शास्त्रदीपिका · भाग 4159
तदिदमसारम् ।
न हि वस्तुद्वयप्रतीतिरेव भेदप्रतीतिः तद्भावे ऽप्यभावात् ।
प्रथमं व्यक्तिदर्शने ऽपि ह्यस्ति जातिव्यक्त्योर्द्वयोः प्रतीतिर्नच तदा तयोर्भेदः प्रतीयते व्यक्त्यन्तरदर्शनेन तु जातेरन्वयात्पूर्वव्यक्तेश्च व्यतिरेकादन्वयव्यतिरेकाभ्यां जातिव्यक्त्योर्भेदो ऽवधार्यत इति भवतो ऽपि सिद्धान्तः ।
तथा देवदत्तमुपलभ्य कालान्तरे तत्सदृशं यज्ञदत्तं दूरात्पश्यन् पूर्वोपलब्धं च देवदत्तं स्मरन् वस्तुतस्तद्विलक्षणमेव पुरुषगद्वयं प्रत्येति तथापि न भेदमवधारयति संशेते हि किं स एवायं देवदत्तः किं वान्य इति ।
तस्माद्वस्तुद्वयप्रतीतिरेव बेदप्रतीतिरित्युक्तम्* ॥॥
तथा तमेव देवदत्तं किं वान्यः इति ।
तस्माद्वस्तुद्वयप्रतीतिरेव भेदप्रतीतिरित्युक्तम्* ॥॥
तथा तमेव देवदत्तं कालान्तरे दूरात्पश्यन्नपि किं स एवायमुतान्य इति ।
संदिहानो वस्तुगत्यैकमेव प्रतियन्नपि नाभेदमवधारययितुमलं भवति, तस्मान्न वस्तुद्वयप्रतीतिरेव भेदप्रतीतिः ।
नाप्येकवस्तुप्रतीतिरेवाभेदप्रतीतिः, किन्त्वन्यो ऽयमिति बुद्धिर्भेदावभासः अनन्यो ऽयमिति चाभेदावभासः ।
अस्ति च शाबलेयबाहुलेयावुपलभ्यमानस्य अयं
गौरयमिति गौः इत्यभेदावभासः ।
अन्यः शाबलेयाद्बाहुलेय इति च भेदावभासः ।
तस्मादुपपन्नं भिन्नाभिन्नत्वम्* ॥॥
नन्वनुवृत्ता नित्यानुत्पत्तिविनाशधर्मा च जातिः, विपरीतस्वभावा च व्यक्तिः, कथं तयौरैक्यम् ।
नह्येकमेव वस्त्वनुवृत्तं व्यावृत्तं नित्यमनित्यमुत्पत्तिविनाशधर्मकमतद्धर्मकं च संभवति त्रैलोक्यसंकरप्रसङ्गात्, जातिरप्येवमनित्यत्वादिधर्मा स्यात्, व्यक्तिरपि नित्यत्वादिधर्मा ।
नैष दोषः ।
नानाकारं हि तद्वस्तु केनचिदाकारेण नित्यत्वादिकं केनचिच्चानित्यत्वादिकं बिभ्रन्न विरोत्स्यते ।
जातिरपि व्यक्तिरूपेणानित्या व्यक्तिरपि जात्यात्मना नित्येति नात्र काचिदनिष्टापत्तिः ॥
जातेः सर्वगतत्वाद्याक्षेपतत्परिहारौ ॥
यत्तु सर्वगता व्यक्तिगता वा जातिरिति विकल्पितं, तदपि व्यक्त्यात्मत्वाभिधानादेव परिहृतम् ।
व्यक्तेर्ह्यसावात्मा कथमन्यत्र स्यात् ।
नन्वेवं व्यक्तिदेशे व्यक्त्युत्पत्तेः प्रागविद्यमाना जातिः कथं तत्र पश्चाद्भवति, स्वकारणान्निष्पद्यमाना व्यक्तिर्जातिविशेषात्मना संबद्धैवोत्पद्यते नित्यत्वात् ।
नचान्यत्र आगच्छति अमूर्तत्वात् ।
उच्यते- यो ऽपि देशान्तरादागत्यानेन देशेन संयुज्यते सो ऽपि प्रागस्मिन्देशे ऽविद्यमान एव कथमनेन देशेन संयोगमनुभवति कारणवशादिति व्यक्तम्, एवं जातिरपि कारणवशादेव व्यक्तिसंबन्धमनुभवति ।
इयास्तु विशेषः- संयुज्यमानः पूर्वत्रावस्थितो ऽनन्तरदेशेन प्रथमं संयुज्यते ततस्तदनन्तरदेशेनेति क्रमेण देशान्तरलसंयोगं गच्छति ।
तादात्म्यसमवाययोस्त्वनन्तरदेशमनपेक्ष्यैव स्वकारणतो निष्पत्तिः ।
न हि संयोगस्य स्वभावः स एव तादात्म्यस्य समवायस्य वाङ्गीकर्तव्यः ।
प्रमाणाभावात्, विलक्षणस्वभावत्वाद्भावानाम् ।
तस्माददोषः* ॥॥
यद्वास्तु सर्वगतं सामान्यम्, न च सर्वत्रोपलब्धिप्रसङ्गः व्यक्तीनामभिव्यञ्जकत्वात् ।
सर्वगतमपि सामान्यं व्यक्तेरेवात्मा तत्समवेतं वा ।
संयुक्तसमवायसंनिकर्षेण च सामान्यस्योपलम्भः, तेन च संनिकर्षो व्यक्तिदेशे एव संभवति नान्यत्रेति न सर्वत्रोपलब्धिः ।
अभेदे ऽपि जातिव्यक्त्योर्भेदस्यापि विद्यमानत्वान्नित्यत्वान्नित्यत्वादिवत्सर्वगतत्वास्रवगतत्वमपि नानुपपन्नम्* ॥॥
यत्तु कार्त्स्न्येन वा अवयवशो वा वृत्तिरिति विकल्पितम्, तदप्ययुक्तम् ।
भेदापेक्षं हि कार्त्स्न्यं न च सामान्यस्य स्वरूपतो ऽवयवतो वा भेदोस्ति एकत्वादनवयवत्वाच्च ।
निरवयवत्वादेवावयववशो ऽपि वृत्तिरभाव्यैव ।
तस्माद्व्यक्तिषु जातिर्वर्तत इत्येतावदेवात्र वक्तुं शक्यते प्रमाणतो ऽवगमात्, न कार्त्स्न्यभागविभागः प्रमाणाभावादसंभावाच्च ।
तथावयविनो ऽप्यवयवेषु न कार्त्स्न्यं संभवति बहुत्वाभावात्तदेपक्षत्वाच्च कृत्स्नत्वव्यवहारस्य ।
अवयवशो वृत्तिरप्यवयवान्तराभावादयुक्तैव ।
किमिदानीमेकरूपैव सामान्यस्य व्यक्तिष्ववयवेषु चावयविनो वृत्तिः ।
नेत्युच्यते ।
सामान्यं प्रत्येकं वर्तत, अवयवीं तु व्यासज्येत्येवं विशेषः ।
व्यक्त्यन्तरमनपेक्ष्यैव व्यक्त्यन्तरे वर्तमाना स्वानुरूपां बुद्धिं जनयन्ती जातिः प्रत्येकं इत्युच्यते न तु कात्स्न्येन वृत्तिः ।
अवयवी त्ववयवान्तराण्यपेक्ष्यावान्तरे वर्तमानः स्वाकारं बुद्धिं जनयन् व्यासज्य वर्तत इति व्यपदिश्यते ।
नह्येकस्यामेव व्यक्तौ गोबुद्धिवदेकस्मिन्नेव तन्तौ पटबुद्धिरुत्पद्यते ॥
संयोगविचारः ॥
संयोगस्येदानीं कथं संयोगिषु वृत्तिः किं जातिवत् किंवावयविवत् ।
उभयविलक्षणेति ब्रूमः ।
स हि संयोग्यन्तरमपेक्ष्य संयोग्यन्तरे वर्तते नानपेक्ष्येति न जातितुल्यत्वम् ।
एकत्रैव च स्वानुरूपां जनयति बुद्धिम् इदमनेन संयुक्तमिदमनेन इति, तेनावयविनापि नातीव तुल्यत्वमित्युभयवैलक्षण्यम्* ॥॥
अथ संयोगः किमेक एव द्वयोः संयोगिनोरुत प्रतिसंयोगि भिन्नावेव संयोगौ ।
काश्यपीयास्तावत् संयोगमुभयोर्व्यासक्तमेकं मन्यन्ते वयं तु यथा इदमनेन सदृशमिदमनेनेति प्रतियोगिनमपेक्ष्येतरत्रेतरस्यावगम्यमानं सादृश्यं प्रतिधर्मिभिन्नं भवति तथा संयोगस्य तादृशबुद्धिविषयत्वाद्भेदमेव रोचयामहे ।
प्रकृतमनुसरामः- तस्मान्न वृत्तिविकल्पादपि जात्यपह्नवः ।
यत्तु नित्यत्वाज्जातेः स्वविषयज्ञानजननासामर्थ्यान्न ग्राह्यत्वमिति ।
तदसत् ।
नित्यानामप्यर्थक्रियासामर्थ्यं क्षणभङ्गनिराकरणे वक्ष्यामः ।
न च हेतुलक्षणं ग्राह्यत्वम् ।
ज्ञानजन्यफलभागित्वलक्षणं हि तदिति शून्यवादे वर्णितम् ।
तस्मादयमप्यदोषः* ॥॥
यत्तु स्वलक्षणैरेव स्वानुभवद्वारेण गवादिविकल्पोदयसंभवादप्रामाणिकी जातिविकल्पनेति तदप्यसारम् ।
न हि जातिर्न दृश्यते येनैवमुपालम्भः स्यात् ।
उपजायमानं तु ज्ञानं स्वविषयभूतां जातिमुपस्थापयतीति नेदृशानां प्रलापनामवसरः* ॥॥
कथञ्चात्यन्तविलक्षणानि स्वलक्षणान्येकरूपं विज्ञानं जनयन्ति तदतद्रूपिणो भावास्तदतद्रूपहेतुजाः इति स्थितेः ।
भवतो वा कथं विलक्षणानां विशेषाणामेकरूपसामान्यसंबन्धकारणत्वमितिचेत्, दात्म्यं समवायं वा भजन्ते* ॥॥
ननु हेतवो विलक्षणः कथमेकविधसामर्थ्ययुक्तानि स्वलक्षणानि जनयन्ति ।
न जनयेयुर्यदि विलक्षणाः स्युस्ते ऽपि त्वेकजातीया एव ॥
नन्वेवं तत्संबन्धसिध्यर्थपरापरजात्यपेक्षायामनवस्था ।
नैष दोषः, यथा तालबीजमेकजातीयं परिणामपरंपरया तालजातीसंबद्धां
व्यक्तिमुपजनयति, सापि तथैव स्वकारणभूतबीजसमानजातीयं बीजान्तरम् ।
तथैकजातीयच्छुक्राद्गोजातीयव्यक्तिनिष्पत्तिः, तस्यां च
तज्जातीयशुक्रनिष्पत्तिरिति नात्यन्तं तादात्म्यापत्तिः ।
तस्मादस्त्येकमाकृतिजातिसामान्यशब्दाभिलपनीयं शाबलेयादिष्वनुगतम् ॥
इत्याकृतिवादः ।
सादृश्यादीनां सामान्यत्वखण्डनम् ।
नच सादृश्यमेव सामान्यं तद्बुद्ध्यभावात, स एवायमिति प्रतीतिर्न तत्तत्सदृश इति ।
न च सर्वसामान्यापह्नववादिनः सादृश्यमपि संभवति भूयोवयवसामान्यात्मकत्वात्तस्य ॥
॥
न चातद्व्यावृत्तिरूपमपि समान्यमनङ्गीकृतविधिरूपसामान्येन शक्यते प्रत्येतुम् ।
अगोव्यावृत्तिं हि प्रतीयतावश्यं प्रथममेव गौः प्रत्येतव्यः ।
न हि तेभ्यो व्यतिरेकरूपमपहायाश्वादिव्यक्तीनां प्रातिस्विकेन रूपेण संभवति ।
तेषामनन्तानां बुद्धावनारोहात्, अनारूढेषु च तेषु तद्व्यावृत्तिरूपस्य गोः प्रत्येतुमशक्यत्वात् ।
गौर्गौरिति च विधिरूपं सामान्यमवगम्यमानं कथं निवृत्तिरूपं शक्यमङ्गीकर्तुम् ।
तस्मादिदमतिपेलवं दर्शनम् ।
तस्मादस्ति जातिः ।
इत्यपोहवादः ॥
अवयवविचारः ।
एतेनावयवि व्याख्यातः ।
तस्याप्यवयवेभ्यो भेदो ऽभेदो वेति विकल्पे भेदं समवायसंबन्धमवयवगुणेभ्यश्च तत्र विशेषगुणानामुत्पत्तिमचक्षते वैशेषिकाः ।
ये च स्वसमवेतविशेषणविशिष्टाः स्वाश्रयस्यैकजातीयस्य परिच्छेदकास्ते विशेषगुणा इत्याहुः ।
वयं तु भिन्नाभिन्नत्वम् ।
नहितन्तुभ्यः शिरःपाण्यादिभ्यो नावयेभ्यो निष्कृष्टः पटो देवदत्तो वा प्रतीयते ।
तन्तुपाण्यादयो ऽवयवा एव पटाद्यात्मना प्रतीयन्ते ।
विद्यते च देवदत्ते अस्य हस्तः शिर इत्यादिः कियानपि भेदावभास इत्युपपन्नमुभयात्मकत्वम् ।
तस्मादवयवानामेवावस्थान्तरमवयवी न द्राव्यान्तरम् ।
त एव हि संयोगविशेषवशादकद्रव्यतामापद्यतेस तदात्मना च महत्वं पटजातिं च विभ्रतः पटबुद्ध्या गृह्यन्ते ।
तेन पटात्मना तेषामेकत्वम् अवयवात्मना तु नानात्वमुपपन्नम्* ॥॥
यदपि रूपादयः कार्ये गुणमारभते इत्युक्तं तदपरि गुणद्वयप्रतीत्यभावीन्नातीतवास्मभ्यं रोचते ।
यदि हि द्वौ गुणौ प्रतीयेयातां तन्तुष्वेकः पटे चापरस्ततः कार्यकारणभावं प्रतिपद्येयाताम् ।
यत्रापि नानारूपैः शुक्लकृष्णरक्तपीतैस्तन्तुभिरारभ्यते पटस्तस्त्रापि त एव वर्णाः पटगताः प्रतीयन्ते न रूपान्तरम् ॥
चित्रैकरूपनिराकरणम् ।
ननु चित्रः पट इति प्रतीयते न तु शुक्लः पूत इति वा, तस्माच्चित्राख्यं रूपान्तरमत्रोत्पन्नम् ।
नैवम् ।
चित्रं लोकविरोधादेवायुक्तमङ्गीकर्तुम् ।
नानारूपाणामपि चावयवभेदद्वारेणैकस्मिन्नपि पटे समवायो नानुपपन्नः ।
एतेन संयोगजसंयोगो निरस्तो वेदितव्यः ।
यथा देवदत्तसंयोग एव तस्मिन्कुण्डलिसंयोगो भवति तथा तन्तुतुरीसंयोग एव तन्तौ पटभावमापन्ने पटतुरीसंयोगो भवति न संयोगान्तरं प्रतीत्यभावादित्यलमतिविस्तरेण ।
तस्मादस्त्येवावयवी ।--
वृत्तिः स्वावयवेष्वस्य व्यासज्येति प्रदर्शितम् ॥
तेनास्यवयविद्रव्यं सामान्यं चास्ति सर्वगम् ॥
इत्यवयविवादः ॥
वर्णानामभिधातृत्वमाकृतेश्चाभिधेयताम् ॥
कथयित्वाथ संबन्धकथैव प्रकृतोच्यते ॥
ज्ञाप्यज्ञापकभावश्च संबन्धः प्रागुदीरितः ॥
तन्नित्यत्वं यदाक्षिप्तं तत्समाधीयते ऽधुना ॥
एवं हि पूर्वमुक्तम्- यस्मात्प्रथमश्रवणे शब्दोर्ऽथं न प्रत्याययति तस्मान्नास्य स्वाभाविकमिन्द्रियवत्प्रत्यायकत्वम् ।
अस्यायमर्थः ।
इति पुरुषेण कथिते प्रत्याययति ततो नूनमस्य पुरुषकृतं प्रत्यायकत्वमिति पौरुषेय एव संबन्ध इति* ॥॥
तत्राभिधीयते- नह्यस्यायमर्थ इति
संबन्धकरणमिदम्, प्रसिद्धसंबन्धकथनं ह्येतत् ।
कथमवगम्यते अर्थान्तरकथने बहुभिर्निवारणात् ।
यो हि कश्चित् कस्मैचित् गोशब्दस्याश्वं गवयं वार्थमाह तमन्ये निवारयन्ति नायमस्यार्थः सास्नादिमानस्यार्थ इति, संबन्धक्रियापक्षे च देवदत्तादिवद्येनैव संबन्धः क्रियते स एवार्थ इति निवारणं नोपपद्यते ।
तस्मान्न तावदर्वाचीनः पुरुषा अस्य शब्दस्यायमर्थ इति वदन्तोपि तत्संबन्धकर्तृत्वेनाशङ्कनीयाः ।
यदिपरमेवं स्यात् सर्गादिकाले भगवता प्रजापतिना सर्वमेव स्थावरजङ्गमं धर्माधर्मौ त सृष्ट्वा संव्यवहाराय च शब्दानामर्थैः संबन्धं कृत्वा धर्माधर्मप्रतिपादनाय च कृतसंबन्धैः पदैर्वेदान्कृत्वात्मजेभ्यो मरीच्यादिभ्यः शब्दार्थसंबन्धो वेदाश्च प्रतिपादितास्तैरप्यन्येभ्यस्तैरप्यन्येभ्य इत्येवं पूर्वपूर्वेभ्यः प्रतिपद्योत्तरोत्तरेषां शब्दार्थप्रतिपत्तिर्व्यवहारश्चेति* ॥॥
तदप्ययुक्तम् ।
इत्थंभावे प्रमाणाभावात् प्रथमश्रुतावप्रतीतिरेव प्रमाणं सामयिकत्वे ह्यप्रतिपन्नसमयानामप्रतीतिः प्रतिपन्नसमयानां च प्रतीतिर्देवदत्तादिशब्दवदुपपन्ना भवति, स्वाभाविके तु प्रत्यायकत्वे
प्रथमश्रवणे ऽपि प्रतीतिः स्यादितिचेन्न ।
स्वाभाविकमपि प्रत्यायकत्वमवगतं सदर्थप्रतिपत्तौ निमित्तं नाप्रतिपन्नमिति युक्तैव प्रथमश्रवणेर्ऽथस्याप्रतीतिः ।
न च सर्गादिर्नाम कश्चित्कालो ऽस्ति, सर्वदाहीदृशमेव जगदिति दृष्टानुसारादवगन्तुमुचितम् ।
न तु स कालो ऽभूत् यदा सर्वमिदं नासीदिति ।
प्रमाणाभावात् ।
मन्त्रार्थवादेतिहासपुराणादिः प्रमाणमिति चेत् ।
न ।
वेदानां पौरुषेयसंबन्धापेक्षाणां स्वयं च पौरुषेयाणां शाक्यादिग्रन्थवदतीन्द्रियार्थे प्रामाण्यासंभवात् ।
तदप्रामाम्ये च तन्मूलानां धर्मशास्त्रीदीनां दूरनिरस्तमेव प्रामाण्यम् ।
सर्वाभावे च सृष्टिरपि न संभवति ।
मृत्ततन्त्वाद्युपादानेन हि घटादीन्युपादीयन्ते ।
सर्वाभावे हि केनोपादेन सर्वमिदमुपादेयम् ॥
अद्वैतमतेन पूर्वपक्षः ।
स्यान्मतम् ।
आत्मैवैको जगदादावासीत् स एव स्वेच्छया व्योमादि परिणमति बीजमिव वृक्षरूपेण, चिदेकरसं ब्रह्म कथं जडरूपेण परिणमतीति चेत् ।
न परमार्थतः परिणामं ब्रूमः किन्त्वपरिणमते परिणतवदेकमेव सदनेकधा मुखमिवादर्शादिष्वविद्यावशाद्विवर्तमानमात्मैवात्मानं चिद्रूपं जडरूपमिवाद्वितीयं सद्वितीयमिव पश्यति ।
सेयमविद्योपादाना स्वप्नप्रपञ्चवन्महदादिप्रपञ्चसृष्टिः ।
तथाच सर्वं खल्विदं ब्रह्म, आत्मैवेदं सर्वं नैह नानास्ति किञ्चने इत्यादयो बहवो ऽद्वेतवादाः ।
तथा इन्द्रो मायाभिः पुरुरूप ईयते इति भेदावगतेर्व्यक्तमेव मायानिबन्धनत्वं दर्शितम् ।
तथा लोकास्तं परादुर्यो ऽन्यत्रात्मनो लोकान्विदेत्यादिनानात्मदर्शने निन्दा मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यतीति च नानात्वदर्शननिन्दा सर्वमिदमद्वितीयमेव ब्रह्म पारमार्थिकं भेददृष्टिश्चाविद्योपादानेत्येतमर्थं प्रकटयतीति ॥
उक्ताद्वैतमतखण्डनम् ।
किमिदानीमसन्नेवायं प्रपञ्चः ।
ओमितिचेत् ।
न ।
प्रत्यक्षविरोधात् ।
तथा च प्रत्यक्षं प्रपञ्चसद्भावग्राहकं प्रत्यक्षसूत्रे ।
नचागमे प्रत्यक्षबाधः संभवति प्रत्यक्षस्य शीघ्रप्रवृत्तत्वेन सर्वेभ्यो बलीयस्त्वात् ।
न च पौर्वापर्यन्यायेन प्रवृत्तमेव प्रत्यक्षमागमेन पश्चाद्बाध्यत इति वाच्यम् ।
आगमस्य प्रत्यक्षेण प्रवृत्तिविरोधात् ।
आगमप्रवृत्तिसमये ऽपि हि बेदप्रपञ्चमुपदर्शयत् प्रत्यक्षमागमप्रवृत्तिमेव निरुणद्धि ।
यथा खलूत्पत्तुमुपक्रममाण एव घटो दण्डेनाहन्यमानो नोत्पत्तुं प्रभवति तथागमोपि ।
किञ्च प्रपञ्चाभावं प्रतियतावश्यमागमोपि प्रपञ्चान्तर्गतत्वादसद्रूपतया प्रत्येतव्यः ।
कथं
चागमेनैवागमस्याभावः प्रतीयेत, असद्रूपतया हि प्रतीयमानो न कस्यचिदप्यर्थस्य प्रमाणं स्यात्, प्रामाण्ये वा नासत्वम् ॥
॥
कश्चित्पुनराह प्रपञ्चस्य नासत्वं ब्रूमः ।
प्रत्यश्रक्षादि प्रमाणतः सिद्धत्वात् ।
नापि परमार्थतः सत्वं आत्मज्ञानेन बाध्यमानत्वात् ।
तस्मात्सदसद्भावनिर्वाच्यो ऽयं प्रपञ्च इति ॥
॥
तदिदमसारम् ।
सतो ऽन्यत्वमेवासत्वम्, तद्यदि प्रपञ्चः सन्न भवति व्यक्तमसन्नेवायम्, असत्वाभावे वासत्वापत्तिः, सदसत्वयोरेकनिषेधस्येतरविधिनान्तरीयकत्वात् ।
न च विधाद्वयरहिते विधान्तरं सम्भवति अथापि यन्न कदाचित्प्रतीयते तदसत्, यथा शशविषाणम्,यत्प्रतीतं कदाचिद्बाध्यते तत्सत् यथात्मतत्वं, प्रपञ्चस्तु प्रतीयमानत्वाद्बाध्यमानत्वाच्च भावाभावाभ्यासनिर्वाच्च इति मतम् ।
तदनुपपन्नम्, लोकविरोधात् ।
यद्धि प्रतीतं बाध्यते मृगतोयपज्जुसर्पादि तदसदेवेति हि लौकिकी प्रसिद्धिः ।
न हि शशविषाणादीनां मृगतोयादीनां च कश्चिद्विशेषो लोके, सोयं प्रपञ्चोपि बाद्यते चेत् असन्नेवेति नानिर्वाचितत्वम् ।
अथापि लोकप्रसिद्धिमनादृत्य वृद्धयादिवत्परिभाषारूपेणानिर्वाच्य इत्युच्यते, तथाप्ययुक्तम् - प्रपञ्चस्य बाध्यत्वाभावात्, न तावत्संसारावस्थायामागमेन बाधः सम्भवतीत्युक्तम् ।
मुक्तस्य तु बाधकज्ञानं नाशङ्कनीयमेव प्रलीनसर्वकरणत्वात्, करणाभावे च ज्ञानासम्भवात् ।
नचास्मर्यमाणस्य प्रपञ्चस्याभावः शक्यते प्रत्येतुम् ।
नच तस्यामवस्थायां सम्भवति स्मरणमं सर्वसंस्काराणामुच्छिन्नत्वात् तस्मान्न बाधसम्भवः ॥
॥
यच्चाविद्याकृतो ऽयं प्रपञ्च इति, सा कस्य न ब्रह्मणस्तस्य स्वच्छविद्यारूपत्वात् ।
नहि भास्करे तिमिरस्यावकाशः सम्भवति ।
नच जीवानाम् ।
तेषां ब्रह्मातिरेकेणाबावात् भ्रान्त्यभावादेव च तत्कारणभूतं वस्त्वन्तरमप्यनुपपन्नमेव ।
ब्रह्मातिरेकेण भ्रान्तिज्ञानं तत्कारणं चाप्युपगच्छतामद्वैतहानिः* ॥॥
तत्किङ्कृता च ब्रह्मणो विद्या, न हि कारणान्तरमस्ति ।
स्वाभाविकीतिचेत् कथं विद्यास्वभावमविद्यास्वभावं स्यात् ।
स्वाभाविकत्वे चास्याः केन विनाशः स्यात् ।
आगमिकं ध्यानादि तज्जन्यं वा स्वरूपज्ञानं ब्रह्माविद्यां नाशयतीति चेत्, न, नह्यागमो वा ध्यानादयो वा तज्जन्यं वा ज्ञानं नित्यज्ञानात्मकब्रह्मातिरिक्तमस्ति यदविद्यां नाशयेत् ।
तद्वरमस्मान्मायावादान्माहायानिकवादः ।
यत्र नीलपीतादिवैचित्र्यं कार्यकारणभावो बद्धमुक्तादिव्यवस्था च संतानभेदेन समर्थ्यते ।
नित्यमेकरसं निष्प्रपञ्चमात्मानमुपेयुषां तु समस्तलोकवेदजव्यवहारोच्छित्तिरेव स्यात्* ॥॥
यदप्याहुः- अज्ञानजन्यः प्रपञ्चो ज्ञानेन विनाश्यते मृगतोयवत् स्वप्नप्रपञ्चवच्चेति ।
तदप्ययुक्तम्- यदि कुलालादिव्यापारस्थानीयेनाज्ञानेन घटवदुत्पन्नः प्रपञ्चो मुसलस्थानीयेन ज्ञानेन
नाश्यते, तथापि नासत्वं प्रपञ्चस्य स्यात्, उत्पत्तिविनाशयोगादिनित्यतामात्रं स्यान्नात्यन्ताभावः* ॥॥
केन च ज्ञानेन नाशः, नात्मज्ञानेन, विरोधाभावात् ।
निष्प्रपञ्चात्मज्ञानेनेतिचेत्, न, तत्रात्मज्ञानांशस्याविरोधात् ।
निष्प्रपञ्चत्वज्ञानं विनाशकमिति पारिशेष्यादापन्नम्- प्रपञ्चाभावश्च निष्प्रपञ्चत्वं, न च विद्यमानं प्रपञ्चे तदभावज्ञानमुत्पत्तुमर्हति ।
ज्ञानेन ह्युत्पन्नेन प्रपञ्चो नाशयितव्यः प्राक् च ज्ञानात्सद्रूप एव प्रपञ्चस्तिस्मिन्सद्रूपे ऽवस्थिते कथं तदभावविषयस्य ज्ञानस्योत्पत्तिः ।
तत्र ज्ञानोत्पत्तौ सत्यां प्रपञ्चस्य नाशः, तद्विनाशे च सति तदभावविषयज्ञानोत्पत्तिरितीतरेतराश्रयत्वम्* ॥॥
एतेन मृगतृष्णिकाजलस्य ज्ञानविनाश्यत्वं प्रत्यूढम् ।
न हि तज्जलं सत् पश्चान्नाश्यते प्रागपि हि तत्र नैव जलं, अजलमेव हि रश्मिप्रतप्तमूषरं भ्रान्त्या जलात्मनावगतं पश्चाद्बाधकेन यथावस्थितरूपमवगम्यत इत्यलमनेन बालजल्पितेन ॥
इत्यद्वैतमतनिरासः ॥
अर्धजरतीयाद्वैतवादेन पूर्वपक्षः ॥
केचित्त्वौपनिषदाः परमार्थत एवात्मा प्रपञ्चरूपेण स्वेच्छया परिणमतीति मन्यन्ते,तथा च सा सदेव सोम्येदमग्र आसीदेकमेवाद्वितीय तदैक्षत बहुस्यां प्रजायेय इत्येकस्यैव सन्मात्ररूपतया प्रागवस्थितात्मनो ऽनेकव्योमादिभेदभिन्नप्रपञ्चरूपेण बीजस्येव परिणामो दर्शितः, तस्माद्वा एतस्मादात्मन आकाशः संभूत इत्यौपनिषदां वादाः पुराणवादाश्चास्मिन्नर्थे शतशो दृश्यन्ते ।
पुरुष एवेदं सर्वं नेह नानास्ति किञ्चन इत्यादि तु धर्मिभेदाबावाभिप्रायम्, तद्यथैको वृक्षः प्रादेशमात्रादूर्ध्वं नानाशाखो ऽवस्थितो दूरस्थैर्नानावृक्षा इति, तथा नामरूपप्रपञ्चं नानारूपं पश्यतां, मूलकारणस्यैकस्यात्मनो ऽयं नानारूपः परिणाम इत्येवमजानतां तत्त्वकथनार्था एवंविधा वादाः ।
सर्वमेकस्यैव विस्तारो न किञ्चिदत्र नानास्तीति* ॥॥
ये च पुनरसत्त्ववादाः प्रपञ्चविषया अविद्यावादा भ्रान्तिवादा मायावादाश्च ते सर्वे प्रपञ्चस्यानित्यत्वादौपचारिकाः ।
यथा मृगतोयरज्जुसर्पस्वप्नप्रपञ्चादयः किञ्चित्कालमाविर्भूय पश्चाद्विलीयन्ते तथा भेदप्रपञ्चरूपो ब्रह्मपरिणामो ऽप्याविर्भवति विलीयते चेत्याविर्भावतिरोभावधर्मकत्वसाम्यादसन्नित्युपचर्यते, तस्य चासत्कल्पत्वे तद्विषयस्य ज्ञानस्यापि सिद्ध्यत्यौपचारिकं भ्रान्तित्वम् ।
मायानिबन्धनत्वं च इन्द्रो मायाभिः पुरुरूप ईयते इत्यादिषु युक्तमुपचारेण वक्तुम् ।
आत्मैवैकः सत्यः इचि च तस्यैव नित्यत्वादुच्यते, यथा गो अश्वा एव पशवो ऽन्येत्वपशव इति तदेवं द्रष्टव्यम्* ॥॥
यस्त्वेवंविधान्वादान्यथाश्रुतार्थान्गृह्णाति स पश्वन्तरेष्वपशुत्ववादं आदित्यो यूपः इत्यादि च यथाश्रुतं गृह्णीयात् ।
अथ तत्र प्रमाणान्तरविरोधः सो ऽत्रापि समानः ।
अथार्थवादत्वात्तत्र न यथाश्रुतार्थग्रहणं, तदपि समानम् ।
प्रपञ्चस्याप्यसत्यत्वं वैराग्यजननार्थम्, आत्मनश्च परमार्थत्वं मुमुक्षूणामुत्साहजननार्थं ।
विस्पष्टं चैतन्मृत्पिण्डविकारदृष्टान्तदर्शनात् ।
ततश्च यथा कारणभूतमृत्पिण्डज्ञानेन मृन्मयो विकारः सर्वो विज्ञातो भवति शरावादिविकारो हि वाचारम्भणं नामधेयमात्रं मृत्तिकस्यैव सत्यं, एवं प्रपञ्चस्येव सत्यं, एवं प्रपञ्चोपि सद्विज्ञानेन विज्ञातो भवति विकारो हि वाचारम्भणं नामधेयमात्रं सदित्येव सत्यमित्युक्ते ज्ञायत एतत् यथाविर्भावतिरोभावधर्मा नानाविधो विकारः शरावादिः प्रपञ्चो मृत्तिका च सर्वत्रानपायिनी तेषां कारणं कार्यकारणयोश्चावस्थामात्रभेदात्स्वरूपभेदाभावात्कारणज्ञानेन तत्सर्वं कार्यमवस्थाभेदेनाज्ञातमपि स्वरूपेण ज्ञातं भवति ।
तथा प्रपञ्चोप्याविर्भावतिरोभावधर्मानवस्थायी तत्कारणं चात्मा सद्रूपः सर्वानुयायी नापायधर्मा ।
तस्मिन्विज्ञाते सर्वं तदात्मकमविज्ञातमपि व्यासरूपेण समासेन ज्ञातं भवतीत्येतदत्र विवक्षितमिति, तस्मादेकस्यैवात्मनः परिणामो ऽयं भेदप्रपञ्चो नन्वसन्नेव ।
असत्वे हि कथं सद्विज्ञानेन विज्ञातः स्याच्छशविषाणवत् ।
न हि मृत्पिण्डे विज्ञाते सति शशविषाणं विज्ञातं भवति तथा प्रपञ्चोपि स्यात्, ततस्तु प्रस्तुतहानिरेव स्यात् एकोप्यात्मान्तःकरणोपाधिभेदाद्भिन्नो जीव इत्युच्यते जीवभेदाच्च बन्धमुक्तिव्यवस्थाप्युपपन्नेति* ॥॥
तदिदमयुक्तम् ।
चिद्रूपस्यात्मनो जडरूपपरिणामासंभवात् ।
एकत्वे चात्मनः सर्वशरीरे मे दुःखमिति, पादे मे मुखं शिरसि मे वेदनेतिवत् सर्वसुखदुःखोपलब्धिश्च स्यात् ।
अन्तःकरणोपाधिभेदादभिन्नो जीव इत्युच्यते जीवभेदाच्च बन्धमुक्तिव्यवस्थाप्युपपन्नेति* ॥॥
तदिदमयुक्तम् ।
चिद्रूपस्यात्मनो जडरूपपरिणामासंभवात् ।
एकत्वे चात्मनः सर्वशरीरेषु प्रतसंधानं स्यात्- देवदत्तो ऽहं यज्ञदत्तो ऽहमेवेति, तथा देवदत्तशरीरे मे सुखं यज्ञदत्तशरीरे मे दुःखमिति, पादे मे सुखं शिरसि मे
वेदनेतिवत् सर्वसुखदुःखोपलब्धिश्च स्यात् ।
अन्तःकरणभेदाद्व्यवस्थेतिचेत् ।
अचेतनत्वात् ।
नह्यन्तःकरणं सुखदुःखे अनुभवति अचेतनत्वात्, आत्मा त्वनुभविता स च सर्वत्रैक इति कः प्रतिसंधानं वारयेत्, तस्मादिदमपि नातीव सुन्दरमिति ॥
इत्यात्मपरिणामवादनिरासः ॥
सांख्यमतेन पूर्वपक्षः ।
आत्मभेदं प्रकृतिपरिणामं च जगत् सांख्या मन्यन्ते ।
द्विविधं च सांख्यं निरीश्वरं सेश्वरं च ।
नीरीश्वरवादिस्तावगदाहुः- प्रकृतिरचेतना त्रिगुणात्मिका प्रधानशब्दाभिधेय महदादिविशेषपर्यन्तेन प्रपञ्चरूपेण चेतनानामुपभोगाय परिणामतीति ।
सेश्वरवादिनो ऽप्येवमाहुः, इयांस्तु विशेषः- पुरुषशब्दाभिधेयमीश्वरं क्लेशकर्मविपाकाशयैरपरामृष्टमाश्रित्य प्रकृतिर्जगत्सृजतीति ।
यथा हि संस्कृतं क्षेत्रमधिष्ठाय तत्संपर्कवशाद्बीजमङ्कुरादिक्रमेण महान्तं वृक्षमारभते तथा सर्वव्यापिनी प्रकृतिस्तत्संपर्कवशान्महदहङ्कारतन्मात्रादिक्रमेण परिणमन्ती विशेषान्तं प्रपञ्चमारभच इति ।
इतिहासपुराणेष्वपि प्रायेणैतदेव मतम् ।
सेयं प्रकृत्युपादाना सृष्टिः, ईश्वरस्तु निमित्तमात्रम् ।
क्षेत्रज्ञास्तु भोक्तारः, प्रकृतिरेव तु सर्वकार्याणां कर्त्रीति भोग्या ।
सा च सर्वत्रैका भोक्तॄणां च भेदाद्बद्धमुक्तव्यवस्थोपपत्तिः ।
तथा च- अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजा जनयन्तीं सरूपाः ।
अजो ह्येको जुषमाणो ऽनुशेते जहात्येनां भुक्तभोगमजो ऽन्यः इति व्यक्तमेव भोग्यायाः दास्तर्ह्यैपनिषदाः कथं, अवैलक्षण्येनेति ब्रूमः- भेदशब्दो हि वैलक्षण्यवचनो लोके प्रसिद्धः ।
तथाहि सुसदृशेषु वक्तारो भवन्ति, नास्यास्य च कश्चिद्भेदो ऽस्तीति, तथात्मनामपि नरपशुतिर्यग्भेदभिन्नशरीरवर्तिनां शरीरसंबन्धमपोह्य केवलं नैजरूपेण निरूप्यमाणानां पद्मरजःपरमाणुद्वयवन्न किञ्चिदपि वैलक्षण्यमस्तीत्यनेनाभिप्रायेणैकत्ववादा नानात्वनिषेधवादाश्च ।
एतदभिप्रायमेव चैतदपि भदवद्वासुदेववचनम्- विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि ।
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः इति ।
तथैव इन्द्रो मायाभिः पुरुरूप ईर्यते इति स्वयमविलक्षणो ऽप्यात्मा नरपश्वादिविचित्रशरीरसंपर्कवशाद्भ्रान्त्या स्वयमपि विलक्षणरूपः प्रतीयत इत्यर्थः ।
ये च भुक्तानां क्षेत्रज्ञानामीश्वरेण सहैकत्वादास्तेप्यत्यन्तसाम्याद्वैलक्षण्याभावाच्च ।
तथा च श्रुत्यन्तरम्, यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् ॥
तदा विद्वान्पुण्यपापे विधूय निरञ्चनः परमं साम्यमुपैति इतीश्वरसादृश्यापत्तिमेव मुक्तस्य दर्शयति ।
तथा भगवता वासुदेवेनाप्युक्तम्- इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ॥
सर्गे ऽपि नोपजायन्ते प्रलये न व्यथन्ति च इति* ॥॥
यत्तु ममैवांशो जीवलोके जीवभूतः सनातनः इति भगवद्वचनं तत्स्वामिभृत्यभावपरम्- यथा खल्वमात्या राज्ञोंशा व्यपदिश्यन्ते तथा जीवोपीश्वरांश इत्युच्यते ।
अन्यथा जीवत्वनाशात्सनातनत्वानुपपत्तिः* ॥॥
यान्यपि विभेदजनके ज्ञाने नाशमात्यन्तिकं गते ।
आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति इत्यादीनि पुराणवचनानि तेषायमेवार्थः- वैलक्षण्यमात्मनो ब्रह्मणश्चान्यत्वमत्यन्तमविद्यमानमेवाज्ञाननिमित्तमज्ञाने विनष्टे स्वयमेव विलीयत इति ।
विस्पष्टं हि परापरपुरुषयोर्भेदे गीतादिपूपदर्शितः- उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
उपद्रशष्टानुमन्ता च कर्ता भोक्ता महेश्वरः ॥
परमात्मेति चाप्युक्तो देहे ऽस्मिन्पुरुषःपरः इति ।
अलमतिदूरं गत्वा ।
तस्मात्प्रकृत्युपादानेयं प्रपञ्चसृष्टिरिति नानुपादानोपालम्भः ॥
सांख्यमतखण्डनम् ।
अत्राभिधीयते- कथं खल्वेकरूपा प्रकृतिर्नरपशुतिर्यग्भेदभिन्नं प्रपञ्चमारभते नह्यविलक्षणं
कारणं विलक्षणं कार्यं निर्मातुमर्हति ।
क्षेत्रज्ञगतधर्माधर्मसहायवैचित्र्याद्वैचित्र्यमितचेत् ।
न ।
अन्तःकरणवृत्तित्वाद्धर्मादर्मयोः, अन्तकरणस्य च कार्यवर्गान्तःपातित्वात् सर्वस्य महदादेः कार्यस्य प्राकृतप्रतिसंचारे प्रकृतौ विलीनत्वाद्धर्माधर्मावपि तस्यामवस्थायामविद्यमानावेवेति न तद्बलेन वैचित्र्यम् ।
महदादिविकारारम्भे चास्याः किं कारणं, स्वरूपमेवेतिचेत् सर्वदाऽरम्भप्रसङ्गस्ततः प्रलयानुपपत्तिः ।
ईश्वरेच्छया विक्रियत इचिचेत् ।
न ।
ईश्वरस्य समस्तक्लेशरहितस्यापास्तसमस्तकामस्येच्छासंभावात्, इच्छायाश्चाप्यन्तःकरणधर्मत्वात् तस्मिन्काले तदसंभवात्* ॥॥
किञ्च प्राकृते प्रलये प्रकृतमात्रमात्मानश्च केवलमवतिष्ठन्ते, सर्वे चात्मानो निर्विशेषाः सर्वेषां चैतन्यमात्ररूपत्वात् ।
नच धर्माधर्मकृतमपि वैलक्षण्यमात्मानां संभवति, तयोरात्मधर्मत्वाभावात्, अन्तःकरणवृत्तित्वात् तस्य च तदानीमभावादित्युक्तम् ।
एवं च धर्माधर्मरहितेषु निर्विशेशेषु पुरुषेष्ववस्थितेषु सर्गकाले प्रकृतिः शरीरारम्भेणात्मनो बध्नातीति चेत्, ये पूर्वसृष्टौ स्थिताः, ये च ब्रह्महत्याकारिणस्तेषां सर्वेषामैकविध्यमेव स्यात् पूर्वकृतयोर्धर्माधर्मयोर्नष्टत्वत्* ॥॥
ननु नाशो नाम नात्यन्ताभावः किन्तु कारणे कार्याणां तिरोभावमात्रं विनाशः, उत्पत्तिरपि विद्यमानानमेव कारणे कार्याणामाविर्भवमात्रं सर्वं कार्याणां न स्यात्, तन्तुभ्यः पटो मृत्तो घट इति ।
यथाहुः- असदकरणादुपादानग्रहणात्सर्वसंभवाभावात् ।
शक्तस्य शक्यकरणात्कारणभावाच्च सत्कार्यम् इति ।
तथा- नासतो विद्यते भावो नाभावो विद्यते सतः इति भगवद्वासुदेववचनम् ।
तस्मात्प्रलये धर्मादेः शक्त्यात्मनवस्थितत्वात्तद्वशेन युक्तं सृष्टिवैचित्र्यम् ।
नैतदेवम्- न हि मृत्पिण्डावस्थायां वा कपालावस्थायां वा घटरूपमस्ति दृश्यादर्शनविरोधात्* ॥॥
यत्तु नासतो विद्यते भावः इति वचनं तदात्माभिप्रायं, पूर्वत्र हि नत्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः ॥
नचैव नभविष्यामः सर्वे वयमतः परम्, इत्यात्मनित्यत्वं
प्रतिपादयितुमुपक्रान्तमेवानेनोच्यते- नाविद्यमानस्यात्मन उत्पत्तिर्न विद्यमानस्य विनाशः सर्वे एवात्मनो ऽनुत्पत्तिविनाशधर्माणो नित्या इति, न पुनः कार्यजातस्य सर्वस्य नित्यत्वाभिप्रायम्, असर्वगतत्वादनुपलब्धिविरोधाच्चेत्युक्तम्* ॥॥
यदि परमुपादानोपादेययोरभेदमाश्रित्य मृदात्मनादौ घटो व्यवस्थित इत्युच्यते, न च तावता कार्यसिद्धिः ।
नहि मृदवस्थेन घटे नोदकाहरणं क्रियते ।
तथा धर्माधर्मावपि स्वरूपेणाविद्यमानौ प्रकृत्यात्मना स्थितावपि न स्वकार्याय पर्याप्याविति न तद्वशेन वैचित्र्यसंभवः ।
प्रमाणमपि महदादिक्रमेण प्रकृतिपरिणामे किञ्चिन्नास्ति- पुरुषवचसां प्रमाणान्तरगोचरार्थे प्रमाणत्वासंभवात्, वेदानामपि पोरुषेयत्वादितरपुरुषवचनवदप्रमाण्यात्* ॥॥
यदि चु सृष्टिप्रलयपरम्परामनादिमङ्गीकृत्य प्रतिसृष्टि सर्वेषां चैव नामानि कर्माणि च पृथक्पृथक् ।
वेदशब्देभ्य एवादौ पृथक्संस्थाश्च निर्ममे इत्यादिवचनैः ऋतुलिङ्गन्यायेन नामप्रभावव्यवहारवस्तूत्पत्त्या शब्दानामनाद्यर्थसंबद्धानां वेदानां च नित्यत्वमाश्रित्य प्रामाण्यमङ्गीक्रियते, तथाप्येकस्य प्रजापतेः संप्रदायप्रवर्तकत्वे कृतकाशङ्का स्यादेव ।
अथ पुनः अष्टाशीतिसहस्राणि संप्रदायप्रवर्तकाः इत्यादिवचनानुरोधेन बहूनां महर्षीणां सृष्ट्यन्तराधीतं वेदं स्मरतां सुप्तप्रतिबुद्धन्यायेन संप्रदायप्रवर्तकत्वमाश्रित्य कृतकाशङ्कां निरस्य नित्यता समर्थ्येत, तथाप्यनुपादानां जगन्निर्माणमशक्यमभ्युपगन्तुं, (प्रकृत्यादीनां ह्युपादानत्वं निरस्तम् ।) औपनिषदास्तु सृष्टिप्रलयवादाः पौराणिकाश्चार्थवादतया नेतव्याः ।
भवतु चैवं तथापि नास्माकं काचित्क्षतिः ।
संबन्धनित्यत्ववेदप्रामाण्ययोरविघातात् ॥
इति सांख्यमतनिरासः ॥
वैशेषिकमतेन पूर्वपक्षः ।
वैशेषिकास्तु- पौरुषेयत्वमेव शब्दार्थसंबन्धानां वेदानां चाङ्गीकुर्वन्तो ऽनुमानेन सृष्टिप्रलयावीश्वरं च सिषाधयिषन्तः प्रयोगमारचयन्ति- त्रिविधं हि वस्तुजातं संप्रतिपन्नचेतनकर्तृकं घटादि, संप्रतिपन्नातत्कर्तृकं व्योमादि, विप्रतिपन्नतत्कर्तृकं महीमहीधरदूर्वाङ्कुरादि, तत्रान्तिममधिकृत्योच्यते- क्षित्यादिकं बुद्धिमत्कर्तृकं कार्यत्वात् घटादिवत् ।
कार्यत्वं च क्षित्यादेः सावयवत्वात् घटादिवत्* ॥॥
किं पुनः पृथिव्यादेः समवायिकारणम्, पार्थिवाप्यतैजसवायीयपरमाणुजातं यथास्वं पृथिव्यप्तेजोवायूनां समवायिकारणं, न हि प्रलये परमाणूनां प्रलयो ऽस्माकमस्ति सांख्यादिवत् ।
कार्यद्रव्याणि तु द्व्यणुकादीनि सर्वाण्येवेश्वरेच्छया विश्लिष्टावयवानि प्रलीयन्ते, परमाणवस्तु मिथो ऽसंयुक्तास्तिष्ठन्ति व्योमादयश्च क्षेत्रज्ञाश्चात्मीयधर्माधर्मयुक्ता एवावतिष्ठन्ते ।
सर्गकाले पुनरीश्वरेच्छां क्षेत्रज्ञादृष्टं च निमित्तमासाद्य परमाणुषु कर्माण्युत्पद्यन्ते तद्वशाच्च मिथः संयुक्ताश्चतुष्टयेपि परमाणलो द्व्यणुकादिक्रमेण यथास्वं पृथिव्यादिकं भूतचतुष्टयमारभन्ते ।
निमितभूतक्षेत्रज्ञादृष्टवैचित्र्याच्च जरायुजाण्डजोद्भिज्जस्वेदजभिन्नं शरीरभेदमीश्वरेच्छाकारितसंयोगविशेषवशात्परमाणव आरभन्ते ॥
वैशेषिकमतखण्डनम् ।
नन्वेदपि युक्तम्- नहीच्छामात्रेण प्रयत्नमन्तरेण परमाणुषु स्पन्दोत्पत्तिः संभवति, इच्छाकारितप्रयत्नवशेन शरीरस्पन्दोत्पत्तिरद्यत्वे ऽपि दृश्यते ।
ईश्वरो ऽपि प्रयतत इति चेत् ।
न ।
अशरीरस्य प्रयत्नासंभवात् ।
सर्वगता अपि ह्यात्मानः शरीरप्रदेश एव प्रयत्नमारभन्ते न बहिः, अतः शरीरापेक्षः प्रयत्नः ।
प्रलयकाले च सर्वकार्याणां प्रलयादीश्वरशरीरमपि प्रलीनमिति कथमशरीरः प्रयतेत ।
नचाशरीरस्येच्छापि संभवति मुक्तात्मनामिव ।
नापि ज्ञानं संभवति- इन्द्रियादेरभावात्* ॥॥
नित्यमस्य ज्ञानं नित्या चेच्छा नित्यश्च प्रयत्न इति चेत्, न, सर्वज्ञानेच्छाप्रयत्नानामनित्यत्वव्याप्तेः ।
शक्यते हि प्रयोक्तुम्- क्षित्यादिकं नाशरीरिचेतनकर्तृकं न नित्यप्रयत्ननित्येच्छानित्यज्ञानकर्तृकं कार्यत्वात् घटवदिति* ॥॥
ननु घटस्यापीश्वरकर्तृकत्वमस्त्येवेति साध्यहीनो दृष्टान्तः ।
तथापि कुलालस्यापि कर्तृत्वान्न केवलेश्वरकर्तृकत्वं घटस्य, ततश्चैवं प्रयोक्तव्यं- क्षित्यादिकं न केवलाशरीर्यात्मादिकर्तृकं घटावदिति, वस्तुत्वाद्व्योमादिवदिति हेतुदृशष्टान्तौ सर्वथापि निर्देषौ ।
तथा क्षित्यादिकं न बुद्धिमत्कर्तृकं शरीरिकर्तृकत्वविरहात् व्योमवदिति साक्षादेव प्रतिसाधनं कर्तव्यम् ।
अथेश्वरशरीरं नित्यमङ्गीकृत्य प्रलये ऽपि सशरीरमेवेश्वरमभ्युपगच्छेत्, ततः सावयवत्वमीश्वरशरीरे नैकान्तिकं न क्षित्यादेः कार्यत्वं साधयेत्, सशरीरकर्तृकत्वं च दूर्वाङ्कुरादीनामनुपपन्नमनुपलब्धिविरोधात्* ॥॥
किञ्च प्रतिकार्यं प्रयत्नभेदेन भवितव्यम्, अन्यो हि पादसंचरणे प्रयत्नः अन्यश्च बाहूद्धरणे, तथा सति यद्यपीश्वरे प्रयत्नो नित्यः स्यात्तथापि तस्यैकत्वान्न विचित्रकार्योदयहेतुत्वं संभवतीति व्यर्थ एवासौ ।
यदि त्वनन्तकार्यानुरूपा अनन्ता सर्गकाले ऽप्यवस्थानात्, संयोजकस्य च सर्गहेतोः प्रलयकालेप्यवस्थानात् उभयोः परस्परविधातान्न सृष्टिः स्यात् न प्रलयः ।
यच्च क्षेत्रज्ञादृष्टवैचित्र्योपपत्तिरिति, तदप्ययुक्तम्- नहि दृष्टकारणवैलक्षण्यन्तरेणादृष्टवैलक्षण्यमात्रात्कार्यवैलक्षण्यं सिद्ध्यति ।
नह्यदृष्टशतेनापि तालबीजमन्तरेण
तालवृक्षो निष्पद्यते ।
विनापि बीजमीश्वरमहिम्ना सर्वं सिद्ध्यतीति चेत् ।
न ।
तत्रैव प्रमाणाभावात् ।
नित्यत्वे हि वेदानामवसिते तत्प्रामाण्यबलेनेश्वरस्यापरिच्छेद्यो महिमा, सृष्टिप्रलयौ
ऋतुलिङ्गन्यायमाश्रित्य सिध्येयुर्न वा ।
वेदांस्त्वनादृत्य दृष्टानुसारेण पर्वते इवानुमानमत्यन्तालौकिकेर्ऽथे प्रवर्तयतामुपेक्षैवोत्तरमित्युपरम्यते ।
तस्मान्न सर्गादिकाले ऽपि संबन्धकारणम् ॥
शब्दार्थसंबन्धस्य नित्यत्वम् ।
अशक्यं च कर्तुं सर्वशब्दानां संबन्धकरणम्- यदा न कश्चिदपि शब्दः केनाप्यर्थेन संबद्धं आसीत् तदा कथं संबन्धः क्रियेत- संबन्धं हि कुर्वतावश्यं केनचिद्वाक्येन स कर्तव्यः- गौः सास्नादिमानित्यादिना ।
नचाप्रसिद्धमर्थप्रतिपादकत्वेन सास्नादिशब्दमर्थप्रतिपादनाय शक्नोति कर्तोच्चारयितुं, तथा हस्तसंज्ञादयोपि, प्रतिपादकत्वासिद्धेः* ॥॥
नन्वेवमप्रसिद्धसंबन्धस्य कथमनप्यनुपपन्नम्- यद्यपि हि तदा वक्तुः प्रसिद्धसंबन्धत्वात्संबन्धकथनाय वाक्योच्चारणं संभवति तथापि श्रोतारो ऽप्रसिद्धसमस्तपदार्था बालाः कथं वाक्येन संबधं प्रतिपद्येरन्, तस्मात्करणवत्कथनमप्यनुपपन्नम् ।
नैष दोषः ।
कथयितुस्तावन्न कर्तुरिवाशक्तिः- उपायसंभवात्, प्रतिपत्तारस्तूपायाभावान्न प्रतिपद्यन्त इति दृष्टविरुद्धम्, दृश्यन्ते ह्यप्रसिद्धसमस्तशब्दार्था बाला वृद्धेभ्यः संबन्धं प्रतिपद्यमानाः* ॥॥
किञ्चास्त्युपायो बालानां- नावश्यं संबन्धकथनावाक्येनैव वृद्धेभ्यो बालाः संबन्धं प्रतिपद्यन्ते, किन्तु यदा वृद्धाः प्रसिद्धसंबन्धाः स्वकार्यार्थेन व्यवहरन्ति तदा तेषामुपशृण्वन्तो बालाः संबन्धं प्रतिपद्यन्ते ।
यदा हि केनचिद्गामानयेत्युक्तः कश्चित्सास्नादिमन्तमानयति तदा समीपस्थो बालो ऽवगच्छति यस्मादयमेतद्वाक्यश्रवणानन्तरमस्मिन्नर्थे प्रवर्तते तस्मादस्माद्वाक्यादयमर्थः प्रत्यायित इत्येवं संमुग्धरूपेणावगतं प्रत्यायकत्वं पश्चाद्बहुषु प्रयोगेष्वन्वयव्यतिरेकाभ्यां वाक्यभागानां पदानां पदभागानां च प्रकृतिप्रत्ययानां वाक्यार्थभागेषु पादर्थेषु विवच्यते, तस्मान्न पौरुषेयः संबन्ध इति न तद्वशेन पुरुषापेक्षास्तीति सिद्धमनपेक्षं वेदानां प्रामाण्यम् ॥
इति संबन्धाक्षेपपरिहारः ॥
यच्चान्नन्तरफलानुपलब्ध्या चित्रादीनां न पश्चादिफलत्वमिति स्यादेवम् ।
यदि प्रत्यक्षादिपञ्चकमेव प्रमाणं स्यात्तदा ह्यनन्तरफलोपलम्भादेव तत्साधनत्वं स्यात् नान्यथा, शब्दस्यापि तु प्रमितिजनकतया प्रत्यक्षादिवत्प्रमाणत्वात् तेनच चित्रादीनां पशुसाधनत्वावगमादसत्यप्यनन्तरोपलम्भे सिद्ध्यति तत्साधनत्वम् ॥
चित्रादिविषयकाक्षेपपरिहाराः ।
ननु प्रमाणान्तरविरोधादप्रमाण्यमित्युक्तं, न, तदभावात्, नहि शब्दो ऽनन्तरमेव चित्राफलसाधनमिति ब्रूते येन विरोधः स्यात्, साधनत्वमेव प्रतिपन्नं तन्मात्रवचनात्, तस्य चापूर्वद्वारेण कालान्तरे ऽपि तैलपानादिवत्फलसाधनत्वोपपत्तेः* ॥॥
यत्तु प्रागनुष्ठानाच्छास्त्रार्थावधारणवेलायां नापूर्वमन्तर्भावितामित्युक्तं, यद्यप्येवं तथापि पश्चादेवमवगच्छति- साधनत्वमात्रे ऽपि शब्देनोक्ते भ्रान्त्या मया साक्षात्साधनत्वमेव प्रतिपन्नं तच्चेदानीमन्यथा जातम्, अतो नूनमस्य केनापि द्वारेण कालान्तरे फलमिति* ॥॥
प्रागपि च शक्यमेवापूर्वमवगन्तुम् अनेकेषामङ्गप्रधानकर्मणां क्षणिकानामपूर्वमन्तरेण यौगपद्यासंभवात्, पश्वादीनां च दृष्टकारणापेक्षत्वान्न क्षणमात्रेणोत्पत्तिः संभवतीत्यवश्यंभाव्यपूर्वम् ।
न च पश्चाद्युत्पत्तिमात्रं फलम् उपभोगस्य तु चिरकालत्वात् यावदुपभोगमवस्थास्यमानेन केनचिद्भवितव्यम् ।
न च क्रियायास्तावन्कालमवस्थानं संभवतीत्यपूर्वमङ्गीकर्तव्यमिति तद्द्वारेण
युक्तं कर्म कालान्तरे फलदमिति नानन्तरानुपलब्ध्या शास्त्रस्य बाधः ॥
इति चित्राक्षेपपरिहारः ।
।
आत्मवादारम्भः ।
यत्तु प्रत्यक्षविरुद्धं वचनमुपन्यस्तं स एष यज्ञायुधी यजमानो ऽञ्जसा स्वर्गं लोकं यातीत्येतच्छब्देन प्रत्यक्षं शरीरं यज्ञायुधसंयुक्तमुपदिशतीति ।
तदभिधीयते- अर्थवादत्वादस्यान्यपरत्वान्न स्वार्थे प्रमाणान्तरविरोधो दोषः ।
न च विरोधो ऽपि विद्यते ।
नह्यनेन शरीरस्य स्वर्गगमनमुच्यते किन्तर्ह्यात्मनो यस्यैतच्छरीरं , सो ऽपि हि शरीरशरीरिणोरभेदोपचारेण शरीरस्थेन यज्ञायुधित्वेन प्रत्यक्षत्वेन च व्यपिदिश्यते ।
आत्मनो वा स्वर्गगमनं शरीरे उपचर्यत इति नास्ति विरोधः* ॥॥
यजमानशब्दो ऽपि तस्यैव यागस्वामित्वात्कर्तृत्वाच्च वाचकः ।
न च शक्यते तस्य कापिलवदकर्तृत्वं वक्तुं- श्रुतिविरोधात्, सर्वत्र हि कर्तृभोक्तृशब्दयोः सामानाधिकरण्यं दृश्यते ।
यथात्रैव- यजमानः स्वर्गं लोकं यातीति ।
तथा य एवं विद्वानग्निं चिनुते ऋध्नोत्येव य एवं विद्वान्द्विरात्रेण यजते स्वर्गकामेव संकल्पं प्रति कर्तृत्वमुक्तम्* ॥॥
संभवति च स्वर्गगतस्याप्यात्मनो यागज्ञानप्रयत्नसंकल्पादिषु साक्षादेव कर्तृत्वं, न हि वयं स्पन्दमेव क्रियामुपगच्छामो वैशेषिकवत्, येनात्मनः कर्तृत्वं न स्यात्,
धात्वर्थमात्रस्य क्रियात्वात् ।
स्पन्देष्वपि प्रयोजकत्वेनास्यैष कर्तृत्वं संभवति, प्रयत्नेन ह्यसौ शरीरं स्पन्दे प्रयोजयति ।
साक्षात्तु न संभवति, सर्वगते स्पन्दस्यासंभवात्- इत्यनेनाभिप्रायेण पुराणेषूपनिषत्सु चाकर्तृत्ववादाः ॥
शरीराकिरिक्तात्मसाधनम् ।
किंपुनः शरीरव्यतिरिक्तात्मसद्भावे प्रमाणं प्राणनादिलिङ्गं सुखादयश्च प्राणनादिशब्देन कोष्ठ्यस्य वायोरूर्ध्वधोगमनवृत्तिविशेषस्य प्राणनादिशब्दवाच्यस्य हेतुभूतः प्रयत्न उच्यते सच सुखादयश्च न शरीरधर्माः संभवन्ति, अयावच्छरीरभावित्वात् ।
ये हि कार्यद्रव्यवर्तिनो विशेषगुणा रूपादयस्ते विरोधिगुणान्तराद्वा द्रव्यविनाशाद्वा विनश्यन्ति, प्राणनादयस्तु तद्भावेपि नश्यन्ति मृतावस्थायामिति न शरीरगुणाः ।
तथा ज्ञानमप्ययावच्छरीरभावित्वादेव न शरीरधर्मः ।
तथा ये प्रत्यक्षिविषयाः न शरीरगुणस्ते स्वयमिव परैरपि यथा गृह्यन्ते यथ रूपादयः, सुखादयस्तु प्रत्यक्षा अपि सन्तो न परप्रत्यक्षग्राह्याः तस्मान्न शरीरगुणाः, तदिदमपि द्वयं सुखादीनां शरीरगुणत्वं निवारयदन्यगुणतां सूचयति ।
यो ऽसावन्यः स आत्मा ।
किञ्च सर्वं एव विशेषगुणाः करणे ऽपि वर्तमाना एव कार्यद्रव्यगुणतां भजन्ते, न च शरीरकारणभूतेषु पार्थिवपरमाणुषु चैतन्यमस्तीति कथं शरीरगुणता चैतन्यस्य स्यात् ।
तस्मादन्यश्चेतनः ॥
देहाभिन्नात्मसाधनम् ।
कश्चित्पुनराह- सर्वथा वित्तिषु तावद्वेत्तावभासते अन्यथा स्वपरवेद्ययोरनतिशयप्रसङ्गात् ।
न च शरीरस्य करचरणाद्यवयवसंनिवेशविशिष्टस्यास्ति तथावभासः, अतो ऽन्यः शरीरादात्मेति ।
तत्त्वयुक्तम्- संनिवेशप्रतिभासे ऽपि शरीरप्रतिभाससंभवात् ।
नहि संनिवेश एव शरीरं, शरीरधर्मो हि संनिवेशः संभवति च धर्माप्रतिभासो ऽपि धर्मिणः प्रतिभासः, अन्यथा आत्मनोपि प्रतिभासो न स्यात् तद्धर्माणां सर्वगतत्वादीनामर्थवित्तिष्वप्रतिभानात् ।
नचैकान्तिकमर्थवित्तिषु वेत्तृभानं, अर्थ एव हि तदा भासते न वेत्ता* ॥॥
न च स्वपरवेद्ययोरनतिशयः ।
न हि वेदित्तृभासनकृतो ऽयमतिशयः किन्तु कस्यचिदेव किञ्चिदाभासते नान्यस्य इत्येतावानतिशयो नान्यः, तस्मान्न ज्ञातृप्रतिभासेन शरीरविवेकसिद्धिः, किन्तु पूर्वोक्तादेव कारणात्- ज्ञानसुखादीनां शरीरगुणत्वासंभवात् ततो ऽन्य
एतेषामाश्रयः स एवात्मा ॥
बौद्धमतेन विज्ञानात्मवादः ॥
सौगतास्त्वाहुः- सिद्धे ज्ञानसुखादीनां गुणत्वे गुणकल्पना ।
न तु तत्सिद्धमस्माकं तावन्मात्रोपपत्तितः ।
नह्याश्रयमन्तरेण ज्ञानमात्रमनुपपन्नं स्वतन्त्रमेव ज्ञानं किं नेष्यते सुखादयो ऽपि ज्ञानविषयाः स्वतन्त्रा एव अन्यस्याश्रयस्यानुपलब्धेः ।
ज्ञानमेव च नीलमहं जानामीति ज्ञातृत्वेन विपर्यासितदर्शनैरध्यवसीयते नान्यः प्रमाणाभावात्* ॥॥
ननु ज्ञानस्यापि क्षणिकत्वात्कथं पूर्वेद्युरुपलब्धे परेद्युःस्मरणमिच्छा प्रत्यभिज्ञा च ।
नहि स्वयमनुपलब्धे तानि संभवन्ति- नहि देवदत्तेनोपलब्धेर्ऽथे यज्ञदत्तस्य स्मरणादीनि संभवन्ति ।
सत्यम्- न संभवन्ति संतानभेदे समानायां तु संततावेकेनोपलब्धे ऽन्यस्य स्मरणाद्युपपन्नं दृष्टत्वात्, नह्युपलब्धुः स्मर्तुश्चैकत्वं क्वचिदपि दृष्टं, एकस्य स्थास्नोः पुरुषस्य क्वचिदप्यनुपलब्धत्वात्, तस्माज्ज्ञानमेव ज्ञातृ नान्यो ज्ञातास्तीति* ॥॥
अत्रोच्यते- प्रत्यभिज्ञायते कर्ता यः पूर्वापरकालयोः ॥
तस्य स्थास्नोः भेदो विज्ञानात्क्षणभङ्गुरात् ।
विषयप्रत्यभिज्ञानानुपपत्तेर्ज्ञातुरेकत्वकल्पनायां स्यादप्येतदुत्तरं- संतानैकत्वादेवोपपद्यत इति ।
यदा तु ज्ञातैवैकः पूर्वापरकालयोः प्रत्यभिज्ञायते- यो ऽहं पूर्वमद्राक्षं स एवाहमनुपश्यामीति तदा प्रत्यभिज्ञयैव ज्ञातुरेकत्वावगमात्, विज्ञानस्य च क्षणिकत्वात्ततो ऽन्यो ज्ञाता सिद्धो भवतीति* ॥॥
किमहंप्रत्ययगोचरो ज्ञाता स्यात्, तथा सति शरीरमेव जानामि कृशो ऽहं गच्छाम्यहमिति कार्श्यादिबुद्धिसामानाधिकरण्यादहंबुद्धेर्गोचरः, आत्मनश्च सर्वगतस्य कार्श्याद्यनुपपत्तेः* ॥॥
उच्यते- ज्ञातृविशयस्तावदहंप्रत्यय इत्यविवादम्, यो हि परामृशति स स्वात्मानमहमिति परामृशति परानिदमिति ।
तेन निःसंशयमस्य ज्ञातृगोचरत्वं शरीरस्य च ज्ञातृत्वं निराकृतं, अतो ऽत्यन्तसंसृष्टयोरेकत्वभ्रान्त्या सामानाधिकरण्यप्रतीतिरुष्णतोयप्रतीतिवत् भास्वरायःपिण्डप्रतीतिवच्च ॥
शरीरात्मनोर्भेदोपपादनम् ।
तथा व्यतिर्कबुद्धिरपि दृश्यते ममेदं शरीरं कृशमिति षष्ठ्यास्मदर्थस्य शरीरव्यतिरेकात्, शरीरस्य च परविषयेदङ्कारास्पदत्वात्, ततो ऽस्माद्विवेकावभासात्पूर्वोक्तन्यायेन च शरीरस्याज्ञातृत्वात्, अभेदावगमस्य च संसर्गदोषवशेन भ्रान्त्याप्युपपत्तेः, पूर्वाभ्यस्तस्मृत्यनुबन्धेन च विना जातस्य हर्षभयशोकप्रतिपत्त्यनुपपत्तेः ।
जातिस्मराश्च केचिदद्यत्वे ऽपि देहान्तररहोवृत्तं वृत्तान्तं संबोधयन्त उपलभ्यन्त इत्युपलब्धिसिद्धः शरीरात्मनभेदः ।
यद्यपि चानेन प्रकारेण शरीरात्मनोर्विस्पष्टो भेदो न सिद्ध्येत् तथापि तावदभेदो ऽपि न विस्पष्टः- मम शरीरमिति विवेकस्यापि प्रतिभासात् ।
तत्र संमुग्धे तत्त्वे श्रुतार्थापत्त्या साक्षाच्छ्रुत्या वा निर्णयः ।
स्वर्गकामादिश्रुतयो हि शरीरातिरिक्तं परलोकफलोपभोगयोग्यं कर्तारमन्तरेणानुपपद्यमानास्तमाक्षिपन्ति ताभिश्चाक्षिप्तं साक्षादेवोपनिषदः समर्थयन्ति अवनाशि वा अरे ऽयमात्मा इत्येवमादय इति सिद्धः शरीरातिरिक्तो मानसप्रत्यक्षरूपो ऽहंप्रत्ययगम्यो ज्ञाता ।
कथं पुनर्ज्ञातुर्ज्ञेयत्वं, नह्येकस्य कर्तृत्वं कर्मत्वं च स्वात्मनि क्रियाविरोधात्संभवचि, तस्मान्नाहंवित्तिर्नाम घटादिवित्तिव्यतिरेकेण काचिदस्ति, घटादिवित्तावेव तु विषयवदात्मा भासत इत्युक्तम् ।
आत्मनो मानसाहंप्रत्ययगम्यत्वम् ।
कः पुनरयं स्वात्मनि क्रियाविरोधो नाम, यस्यां क्रियायां यः कर्ता न सा तस्मिन्नेव स्वफलं
जनयतीत्यर्थः ।
किं पुनः संवित्तिक्रियायाः फलं, भासनं, किमिदं कर्तरि न भवति ।
ओमितिचेत्, कथं तर्ह्यसौ भासते ।
नह्यसति भासते भासत इति शक्यते वक्तुं, तस्मादर्थवित्तिष्वप्यात्मनो भासनाभ्युपगमे ऽपि स्वात्मनि क्रियाविरोधस्तुल्य एव ।
व्यवहारयोग्यतामात्रं संवित्ते पलं नान्यदितिचेत् भवत्वेवम् ।
अस्ति तावत्फलम् ।
तच्च विषयेष्विवात्मन्यपि संवित्तितो जायत इत्यङ्गीकृतं भवद्भिः ।
अतस्तुल्यो विरोधः* ॥॥
यदि परमार्थविरोधमुद्भाव्य सत्यप्यात्मनः क्रियाजन्यफलभागित्वे कर्मसंज्ञा कर्मविभक्तिंश्च न भवतीत्युच्यते परसमवायिक्रियाफलभागित्वं कर्मत्वम् इत्यभिधानात् तच्चायुक्तम् ।
शब्दसाधुत्वं हि प्रयोगतो ऽवगन्तव्यम् ।
अस्ति चात्मनः स्वकर्तृकायामेव क्रियायां कर्मव्यवहारो लोके वेदे च- यधा तावद्भाष्य एव स्वसंवेद्यः संभवतीति कर्मवाची कृत्यप्रत्ययप्रयोगः वेदेपि आत्मानमुपासीत आत्मानं वेद आत्मा ज्ञातव्यः इत्यनेकशः प्रयोगः ॥
न च गन्तुर्गमने कर्मत्वं प्रयोगाभावात् शब्दसाधुत्वे हि प्रयोगपरवशा वयं न स्वयमीश्महे ।
यथाहि चलनार्थत्वे समाने गच्छतिः सकर्मकः चलतिश्चाकर्मकः प्रयोगस्य तथा दर्शनात् ।
एव ज्ञातुः कर्मत्वं गन्तुश्चाकर्मत्वं भविष्यति ।
तस्मान्मानसाहंप्रत्ययगम्य आत्मा ।
तथा च श्रुतिः स मानसीन आत्मा जनानाम्, इति ।
तेन यद्यपि विषयवित्तिवेलायामेवात्मावभासस्तथापि न विषयवित्तिकर्तृतयावभासस्तथापि न विषयवित्तिकर्तृतयावभासः किन्तु मानसाहंप्रत्ययकर्मतयावभासो न तद्वित्तिकर्मतयाव्याप्तेः ।
ननु शरीरवदात्मन्यप्यहमभिमानो भ्रान्तरेव, न, बाधाभावात् ।
योगिनामस्ति बाध इति चेत्, नप्रमाणाभावात् ।
तथा च यो ऽपि योगस्य परां काष्ठामुपगताः ।
योगेश्वरास्ते ऽपि कुर्वन्त्यात्मन्यहंमतीम् ॥
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ।
तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ।
यस्मात्क्षरमतीतो ऽहमक्षरादपि चोत्तमः ।
एवमादावहंशब्दः परस्मिन्पुंसि हि ध्रुवम् ।
न हि महद्विकारो ऽहङ्कारः कृत्स्नस्य प्रभवः, नापि क्षराक्षराभ्यामुत्तमः, नापि ब्रह्मशब्दवाच्ये प्रधाने गर्भं दधाति, पुरुषसंपर्ककृतत्वात्प्रकृतिक्षोभस्य ।
तथोपनिषत्स्वपि- ब्रह्म वा इदमग्र आसीत् तदात्मानमेवावेदहं ब्रह्मास्मि इति मन्त्रवर्णोपि अहं मनुरभवं सूर्यश्च इति ।
तस्मादहंप्रत्ययगम्यत्वामात्मनो ऽनिच्छिन्तः श्रुतिविरोधादेवोपेक्षणीयाः* ॥॥
यत्तु निर्मुक्ताहङ्कारममकारवचनं तदपि पौर्वापर्येण परामृष्यमाणं नाहङ्कारस्वरूपनिषेधार्थ भवति, एवं हि तद्वचनं- नास्य कश्चिन्नायं कस्यचित् निर्मुक्ताहङ्कारममकार एवायमिति ।
तदयमर्थः- यस्मान्नास्य कश्चित्तस्मान्निर्मुक्तममकारः, यस्मान्नायं कस्यचित्तस्मान्निर्मुक्ताहङ्कार इति ।
यद्यहङ्कारस्वरूपनिषेधः स्यात्, न पूर्वेण संबध्येत- यस्मान्नायं कस्यचित्तस्मादस्मिन्नहंभावो भ्रान्तिरिति किं केन संगतम्, तस्मान्नायमहन्तास्वरूपनिषेधः किं तर्हि जन्मंसंबन्धितयात्मन्यहंमतिः अहमस्य पिताहमस्य पुत्र इत्यादिः स भ्रम इत्येवं संगतं भवति* ॥॥
अयमात्मा न कस्यचिदपि पुत्रादिरूपेण संबन्धी, जन्यजनकभावस्य शरीरविषयत्वात्, शरीरं हि शरीराज्जायते नत्वात्मात्मान्तरात्, तस्मादन्यसंबन अधितयात्मन्यहंमतिः कृशादिमतिच्छरीराद्विवेकमबुध्यमानानां भ्रान्तिरिति ।
तदिदमस्यान्यसंबन्धिनिषेधेन पुत्रादिविषयस्नेहनिवर्तनेन वैराग्यजननार्थमुच्यते, नाहङ्कारस्वरूपस्यायं निषेधो ऽनुपयोगादसंगतत्वात् प्रमाणान्तरविरोधात् अहं ब्रह्मास्ति इति वचनविरोधाच्च ।
तस्मादहंप्रत्ययगम्यो ज्ञाता शरीरातिरिक्त इन्द्रियव्यतिरिक्तश्च ॥
इन्द्रियात्मनोर्भेदः ॥
कथमिन्द्रियभेदः, इन्द्रियाभावे ऽपि ज्ञातुरेकस्य प्रत्यभिज्ञानात् यो ऽहं रूपमद्राक्षं सो ऽहं
स्पृशामीति, यो ऽहमग्रहीषं सो ऽहं स्मरामीति ।
मनस्तु प्रत्यक्षसिद्धस्य ज्ञातू रूपादिज्ञानेषु व्यतिरिक्तकरणाधीनत्वात् सुखादिज्ञानेषु भवितव्यं करणेनेत्येवं कल्प्यत इति नास्य ज्ञातृत्वमाशङ्कनीयम्* ॥॥
येतु कर्तृतयैवात्मसिद्धिर्नस कर्मतयेत्याहुस्तेषामात्मनि स्मरणप्रत्यभिज्ञाने नोपपद्येयाताम्, तत्रापि हि पूर्वकालसंबन्धित्वेनात्मनः प्रतिभासो ऽङ्गीकरणीयः,
न च सांपर्ते स्मरणे पूर्वकालसंबन्धिनः कर्तृत्वं संभवतीति कथं कर्तृतया सिद्ध्येत्, तस्मादहंप्रत्ययकर्मतयैवात्मनः सिद्धिरिति रमणीयम्* ॥॥
अथ स्वप्रकाशत्वमात्मनः सुखादीनां च किं नेष्यते, स्वप्रकाशस्य कस्यचिदप्यदर्शनात् सर्वस्यैव हि वस्तुनः परप्रकाश्यत्वनियमात् ।
स्वप्रकाशत्वे चात्मा सुषुप्तावपि प्रकाशेत, न च प्रकाशते, यथोक्तम्- अचेतनयन्नेव सुषुप्त इत्युच्यते इति* ॥॥
न तु सुषुप्तावपि प्रकाशत एवात्मा स्वाभाविकपरमानन्दयुक्तः, अन्यथा कथम् सुखमहमस्वाप्सम् इति प्रबोधे प्रतिसंधानं स्यात्, अर्थान्तरं तु न किञ्चिच्छरीरमिन्द्रियमन्यद्वा वस्तु प्रकाशत इत्येतावान् स्वप्रदागकाभ्यां सुषुप्तेर्भेदः ।
नैतदेवम्- संविद्विरोधात्, न हि सुप्तानामात्मा सुखं वा प्रकाशते, नह्यभासमानं व्यवहारमात्रेण प्रकाशत इति शक्यमङ्गीकर्तुम्* ॥॥
कि च - सुष्वापादुत्थिताश्चैवं निर्विद्यन्ते हि कामुकाः ।
वृथेयमन्तरेणैव कामिनीं यामिनी गता ।
आश्लिष्टामप्यबुद्ध्वैनां निर्विद्यन्ते मया ।
भुक्त्वा च परमानन्दं तस्य च स्मरणादयम् ।
स्वल्पाल्पसुखहान्यैवं निर्वेदो नावकल्पते ॥
तत्सुखं विस्मृतं चेत्स्यात्सुखमस्वाप्यमित्ययम् ।
व्यवहारो न युज्येत, दुःखाननुभवे त्वियम् ।
सुखव्यवहृतिस्तस्माद्गुणवृत्त्येति निश्चयः ।
प्रबुद्धा हि सुषुप्ताववगतं किचिदपि दुःखमसंस्मरन्तः स्मरणानुत्पत्त्यैव सुषुप्त्यवस्थायां मे न किञ्चिदपि दुःखमासीदित्यवगम्य तत्रैव सुखव्यवहारं गुणवृत्त्या कुर्वन्ति, तथा च व्यवहरन्ति- एतावन्तं कालमहमात्मानमप्यबुद्ध्वा शयितो ऽस्मीति ।
तस्मात्सुषुप्तावप्रकाशात्मनः स्वप्रकाशत्वम्, अतो मानसप्रत्यक्षगम्य एवायमिति स्थितम् ॥
आत्मनो व्यापकत्वम् ।
स पुनरयमात्मा अणुः शरीरपरमाणो विभुर्वेति चिन्तनीयम् ।
तत्राणुपरिमाणत्वे युगपच्छिरःपादयोर्वेदनानुपपत्तिः ।
अयौगपद्ये ऽप्यतिशैघ्य्याद्यौगपद्यावगतिरिति चेत्, स्यादेवं यद्यणुत्वं कुतश्चित्सिद्धं स्यात्, तदसिद्धौ दृष्टानुसारादनणुत्वमेव युक्तम् ।
तत्र शरीरपरिमाणत्वे सावयवः स्यात्, तत्र द्विविधमेव हि निरवयवद्रव्यम्- अणु विभु वा, तदसौ शरीरसंमितः सन् सावयवः स्यात्, तत्र बह्ववयवकल्पना तावतां चान्यूननधिकानामवयवानां पुत्तिकाहस्तिदेहयोरतिसंकोचविस्तारकल्पनं नातीव हृदयमनुरञ्जयति, तस्माद्विभुत्वमेव युक्तम् ।
तथा च श्रुतिः- अनन्तमपारम् इति ।
भगवद्गीतासु च वचनम्- नित्यः सर्वगतः स्थाणुरचलो ऽयं सनातनः इति ।
ये चोपनिषत्स्वणुत्ववादाः पुराणेषु च अङ्गुष्ठमात्रं पुरुषम् इत्यादयस्ते सूक्ष्मग्रहणगोचरत्वाभिप्रायाः* ॥॥
ननु विभुत्वे सर्वशरीरेष्वेक एवात्मास्तु किं नानात्मभिरभ्युपगतैः,नैवम्- एकत्वे सति यथा परणभेदे ऽपि कर्तुरेकत्वाच्चक्षुषा दृष्टमर्थं यज्ञदत्तः प्रत्यभिजानाति- यमहमदर्शं तमहं स्पृशामीति, तथा देवदत्तशरीरस्थेनात्मना दृष्टमर्थं यज्ञदत्तः प्रत्यभिजानीयात्, शरीरभेदे ऽप्यात्मनसः, शरीरभेदे ऽप्यात्मनः प्रत्यभिज्ञातुरेकत्वात् ।
कर्तुरेकत्वे ऽपि मनोभेदाद्व्यवस्थेति चेत्, न, करणत्वान्मनसः, करणभेदस्य चक्षुरादेर्भेदव्यवस्थापकत्वायोगादित्युक्तम्* ॥॥
चक्षुरादिकरणानामव्यवस्थापकत्वे ऽपि मनः करणं
व्यवस्थापकमिति चेत् न, करणत्वाविशेषात् ।
स्यादप्येषा कल्पना यद्येकात्मत्वे दृढं प्रमामं स्यात् ।
न तु तदस्ति ।
येत्वात्मैकत्ववादाः श्रुतिषु स्मृतिषु पुराणेषु वा ते निरञ्जनः परमं साम्यमुपैति मम साधर्म्यमागताः उत्तमः पुरुषस्त्वन्यः इत्यादिभिरात्मबेदवचनैः प्रत्यक्षादिभिश्च विरोधान्नैकान्ततः शक्नुवन्त्यात्मैकत्वं निश्चाययितुम्* ॥॥
वचनानां हि मिथो विरोधे सिद्धवस्तुविषयत्वेन च विकल्पासंभवे प्रमाणान्तरान्निर्णयः स्यात्, तच्च प्रमाणान्तरं भेद एव समर्थमित्यैकात्म्यवादानामवैलक्षण्यपरत्वं पूर्वोक्तन्यायेनावगन्तव्यम्* ॥॥
विस्पष्टं चैतद्वायुदृष्टान्तोपादानात्- वेणुरन्ध्रादिभेदेन भेदः षड्जातिसंज्ञितः ॥
अभेदव्यापिनो वायोस्तथा तस्य महात्मनः इति ।
न हि वायुद्रव्यं सर्वत्रैकं व्यक्तिभेदस्य स्पष्टत्वात्, अविलक्षणस्वभावस्य तु वायोर्वेणुरन्ध्राकृतं षड्जादिवैलक्षण्यं, एवात्मनो ऽपि पशुमनुष्यादिवैलक्षण्यं देहसंबन्धकृतं न स्वाभाविकमित्ययमेवार्थः ।
वायोरिति तस्येति चैकवचनं सामान्याभिप्रायम्, तस्मात्प्रतिशरीरं भिन्ना एवात्मानः नित्याः सर्वगता एवं च बद्धमुक्तादिव्यवस्थापि युक्ततरा भवति ॥
इत्यात्मवादः ॥
मोक्षवादारम्भः ।
कः पुनरयं मोक्षो नाम, विचित्रवासनावशेन विचित्रनीलपीतादिरूपेण प्रवहतो ज्ञानसंतानस्य निःशेषवासनोच्छेदान्नीलपीतादिवैचित्र्यं हित्वा केवलं संविन्मात्रेणावस्थानमिति केचित् ।
अपरेतु दीपसंतानस्येव ज्ञानसंतापनस्योपरमम् ।
उभयमप्येतद्बाह्यार्थाभावमूलमिति तत्सद्भावप्रतिपादनेनैव निराकृतम्* ॥॥
अपरे तु प्रपञ्चविलयमपवर्गमाहुः ।
अविद्यानिर्मितो हि प्रपञ्चः स्वप्नप्रपञ्चवत् प्रबोधेनैव ब्रह्मविद्यया अविद्यायां विलीनायां स्वयमेव विलीयते ।
तथाहि श्रुतिः यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति यत्र त्वस्य सर्वामात्मैवाभूत्तत्केन कं पश्येत्
इति* ॥॥
तदिदमपि प्रपञ्चस्याविद्यानिर्मितत्वनिरारणेन परमार्थत्वप्रतिपादनान्निरस्तमेवेति आत्मैवेदं सर्वमिति सर्वस्यात्मा भोक्तेत्यर्थः ।
यथा यः कामयेत राष्ट्रं स्यामिति राष्ट्रस्य भोक्तेत्यर्थः ।
यथा कामयेत सर्वमिदं भवेयमिति सर्वस्य भोक्ता भवेयमित्यर्थः ।
तथा- आत्मा सर्वमिति सर्वस्यात्मा भोक्तेत्यर्थः ।
यत्तु यत्र हि द्वैतमिव भवतीति द्वैतभावस्य भ्रान्तित्ववचनं तदौपचारिकम्- यथा खलु स्वप्नप्रपञ्चेन्द्रजालमृगतोयादिः कियन्तञ्चित्कालं दृष्टिपथमापन्नः पश्चाद्विलीनो भोग्यतामतिवर्तते तथायं शरीरेन्द्रियविषयरूपप्रपञ्चो ऽप्यस्यात्मनः कियन्तञ्चित्कालमुपभोग्यः सन् पश्चाद्विनाशादनुपभोग्यो भवतीत्यनेन सादृश्येन भ्रान्तिरित्युपचारेणोच्यते पुरुषाणां विषयभोगेष्वास्थानिवर्तनेन मुक्तावभिरुचिं जनयितुं, यदपि यत्र त्वस्य सर्वमात्मैवाभूदिति मुक्तावात्मनो ऽद्वितीयत्वचनं तदपि न प्रपञ्चस्वरूपनिषेधार्थं कितु सत एव प्रपञ्चस्यात्मसंबन्धनिषेधार्थं, अस्येतिवचनात्, नह्यत्रैतावदुच्यते यत्र सर्वमात्मैवाभूदिति, किं तर्हि, यत्र त्वस्य सर्वमात्मैवेति ।
तेनास्यायमर्थः- यत्र यस्यामवस्थायां मुक्तावित्यर्थः ।
अस्य आत्मनो दृश्यत्वेन दर्शनसाधनत्वेन दर्शनायतनत्वेन वा न किञ्चिदन्यसंबन्धि विद्यते किन्त्वात्मैवास्य सर्वं नान्यकिञ्चित् तदा केन कं पश्येदिति ।
यथा लोके यस्य न किञ्चिदपि बान्धवो वित्तं वास्ति स एवं वदति- न मे कञ्चिदस्ति अहमेव सर्वं तत्र संबन्ध्यन्तरं न किञ्चिदस्तीत्येतावद्विवक्षितम्, एवं मुक्तावात्मैवात्मनः सर्वमिति संबन्ध्यन्तराभावमात्रं विवक्षितं न प्रपञ्चस्वरूपभावः, तस्मान्न प्रपञ्चविलयो मोक्षः किन्तु प्रपञ्चसंबन्धविलयः ।
त्रेधा हि प्रपञ्चः पुरुषं बध्नाति भोगायतनं शरीरं भोगसाधनानीन्द्रियाणि भोग्याः शब्दादयो विषयाः ।
भोग इति च सुखदुःखविषयो ऽपरोक्षानुभव
उच्यते तदस्य त्रिविधस्यापि बन्धस्यात्यन्तिको विलयो मोक्षः* ॥॥
किमिदमात्यन्तिकत्वं पूर्वोत्पन्नानां शरीरेन्द्रियविषयाणां विनाशः, अनुत्पन्नानां चात्यन्तिको ऽनुत्पादः ।
कथमत्यन्तानुत्पत्तिः, उत्पादकयोर्धर्माधर्मयोर्निःशेषयोः परिक्षायात् ।
सो ऽयं प्रपञ्चसंबन्धो बन्धस्यद्विमोक्षश्च मोक्षः ।
आनन्दमोक्षवादः ।
नन्वेवमशेषधर्मक्षयान्मुक्तस्य न किचिद्सुखं स्यात् ।
ततश्चापुरुषार्थो मोक्षः स्यात् ।
नैष दोषः- न हि धर्मजन्यो मुक्तस्यात्मनः तथा सत्युत्पत्तिमत्त्वात् विनाशी स्यात् तत्रापुनरावृत्तिश्रुतेर्विरोधः स्यात् ।
स्वाभाविकस्त्वात्मानन्दः संसारेणाभिभूतः सन् निर्मुक्तसंसारस्याभिव्यक्तौ भोग्यो भवति स्वाभाविकत्वे चानन्दस्य आनन्दं ब्रह्मे त्यादिश्रुतिसहस्रं प्रमाणम्* ॥॥
ननु सुखाभावे ऽपि श्रुतिरस्ति अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः इति ।
सत्यम्- विषयसुखाभिप्रायं त्वेवञ्जातीयकम्, अन्यथानन्दश्रुतिविरोधात् ।
अथ सुखाभाववचनबलेनानन्दवचनमेव दुःखाभावाभिप्रायं किमिति न व्याख्यायते सुखाभाववचनानामत्यल्पत्वात्तेषामेवान्यथाकरणं युक्तं न भूयसामानन्दवचनानाम् ।
किञ्चानन्दशब्दस्य दुःखाभावपरत्वे ऽत्यन्तस्वार्थहानिः स्यात्, सुखशब्दस्य तु सामान्यवचनस्य विशेषे ऽपि व्याख्याने नातीव स्वार्थहानिरिति तदेव युक्तम्* ॥॥
ननु विद्यमानो ऽप्यानन्दो ऽननुभूयमानो ऽकिञ्चित्कर एव, न च मुक्तस्य सर्वकरणहीनस्यानन्दानुभवः संभवति ।
स्वप्रकाशऽयमानन्द इति चेन्न, संसारावस्थायामप्रकाशात् ।
ननु तत्राप्यानन्दस्वभावः पुरुषः प्रकाशत एव आत्मनि प्रेमोत्पत्तेः, सत्यमिति ब्रुवाणस्यातिसाहसिकस्य नोत्तरं वाच्यम् ।
यदि संसारिणो ऽपि परमानन्दमनुभवेयुस्ततो मुक्तस्य न कश्चिदतिशय इति तदेवापुरुषार्थत्वं मोक्षस्यापद्येत, अतो बलादसुखरूपस्यायमभिभूतो न प्रकाशते ।
को ऽयं प्रकाशमानस्याभिभवो नाम, प्रकाशनिवारणं ह्यभिभवः ।
न च प्रकाशमानस्याप्रकाशनं संभवति, यदि तु नैव प्रकाशते संसारावस्थायां तस्यामवस्थायामसतः प्रकाशस्य मुक्तावस्थायामुत्पद्यमानस्य कारणं वक्तव्यम्, विज्ञानमेव च प्रकाशाख्यस्य फलस्य कारणं तच्चेन्द्रियाधीनम्, न च मुक्तस्येन्द्रियाणि संभवन्तीति कथमानन्दानुभवः स्यात्* ॥॥
उच्यते- बाह्येन्द्रियाण्येव मुक्तस्य निवर्तन्ते मनस्तु तस्यामवस्थायामनुवर्तते इत्यानन्दश्रुतिबलादेवाध्यवसीयते ।
एवं ज्ञानं च न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते इति श्रुतेः, विज्ञानघनश्रुतेश्च, तस्मान्मुक्तावस्थायां मानसप्रत्यक्षेण परमानन्दमनुभवन्नात्मावतिष्ठते ।
तदुक्तम्- निजं यत्त्वात्मचैतन्यमानन्दश्चेष्यते च यः ।
यच्च नित्यविभुत्वादि तैरात्मा नैव मुच्यते इति ।
यत्तु तस्मात्कर्ममक्षयादेव हेत्वभावेन मुच्यते ।
नह्यभावात्मकं मुक्त्वा मोक्षनित्यत्वकारणम्, इति वार्तिकं तत्परमतमित्येवमानन्दमोक्षवादिनो मतम्* ॥॥
अपरे त्वाहुः- अभावात्मकत्ववचनमेव स्वमतमुपपत्त्यभिधानात् आनन्दवचनं तूपन्यासमात्रत्वा परमतम् ।
न हि मुक्तस्यानन्दानुभवः संभवति करणाभावाच् ।
मनः स्यादितिचेत्, न, अमनस्कत्वश्रुतेः अमनोषडवागिति ॥
मोक्षावस्थायां ज्ञानाभावोपपादनम् ।
यत्तु न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते इति तज्ज्ञानशक्त्यभिप्रायम्, अन्यथा हि सुषुप्तावपि ज्ञानानुवृत्तिरुक्ता
स्यात् सा च संविद्धिरुद्धेत्युक्तम् ।
विस्पष्टं चास्य शक्त्यभिप्रायत्वम् ।
एवं हि श्रूयते- यद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति, न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते, अविनाशित्वात् न तु तद्द्वितीयमस्ति ततो ऽन्यद्विभक्तं यत्पश्येत् एवमन्यान्यपि वाक्यानि जिघ्रन्वै
तन्न जिघ्रति न हि घ्रातुघ्रातेर्विपरिलोपो विद्यते, न श्रोतुः श्रुतेर्विपरिलोपो विद्यते, न स्प्रष्टुः स्पृष्टेर्विपरिलोपो विद्यते, न ज्ञातुर्ज्ञातेर्विपरिलोपो विद्यते तत्र तत्र दृष्टिघ्रातिश्रुतिस्पृष्टिशब्दाश्चक्षुर्घ्राणश्रोत्रत्वगिन्द्रियजन्यानां रूपगन्धशब्दस्पर्शविषयाणां वाचकाः नार्थान्तरविषयाणां नापि विज्ञानसामान्यस्य, नचैषां ज्ञानविशेषाणां वाचकाः नार्थान्तरविषयाणां नापि विज्ञानसामान्यस्य, नचैषां ज्ञानविशेषाणां सुषुप्तौ मुक्तौ वा कथञ्चिदप्यपरिलोपः संभवति, नहि तदानीमिन्द्रियाणि सन्ति नापि गन्धादयो ज्ञायन्ते तदुभयाभावे च न श्रुत्यादिशब्दवाच्यज्ञानविशेषाः संभवन्ति* ॥॥
ननु यथा प्रकाश्यासन्निधावपि सवितुः प्रकाशकत्वं नित्यम्, एवमिन्द्रियाभावे ऽपि नित्यैव दृष्टिरितिचेत्, सयादेवम्- यदि ज्ञानमात्रं दृष्ट्यादिशब्दानां वाच्यं स्यात्, न तु तथास्ति, लोकप्रसिद्ध्यभावात् ।
यथा लोकं च शब्दार्थावधारणं न यथेच्छम् ।
न हि लोके गन्धादन्यद्घ्राणं जिघ्रतीत्युच्यते, गन्धमपि यदा घ्राणादन्येनानुमानादिना जानाति तदा न जिघ्रतीत्युच्यते, तस्माद्घ्राणादीयजन्यगन्धादिविषयज्ञानविशेषवाचिनो घ्रात्यादिशब्दाः, न च तेषां सुषुप्तौ मुक्तौ वा संभवत्यपरिलोपः, तस्माद्घ्राणादिशक्तावेव प्ररोचनार्थं घ्राणाद्युपचारः, यथा तेम ह्यन्नं क्रियते इति शक्तिवर्तमानत्वेन प्ररोचनार्थं क्रियते इति वर्तमानत्वोपचारः, तस्मात् न ज्ञातुज्ञातेर्विपरिलोपो विद्यत इत्येदपि शक्त्यभिप्रायमेव* ॥॥
यत्त्वादित्यप्रकाशकत्ववदिति, किं तस्य प्रकाशकत्वमभिप्रेतं, यदि तिमिरोत्सारणं, तन्नित्यमस्येव सर्वदा ह्यसावव्यवहितेषु देशेषु तिमिरमुत्सादयत्येव, नन्वेवमात्मा सर्वदा शृणोति सुषुप्तावश्रवणात् ।
अथ ज्ञानजनकत्वमादित्य देशेषु तिमिरमुत्सादयत्येव, नत्वेवमात्मा सर्वदा शृणोति सुषुप्तावश्रवणात् ।
अथ ज्ञानजनकत्वमादित्यस्य प्रकाशकत्वम् न तन्नित्यं, तस्मात्सामर्थ्यमेव तत्रापि नित्यं, तस्माज्ज्ञानशक्त्यभिप्रायमिदं नित्यत्वाभिधानम्* ॥॥
एषा ह्यत्र वचनव्यक्तिः- यदेतत्सुषुप्तौ मुक्तौ वात्मा न पश्यति पश्यन्नेव द्रष्टुं शक्नुवन्नेव न पश्यति ।
न हि द्रष्चुरात्मनो या दर्शनशक्तिस्तस्याः कदाचिदपि लोपो विद्यते साह्यविनाशिनीति न द्रष्टुर्द्वितीयमन्यद्दर्शनसाधनं चक्षुर्व्यापाररूपं दृश्यं वा तस्यामवस्थायासमस्ति यतो दर्शनं स्यात्, यद्यपि दृश्यं रूपादिकं स्वरूपतस्तस्यामवस्थायामस्ति तथापि दृश्यता दर्शनयोग्यता तस्यामवस्थायां नास्तीति तेन रूपेणाभावाद्दृश्यं नास्तीत्युच्यते, तस्मात्साधनान्तरवैकल्यात्तस्यामवस्थायां न पश्यति न शक्तिवैकल्यात्, शक्तिस्तु न कदाचिदपि लुप्यत इति ।
एवमन्येषामपि वाक्यानां योजना ।
तथा ज्ञानशक्त्यपरिलोप एव ज्ञत्रानापरिलोप उच्यते, ज्ञातिशब्दश्चात्रानुमानादिज्ञानपरः चक्षुरादिज्ञानानां स्वशब्दैरुक्तत्वात्* ॥॥
एवं विज्ञानं ब्रह्म विज्ञानघन इत्यादीनामपि शक्तिपरत्वं वेदितव्यम् ।
स्वयमेव श्रुत्या शक्तिपरत्वं व्याख्यातं विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थायतान्येवानु विनश्यतीति भूतेन्द्रियनाशादात्मापि प्रमाणागोचरत्वमापन्नो विनष्ट इव भवतीति ।
न तस्येतः प्रेतस्य मुक्तस्य संज्ञास्तीति ।
एवं याज्ञवल्क्येमनोक्ते मैत्रेयी चोदयतिस्म अत्रैव ङगवान्(?)मामोहितवान् विज्ञानघन इति न चास्ति संज्ञेति विरुद्धाभिधानात् इति ।
षष्ठाध्याये तु विनाशाविनाशविरोधश्चोदयिष्यत इति विवेकः ।
एवं चोदितो याज्ञवल्क्यः परिहारमाह- न वा अरे अहंमोह परस्परविरुद्धं ब्रवीमि, अलं वा अरे इदं विज्ञानाय अत्रात्मतत्त्वं सर्वास्ववस्थासु विज्ञानाय समर्थमित्यर्थस्तेन विज्ञानघनत्वाभिधानं सामर्थ्याभिप्रायमिति व्याख्यातम् भवति ।
संभवति च शक्तस्यापि ज्ञानाभाव इति नास्ति विरोध इत्यभिप्रायः ।
अनया च श्रुत्या सर्वविज्ञानश्रुतयः शक्त्यभिप्राया व्याख्याताः* ॥॥
यदि शक्तिरस्ति ततस्तस्यावस्थायां ततः केन ज्ञानानुत्पत्तिः ज्ञानसाधनानामिन्द्रियाणां ज्ञेयानां च विषयाणामभावात् ।
तदाह यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति, यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् इत्यादि, तदेतत्प्रागेव व्याख्यातम् ।
एवमर्थान्तरज्ञाने साधनाभावान्निराकृते सति आत्मानमेव मुक्तावस्थायां जानात्वित्याशङ्क्याह विज्ञातारमरे केन विजानीयात् इति नह्यात्मापि विनासाधनेन ज्ञातुं शक्यते मनसा खल्वसौ संसारावस्थायां ज्ञायते न च मुक्तस्य मनःसंबन्घो ऽस्ति अतः केनात्मानं जानात्विति व्यक्त एव मुक्तस्यात्मज्ञानस्याभावे ज्ञानशक्तिमात्रस्यावस्थानं श्रुत्या दर्शितं, तस्मान्निःसंबन्धो निरानन्दश्च मोक्षः ॥
आत्मनो ज्ञानानन्दस्वरूपत्वस्य खण्डनम् ॥
ननु नात्मनो ऽन्यद्विज्ञानमानन्दो वा किन्त्वात्मैव ज्ञानमानन्दश्च विज्ञानं ब्रह्म आनन्दं ब्रह्म इति श्रुतेः, आत्मा च सुषुप्तितुरीययोरपि भवतीति कथं विज्ञानस्य चानन्दस्य चाभावः ।
नैतदेवं, यद्धि वस्त्वन्तरप्रकाशजननस्वभावं वस्तु यस्मिन्सति किमप्यर्थान्तरं प्रकाशत एव तल्लोके विज्ञानशब्देनोच्यते, नचात्मनि सति किञ्चिदन्यत्प्रकाशत एव, विद्यमाने ऽपि
तस्मिन्सुषुप्त्यवस्थायामर्थान्तरस्य कस्यचिदप्यदर्शनात् अतो न ज्ञानमात्मा* ॥॥
ननु प्रकाशजननस्वभावो ऽपि सहकारिवैकल्यान्न जनयेत् ।
सत्यं न जनयति ।
यस्मिंस्तु सहकारिसंनिधाने तत्कृते वान्यस्मिन्नागन्तुके सति नियमेन प्रकाशत एवार्थान्तरं तज्ज्ञानशब्दवाच्यम् ।
तथा गीतिश्रवणप्रियालिङ्गनचन्द्रदर्शनमधुरास्वादसुरभिघ्राणादिजन्यमाह्लादमानन्दसुखशब्दावभिदधाते, नचैवंरूपत्वमात्मानो ऽस्ति, यथा ह्यन्यसुखेषु सुखरूपं प्रत्यभिज्ञायते नैवमात्मनि प्रत्यभिजानीमो येनानन्दमिति च संज्ञेत्युच्यते न सा लौकिकी नापि वैदिकी ।
यदि परं वृद्ध्यादिवत्परिभाष्येत तदस्तु यथाकामम् ।
यत्तु विज्ञानं ब्रह्म आनन्दं ब्रह्म इति च सामानाधिकरण्यं तद्धर्ममात्रवचनत्वेन वर्तन्ते, सत्यं, न बाहुल्येन वर्तन्ते, कदाचित्तु गुणमात्रवचनानामपि गुणिनि प्रयोगो भवति यथा शीतो मधुरो रसः स्निग्धो गुरुश्चेति रसशब्दो द्रव्ये प्रयुज्यते, अन्यथा शीतादिशब्दसामानाधिकरण्यायोगात् ।
किं च रसं ह्येवायं विद्वान्, स एको ब्रह्मण आनन्द, इति षष्ठ्यानन्दाद्ब्रह्म व्यतिरिच्यते* ॥॥
किं च न मे सांप्रतं किञ्चिदपि सुखं दुःखमेव तु सर्वात्मना ममेति सुखाभावे दुःखानुभवे चानुसंधीयमानस्यात्मनः कथमानन्दरूपता स्यात् ।
किं च स्वप्रकाशानन्दरूपमात्मानमभ्युपगच्छतामस्माकं चैतावदविवादं सुषुप्तितुल्या मुक्तिरिति ।
संसारानुवृत्त्यनुवृत्तिमात्रं भिद्यते अन्यत्सर्वं तुल्यम् ।
तथा च श्रुतिरपि- ता एताः प्रजा अहरहर्ब्रह्मलोकं यन्ति ।
अहरहरागच्छन्ति इति सुषुप्तिं ब्रह्मलोकशब्देन वदन्ती तुल्यत्वमेतयोर्दर्शयति, सुषुप्तिश्चास्माकमपि गोचरो न च तत्रानन्दानुभवो ऽस्तीति व्यक्तमेतत्, तस्मान्निरानन्दो मोक्षः, दुःखपरिलोपाच्च पुरुषार्थन्त्वम्* ॥॥
सुखलोपादपुरुषार्थत्वमपीतिचेत्- नैवमल्पं हि संसारे सुखं तदपि सूरयः ॥
बहुप्रयाससाध्यत्वाद्दुःखमेवानुजानते ॥
जन्ममृत्युजराव्याधिदुःखान्यनुदिनं नृणम् ॥
स्वयमेव विनायत्नान्निपतन्ति सहस्रधा ।
विहिताकरणान्नित्यं प्रतिषिद्धनिषेवणात् ।
महदामुष्मिकं दुःखं यत्नैर्नाव गम्यते ॥
बहुदुःखपरिष्विक्तं यन्नाम खल्पकं सुखम् ॥
सुरापानादिसुखवद्वर्जनीयम् विविकिनाम् ॥
एवंभूते ऽपि संसारे ये रक्ताः सुखतृष्णया ॥
न तेषामधिकारो ऽस्ति मुक्तिशास्त्रे कथञ्चन ॥
संसासाद्विजन्ते ये दृष्टलोकपरावराः ।
त एव खलु मुच्यन्ते न तु यः प्राकृतो जनः ॥
तेषामेवापर्गाख्यः पुरुषार्थो महात्मनाम् ॥
तेषामेवाधिकारश्च मुक्तिषाश्त्रे मनीषिणाम् ।
तेनाभावात्मकत्वे ऽपि मुक्तेर्नापुरुषार्थता ॥
सुखदुःखोपभोगो हि संसार इति शब्द्यते ॥
तयोरनुपभोगं तु मोक्षं मोक्षविदो विदुः ॥
श्रुतिरप्येतमेवाह भेदं संसारमोक्षयोः ॥
न ह वै सशरीरस्य प्रियाप्रियविहीनता ॥
अशरीरं वा वसन्तं स्मपृशतो न प्रियाप्रिये ॥
आनन्दात्मकमात्मानं ये वदन्ति स्वप्रभम् ॥
तन्मते ऽपि च संसारान्मुक्तेरेतावती भिदा ॥
आत्मा ह्यानन्दरूपो ऽसौ संसारे ऽपि प्रकाशते ॥
तावेव(?) स मोक्षे ऽपि नाधिक्यं तस्य किञ्चन ॥
अथ संसारवेलायामानन्दो न प्रकाशते ॥
नह्यप्रकाशनं युक्तं स्वप्रकाशस्य वस्तुनः ॥
यद्यसौ न प्रकाशेत किन्तर्ह्यन्यत्प्रकाशते ।
आत्मस्वरूपमिति चेन्ननु चानन्द एव तत् ॥
तच्चेत्प्रकाशते नूनमानन्दो ऽपि प्रकाशते ।
तेन शब्दादिविषयजन्ययोः सुखदुःखयोः ॥
निवृत्तिरेव संसारादपवर्ग इतीर्यते ।
ततश्च सुखलोपेन मुक्तेर्न पुरुषार्थता ॥
यद्यस्माकं पुरुषार्थता ।
यद्यस्माकं भवेत्तर्हि तुल्यैषा भवतामपि ।
सुखदुःखहानिमसतस्तस्य भूयो दुःखविवर्जनात् ॥
मोक्षस्य पुरुषार्थत्वमावयोरुभयोः समम् ॥
सुखदुःखविहीनो ऽतो मुक्तः स्वस्थो ऽवतिष्ठते ॥
इति ॥
मुक्तिस्वरूