरवद्यम् ॥
चोदनालक्षणो ऽर्थो धर्मः
प्रथमं तावत् को धर्मः कथंलक्षणकः इत्येतद्वयमनेन सूत्रेण श्रुत्यर्थाभ्यां निरूप्यते- यो धर्मः
स योदनालक्षणः चोदनैव तस्य लक्षणं प्रमाणम् ।
चोदना च तस्य लक्षणमेवेति श्रुत्या प्रमाणविधावर्थाच्चोदनागम्य एवाग्निहोत्रादिधर्मो नातल्लक्षणश्चैत्यवन्दनादिरिति स्वरूपमपि सिद्ध्यति ।
तथा यश्चोदनालक्षणः स धर्म इति स्वरूपविधावर्थत्प्रमाणसिद्धिर्वेदितव्या ॥
कश्चित्वाह- कार्यरूपो वेदार्थो न सिद्धरूप इत्येतदनेन सूत्रेणोच्यते, चोदनालक्षणशब्देन कार्यमुच्यते, धर्मशब्देन वेदार्थ इति ।
तदयुक्तम्- यानि तावद्विधिवाक्यानि तेषां विधावेव प्रामाण्यं वस्तुस्वरूपं चाप्रामाण्यं विस्पष्टमेवेति न तत्र किञ्चिद्वक्तव्यम् ।
क्षेपिष्टादिवाक्यानामपि विध्येकवाक्यतया तत्रैव प्रामाण्यम् ।
मन्त्राणामपि प्रकरणेन प्रधानविधिशेषत्वं द्वितीयपादे वक्ष्यत इति न तत्रापि वक्तव्यमस्ति ।
तेन कस्यात्र सिद्धार्थतां निरस्य कार्यार्थतोच्यते ।
ऽअविनाशी वा अरे अयमात्मेऽत्यादीनामुपनिषद्वाक्यानामितिचेत् ।
न ।
तेषामपि यदि विध्येकवाक्यत्वमस्ति ततोर्ऽथवादाधिकरणेन गतम्, अथ नास्ति कथं तेषां कार्यार्थता स्यात्* ॥॥
अथ तेषां विध्यश्रवणादिविध्यन्तरेणैकवाक्यत्वाभावाच्च कार्यार्थत्वानुपपत्तेर्व्युत्पत्तिविरहाच्च सिगद्ध्यर्थे प्रामाण्ययोगादप्रामाण्यमेवाभिमतम् ।
किमिदानीमात्मादिवाक्यानामप्रामाण्यप्रतिपादनपरमिदं सूत्रं, सुव्याहृतं तर्हि शास्त्रारम्भे प्रथमं तावत्सूत्रकारो ऽप्रामाण्यमेव वेदवाक्यानां प्रतिपादयतीति* ॥॥
कथं च कार्यं एव प्रामाण्यम् ।
तत्रैव व्युत्पत्तेः- प्रवृत्त्यधीना हि व्युत्पत्तिः, सा च कार्यावगमाधीनेति व्युत्पत्तिरपि तत्रैव भवतीति चेत् ।
अवश्यं प्रवृत्त्यधीनैव व्युत्पत्तिः- काष्ठैः स्थाल्यामोदनं पचतीत्यादिवर्तमानापदेशेष्वपि प्रसिद्धतृतीयार्थनामप्रसिद्धकाष्ठप्रातिपदिकार्थानां च पुरुषाणां काष्ठार्थे व्युत्पत्तिद्रशनात् ।
प्रथमव्युत्पत्तिः ।
अथ प्रथमव्युत्पत्तिः कार्यविशेषयैव- नहि तदा शब्दान्तरवशेन शब्दान्तरस्यार्थे व्युत्पत्तिः संभवति सर्वस्य धर्मस्याप्रसिद्धत्वादिति चेत् ।
अस्त्वेवम् ।
तथापि पश्चाद्बहुशः सिद्धार्थे शब्दप्रयोगदर्शनात् ऽको ऽयं राजाऽ ऽपाञ्चालःऽ इत्यादिषु प्रश्नप्रतिवचनादिषु कार्यस्य व्यभिचारादव्यभिचार्यार्थमात्रं वाच्यमिति सुज्ञानम् ।
यथैव हि कस्याञ्चिद्व्यक्तौ प्रथमं गोशब्दस्य प्रयोगदर्शनात्सैव वाच्येत्यवगमे सत्यपि पश्चाद्वक्त्यन्तरे प्रयोगं पूर्वव्यक्तिव्यभितारादव्यभिचारिसामान्यमेवार्थं इत्यध्यवसीयते तथा कार्यपरतामवगतामपि पश्चात्सिद्धार्थप्रयोगदर्शनेन बाधितत्वार्थमात्रमेवाव्यभिचाराद्वाच्यमिति युक्तम् ।
किञ्च प्रथमव्युत्पत्तौ कतिपयानामेव शब्दानां कार्यार्थत्वमवगतं न सर्वशब्दानां पौर्वापर्यनियमो ऽस्ति, अतः सर्वे शब्दाः पश्चाद्व्युत्पाद्यमानाः कैश्चित्सिद्धार्था भवन्ति ।
सर्वेषां तु कार्यार्थत्वे सिद्धार्थपरेषु लौकिकवाक्येषु सर्वशब्दानां लाक्षणिकत्वान्न कश्चिदन्विताभिधायी स्यात् ।
तत्रान्वितप्रतीतिः कथं सिद्ध्येत् ।

वक्तृज्ञानमनुमातव्यम् ।
नचान्वितप्रतिपादकं वाक्यमुच्चारितमिति कथमन्वितज्ञानानुमानम्* ॥॥
अथार्थस्वरूपस्मारकैः पदैरन्वितज्ञानमनमीयते, ततः कार्यवाचके ऽप्यसिद्धेरन्विताभिधानं न स्यात् ।
किञ्च प्रथममेव कार्यव्यभिचारः शक्यो ऽनगन्तुम् ।
यदा हि पुत्रस्ते जात इत्युक्तस्य कस्याचिन्मुखविकासं पार्श्वस्थः पश्यति तदा हर्षहेतुरनेन शब्देन प्रतिपादित इति हर्षहेतुभूतसिद्धार्थप्रतिपादने शब्दस्य सामर्थ्यं कल्पयति ।
यद्यपि च तदानीमर्थविशेषो न ज्ञायते हर्षहेतूनां बहूनां संभवात्तथापि सिद्धार्थता तावदवगता, तावतापि कार्ये व्यभिचारः सिद्धः ।
किञ्च बहुशः पुत्रजनने सति एवं शब्दप्रयोगादन्येषु हर्षहेतुष्वप्रयोगात् पुत्रजननरूपार्थविशेषो ऽपि सुज्ञान
एव* ॥॥
किञ्च प्रवृत्त्यधीनापि व्युत्पत्तिर्नावश्यं कार्यविषयैव भवति, तथाहि यदा कश्चित्प्रवृत्तावत्यन्तासमर्थं वृद्धमातुरं वा प्रतिविनोदार्थं वाक्यं प्रयुङ्क्ते ऽनद्यास्तीरे पञ्च फलानि सन्तीऽति तत्रान्यो दैवसंगतः कश्चिदर्थी तद्वाक्यमर्थाच्छ्रुत्वा नदीतीरं गत्वा फलान्याहरति, एतत्सर्वं पश्यन्नन्यो व्युत्पित्सुः फलसद्भावप्रतिपादने शब्दस्य सामर्थ्यं व्युत्पद्यते, तस्मान्नैकान्ततः कार्यार्थता शब्दानाम् ।
प्राभाकरक्तद्वितीयसूत्रार्थस्य खण्डनम् ।
का चास्य सूत्रस्य वचनव्यक्तिः, यदि तावत् ऽयत्कार्यं तद्वेदार्थ एवेऽति कार्यमुद्दिश्य वेदार्थता विधीयते, तथा सत्युद्देश्यस्योपादेयेन स्वरनियमात्सर्वस्य लोकिकस्यापि गवानयनादिकार्यस्य वेदार्थता स्यात् ।
किञ्च उपादेयस्य वेदार्थस्योद्देशेन धूमेनाव्याप्तेरकार्ये ऽपि वेदस्य प्रामाण्यनिरस्तं स्यात्* ॥॥
अथ ऽवेदार्थः स कार्यरूप एवेऽति, ततो ऽयो धर्मः स चोदनालक्षणःऽ इति वतनव्यक्तिः स्यात्, तत्रार्थशब्दो ऽभ्युदयवाची कस्य विशेषणं, यद्युपादेयस्य चोदनालक्षणपदार्थस्य, ततः सर्वस्य वेदार्थस्य कार्यत्वमर्थत्वं च विधीयते इति श्येनादिनियोगानामप्यर्थत्वं स्यात्* ॥॥
अथोद्देश्यवेदार्थविशेषणं, ततो ऽयमर्थो भवति योर्ऽथात्मको ऽभ्युदयात्मको वेदार्थः स कार्यरूपः, ततश्च श्येनादिनियोगानां निषिद्धफलत्वेनानभ्युदयरूपाणां कार्यता न स्यात् ।
माभूदिति चेत् ।
तेषामपि लिङ्ग कार्यतावगमात् ।
श्येनयागस्य कार्यता निवारयितुं शक्यते न नियोगस्य ।
तस्य कार्यैकस्वभावत्वात् ।
असति च कार्यत्वे श्येनवाक्यस्य कार्यार्थत्वाभावात्सिद्धार्थतैव वक्तव्या स्यात्, नच तथा संभवति विधिप्रत्यययोगात् ।
सिद्धे चार्थे व्यत्पत्तिविरहादप्रमाणाण्यमेव श्येनादिवाक्यानां स्यात्* ॥॥
अथ पूर्वसूत्राद्वेदार्थपरं धर्मपदमनुयुज्य चोदनालक्षणो वेदार्थः इत्येकं वाक्यम्, अर्थो धर्मः इत्यपरं वाक्यम् ।
तदिदं स्वप्रज्ञाविलसितमात्रम्, अनुषङ्गवाक्यभेदयोर्विनाफलमाश्रयणात् ।
अप्रतिज्ञातस्य च धर्मस्य लक्षणमसंगतम्* ॥॥
अथ प्रतिज्ञातस्यैव वेदार्थस्य कार्यत्वसिद्धये धर्मत्वमुच्यते ।
किं कार्यं एव धर्मरूपो वेदार्थः स एव जिज्ञास्यो नान्यः, तथाचेत् य एव जिज्ञास्यो धर्मस्तस्यैव सूत्राक्षरविनाशेन जिज्ञासा प्रतिज्ञास्येति वेदार्थप्रतिज्ञावचनार्थकम्* ॥॥
अथ त्वर्थशब्दमनादृश्य यो वेदार्थः स कार्यरूप इत्युच्यते ततोर्ऽथपदमनर्थकं वस्तुमात्रपर्यायमनुवादकं स्यात् ।
अनर्थव्युदासार्थता चास्य भाष्यकारेणोक्ता, तस्माद्विशेषणमेवैतत् ।
विशेषणत्वे चाभ्युदयरूपस्य वेदार्थस्य कार्यत्वाभिधानादनभ्युदयरूपस्य वादार्थस्य कार्यत्वं न स्यादिति सर्वस्य वेदस्य एव प्रामाण्यमिति नियोगो न स्यात् ।
ततश्च अविनाशी वा अरे अयमात्मेत्यादीनामात्मस्वरूपपरत्वं न निराकर्तव्यमित्यस्तां तावत् ।
तस्माद्धर्मस्वरूपप्रमाणप्रतिपादनार्थमेवेदं सूत्रम्* ॥॥
तदिह धर्मं विषयीकृत्य चिन्त्यते-- किमस्य न किञ्चित्प्रमाणमस्ति, किं वा प्रत्यक्षादिकमेव प्रमाणम्, उत चोदनैव, अथवा विकल्पः, अथवा समुच्चयः इति ।
तत्र शब्दस्य प्रमाणान्तरप्राप्तप्रापकत्वेन स्वयप्रमाणत्वाप्रत्यक्षादीनां चासामर्थ्यादप्रमाणको धर्म इत्येकः पक्षः, प्रत्यक्षादिगम्य एवेत्येकः पक्षः, योगिनां प्रत्यक्षगम्यः, अर्वाचीनानां तु चोदनागम्य इत्यपरः, जगद्वैचित्र्यार्थापत्या किमप्यदृष्टमस्तीति सामान्येन प्रसिद्धो धर्मश्चोदनयाग्निहोत्रादिविशेषरूपेण गम्यते तस्मात्समुच्चय इत पक्षान्तरम्, चोदनैव साच प्रमाणमेवेति सिद्धान्तः ।
तदिह चोदनैव प्रमाणं साच प्रमाणमेवेत्यवधारणद्वयं प्रतिज्ञायते ॥
प्रथमपादप्रतिपाद्यार्थसंग्रहः ।
निमित्तसूत्रे तु प्रथमद्वितीयसूत्रमात्रालोचनया वेदो धर्ममूलमित्यादिवदुपदेशशास्त्रताशङ्का मा भूदिति परीक्षाशास्त्रमेवदमिति ज्ञापयितुं परीक्षाप्रतिज्ञानम् ।
यद्यपि चोपरितनव्यापारादेव परीक्षाशास्त्रत्वं गम्यते तथापि वक्ष्यमाणमेव श्रोतृबुद्धिसमाधानाय कीर्तितम्* ॥॥
प्रत्यक्षसूत्रे तु प्रत्यक्षस्य विद्यमानोपलम्भनत्वाद्भविष्यति धर्मे प्रामाण्यासंभवात्तत्पूर्वकत्वेनेतरेषामप्यप्रामाण्यात्प्रमाणान्तरनियमविकल्पसमुच्चयनिराकरणाच्चोदनैवेत्ययमर्थः सिद्ध्यति* ॥॥
औत्पत्तिकसूत्रे तु स्वतःप्रामाण्यमर्थान्यथात्वकारणदोषज्ञानाभ्यामप्रामाण्यमित्याश्रित्याग्निहोत्रादिचोदनाभ्यो ऽसंदिग्धज्ञानोत्पत्तेः स्वतः प्रामाण्यं प्राप्तम् ।
नचापवादकमर्थान्यथात्वज्ञानं साक्षादस्ति, नापि कारणदोषज्ञानं, पुरुषाश्रयत्वाच्छब्ददोषाणाम् ।
पदपदार्थसंबन्धस्याकृत्रिमत्वान्तद्द्वारेण पुरुषानुप्रवेशाभावाच्चोदनानामिति स्थिते समाहिते, माभूत्पदार्थसंबन्धद्वारेण पुरुषानुप्रवेशः, वाक्यवाक्यार्थयोस्तु लोके संबन्धादर्शनान्निर्मूलो ऽग्निहोत्रादिवाक्यार्थप्रत्यय इत्यतो व्यामोहः ।

सामयिको वा, अतो न वाक्यार्थे वेदस्य प्रामाण्यमित्याशङ्क्य, पदार्थानां संबन्धग्रहणं समयं चानपेक्षमाणानामेव वाक्यार्थे प्रामाण्यं संभवतीति तद्भूताधिकरणेन प्रतिपादिते* ॥॥
पुनर्वेदानां वाक्यात्मकत्वात् काठकादिसमाख्यानाच्च पौरुषेयत्वात्तद्द्वारेण दोषसंस्पर्शमाशङ्क्य स्मर्तव्यत्वे सत्यस्मरणाद्योग्योनुपलब्धिनिरस्तस्य कर्तुरनुमानासंभवात्समाख्यायाश्च प्रवचननिमित्तत्वादपौरुषेया वेदाः इति तदेकदेशानां चोदनानां सिद्धं प्रामाण्यमित्येवं समस्तः प्रथमः पादश्चोदनासूत्रप्रतिज्ञातार्थोपपादेन तस्यैव परिकरः ।
सो ऽयं भाष्यकारानुसारेण पादार्थो ऽनुक्रान्तः ।
वृत्तिकारमतं तु पश्चादनुक्रमिष्यामः ।
धर्मस्य प्रत्यक्षादिप्रमाणगम्यत्वम् ।
प्रकृतमनुसरामः- प्रतिज्ञातं तावच्चोदनैव प्रमाणं सा च प्रमाणमेवेति ।
ननु प्रत्यक्षादेरन्यानपेक्षं प्रामाण्यं संभवतीति तस्यैव धर्मे प्रामाण्यं, शब्दस्य तु सर्वदैव प्रमाणान्तरप्रमितविषयत्वान्न तदनपेक्षं प्रामाण्यं संभवतीति ।
उच्यते ।
प्रत्यक्षं तावत्संयुक्तविषयत्वेन विद्यमानोपलम्भनत्वाद्भविष्यति धर्मे न समर्थम्* ॥॥
यद्यपि गोदोहनादिद्रव्यं, यागादिक्रिया, नीचैस्त्वादिगुणश्च, फलसाधनत्वाद्धर्मशब्देनोच्यते नापूर्वादय इति श्रेयस्करभाष्ये वक्ष्यते, तथापि तेषां फलसाधनरूपेण धर्मत्वात् फलस्य च जन्मान्तरादिभावित्वाद्धर्मस्वरूपेण प्रत्यक्षविषयत्वं न संभवति, तत्पूर्वकत्वाच्चानुमानादिकमपि न प्रमाणम्* ॥॥
भावनाबलजं तु योगिप्रत्यक्षं भविष्यत्यपि धर्मे समर्थमिति मनोरथमात्रम् ।
भावना ह्यनुभूतगोचरनियतानुबूतेष्वेव निश्चयरूपां स्मृतिं जनयेत् ।
नच सात्र प्रमाणं स्मृतित्वादेव, नितरां प्रत्यक्षमनिन्द्रियजत्वात् ।
नेन्द्रियजत्वं प्रत्यक्षलक्षणमपितु कल्पनापोढत्वमितिचेत्, सुतरां धर्मस्याप्रत्यक्षत्वं फलसाधनरूपस्याविकल्पग्रहणसंभवात् ।
तस्मादनिमित्तं प्रत्यक्षम् ।
तत्पूर्वकत्वाच्चानुमानाद्यपि* ॥॥
काश्यपीयाः पुनः प्रातिभज्ञानमृषीणां धर्मो प्रवर्तत इत्याहुः, तत्तु लिङ्गाद्यभासजत्वात्प्रमाणमेव न भवति किं पुनर्धर्मे ।
शब्दस्य तु बुद्धिजनकत्वीदसत्यपवादे युक्तं प्रामाण्यम्* ॥॥
ननु न बुद्धिजननमात्रात्प्रामाण्यं युक्तं अयथार्थेष्वपि वाक्येषु बुद्धिजननाविशेषात् ।
सत्यम् ।
तत्र तु कारणदोषबाधकप्रत्ययाभ्यां युक्तमप्रामाण्यं, वेदेतु तद्भावात्सतःप्राप्तं प्रामाण्यमनपोदितं भवति ॥
अथ प्रामाण्यविचारः ॥
कथं पुनः प्रमाणस्य स्वतःप्राप्ति, तदर्थमिदं सर्वज्ञानान्यधिकृत्य चिन्त्यते किं प्रामाण्यमप्रामाण्यं चोभयं स्वत एवावगम्यते, अथवान्यतरदपि स्वभावेनानिरुपितं कारणगुणदोषप्रत्ययाभ्यामवगम्यते, आहोस्विदप्रामाण्यं स्वतो ऽवगम्यते, प्रामाण्यं स्वतःप्राप्तं सदर्थान्यथात्वकारणदोषज्ञानाभ्यामवगम्यमानेनाप्रामाण्येनापोद्यते इति ।
तत्र सर्वकारणानां स्वकार्यशक्तेः स्वभाविकत्वादुभयमपि ज्ञानस्य स्वरसादेवावगम्यत इति केचित् ।
तदयुक्तम् ।
नहि ज्ञानं स्वविषयस्य तथात्वमतथात्वं च युगपच्छक्नोति वेदयितुं विरोधात्* ॥॥
अथ कापि ज्ञानव्यक्तिः स्वप्रामाण्यं स्वतो बोधयति काप्यप्रामाण्यमित्युच्यते, तथापि न युक्तम् ।
कारणान्तरनिरपेक्षस्य ज्ञानस्यैवोपलम्भहेतुत्वे किं क्व ज्ञाने भवतीति न शक्यं विवेक्तुम् ।
अतो द्वयमपि स्वस्वभावेनानिरूपितं कारणगुणदोषज्ञानाभ्यामवगम्य इत्यपरे ।
तदप्यपेशलम् ।
एवं हि गुणदोषावधारणात्प्रागन्यतरेणाप्याकारेणार्थमनवगमयद्विज्ञानं निःस्वभावं स्यात् ।
तस्मादप्रामाण्यं स्वतः, प्रामाण्यं तु संवादज्ञानादिभिरित्येददेव युक्तम् ॥
युक्तिदर्शनम् ।
तथाहि न ज्ञानमुत्पन्नमित्येतावतार्थतथात्वावधारणं युक्तं व्यभिचारादनिश्चयाच्च अप्रामाण्यमेव तस्यां वेलायां प्राप्तं, पश्चात्कारणगुणज्ञानादर्थक्रियाज्ञानाद्वा प्रामाण्यावगमादपोद्यते ।
शब्दे चाप्तप्रणीतत्वं गुणः ।
नच वेदे तदस्यपौरुषेयत्वाभ्युपगमात् ।
वलस्पतयः सत्रमासत शृणोत ग्रावाणःऽ इत्येवमादीनामुन्मत्तप्रलपितकल्पत्वात्, अप्रत्ययिततरप्रणीतत्वादप्रामाण्यमेव वेदानामिति प्राप्ते ऽभिधीयते- परापेक्षं प्रमाणत्वं नात्मानं लभते क्वचित् ।
मूलोच्छेदकरं पक्षं को हि नामाध्यवस्यति यदि हि सर्वमेव ज्ञानं सिवविषयतथात्वावधारणे स्वयमसमर्थं विज्ञानान्तरमपेक्षेत ततः कारणगुणसंवादार्थक्रियाज्ञानान्यपि स्वविषयभूतगुणाद्यवधारणे परमपेक्षेरन्, अपरमपि तथेति न कश्चिदर्थो जन्मसहस्रेणाप्यध्यवसीयेतेति प्रामाण्यमेवोत्सीदेत् ।
अथ- अर्थक्रियाज्ञानं स्वतःप्रमाणमितिचेत् को विशेषः, अव्यभिचार इति चेत्, न, स्वप्नावस्थायामसत्यप्युदकाहरणेर्ऽथक्रियाविज्ञानदर्शनात्* ॥॥
अथ सुखज्ञानमेवार्थक्रिया तच्चाव्यभिचार्येव नहि क्वचिदप्यसति सुखे सुखज्ञानमस्ति ।

सत्यमेतत् ।
नतु तेन पूर्वज्ञानस्य प्रामाण्याध्यवसानं संभवति, अप्रमाणेनापि प्रियासंगमविज्ञानेन स्वप्नावस्थायां सुखदर्शनात् ।
तस्मात्स्वतःप्रामाण्यं प्राप्तमर्थान्यथात्वकारणदोषज्ञानाभ्यामपोद्यत इत्यवश्यमङ्गीकरणीयम् ।
एवञ्च शब्देनाप्तपुरुषस्पर्शकृतत्वाद्दोषाणामपौरुषेये वेदे तदभावात्साक्षाच्चार्थान्यथात्वज्ञानाभावदपोदितं प्रामाण्यं भवति ।
पौरुषेयवचनानि तु पुरुषबुद्धिप्रभवत्वाद्भ्रान्त्या विप्रलिप्सया वा प्रयुक्तानि मूलदोषेण दुष्टत्वादयथार्थानि भवन्तीति वैषम्यम् ।
केचित्बाहुः- न लोके ऽपि शब्दस्यायथार्थात्वमस्ति तदभावात्, न हि लोके शाब्दं प्रमाणमस्ति वक्रभिप्रायानुमापकत्वात्पुरुषवचसाम्, तेनानुमानस्यैवायं व्यभिचारो न शब्दस्य ।
नवा तस्यापि विवेकाग्रहणादलिङ्गे लिङ्गव्यवहारप्रवृत्तिः ।
यदि तु शब्दस्यैवायं व्यभिचारो ऽभ्युपेयते ।
स्वाभाविकमेवाप्रमाणं स्यात्, न हि पुरुषदोषेण शब्दस्य दोषो भवति यथावस्थितशब्दाभिव्यक्तिमात्रे पुरुषस्य व्यापारात्* ॥॥
तदिदमसारम् ।
यदि लोके शाब्दं नास्ति तदा वेदे ऽपि कथं तत्स्यात् ।
नह्यभिप्रायानुमानक्षीणस्य शब्दस्यार्थं प्रति वाचकत्वे प्रमाणमस्तीत्युक्तं न्यायरत्नमालायाम्* ॥॥
यच्च व्यभिचाराभ्युपगमे स्वाभाविकमप्रामाण्यं भवति पुरुषदोषस्य शब्दे ऽनवतारादिति ।
स्यादेतदेवं यदि यदीयं यद्वाक्यं तत् स पुरुषो ऽभिव्यञ्ज्यात् ।
तत्तु
तेनैव क्रियते वर्णा नित्याः पदानि च, वाक्यानि तु पुरुषैरेव क्रियन्ते पौरुषेयत्वादेव ।
यथावस्थितानि व्यज्यमानानि वेदवाक्यवदपौरुषेयाण्येव स्युः ।
ततश्च वक्त्रभिप्रायानुमापकत्वमपि न स्यात्, तद्यथाध्येतृभिरभिव्यज्यमानानि वेदवाक्यानि नाध्येतॄणामभिप्रायं सूचयन्ति तथा पुरुषवाक्यान्यपि न सूचयेयुः ।
यदि हि व्यभिचारशङ्क्या लोके शब्दस्य प्रामाण्यं न संभवतीत्युच्यते, तर्हि तद्वक्त्रभिप्रायानुमाने ऽपि तुल्यम् ।
अन्यथासंविदानस्याप्यन्यथावाक्यरचनादर्शनात् ।
किं च शब्दस्य चक्षुरादेरिव स्वसामर्थ्येन बोधकत्वाद्व्यभिचारे ऽपि न बोधकत्वहानिः ।
लिङ्गस्याव्यभिचारिण एव गमकत्वमिति व्यभिचारिणो ऽलिङ्गत्वमुपपन्नम्* ॥॥
अथ वक्तुमाप्तत्वाद्व्यभिचारशङ्कां निर्वर्त्यनुमानं, तथासति शब्दमेवार्थे प्रमाणमस्तु प्रतिबन्धकायाः शङ्काया निरस्तत्वात् ।
अवश्यं हि बुद्धिविशेषमनुमित्सता प्रथमं पदार्थास्तेषां चान्वययोग्यतालोचयितव्या, ते आलोच्यमाना द्रागेव वाक्यार्थं बोधयन्तीति नानुमानं प्रतीक्षन्ते* ॥॥
किञ्चानुमिते बुद्धिविशेषे पश्चादनुवादभूतं वाक्यं वाक्यार्थमवबोधयतीति वः सिद्धान्तः, ततश्च यो नामानाप्त एवाबुद्ध्या गृहीतस्तद्वाक्यादयथार्थमेव ज्ञानमुत्पन्नमित्यभ्युपगन्तव्यम्, ततश्च दोषाधीनत्वादप्रमाण्यस्य वक्तृदोषाणां च शब्दे संक्रान्त्यनभ्युपगमात्स्वारसिकमेव शब्दे
दुष्टत्वमापन्नमिति बलादप्रमाण्यं वेदस्य प्रसज्यत इत्यास्तां तावत् ।
तस्मादनाप्तावचसां सत्येवाप्रामाण्ये वक्तृदोषाधीनत्वाद्वेदे च तदभावात्प्रामाण्यमेव वक्तव्यम् ।
तस्माच्चोदनालक्षण एव धर्मः श्रेयस्करः इत्यर्थः ।
यदेव श्रेयःसाधनरूपं यागहोमादि तदेव धर्म इत्युच्यते लोके, नापूर्वमन्तःकरणप्रवृत्त्यादि वा लोकप्रसिद्धिविरहात् ॥
धर्मलक्षणविचारः ॥
नन्वपूर्वमेव श्रेयःसाधनम् ।
न ।
अवान्तरव्यापारामात्रत्वात् ।
तस्माद्यागादिरेव श्रेयःसाधनरूपेण धर्मः ।
तद्रूपाभावाच्च न शूद्रकृतस्य धर्मतापत्तिः ।
चोदनालक्षणमात्रस्य धर्मत्वं माभूदित्यर्थशब्देन विशेष्यते* ॥॥
चोदनाशब्देन च प्रवर्तकं निवर्तकं च वाक्यमुच्यते ततश्च निषेधवाक्यैः न हिंस्यात् इत्यादिभिरनर्थत्वेन लक्ष्यमाणानां हिंसादीनामपि धर्मत्वं स्यात् तद्व्यावृत्त्यर्थं य एवार्थरूपेण प्रवर्तकवाक्यैर्लक्ष्यते तस्यैव धर्मत्वं वक्तुमर्थग्रहणम्* ॥॥
भाष्ये च श्येनादिग्रहणम् तत्साध्यहिंसादिलक्षणार्थम् ।
उपरिष्टात् हिंसा हि सा, सा च प्रतिषिद्धा इति विवरणात् ।
केचित्तु लक्षणां परिहरन्तः श्येनादिस्वरूपमेवार्थपदस्य व्यावर्त्य मन्यन्ते, तेषामेव श्येनादयः कर्तव्या विज्ञायन्ते, इति विधेयत्वनिराकरणेन प्रतिषेधविषयत्वसमर्थनात् ।

कथं पुनस्तेषां विधेयत्वं निराक्रियते, तत्राहुः- यस्य हि विधिः स्वसिद्ध्यन्यथानुपपत्त्यानुष्ठानमाक्षिपति तद्विधेयमित्युच्यते, काम्येषु च कर्मसु कामनावशादेव प्रवृत्तिसिद्धेस्तत एव विधिः सिद्ध्यन्नन्यथानुपपत्त्यभावान्न स्वयमनुष्ठानमाक्षिपति* ॥॥
ननु कर्तव्यताबोधनमेव प्रवर्तनम्, कर्तव्यता च वेदे यागस्य विनैव बोधितेति कथमविधेयत्वम् ।
सत्यम् ।
नतु यागस्य कर्तव्यता लिङा(?)भिधीयते, स्वार्थस्य कर्तव्यतां लिङा(?)भिधत्ते, यागश्च तस्य विषयः करणं च, सो ऽयं कर्तव्यतात्मा नियोगार्थो ऽन्यथानुपपत्त्या स्वविषयस्य कर्तव्यतां बोधयन्ननुष्ठापक इत्युच्यते ।
श्येनादीनां तु रागादेवानुष्ठानसिद्धेर्न नियोगस्तेषामनुष्ठानमाक्षिपतीति न तेषां विधेयत्वम् ।
असति च विधेयत्वे तेषां निषेधविषयत्वादनर्थत्वमिति तद्व्यावृत्त्यर्थमर्थपदमिति* ॥॥
तत्रेदं वक्तव्यम्- कस्मिन्नंशे तेषां व्यावृत्तिरिति ।
धर्मत्व इति चेत् ।
न ।
तत्स्वरूपानभिधानात् ।
इदं हि सूत्रं वेदार्थस्य कार्यत्वप्रतिपादनार्थं न कर्मस्वरूपलक्षणार्थम् ।
यतः श्येनादीनां धर्मत्वं मा प्रसाङ्क्षीदित्यर्थपदेन
व्यावृत्तिः क्रियेत* ॥॥
यदि परं कार्यत्वव्यावृत्तिः स्यात् सा चायुक्तेत्युक्तं प्राक् ।
भवतु वा वाक्यभेदाङ्गीकारेण धर्मलक्षणार्थमपि सूत्रम् ।
तथापि चोदनालक्षणापदेन कार्यात्मकमपूर्वमुद्दिश्य तस्य धर्मत्वमुच्यत इति वो मतम्, तत्र श्येनादियागस्य कः प्रसङ्गो यद्व्यावृत्त्यर्थमर्थपदं स्यात् ।
नहि ज्योतिष्टोमादियैगस्यापि धर्मत्वमस्ति, अपूर्वस्य धर्मत्वाभ्युपगमात्* ॥॥
अथ श्येनाद्यपूर्वस्यैव धर्मत्वमर्थपदेन व्यावर्त्यते ततो भाष्ये श्येनादिशब्देन कर्मनामधेयेन तत्साध्यमपूर्वं लक्ष्यत इत्यविशिष्टा लक्षणा स्यात् ।
यदि चापूर्वमेव प्रत्युदाहरणं ततो हिंसा हि सा सा च प्रतिषिद्धेति भाष्यमसंगतं स्यात् ।
श्येनयागो वा तत्फलं वा हिंसा, नन्वपूर्वं कथञ्चिदपि हिंसापदास्पदम् ।
अस्मिंश्च कल्पे कथं पुनरसावनर्थः कर्तव्यतयोपदिश्यत इति चोद्यम् ।
नैव श्येनादयः कर्तव्या विज्ञायन्ते इति चोत्तरमपूर्वविषयं स्यात् ।
न च तस्य कर्तव्यत्वं शक्यते वारयितुं कार्यस्वभावत्वात्* ॥॥
एवञ्च यागकर्तव्यतानिषेधार्थमिदं भाष्यमङ्गीकृत्ययत् तत्समाधानाय प्रयत्यते कर्तव्यताविषयो हि नियोगो न पुनस्तस्य कर्तव्यतामाहेति तदपार्थकम् ।
काम्येष्वपि विधिरेव प्रवर्तको न फलं, तस्य विध्यधीनोत्पत्तिकत्वेन यागापेक्षाभावात् ।
विधिस्तु यागाधीननिष्पत्तित्वाद्यागमनुष्ठांपयतीति युक्तम् ॥
काम्येष्वपि कर्मसु विधेरेव प्रवर्तकत्वम् ।
यदि च विधिरप्रवर्तकः काम्येषु स्यादितिकर्तव्यताप्यविधेया स्यात्, तस्यामपि फलत एव प्रवृत्तिसिद्धेः साङ्गप्रधानसाध्यत्वात्फलस्य ।
वक्ष्यति हि तद्युक्ते तु फलश्रुतिस्तस्मात्सर्वचिकीर्षेति ।
ततश्चाग्नीषोमीयहिंसाया अपि विध्यभावेन निषेधविषयत्वात्तद्युक्तस्य ज्योतिष्टोमस्याप्यनर्थत्वापत्तेः कोर्ऽथो यो निःश्रेयसाय ज्योतिष्टोमादिरिति भाष्यानुपपत्तिः ॥
ननु न हिंस्यादिति निषेधो नारभ्याधीतत्वात्पुरुषार्थः तेनानेन पुरुषार्थो एव हिंसाः प्रतिषेद्धव्याः, क्रत्वर्थनिषेधे हि सो ऽपि क्रत्वर्थः स्यात् ।
अविशेषे त्वेकस्य प्रतिषेधविधेः क्रत्वर्थत्वपुरुषार्थत्वापत्त्या वैरुप्यं स्यात् ।
तस्मात्पुरुषार्थानामेव हिंसानामिह प्रतिषेधो न क्रत्वर्थानामिति* ॥॥
तदिदं बालसंमोहनम् ।
नह्यविशेषणापि प्रतिषेधे वैरूप्यम् ।
यदि हि क्रत्वर्थत्वपुरुषार्थत्वरूपं विशेषेणोद्दिश्य प्रतिषेधः क्रियेत ततः स्यादपि वैरूप्यं प्रतिषेध्योपस्थापितक्रतुपुरुषगोचरत्वात्प्रतिषेधस्य ।
यदातु हिंसामात्रमुद्दिश्य प्रतिषेधः क्रियते तदास्य किं वैरूप्यम् ।
तद्यथा या भोजनार्थं मांसोत्पादने हिंसा, या च वैरिनिर्यातनार्थतया साक्षात्पुरुषार्था तस्यामुभय्यामविशेषेण प्रतिषिध्यमानायामपि नास्ति
वैरूप्यमेवमिहापि ।
इतरथा तत्रापि भोजनाङ्गता पुरुषार्थता च प्रतिषेधस्य स्यादिति वैरूप्यं स्यात् ।

तस्माद्यैव काचिद्येन केनापि प्रकारेण प्रसक्ता हिंसा सा सर्वा सामान्येन प्रतिषिध्यते ।
पुरुषार्थश्च प्रतिषेधो ऽनारभ्याधीतत्वात् ।
तस्मादग्नीषोमीयहिंसाप्यसति विधेयत्वे प्रतिषेधगोचरः स्यात् ।
विधेयत्वे तु विधेर्विशेषविषयत्वात्सामान्यविषयो निषेधस्तद्विरोधाद्धिसान्तराण्यवलम्बते ॥
हिंसायां सांख्यमतं तत्खण्डनं च ।
ननु सत्यपि विधेयत्वे विधेः क्रत्वर्थात्प्रतिषेधस्य च पुरुषार्थत्वाद्विषयभेदेनाविरोधान्न बाधः ।
नहीदं विरुद्धं क्रतोर्हिंसया भवितव्यं पुरुषस्य तु तद्वर्जनेनेति ।
सत्यम् ।
अङ्गविधिमात्रालोचनायां नास्ति विरोधः ।
ज्योतिष्टोमविधिस्तु साङ्गं प्रधानं पुरुषस्य विदधत्पुरुषार्थाहिंसानिषेधमग्नीषोमीयहिंसायामवतरन्तं निरुणद्धिः ।
नह्यग्नीषोमीयहिंसां वर्जयता
ज्योतिष्टोमः शक्यते ऽनुष्ठातुम् ।
तस्मादस्ति विरोध इति सामान्यस्य बाधः ।
विधौ त्वप्रवर्तके सत्यग्नीषोमीयहिंसापि प्रतिषिध्येत* ॥॥
किमर्थं च श्येनस्य विधेयत्वं निराक्रियते, प्रतिषेधसिद्ध्यर्थमिति चेत्, कः प्रतिषेधः न हिंस्यात्सर्वभूतानि इति ।
नायं निषेधः श्येने प्रवर्तते हिंसाविषयत्वात् ।
श्येनफलं च हिंसा न श्येनः ।
तथा चोक्तम्, यो हिंसितुमिच्छेत्तस्यायमभ्युपाय इति हि तेषामुपदेश इति* ॥॥
कश्चित्वाह- श्येनस्य कर्तव्यत्वे सति बलात्तत्फलमपि हिंसा कर्तव्या भवतीति न निषेद्धुं शक्यते ।
अतः फलकर्तव्यतानिरासार्थं श्येनकर्तव्यता बलान्निरस्यत इति ।
तदिदमसंबद्धम् ।
यथैव हि श्येनापूर्वस्य कर्तव्यतायां सत्यामपि तत्साध्यफलस्य कर्तव्यता न प्रसज्यते तथा यागस्य कर्तव्यत्वे सत्यपि रागप्राप्तस्य फलस्य नास्ति कर्तव्यतापत्तिः ।
तस्मादनर्थकं श्येनकर्तव्यतानिराकरणम् ।
तस्माद्धिसैवात्र प्रत्युदाहरणम्* ॥॥
इदञ्चापरमेकदेशिनः प्रष्टव्याः- अर्थशब्देन किमुच्यते इति ।
यदि श्रेयःसाधनं, नित्यानां धर्मत्वं न स्यात् ।
अथ यन्निषिद्धफलं न भवति तदर्थशब्देनोच्यते, तथासति नञर्थविषयस्यापूर्वस्य धर्मत्वप्रसङ्गः, चोदनालक्षणत्वान्निषिद्धफलत्वाभाच्च ।
भवत्वितिचेत् ।
न ।
लोकविरोधात् ।
यो हि हिंसायामुद्युक्तः प्रतिषेधवशान्निवर्तते न तं धार्मिक इत्याचक्षते किन्त्वधर्मान्निवृत्त इत्येतावत् ।
तदाहुः- लोकसिद्धस्य लक्षणं परीक्षकैर्वक्तव्यं न वृद्ध्यादिवत्परिभाषणमित्यास्तां तावत् ।
इति चोदनासूत्रम् ॥
धर्मप्रमाणपरीक्षाधिकरणम् ॥3 ॥
तस्य निमित्तपरीष्टिः
अनेन सूत्रेण चोदनाख्यस्य निमित्तस्य परीक्षणमस्मिन्पादे वक्ष्यमाणम् अथातः शेषलक्षणम्ऽ, अथ विशेषलक्षणम्ऽ इतिवत्सुखग्रहणार्थमनुकीर्त्यते* ॥॥
चोदनैवेत्यर्थस्य साधनाय प्रत्यक्षादीनामनिमित्तत्त्वमुच्यते-
धर्मे प्रत्यक्षाद्यगम्यत्वाधिकरणम् ॥4 ॥
सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षमनिमित्तं विद्यमानोपलम्भनत्वात्
प्रत्यक्षं तावदिन्द्रियार्थसंप्रयोगजन्यत्वेन विद्यमानोपलम्भनत्वाद्भविष्यति धर्मे न निमित्तम् ।

सत्संप्रयोगजन्यत्वमाभासे ऽपि तुल्यत्वादलक्षणमिति नैयायिका दूषयन्ति, तत्तु लक्षणानभिधानाददूषषणम् ।
नहीदं लक्षणं प्रत्यक्षस्य, किन्त्वनिमित्तत्लकथनमात्रम् ।
तत्र हेतुर्विद्यमानोपलम्भनत्वं तत्साधनं च सत्संप्रयोगजत्वम् ।
नहि सत्संप्रयोगजमविद्यमानोपलम्भनं संभवति* ॥॥
इन्द्रियार्थसंप्रयोगजत्वं सुखादिज्ञानेष्वव्याप्तेरहेतुरितिचेत् ।
न ।
तेषामपि मनःसंज्ञकेन्द्रियसंप्रयोगजत्वात् ।
मनःसद्भावे च सुखादिज्ञानमेव प्रमाणम्, अपरोक्षावभासज्ञानस्येन्द्रियाधीनतया रूपादिज्ञानेषु व्याप्तिदर्शनात् सुखादिविषयमपरोक्षज्ञानमिन्द्रियमनुमापयति ।
तत्र चक्षुरादीनामसंभावात्तेभ्यो ऽन्यदवतिष्ठते* ॥॥
अत्र कश्चित्- नित्यद्रव्यगतविशेषगुणत्वात्सुखादीनां द्रव्यान्तरसंयोगजत्वम्, पार्थिवपरमाणुगतरूपादीनामग्निसंयोगजत्वदर्शनात्, यच्च द्रव्यान्तरं तन्मन इत्याह -तन्न युक्तम् ।
शरीरं हि भोगायतनम् ।
किञ्च तस्य भोगायतनत्वमन्यत् तत्संयोगापेक्षसुखाद्युत्पत्तेः, अशितपीताद्याधारत्वाच्च न बहिः शरीरात्सुखाद्युत्पत्तिः ।
अतः शरीरसंयोगादेव सिद्धेर्न द्रव्यान्तरानुमानम् ।
किञ्च पार्थिवगुणानामेव द्रव्यान्तरसंयोगापेक्षा दृष्टा न द्रव्यमात्रगुणानाम् ।
तेजःसंयोग एव च कतारणतया दृष्टो न द्रव्यमात्रसंयोगस्तस्मान्नैवं मनःसिद्धिरिति
सुखाद्यपरोक्षज्ञानमेव मनसो लिङ्गम् ॥
इन्द्रियलक्षणम् ।
किंपुनरिन्द्रियलक्षणं चक्षुरादिषु मनसि चानुस्यूतम् ।
उच्यते- यत्संप्रयुक्ते विशदवभासं विज्ञानं जनयति तदिन्द्रियमित्युच्यते, तच्च द्विविधम्, बाह्यमाभ्यन्तरं च, बाह्यं पञ्चविधं घ्राणरसनचक्षुस्त्वक्श्रोत्रात्मकम् ।
आन्तरं त्वेकं मनः ।
तत्राद्यानि चत्वारि च पृथिव्यप्तेजोवायुप्रकृतीनीत्यक्षुपाददर्शनवदभ्युपगम्यते ।
श्रोत्रं त्वाकाशात्मकं तैरभ्युपगतम् ।
वयं तु- दिशः श्रोत्रमिति दर्शनाद्दिग्भागमेव कर्णशष्कुल्यवच्छिन्नं श्रोत्रमाचक्ष्महे ।
मनस्तु पृथिव्यादीनामेवान्यतमात्मकं तेभ्यो ऽन्यद्वा सर्वथा तावदस्ति मनः ।
तच्चात्मतद्गुणेष्वेव स्वतन्त्रं प्रवर्तते न बाह्येषु रूपादिष्वित्यान्तरमित्युच्यते ।
रूपादिज्ञानेष्वपि तच्चक्षुरादिसहायं प्रवर्तते, एवमनुमानादिष्वपि लिङ्गादिसहायं, अन्यमनस्कस्य संप्रयुक्तेष्वपि रूपादिषु ज्ञानानुत्पत्तेः ।
स्मृतावपि संस्कारपरतन्त्रं प्रवर्तते स्वतन्त्रम्* ॥॥
नन्वनुमानादीनां मनोजन्यत्वात्तेषां च भूतभविष्यतोरपि प्रवृत्तेरिन्द्रियजन्यत्वं विद्यमानोपलम्भनत्वेनानैकान्तिकं स्यात् ।
न स्यात् ।
नहीन्द्रियजन्यत्वं हेतुः किन्त्विन्द्रियसंप्रयोगजत्वम् ।
नचानुमाने ऽतीताया भविष्यन्त्या वा वृष्टेरनुमीयमानाया मनसा संप्रयोगो ऽस्तीत्यव्यभिचारः ।
अथ प्रत्यक्षम् ।
तदेवं प्रत्यक्षं तावदनिमित्तं तत्पूर्वकत्वाच्चानुमानाद्यपि ।
नह्यगृहीते धर्मे तेन सह कस्यचित्संबन्धग्रहणं संभवति ।
सादृश्यविषयकत्वाच्चोपमानं दूरभ्रष्टम् ।
अर्थापत्तिरपि धर्मेण विनानुपपद्यमानस्य कस्यचिददर्शनादसमर्था* ॥॥
ननु जगद्वैचत्र्यमनुपपन्नम् ।
न ।
स्वाभाविकत्वेनोपपत्तेः ।
यद्यपि तदनुपपत्त्या किञ्चिददृष्टं कल्प्येत तथापि को धर्मः को वाधर्म इति विवेकाभावादवश्यं चोदनैवार्थनीया ।

सा चेदङ्गीकृता कृमर्थापत्त्या, सामान्यतो दृष्टेन वा* ॥॥
ननु विकल्पनिमित्तं संबन्धग्रहणं तत्कथं प्रत्यक्षपूर्वकत्वम् ।
सविकल्पकमप्यनुपरतेन्द्रियव्यापारस्य जायमानमपरोक्षावभासत्वात्प्रत्यक्षमेवेत्यदोषः ॥
प्रत्यक्षबौद्धमतम् ।
विकल्पपश्चापरोक्षावभासश्चेति चित्रम् ।
अपरोक्षमिति हि स्वलक्षणमुच्यते तद्विषयो ऽवभासतो ऽपरोक्षावभासः ।
विकल्पस्त्वभिलापसंयोग्यप्रतिभासत्वान्न स्वलक्षणं स्पृशति, नह्यभिलापः स्वलक्षणं स्पृशति, यदि स्पृशेदभिलापमात्रेणापि विनाक्षव्यापारमपरोक्षावभासः स्यात्, नचासावस्ति, तदुक्तम्- अन्यथैवाग्निसंयोगाद्दाहं दग्धो हि मन्यते ॥
अन्यथा दाहशब्देन दाहार्थः संप्रकाशते इति ।
यस्त्वयं विस्फारिताक्षस्य- गौरयम्- इति विकल्पो विशदावभासः स समानकालविशदवभासनिर्विकल्पकसंसर्गकृतः, तदभावे ऽभिलापमात्रे ऽनुमाने च विकल्पाकारप्रतिभासे वैशाद्याभावात् ।
तस्मान्निर्विकल्पकमेव प्रत्यक्षम् ।
तत्रैव हि विशदस्य स्वलक्षणस्यावभासः ।
बौद्धमतखण्डनम् ।
मैवम् ।
उन्मीलितनेत्रस्य विकल्पो ऽपि गौरयमित्यपरोक्षावभास एव प्रतीयते नचासावन्यसंसर्गकृतः प्रमाणाभावात् ।
अभिलापसंसर्गयोग्यस्यापि सामान्याकारस्याभिलापलिङ्गादिभिरवैशद्यमिन्द्रियैश्च वैशाद्यमुपपद्यत एव ।
नह्ययं परोक्षापरोक्षविभागो विषयकृतः, यदि हि तथा स्यात् सर्वदैव सामान्यं परोक्षं स्यात्, नचैवमस्ति,
सामान्याकारस्यापि परोक्षापरोक्षविभागदर्शनात् ।
तथाहि - दूराच्छ्वेतं स्वलक्षणं पश्यन्ननिर्धारितगवाश्वजातिविशेषो हेषाविशेषो हेषाशब्दश्रवणादश्वत्वं तस्मिन्नेव स्वलक्षणे ऽनुमिमानो ऽपि परोक्षं बुध्यते ।
वदन्ति हि अश्वो ऽप्ययं न चक्षुषा तथावभासत इति ।
प्रत्यासन्नस्तु वदति- संप्रत्यश्वत्वमप्यस्य चक्षुषा पश्यामि न पूर्वमिति ।
स्वलक्षणं तु प्रागपि विशदमेवेति सामान्यांशगत एवायं दूरसमीपवर्तिनः परोक्षापरोक्षविभागः, तस्मात्कारणकृतो ऽयं विभागः* ॥॥
एकस्मिन्नपि हि विषये ऽक्षैर्जायमानं विज्ञानमापरोक्ष्यं जनयति लिङ्गादिजं तु नेति किं नोपपद्यते ।
ज्ञानजन्यो विषयगतः फलविशेषो ऽयमापरोक्ष्यं नाम सर्वस्य संवेद्यः ।
यद्भावाभावाभ्यां लिङ्गाभ्यामक्षैः पश्यामि न पश्यामीति विस्फारिताक्षाणामेव व्यवहारः प्रवर्तते ।
अतो ऽस्ति विकल्पस्यापि विशदावभासित्वमिति प्रत्यक्षत्वोपपत्तिः ।
ज्ञानस्य सविकल्पकत्वनियमस्तत्खण्डनं च ।
केचित्तु सविकल्पकमेव सर्वं ज्ञानं न निर्विकल्पकं नाम किञ्चिदस्तीति मन्यन्ते ।
तत्तु प्रतीति विरुद्धं- प्रतीमो हि वयमक्षसंनिपातानन्तरमविवविक्तसामान्यविशेषविभागं संमुग्धवस्तुमात्रहगोचरमालोचनज्ञीनम् ।
तदभावे तु विकल्प एव न जायेत ।
विकल्पतया हि पूर्वानुभूतं जातिविशेषं संज्ञाविशेषं चानुस्मृत्य तेन पुरःस्थितं वस्तु विकल्पयितव्यम् ।
नचार्थमदृष्टवतस्तत्स्मरणमाकस्मिकमेवोत्पद्यते ।
तस्मादस्ति निर्विकल्पकमपि ज्ञानम् ।
अद्वैतमतेन निर्विकल्पकस्य सन्मात्रविषयत्वात् ।
तच्च सन्मात्रविषयमिति केचित् ।
भेदस्य विकल्पवेद्यत्वादगृहीते च भेदे विशेषाणामग्रहणात् ।
किञ्चेतराभावो भेदो प्रत्यक्षेण ग्रहीतुं शक्यते नतरां अविकल्पेन ।
अतश्च नेह नानास्ति किञ्चनेत्यादिनिषेधानां प्रत्यक्षविरोधाभावात् एकमेवाद्वितीयमित्यादिश्रुतिभिरद्वितीयम् ब्रह्म सिद्धम् ।
अद्वैतमतखण्डनम् ।
तदिदमतिसाहसम्- किं भवतो नीलपीतयोस्तिक्तमधुरयोः शीतोष्णयोः सुखदुःखयोश्चाविलक्षणा बुद्धिः ।
यद्येवं नात्रोत्तरं वक्तव्यम् ।

नच सत्स्वरूपे सविकल्पेन विशेषग्रहणमिति वाच्यम्, अविकल्पेन विकल्पस्यापि विलक्षणस्योत्पत्त्यसंभवात्* ॥॥
यच्चावश्यमिदमस्माद्भिन्नमित्येवं विकल्पेनैव भेदो ग्रहीतव्यो नाविकल्पेन तस्य संभवतीति ।
न ब्रूमो भेदस्य ग्रहणं किन्तु भिन्नानाम् ।
तेषामपि न भिन्नतया किन्तु स्वरूपेण- यदन्यस्माद्भिन्नं नीलं पीतं वा तद्गृह्यत इति ब्रूमः ।
नहि नीलं पीतं वा भेदः, तयोर्हि धर्मो भेदः, तदग्रहे ऽपि धर्मिणां ग्रहणं नानुपपन्नम्* ॥॥
यदिच सन्मात्रं प्रत्यक्षेण गृह्यते न नीलं पीतं वा ततो विकल्पेनापीदमस्माद्भिन्नमिति कथं भेदो गृह्येत ।
न हि सदेव सतो भिन्नमिति संभवति ।
तस्मान्नीलादिगुणानां पृथिव्यादिद्रव्याणां च प्रत्यक्षेण ग्रहणात्प्रपञ्चापलापः प्रत्यक्षविरुद्ध एव* ॥॥
यदि तु पृथिव्यादिप्रपञ्चं नापह्नुमहे तद्धर्मं तु भेदमेवेति ब्रूयात्, तदप्यशक्यम्, नीलपीतयोरितरेतराभावस्य प्रत्यक्षानुपलब्धिसिद्धस्यापह्नवासंभवात् ।
प्रत्यक्षाभावो ऽपि हि प्रत्यक्षवदेव प्रमाणान्तरेभ्यो बलीयान्, इतरथा शशे चतुष्पात्त्वाद्विषाणित्वमनुमीयते, अतो भेदापलापो न संभवति* ॥॥
यदि त्वितरेतराश्रयतया इतरेतराभावग्रहणस्यानवकॢप्तेरविद्यामात्रनिमित्तं तदित्युच्यते, तदपि - यदि भिन्नतया प्रतियोगिनमाश्रयं च गृहीत्वा तत इतरेतराभावो गृह्येत ततः स्यात्, नीलपीतयोस्त्वितरेतराभावानादरेण स्वरूपेण गृहीतयोः पश्चादतरेतराभावग्रहणे
किमितरेतराश्रयत्वम्* ॥॥
यदि तु द्वित्वमपह्नूयते न पृथिव्यादयस्तेषां च मिथो भेदः तदपि प्रत्यक्षविरुद्धम् ।
संख्यायाः प्रत्यक्षत्वात् ।
सत्यपि प्रत्यक्षविरोधे तदपमर्देन प्रवर्तमानस्तद्बाधेनावागमो ऽद्वैतमवगमयतीतिचेत् ।
न ।
प्रवृत्त्यसंभवात् ।
प्रत्यक्षं हि निरपेक्षं शीघ्रं जायमानं स्वविरुद्धस्यागमिकज्ञानस्य पदपदार्थसंनिध्यपेक्षायोग्यत्वन्यायालोचनसापेक्षतया विलम्बितप्रवृत्तेः प्रवृत्तिमेव निरुणद्धि* ॥॥
किञ्चाशक्यमेव श्रुत्या प्रपञ्चस्यासत्यत्वं बोद्धुम् ।
बुध्यमाने हि श्रुतिरपि प्रपञ्चान्तर्गतत्वादसती बोद्धव्या स्यात् ।
कथं च श्रुत्यैव श्रुतेरसत्वं बुध्येत ।
असत्वेन हि प्रतीयमाना न प्रमाणं स्यात् ।
प्रमाणत्वे त्ववस्थिते सत्तया प्रतीयमानायाः श्रुतेर्न मिथ्यात्वं शक्यं वक्तुम् ।
नह्येकस्यैव वस्तुनो युगपदेव सत्त्वमसत्वं च समुच्चित्य बोद्धुं शक्यम्, अन्यतरोपमर्देन ह्यन्यतरद्बुद्धावारोहति ।
ततश्च श्रुतिरस्तीतिचेत्, न प्रपञ्चापलापः संभवति* ॥॥
ननु स्वयंप्रकाशं ब्रह्म किमस्यान्येन प्रमाणेन ।
भवतु ब्रह्म स्वयंप्रकाशं प्रापञ्चाभावस्य किमायातं, स हि प्रमाणमपेक्षत एव* ॥॥
कथं चाविद्यमानस्य प्रपञ्चस्य प्रतिभासः ।
अविद्ययेतिचेत्, कस्य पुनरियमविद्या ।
जीवानामितिचेत्, न, तेषामभावात् ।
भावे वा द्वैतप्रसङ्गः ।
ब्रह्मणि तु विशुद्धविज्ञानात्मके निरवकाशैवाविद्या ।
विद्यात्मकमपि ब्रह्मविद्याशबलमिव भ्रान्त्यावगम्यत इति चेत्, कस्येयं भ्रान्तिः, यदि न कस्यचित्सूक्तम् ।
जीवानामिति चेत्, न, तदभावात् ।
यदि ब्राह्मणः, नास्य भ्रान्तिः संभवतीत्युक्तम् ।
यदि च विद्यारूपे ऽप्यविद्या स्यात् केनासावुच्छिद्येत ।
ध्यानादिभिरितिचेत् ।
न, तेषामप्यभावात्, भावे तु द्वैतापत्तिः ।
ब्रह्मणि तु सहावस्थानादविरुद्धाविद्या न तेनोच्छेत्तुं सा शक्या ।
ततश्चानिर्मोक्षप्रसङ्गः ।

तस्माद्ब्रह्मणः प्रशंसार्थैरस्थायित्वेन प्रपञ्चस्यासत्त्वमुपचरद्भिरौपनिषदैर्वादैस्तदनुसारिभिश्चेतिहासपुराणैर्भ्रान्तानां वाक्यतात्पर्यमजानानानां न्यायाभियोगशून्यानां प्रलापोमद्वैतवाद इत्युपेक्षणीयः ।
तत्सिद्धमविकल्पस्य प्रत्यक्षस्य विशेषविषयत्वम् ।
निर्विकल्पकविषयकबौद्धमतखण्डनम् ।
अपरे तु स्वलक्षणमात्रगोचरं निर्विकल्पकमिच्छन्ति ।
तदपि प्रतीतिविरुद्धम् ।
प्रतीयते हि संमुग्धाकारं वस्तु सहसैव यत्पञ्चाज्जातिद्रव्यगुणक्रियानामभिः पञ्चधा सविकल्पकेन विकल्प्यते गौरयम्, दण्डयम्, शक्लो ऽयम्,गच्छत्ययम्, डित्थो ऽयमिति ।
तत्र निर्विकल्पकमनेकाकारं वस्तु संमुग्धं गृह्णाति, सविकल्पं त्वेकैकाकारं जात्यादिकं विविच्य विषयीकरोति ।
ननु षष्ठो ऽपि विकल्पो ऽस्ति तदेवेदमिति तत्कथं पञ्चधा विकल्प इत्युच्यते ।
नत्वयं जातिविकल्पो व्यक्तिप्रत्यभिज्ञा हीयम् ।
न संज्ञाविकल्पः ।
अनवगतसंज्ञानामपि भावात् ।
तिर्यञ्चो ऽपि ह्यद्यजाताः स्वमातरं प्रथममुपलभ्य क्षणान्तरे पुनरुपलभमानाः सैवेयमिति शब्दानुवेधशून्यमेव प्रत्यभिजानन्ति, तस्मादियं षष्ठी कल्पनेतिप्ठचविधत्वानुपपत्तिः* ॥॥
उच्यते- इयमेवास्माभिर्नामकल्पनेत्युच्यते ।
तथाहि डित्थो ऽयमिति तावद्गौरयमितिवद्भावात्मना डित्थात्मना वस्तु विकल्प्यते, नदण्डीतिवत्तत्संबन्धितया मत्वर्थानुपादानात् ।
तत्र न डित्थशब्देन जातिवदर्थस्यात्मा अत्यन्तभिन्नत्वात् यतस्तेनैवार्थो ऽनुरज्येत ।
तदेतदेवं विज्ञेयम्- डित्थशब्देन तद्वाच्यं पूर्वावगतं डित्थमुपस्थाप्य तदात्मना पुरःस्थितोर्ऽथो विकल्प्यते डित्थो ऽयमिति ।
किमुक्तं भवति, यो ऽसावस्माकं डित्थः सो ऽयं पुरःस्थितो नान्य इति ।
सेयं व्यक्तिप्रत्यभिज्ञैव
पञ्चमीकल्पना ।
साच शब्दविदां नामरूषितैव भवतीति नाम विकल्पेनेति व्यवह्रियते ।
एतेन यदाहुः-
डित्थो ऽयमित्यशब्दाकारस्यार्थस्य शब्दाकारेण विकल्पनादप्रमाणं सविकल्पम्, इति तदपि निरस्तम् ।
नह्यत्र शब्दाकारेणार्थः प्रतीयते किन्तु पूर्वावगतार्थस्मरणमात्रे शब्दस्य व्यापारः, तेन च स्मृतेनार्थेन तादात्म्येन पुरःस्थितार्थविकल्पनात् ।
आहच- यदा तु यादृशः पिण्डः पूर्वं शब्दात्प्रतीयते ।
तादृशस्मरणे हेतुः शब्दस्तत्र यथार्थतेति ।
तस्मान्नामविकल्पे ऽपि जात्यादिवन्नास्त्यतद्रूपारोपः ।
किं पुनर्जात्यादिभिर्विकल्प्यते, द्रव्यं, किं पुनरिदं द्रव्यं नाम, पृथिव्युदकतेजोवायुप्रभृति ॥
द्रव्याभावे बौद्धमतेन पूर्वपक्षः ।
ननु रूपादिव्यतिरिक्तं द्रव्यं नाम न किञ्चिदुपलभामहे ।
न च तस्योपलम्भकमस्ति, चक्षुरादीनां पञ्चानां रूपादिष्वेवोपक्षीणत्वात् ।
गन्धरूपरसस्पर्शसंघातः पृथिवी ।
रसरूपस्पर्शसंघात आपः ।
रूपस्पर्शसंघातस्तेजः ।
शब्दस्पर्शसंघातो वायुः ।
एव रूपादिसंघातभेदावेव पृथिव्यादिविभागो न द्रव्यं नाम किञ्चिदिति सौगताः ।
तदयुक्तम्- आगमापायिषु रूपादिषु यदनुयायिप्रत्यभिज्ञा जायते तद्द्रव्यम् ।
दर्शनस्पर्शनाभ्यां चास्य ग्रहणम् ।
प्रत्यभिज्ञा च- यथा बदरफलं श्यामावस्थायां रक्तावस्थायां च यथा वा घटपिण्डकपालावस्थासु मृद्द्रव्यम् ।
अस्ति हि तत्र पिण्डावस्थाभेदे श्यामरक्तरूपभेदे ऽपि द्रव्यप्रत्यभिज्ञा- मृदियं पिण्डावस्थामपहाय घचावस्था संजाता श्यामिमानं च त्यक्त्वा पक्वा सत्यरुणिमानं गृहीतवती ।
अनन्तरं घटावस्थामपहाय कपालिका जातेति ।

एवं तन्तुपटाद्यवस्थास्वपि द्रष्टव्यम् ।
तर्कमतेनावयवेष्ववयव्युत्पत्तिः ।
ननु तन्तुपटादिषु द्रव्यान्तरोत्पत्तिरेवाभिमता, अन्यथा ह्यवयव्यपलापः स्यात् ।
नावयविनमपह्नुमहे, द्रव्यान्तरोत्पत्तिं तु नेच्छामः प्रतिपत्त्यभावात् ।
तन्तव एव हि संयोगविशेषादेकद्रव्यतामापद्यन्ते, अवयवी च भवन्ति तादृशाश्च पटजातिं स्थौल्यं च बिभ्रत एकपटस्थूलबुद्ध्या गृह्यन्त इति लौकिकी प्रतिपत्तिः ।
अतो न द्रव्यस्य कदाचिदागमो ऽपायो वा, घटपटगवाश्वशुक्लरक्ताद्यवस्थानामेवागमापायौ* ॥॥
आहच- आविर्भावतिरोभावधर्मकेष्वनुयायि यत् ॥
तद्धर्मि यत्र च ज्ञानं प्राग्धर्मग्रहणाद्भवेदिति ।
तथा- यादृशमस्माभिरभिहितं द्रव्यं तादृशस्यैव हि सर्वस्य गुण एव भिद्यते न स्वरूपमिति ।
तत्सिद्धं द्रव्यम् ।
तच्च जात्यादिभिः पञ्चधा सविकल्पेन विभज्यते ।
अतः सविकल्पकमपि प्रत्यक्षं, तत्पूर्वकं चानुमानादीति सिद्धं तेषामप्यनिमित्तत्वमिति प्रत्यक्षसूत्रम् ।
धर्मे वेदप्रामाण्याधिकरणम् ॥5 ॥
औत्पत्तिकस्तु शब्दस्यार्थेन संबन्धः, तस्य ज्ञानमुपदेशो ऽन्यतिरेकश्चार्थे ऽनुपलब्धे तत्प्रमामाणं बादरायणस्यानपेक्षत्वात्
उक्तं प्रत्यक्षादीनामनिमित्तत्वम् ।
तत एव ।
तन्मूलपुरुषवचनस्याप्यनिमित्तत्वम् ।
एवं तर्हि शब्दस्य सर्वत्र प्रमाणान्तरापेक्षयैव प्रामाण्यदर्शनात्तदभावे तस्याप्यप्रामाण्यादभावगम्यत्वमेवायातं धर्मस्येत्याशङ्कानिराकरणाय चोदनायाः प्रामाण्यमुच्यते ।
सत्यम् ।
लोके प्रमाणान्तरमूलानां प्रामाण्यं अतन्मूलानां चाप्रामाण्यं दृश्यते, नन्वेमपि सापेक्षं प्रामाण्यं किन्तु स्वत एव ।
अनाप्तवाक्यस्य त्वप्रामाण्यं न मूलविरहात् किन्तु दुष्टमूलतया शब्दस्य दुष्टत्वात्स्वाभीविकस्य प्रामाण्यस्यापवादात् ।
वेदस्यापौरुषेयत्वात् ।
अपौरुषेये तु वेदे यद्यप्याप्तप्रणीतत्वं नास्ति प्रामाण्यस्य तदपेक्षाभावादनाप्तस्पर्शनिमित्तदोषाभावाच्चानपोदितं प्रामाण्यं भवति ।
त्रेधा ह्यत्र पुरुषानुप्रवेशः- पदपदार्थसंबन्धद्वारेण वाक्यवाक्यार्थसंबन्धद्वारेण ग्रन्धस्यैव वा भारतादिवत्पौरुषेयत्वात् ।
नत्वेतन्नयमप्यस्ति, पदपदार्थसंबन्धस्य नित्यत्वमत्रौत्पत्तिकशब्देनोक्तं, वाक्यार्थस्य च पदार्थमूलत्वं वेदस्य चापौरुषेयत्वमुपरिष्टाद्वक्ष्यते ॥
सामान्यतः प्रमाणलक्षणम् ।
नच साक्षाद्बाधकमस्तीत्यव्यतिरेकशब्देनोच्यते ।
अनुपलब्धार्थत्वाच्च नानुवादलक्षणमप्रामाण्यमस्तीति अर्थे ऽनुपलब्धे इत्यनेनोक्तम् ।
एतच्च विशेषणत्रयमुपागददानेन सूत्रकारेण कारणदोषबाधकज्ञानरहितमगृहीतग्राहिज्ञानं प्रमाणमिति प्रमाणलक्षणं सूचितम् ।
प्रभाकरमतेन प्रमाणलक्षणम् ।
नन्वेवं धारावाहिकेषुत्तरेषां पूर्वगृहीतार्थविषयकत्वादप्रामाण्यं स्यात् तस्मादनुभूतिः प्रमाणमितिप्रमाणलक्षणम्,
स्मृतिव्यतिरिक्ता च प्रतीतिरनुभूतिः ।
स्मृतिश्च संस्कारमात्रजं ज्ञानमभिधीयते ।
मात्रग्रहणं च संस्कारसघ्रीचीनेन्द्रियजस्य प्रत्यभिज्ञानस्य स्मृतित्वप्रसङ्गेनाप्रामाण्यं माप्रसांक्षीदित्येलमर्थम् ।
तदेवं संस्कारातिरिक्तकारणजन्यं ज्ञानं प्रमाणमित्युक्तं भवति, तदिदं स्वप्नदर्शने तावदव्यापकम्, संस्कारमात्रजस्यापि ज्ञानस्य स्वरूपे कर्तरि च प्रामाण्यमिष्टं भवताम्* ॥॥
अथ स्मर्तव्यापेक्षयैव स्मृतेः स्मृतित्वं तद्विषयसंस्कारजत्वात्, स्वरूपकर्त्रपेक्षया त्वनुभूतिरेव, अतः सिद्ध्यति प्रामाण्यमित्युच्यते ।
एवं तर्हि मात्रग्रहणमनर्थकम्, प्रत्यभिज्ञानस्यापि पूर्वानुभूतांशापेक्षयैव स्मृतित्वात्तत्र चाप्रामाण्यमिष्टमेव, यत्र त्वंशे प्रामाण्यं तत्रानुभूतिरेव सा* ॥॥
किञ्चानुवादानां य एवं विद्वान्पौर्णमासीमित्यादीनामपि संस्कारमात्रजत्वाभावात्प्रामाण्यं स्यात् ।
भवत्वितिचेत् ।
न ।

लोकविरोधात् ।
तथा लौकिकमपि वाक्यं वक्तृज्ञानानुमितेर्थे ऽनुवादकतया प्रवर्तमानं प्रमाणं स्यात् ।
नचैतदिष्ठं भवताम् ।
असंनिकृष्टग्रहणमनुवादानां शास्त्रत्वनिवृत्त्यर्थमित्यङ्गीकरणात्* ॥॥
अथानपेक्षं प्रमाणं यत्स्वविषये प्रमाणान्तरं नापेक्षते तत्प्रमाणम् ।
अनुवादानां तु पुरोवादसापेक्षत्वादप्रामाण्यमिति ।
एवं तर्हि लौकिकं वाक्यमप्यनुमितेर्ऽथे प्रवर्तमानमनुमानस्य शङ्कानिराकरणमात्रौपयिकत्वादर्थप्रतिपादने तदपेक्षाभावात्प्रमाणं स्यात्* ॥॥
तथानुमानस्य प्रामाण्यं न स्यात्, तद्धि नियमग्रहणमपेक्षते ।
न च गृहीतमर्थं मात्रयाप्यधिकं गृह्णातीति भवतां दर्शनम् ।
पीतशङ्खज्ञानमप्यनुभूतित्वात्प्रमाणं स्यात् ।
इष्टमेवेति वदतो लोकविरोधः ।
तस्माद्यथार्थमागृहीतग्राहिज्ञानं प्रमाणमिति वक्तव्यम् ।
धारावाहिकेष्वप्युत्तरोत्तरेषां कालान्तरसंबन्धस्यागृहीतस्य ग्रहणाद्युक्तं प्रामाण्यम् ॥
कालप्रत्यक्षनिरूपणम् ।
सन्नापि कालभेदो ऽतिसूक्ष्मत्वान्न परामृष्यत इति चेत्, अहो सूक्ष्मदर्शी देवानांप्रियः ।
यो हि समानविषयया विज्ञानधारया चिरमवस्थायोपरतः सो ऽनन्तरक्षणसंबन्धितयार्थं स्मरति ।
तथाहि किमत्र घटो ऽवस्थित इति षष्ठः कथयति- अस्मिन्क्षणे मयोपलब्ध इति ।
तथा प्रातरारभ्यैतावत्कालं मयोपलब्ध इति ।
कालभेदे त्वगृहीते कथमेवं वदेत् ।
तस्मादस्ति कालभेदपरामर्शः ।
तदाधिक्याच्च सिद्धमुत्तरेषां प्रामाण्यम्* ॥॥
ननु यथार्थतामपि चेत्प्रामाणलक्षणम्, उष्णजलज्ञानप्रमाणं स्यात् ।
इष्टमेवैतत् ।
ननु लोकविरोधः स्यात् ।
स्यात् यद्ययथार्थतां जानन्त एव लौकिकाः प्रामाण्यं
मन्वीरन् ।
ते तु यथार्थतामेवैतस्य मन्वानः प्रामाण्यमभ्रान्तत्वं च मन्यन्ते ।
येत्वयथार्थतां जानन्ति ते नैव प्रामाण्यं मन्यन्ते, नाप्यभ्रान्तताम्, तस्मान्नास्ति विरोधः* ॥॥
पीतशङ्खज्ञानस्यापि स्मृतित्वाभिमानादनुभूतित्वापरिज्ञानादप्रामाण्यं मन्यन्ते, अतो ऽस्माकमपि नास्ति विरोध इति चेत्, तदयुक्तम् ।
नहि लौकिकाः शुक्तिरजतज्ञाने ऽपि स्मृतित्वं मन्यन्ते, नतरां पीतशङ्खज्ञाने ।
तस्मात्सूक्तम् अर्थे ऽनुपलब्धे इति ।
वृत्तिकारस्त्वन्यथेदं वर्णयाञ्चकारेत्येवमादिनोपवर्षमतेन ।
तस्य निमित्तपरीष्टिरित्येवमादिसूत्रत्रयमन्यथाकृत्वा व्याचष्टे भाष्यकारः, तत्र निमित्तसूत्रेण तावत्प्रतिज्ञातस्य चोदनाप्रामाण्यस्य परीक्षापदेशेन स्वतःप्रामाण्यं हेतुरित्युच्यते ॥
प्रामाणानां स्वतःप्रामाण्यम् ।
प्रसिद्धानि हि प्रत्यक्षादीनि प्रमाणानि तदन्तर्गतं च शास्त्रं, अतस्तदपि प्रसिद्धमेव ।
न च प्रसिद्धस्य प्रमाणस्य प्रामाण्यमन्येन परीक्षितव्यम्, स्वत एव तस्य स्वविषयोपस्थापनसामर्थ्यात् ।
यदि च परीक्ष्येत, ततो येन परीक्ष्येत तस्याप्यन्येनेत्यवस्था स्यात् ।
तस्मात्प्रसिद्धत्वात्प्रमाणस्य चोदनापि प्रमाणमिति* ॥॥
ननु न ज्ञानमुत्पन्नमित्येवार्थतथात्वमध्यवसातुं शक्यम्- प्रसिद्धतरस्यापि प्रत्यक्षस्यायथार्थस्योत्पत्तिदर्शनात्, यथा- शुक्तिकायां रजतमिति प्रत्यक्षमेवायथार्थं न शुक्तिकायां रजतज्ञानस्य, प्रत्यक्षाभासात्वात् ॥
प्रत्यक्षलक्षणं, प्रत्यक्षखण्डः ।

किंपुनराभासंकीर्णं प्रत्यक्षलक्षणम् ।
तद्दर्शयति- तत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्मसत्प्रत्यक्षम्- यदाभासं विज्ञानं तेनेन्द्रियाणां संप्रयोगे यद्विज्ञानं तत्सत्प्रत्यक्षम् ।
तत्सतोर्व्यत्ययादाभासासंकरसिद्धिः ।
तदिति चाव्ययं तृतीयान्तं तेनेत्यर्थे ।
नन्वसत्यपि व्यत्यये नास्ति संकरः- इन्द्रियसंप्रयोगजं ज्ञानं प्रत्यक्षम्- इत्येतावदेव वक्तव्यम् ।
नहि शुक्तिकायां रजतज्ञानमिन्द्रियसंप्रयोगजं, किं तर्हि, इन्द्रियसंप्रयोगच्छुक्तिशकलं रजतसाधारणेन भास्वरत्वादिरूपेण गृहीतम्, असाधारणं तु शुक्तिकात्वमिन्द्रियदौर्बल्याद्गृहीतम्, अनन्तरं च संस्काराद्बोधाद्रजतं स्मृतं, ततः स्मृतरजतात्मना शुक्तिव्यक्तिर्देषवशाद्गृह्यते, अतो नेन्द्रियसंप्रयोगजं रजतविज्ञानमिति नातिप्रसङ्गः* ॥॥
प्रणाड्यास्तीन्द्रियसंप्रयोगजत्वमिति तद्व्यावृत्त्यर्थं तत्संप्रयोगजत्वमिति ।
विशेषणं वक्तव्यमिति चेत् , तन्न ।
नहीह यथाकथञ्चित्संप्रयोगजन्यत्वं लक्षणं, किन्तु साक्षात्तज्जन्यत्वम् ।
यदिच यथाकथञ्चिदित्याश्रीयेत ततो विशेषणे सत्यप्यतिव्याप्तिमल्लक्षणं स्यात्- आरादिग्निमध्यक्षयतो
यदौष्ण्यविषयमनुमानं तदपि प्रत्यक्षं स्यात्, प्रणाड्येन्द्रियसंप्रयोगजत्वात् संप्रयुक्त विषयत्वाच्च, अस्तिह्यौष्ण्यस्येन्द्रियसंप्रयोगः संयुक्तसमवायलक्षणः ।
तस्मादवश्यं साक्षात्संप्रयोगजत्वं लक्षणमित्यङ्गीकर्तव्यम्, अतः शुक्तिरजतवेदने ऽपि व्यभिचाराभावनर्थकस्तत्सतोर्व्यत्ययः* ॥॥
सत्यम्- साक्षात्संप्रयोगजत्वं लक्षणम् ।
सत्यं च शुक्तिरजतज्ञाने ऽपि व्यभिचाराभावादनर्थकस्तत्सतोर्व्यत्ययः* ॥॥
सत्यम्- साक्षात्संप्रयोगजत्वं लक्षणम् ।
सत्यं च शुक्तिरजतज्ञाने ऽपि नातिप्रसङ्गः, पीतशङ्खद्विचन्द्रादिज्ञानेष्वतिव्याप्तिः स्यात् साक्षात्संप्रयोगजत्वात् ।
अपि च स्मृतेन रजताकारेण यत्संनिहितस्य शुक्तिशकलस्य तादात्म्यग्रहणं तदनुपरतेन्द्रियव्यापारस्य भवत्साक्षात्संप्रयोगजमेवापरोक्षत्वात् ।
तस्मादाभासनिवृत्त्यर्थत्यय इति सूक्तम् ।
भाष्ये त्वाभासप्रदर्शनार्थं शुक्तिकारजतज्ञानोदाहरणमित्यनवद्यम्* ॥॥
तत्संप्रयोगजत्वे कथं विवच्येते ।
उच्यते- ज्ञानस्वरसादेव विषयस्य तथात्वमध्यवसीयते, तदन्यथात्वं तु कारणदोषज्ञानादर्थान्यथात्वज्ञानाद्वावगन्दव्यम् ।
अतो यत्र प्रयत्नेनान्विष्यमाणो ऽपि कारणदोषो बाधकज्ञानं वा नोपलभ्यते तत्प्रमाणम्, इतरच्चाप्रमाणम् ।
चोदनार्थज्ञानस्य
तूभयाभावात्सिद्धं टप्रामाण्यम् ।
इत्यौत्पत्तिकसूत्रम्* ॥॥
ननु सर्व एव निरालम्बनःऽ इत्यादिना पूर्वोक्तहेतुद्वयाक्षेपनिमित्तमिथ्यात्वाक्षेपेण शून्यवादी प्रत्यवतिष्ठते ।
तथाहि - यत्र कारणदोषज्ञानं बाधकज्ञानं वा तत्र मिथ्यात्वम्, अन्यत्र सत्यत्वमिति व्यवस्था नोपपद्यते, सर्वज्ञानानां मिथ्यात्वात् ॥
बाह्यार्थशून्यवादेनाक्षेपः ।
सर्वमेव हि ज्ञानमात्मांशपर्यवसितमनादिवासनावशादात्मानमेव बाह्यतयाध्यवस्यन्मिथ्यैव ।
कथं पुनरात्मांशपर्यवसा यित्वं गम्यते, अनुमानात्, बाह्ये च प्रवृत्त्यसामर्थ्यात् ।
यथाचासामार्थ्ये तथा वक्ष्यामः ।
संप्रत्यनुमानमुच्यते- स्तम्भादिप्रत्ययाः स्वांशमेव बाह्यतयाध्यवस्यन्तो मिथ्याभूताः प्रत्ययत्वात् स्वप्नप्रत्ययवत् शुक्तकारजतादिप्रत्ययवच्च ।
स्वप्नादिप्रत्यया हि यथावगम्यमानबाह्यार्थाभावाद्देशान्तरकालान्तरवर्तिनां च संनिहितदेशकालतया प्रतिभाससंभवात् क्वचित्कदाचिदप्यसंभवतां स्वशिरश्छेदादीनां स्वप्ने प्रतिभासादवश्यं स्वात्मानमेव बहिर्वद्गृह्णन्तीत्यभ्युपगन्तव्यम् ।
अतस्तत्सामान्याज्जाग्रज्ज्ञानानामपि स्वांशपर्यवसायित्वान्मिथ्यात्वम्- इति प्राप्ते* ॥॥
अभिधीयते ।
न तावत्स्वप्नादिप्रत्ययाः स्वांशावलम्बनाः, ते ऽपि बाह्यार्थमेवान्यथासन्तमेवान्यथा गृह्णन्तीति वक्ष्यामः ।
भवतु वा तत्रात्मख्यानं, नैतावता नीलादिप्रत्ययास्तथा भवितुमर्हन्ति, तत्र हि नीलमिदं पीतमिदं स्तम्भो ऽयं घटो ऽयमित्येवमिदमाकारास्पदीभूतं बाह्यं नीलादि प्रत्यक्षेणावगम्यमानं न शक्यमनुमानेनापह्नोतुम् ।
आत्मग्राहित्वे ह्यहं नीलमिति स्यात्* ॥॥
तदेवं प्रत्यक्षमेव बाह्यार्थमुपस्थाप्य तदपह्नवप्रवृत्तस्यानुमानस्योदयं निरुणद्धि ।
स्वप्नादिषु तु बाधकेन ज्ञानान्तरेण बाह्यसद्भावनिराकरणाद्युज्येतात्मख्यातिः ।

नत्विह तथा बाधकमस्त्यन्यत् भवदुक्तादनुमानात् ।
नचानुमानमलं बाधितुमित्युक्तम् ।
दूषणसहस्रं चास्यानुमानस्य वार्तिके प्रपञ्चितमित्युपरम्यते ॥
योगाचारसौत्रान्तिकयोः कलहः ॥
एवमनुमाने प्रत्यक्षविरोधेन निराकृते प्रत्यक्षस्य बहिःप्रवृत्तौ सामर्थ्ये नास्तीत्येवं पूर्वोक्ताक्षेपेण शून्यस्त्वित्यादिना स एव शून्यवादी पुनः प्रत्यक्षवतिष्ठते ।
तदिहैवं चिन्त्यते- यदिदं नीलमिदं पीतमिदमिति नीलाद्याकारं वस्तु प्रथते तत्किं विज्ञानमेव तथा प्रथते किंवा बाह्यं वस्त्विति ।
तदर्थमिदं विचार्यते- किं विज्ञानं प्रत्यक्षमुतानुमेयमिति, प्रत्यक्षत्वे सति निराकारस्य प्रत्यक्षग्रहणयोगात्, आकारस्य चैकस्यैव ग्रहणात् गृह्यमाण आकारो ज्ञान एवावतिष्ठत इत्यर्थस्यागृह्यमाणत्वादसत्त्वमेव भवति ।
अनुमेयत्वे तु बाह्यार्थं विनानुमानासंभवाद्बाह्यार्थसिद्धिः ।
तत्र- ज्ञानमेवैवमाकारमात्मना प्रथते कुतः ॥
नाप्रत्यक्षस्य तस्यास्ति प्रमाणान्तरतो गतिः ॥
संवेद्यत्वाच्च नीलादेर्ज्ञानाकारत्वनिश्चयः ॥
अर्थान्तरस्य च ग्राह्यलक्षणं नहि युज्यते* ॥॥
यो हि विज्ञानप्रत्यक्षमिच्छति तस्य ज्ञानमेव न सिध्येत् प्रमाणान्तरसंभवात् ।
अनुमानमिति चेत् ।
न लिङ्गाभावात् ।
न तावदर्थो लिङ्गम्, विनापि तेन सुषुप्त्याद्यवस्थायामर्थसद्भावाभ्युपगमात् ।
अर्थव्यवहारो लिङ्गं - स हि कादाचित्कं कारणं कल्पयतीतिचेत्, एवन्तु प्राग्व्यवहाराज्ज्ञानप्रतिभासो न स्यात् ।
अव्यवहारन्नपि घटं पश्यन् जाने ऽहं घटमिति ज्ञानमनुसंधत्ते
इति प्रतीतिसाक्षिकम् ।
अर्थधर्मो ज्ञानजन्मा लिङ्गमितिचेत् ।
न ।
तत्सद्भावे प्रमाणाभावात् ।
अतीतानागतयोश्चार्थयोर्धर्मासंभवादतीताद्यनुमाने ज्ञानसिद्धिर्न स्यात्, तस्मादवश्यं विज्ञानं प्रत्यक्षमेषितव्यम् ।
एवं च तस्यैवायमाकार इति निष्प्रमाणकोर्ऽथः* ॥॥
किञ्च वेद्यत्वादपि नीलादेर्ज्ञानाकारत्वं, नह्यनात्मनो नीलस्य पीतवद्वेद्यता
संभवति ।
यदि चार्थान्तरं नीलं ततो ऽस्य किं लक्षणं वेद्यत्वम् ।
यद्यर्थत्वलक्षणं स्यात्, सर्वं सर्वस्य वेद्यं स्यात् व्यवस्थाहेतुत्वभावात् ।
अथ व्यवस्थापकं - य एवार्थो ज्ञानस्य हेतुः, स एव वेद्यो नान्य इति चेत् ।
न ।
नेत्रादेरपि वेद्यत्वप्रसङ्गात् ।
सादृश्यं हेतुत्वं च विषयत्वम्, नीलार्थश्च नीलज्ञानेन सदृशो न नेत्रमितिचेत्, एवमपि समनन्तरप्रत्ययस्य हेतुत्वात् विज्ञानत्वेन च सादृश्याद्विषयत्वं स्यात्* ॥॥
अथासाधारणत्वेन विषयाकारेण सादृश्यं विषयलक्षणम्- ज्ञानत्वं हि सर्वज्ञानसाधारणं नीलाद्याकारस्तु केषाञ्चिदेवासाधरणस्तेन तदाकारेण सादृश्यं विषयत्वम् ।
एवमपि धारावाहिकेषु पूर्वमुत्तरस्य विषयः स्यात्- उभयोर्नीलरूपत्वाद्धेतुत्वाच्च* ॥॥
स्यान्मतम्- न सादृश्यं विषयत्वं किन्तु यो ज्ञाने नीलाद्याकारविशेषसमर्थको हेतुः स विषयः, समनन्तरप्रत्ययस्तु न नीलाद्याकाराणां समर्पकः ।
तथासति नीलज्ञानान्तरं सर्वदैव नीलविज्ञानं स्यात् ।
तत्रैकस्मिन्संताने नीलपीतादिविचित्रार्थसंनिधिविशेषकृतश्चायं विचित्राकारोदय इत्यर्थस्यैव ग्राह्यत्वम् ॥
पुनर्योगाचारशङ्का ।
ननु कार्यभूतसमये कारणभूतस्यार्थस्य क्षणिकत्वेनातीतत्वात्कथं प्रत्यक्षग्राह्यत्वम्, एतदेवार्थस्य ग्राह्यत्वं यज्ज्ञानाकारर्पणक्षमहेतुत्वम् ।
यथाहुः- भिन्नकालं कथं ग्राह्यमिति चेद्ग्राह्यतां विदुः ॥

हेतुत्वमेव तद्युक्तं ज्ञानाकारार्पणक्षमम् इति ।
यद्येवं कस्यायमाकारो यो वर्तमानः प्रथते, यदि ज्ञानस्यैव तर्हि अर्थस्याप्रथमानस्य सद्भावे ज्ञानं प्रति हेतुत्वे च कं प्रमाणम् ।
ज्ञानवैचित्र्यमेव, न हि तत्समनन्तरप्रत्ययमात्रात्संभवतीत्युक्तम् ।
एवं तर्ह्यनुमेयोर्ऽथः कथं प्रत्यक्षग्राह्य इत्युच्यते ।
एतदेव हि प्रत्यक्षग्राह्यत्वमर्थस्य यत्साक्षादाकारसमर्पणेन हेतुत्वम्, यस्तु परंपरया ज्ञानाकारसमर्पको हेतुश्च सो ऽनुमेयः ।
तद्यथा- वह्निस्वलक्षणं धूमस्वलक्षणतद्दर्शनतद्विकल्पप्रणाड्या वह्निज्ञानं जनयदनुमेयम् ।
अत एव प्रत्यक्षमनुमानं च द्वे एव प्रमाणे ज्ञानार्थयोर्भिन्नत्वात् ।
असति तादात्म्ये तदुत्पत्तिनिबन्धन एव ज्ञानादर्थनिश्चयः ।
तत्र साक्षादुत्पत्तौ प्रत्यक्षं प्रणाड्यौ त्वनुमानमिति द्वे एव विधे ।
एत एव विषयसादृश्यमेव प्रामाण्यं तदधीनत्वादर्थविशेषव्यवस्थापनस्य ।
न हि ज्ञानमित्येव नीलवेदनं भवति पीतादावपि तुल्यत्वात् ।
नीलिम्ना तु नीलवेदनसिद्धिः ।
यथाहुः- नहि संवित्तिसत्तयैव तद्वेदना युक्ता तस्याः सर्वत्राविशेषादविशेषप्रसङ्गात्, तां तु सारूप्यमाविशत् सरूपयितुं घटयेदिति ।
तस्मात्साकारे विज्ञाने सिद्धमर्थस्य सत्त्वं ग्राह्यलक्षणं चेति सौत्रान्तिकाः ॥
अत्र वदामः- स्यादिदं ग्राह्यलक्षणं यद्यर्थस्याकारसमर्पकत्वे हेतुत्वे वा प्रमाणं स्यात्, नतु तदस्ति, समनन्तरप्रत्ययविशेषादेव विचित्राकारोदयसंभवात् ।
तथाहि- त्वयापि हि स्वप्नावस्थायामसत्यप्यर्थसंनिधौ ज्ञानवैचित्र्यदर्शनादवश्यं समनन्तरप्रत्ययकृतत्वमङ्गीकर्तव्यम् ।
एवञ्चेज्जाग्रत्प्रत्ययानामपि तथैवास्तु किमर्थग्रहणेन, अतो न हेतुत्वं ग्राह्यलक्षणम्* ॥॥
अथ ज्ञानिनिबन्धनो यत्रोपादानादिव्यवहारः स विषय इत्युच्यते, तथासति नीलज्ञानस्य नीलान्तर्गताः परमाणवो रसादयश्च विषयभावमश्रुवीरन्, उपादीयंमानत्वात्* ॥॥
अथ द्रव्यस्यैवोपादानं न गुणानां रसादीनाम् ।
एवं तर्हि रूपस्यापि विषयत्वं न स्यात् ।
किञ्च सुखार्थः सर्वो
व्यवहारो ऽतो ऽनुभूते सुखे न कश्चित्सुखविषयो व्यवहारो ऽस्ति न च संभवति, यतः सुखप्रतिबद्धव्यवहारो ऽस्तीति कथं तस्य विषयत्वम्* ॥॥
ननु नोपादानमेव व्यवहारः शब्दप्रयोगस्यापि व्यवहारत्वात्, अतो नीलज्ञाननिबन्धनशब्दप्रयोगगोचरत्वान्नीलिम्नो विषयत्वम्, एवं सुखादेरपि ।
एवमप्युपादानस्यापि व्यवहारत्वात्तगद्विषयभूतानां परमाणूनां विषयत्त्वापत्तिस्तदवस्थैव* ॥॥
किञ्च न शब्दप्रयोगवशेन ज्ञानस्य विषयनिरूपणं शक्यं विपरीतत्वात् ।
अर्थसंबद्धशब्दप्रयोगो हि लक्षणं न शब्दमात्रप्रयोगः, प्रत्याय्यप्रत्यायकत्वमेव हि शब्दार्थयोः संबन्धो ऽतो यदर्थविषयं ज्ञानं यः शब्दो जनयति स तस्य वाच्यः, अतो ज्ञानविषयनिरूपणपूर्वकं शब्दविषयनिरूपणं, तदधीने तु तस्मिन् दुरुत्तरमितरेतराश्रयमापद्येत* ॥॥
ज्ञानजन्यातिशयभाक्त्वमेव ग्राह्यत्वमिति चेत्, नासावुपलभ्यते, न च संभवति भूतभविष्यतोरित्युक्तम् ।
अथ संप्रयुक्तेन्द्रियजं ज्ञानं यत्व्याप्तलिङ्गजं वा स विषय इति मतम् ।
ततो नेत्रजन्यस्य नीलज्ञानस्य स्पर्शो विषयः स्यात्, अस्ति च स्पर्शस्यापि रूपस्यैव संयुक्तसमवायलक्षणः संबन्धो नेत्रेण ।
तथा गन्धलिङ्गस्य रसानुमानस्य रूपमपि विषयः स्यात्, रूपेणापि रसेनेव तस्य व्याप्तत्वात् ।
तस्मात् ज्ञानात्मकत्वमेव नीलादेर्विषयलक्षणमिति सिद्धं तादात्म्यम्* ॥॥
सहोपलम्भनियमो ऽपि ज्ञानार्थयोरनियमव्याप्तं भेदं व्यापकविरुद्धोपलब्ध्या प्रतिषेधन्न भेदमुपस्थापयति, भिन्नानां घटपटादीनामनियतसहोपलम्भत्वात् ।
न चासिद्धौ वेद्योपलम्भसमये वित्तेरुपलम्भ इति वाच्यम् ।
उत्तरकालं सहैव ज्ञानेन विषयस्मरणदर्शनात्- ज्ञातो घट इति ।
नचानुभूतस्य स्मरणं संभवति, तस्मादुत्पत्तिवेलायामेव ज्ञानस्य
प्रकाशनमङ्गीकर्तव्यम् ।
न च निराकारस्योपलब्धिरस्तीति सिद्धं ज्ञानात्मकत्वं नीलादेः ।
अवश्यं च स्वप्नादिबोधे बन्ध्यासुतो याति, अङ्गुल्यग्रे हस्तियूथशतमित्यादौ चात्यन्तासंभवाद्बाह्यस्य ज्ञानात्मकत्वमेवाकारणामभ्युपगन्तव्यम् ।
तथान्यत्राप्यस्तु, तस्मान्न बाह्यमस्तीति प्राप्ते ।
योगाचारमतखण्डनम् ।

अभिधीयते नीलादिवित्तेरात्मांशग्राहित्वं केन गृह्यते ।
नात्मना नान्यसंवित्त्या सापि ह्यात्मावसायिनी ॥
अज्ञानस्थिरचित्रत्वबाह्यत्वादेरनात्मनः ॥
असतो वा सतो वापि कथं विज्ञानवेद्यता ॥
विज्ञानवादी हि सर्वमेव विज्ञानमात्मनमेव गृह्णाति नान्यत्, अत्मनैव च गृह्यते नान्येन, तस्याप्यन्यस्य स्वात्मपर्यवसायित्वादिति वदति ।
यथोक्तम्- नान्यो ऽनुभाव्यो बुद्ध्यास्ति तस्या नानुभवो ऽपरः ॥
ग्राह्यग्राहकवैधुर्यात्स्वयं सैव प्रकाशते इति तमेवंवादिनं प्रत्युच्यते- नीलज्ञानस्यात्मावसायित्वं नीलस्य च विज्ञानकारणत्वं केन ज्ञानेन गृह्यते ।
न तावदात्मनैव - नहि नीलमिदमित्यत्र स्वात्मपर्यवसायित्वं नीलाकारस्य च ज्ञानात्मकत्वं प्रकाशते नीममात्रप्रकाशनात् ।
संवेद्यत्वग्राह्यलक्षणयोगसहोपलम्भनियमादिलिङ्गनिमित्तकेन त्वनुमानेनैव तदवगन्तव्यं- तदपि त्वनुमानमात्मांशग्राहि चेत्, न ज्ञानान्तरस्य स्वात्मपर्यवसायितां ग्रहीतुमलम्* ॥॥
अथानुमानं न स्वात्मांशग्राहि, ततो नीलादिविज्ञानैः किमपराद्धं, येन तानीदङ्कारास्पदीभूतबाह्यनीलादिप्रकाशकत्वेनावभासमानान्यपि स्वात्मन्येवावरुध्यन्ते ।
न हि तदैतद्वक्तुं शक्यम्- नानात्मनः संवेदनं ग्राह्यलक्षणं सहोपलम्भनियमो वा संभवतीति ।
तेषां सर्वेषामेवातस्मिन्नैव भवदीये ऽनुमाने व्यभिचारात् ।
तत्खल्वात्मानमतिक्रम्य नीलादिवित्तेर्नीलाद्यात्मभूतस्वात्मांशावसायितां गृह्णातीत्यभ्युपगन्तव्यम् ।
तस्यापि
स्वात्मपर्यवसायित्वे नीलबुद्धेस्तद्वशेन स्वात्मांशग्राहिता न सिद्ध्येत् ।
आहच- चैत्रादिप्रत्ययानां च निरालम्बनता यदि ।
धर्मभूता न गृह्येत साधनोत्थितया धिया ॥
ततो विषयनानात्वात्प्रतियोग्यनिराकृता ।
रूपात्सालम्बनप्राप्तिः सती केन निचार्यते इति* ॥॥
किञ्चाज्ञानमित्यस्य ज्ञानस्य ज्ञानाभावो ग्राह्यः, न च ज्ञानाभावस्य ज्ञानात्मता संभवति, अत्यन्तविपरीतत्वात् ।
तथा- तदेवेगदमिति ज्ञाने पूर्वापरकालावस्थायित्वं प्रकाशते, नच क्षणिकस्य ज्ञानस्य स्थायित्वमात्मा संभवति ।
तथा- चित्रबुद्धौ नानाकारणामवभासः ।
नचैकस्य ज्ञानस्य नानाकारता संभवति* ॥॥
नन्वर्थस्यापि स्थायित्वमेकस्य च नानाकारणत्वं न संभवत्येव, संभवतु वा मा वा, ज्ञानात्मता तावन्न संभवति ।
तदसंभवे चार्थाकारौ वा स्थायित्वचित्रत्वे स्याताम्, अत्यन्तासद्रूपे वा, द्वैधापि ज्ञानानात्मकयोर्ज्ञानेन ग्रहणात्सिद्धं नः समीहितम्* ॥॥
तथा बाह्यं नास्तीति निषेधयतावश्यं बुद्धावारोपयितव्यम्, ज्ञानातिरिक्तं च बाह्यम् ।
न च ज्ञानाकारता तस्य संभवति, तस्मादेवमादिसिद्ध्यर्थमवश्यं विज्ञानानामनात्मग्राहित्वं बलादभ्युपगन्तव्यम्, भवदीयानुमानार्थं च ।
तदेवं संविद्बलसिद्धस्य बाह्यस्य संभवे वेद्यत्वादिभिर्नापह्नवः संभवति, बाह्यस्यैव हि तदा संवेद्यत्वं दर्शनबलादभ्युपगम्यते ।
प्रत्युतात्मन एव संवेद्यत्वं न संभवति- नीलादिवित्तीनामिदं नीलमिदं पीतमित्यनात्मावभासित्वात् आत्मावभासित्वाभावात्* ॥॥
अहंप्रत्ययस्तर्हि ज्ञानावलम्बनो भवतु ।
सो ऽपि कर्त्रवलम्बनो न ज्ञानावलम्बन इत्यात्मवादे वक्ष्यामः ।
तथा ग्राह्यलक्षणमपि बाह्यस्यैव किञ्चिदेष्टव्यम् ।
अन्यथा नीलादिवित्तीनां स्वांशपर्यवसायित्वसाधनार्थस्य तदीयानुमानस्य नीलादिवित्तिगतं स्वांशविषयत्वं ग्राह्यं न स्यात्, स्थायित्वादयश्च तद्बुद्धीनाम् ॥
ज्ञानानुमेयत्वस्थापनम् ।
तल्लक्षणं चेतरेषामुक्तदोषत्वात् ज्ञानजन्यफलभागित्वमेवाश्रियतव्यम् ।
ज्ञानक्रिया हि सकर्मिका कर्मभूतेर्ऽथे फलं जनयति पाकादिवत्, तच्च फलमिन्द्रियकज्ञानजन्यमापरोक्ष्यम्, लिङ्गादिज्ञानजन्यं तु पारोक्ष्यमित्युच्यते ।
अस्ति हि विषयाविषयविभागः विषयेष्वपि परोक्षापरोक्षविभागः सार्वजनीनः ।
न च फलमन्तरेणायं विभागः संभवतीति तदाश्रीयते ।
तदेव च फलं कार्यभूतं कारणभूतं विज्ञानमुपकल्पयतीति सिद्ध्यत्यप्रत्यक्षमपि ज्ञानम्* ॥॥
अथवा ज्ञानक्रियाद्वारको यः कर्तृभूतस्यात्मनः कर्ममभूतस्य चार्थस्य परस्परं संबन्धो व्याप्तृव्याप्यत्वलक्षणः स मानसप्रत्यक्षावगतो विज्ञानं क्लपयति, नह्यागन्तुककारणमन्तरेणात्मनोर्ऽथं प्रति व्याप्तृत्वत्वमुत्पत्तुमर्हति ।

तच्च कारणं लोके ज्ञानशब्देनाभिधीयते ।
ये ऽपि स्वप्रकाशं संविदमातिष्ठन्ते तैरप्ययं संबन्धो मानसप्रत्यक्षगम्यो ऽवश्यमभ्युपगमनीयः ।
अन्यथा ज्ञातो मया घटः इति ज्ञानज्ञेयसंबन्धो वा न व्यवहर्तुं शक्यते ।
यन्मात्रं हि प्रकाशितं तन्मात्रमेव व्यवहर्तुं शक्यते नान्यत्* ॥॥
इहच संविन्मात्रं स्वयंप्रकाशितं, अर्थो ऽपि तद्वशात्, ज्ञानसंबन्धस्तु केन प्रकाशितः ।
सो ऽपि तयैव संविदा प्रकाशत इति चेत् ।
न ।
तदुत्पत्त्यवस्थायां संबन्धस्यानिष्पन्नत्वात् ।
प्रकाशकत्वमेव हि संविदा विषयेण संबन्धो नान्यः, तेन जातायां संविदि विषये च प्रकाशिते
निष्पद्यमानः संबन्धो न तया संविदा शक्यते विषयीकर्तुम्, विरम्यव्यापारासंभवात् ।
नहि प्रथममर्थं प्रकाश्य पुनःसंबन्धं प्रकाशयितुमर्हति क्षणिकत्वात्* ॥॥
अथ संबन्धो ऽपि स्वयंप्रकाशत इति मन्येथाः, नात्र प्रमाणमस्ति ।
तस्मान्मानसप्रत्यक्षगम्योर्ऽथेन सहात्मनः संबन्धो ज्ञानं कल्पयतीति
रमणीयम् ।
अस्ति हि को ऽपि संबन्धोर्ऽथेन सहात्मनो मानसप्रत्यक्षगम्यः सर्वजनीनः स ज्ञानस्य कल्पकः ।
अर्थगतो वा ज्ञानजन्यो ऽतिशयः कल्पयति ज्ञानम्, अवश्यमङ्गीकरणीयश्चायमतिशयस्त्रितयप्रतिभासवादिभिरपि ।
त्रितयं प्रतिभासत इति वदता ज्ञानज्ञेयज्ञातृषु त्रिष्वप्यनुगतं प्रकाशनपदवाच्यमवश्यमङ्गीकर्तव्यम् ।
तत्र ज्ञानत्वं तावन्नानुगतम्- तद्धि ज्ञाने एव न ज्ञातृज्ञेययोः ।
ज्ञेयत्वमपि ज्ञेय एव न ज्ञातृज्ञानयोः ।
ज्ञातृत्वं ज्ञानज्ञेययोः* ॥॥
व्यवहारविषयत्वं प्रकाशमानत्वमितचेत्, न, संविदि व्यवहाराभावाद्विनष्टत्वात् ।
शब्दप्रयोगो व्यवहार इति चेत्, न, उक्तदोषत्वात् ।
तदवश्यं प्रकाशनभासनादिपर्यायो धर्मविशेषस्त्रिष्वप्यनुवृत्तो गोत्वमिव गोव्यक्तिष्वस्ति ।
सच धर्मो ज्ञातरि ज्ञेये च ज्ञानवशाज्ज्ञायते, ज्ञानस्य तु स्वाभाविको ऽग्नेरिवौष्ण्यौमिति स्वप्रकाशं ज्ञानम् ।
इतरौ परप्रकाश्यावित्याश्रयणीयम् ।
तन्निमित्तं च विषयस्य विषयत्वम् ।
व्यवहारादीनां हि विषयलक्षणत्वं प्रागेव दूषितम् ।
एकदेशिनां तु- व्यवहारनिबन्धनविषयताङ्गीकरणे रजतवित्तेः शक्तिका विषयः स्यात्, नचैवमिच्छन्ति ।
तदेवविवादसिद्धेर्ऽथगते ऽतिशये तेनैव ज्ञानस्यानुमानं पूर्वोक्तेन वा मानसप्रत्यक्षगम्येन संबन्धेन संभवति ।
अतिक्रान्तदिवसगतदशत्वादिसंख्यावच्चासतोर्भूतभविष्यतोरविद्यमानत्वे ऽपि धर्मिणः प्रकाशनधर्मो जायत इति प्रमाणबलादब्युपगम्यते ।
अतो न प्रत्यक्षत्वं संविदो ऽभ्युपगन्तव्यम् ।
पुनर्विज्ञानवादखण्डनम् ।
न च प्रतीतिबलादपि प्रत्यक्षत्वम्- अर्थाऊ(?)अससमये संविदः प्रतिभास एव नास्ति, नतरामापरोक्ष्यम् ।
एवं च सहोपलम्भस्यैवाभावात्तन्नियमो य उक्तः स दूरापास्त इति प्रत्युक्तमेतत्- सहोपलम्भनियमादभेदो नीलतद्धितयोः इति ।
यत्तु पश्चात्स्मरणस्य दर्शनज्ज्ञानमपि प्रागनुभूतमिति ।
तदप्यसिद्धम् ।
अर्थ एव हि तदा स्मर्यते, तत्तत्स्मरणाच्च तदैवार्थव्याप्तिरात्मनो मनसावगम्यते, तद्धशाच्च तदार्थे तावज्ज्ञानं कल्पयति ।
तस्य ज्ञानस्येन्द्रियादिकारणाभावात्स्मृतित्वं निश्चित्य स्मृतिकारणभूतं पूर्वज्ञानं तदैव कल्पयतीति नास्य स्मरणम्* ॥॥
इतश्च न नीलादेर्ज्ञानात्मकत्वम्, अनुमानादिषु विषयाकाराणां परोक्षत्वात्, ज्ञानस्य च सर्वत्र प्रत्यक्षत्वाब्युपगमात्, नहि परोक्षापरोक्षयोरेकत्वं संभवति ।
एवमत्यन्तासद्रूपत्वेनाभिमतस्य स्थायित्वादेः सद्रूपज्ञानात्मकत्वमत्यन्तांसंभाव्यम् ।

मूल पाठ: Śāstradīpikā (Jaimini's Mīmāṃsāsūtra 1,1.1-23) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc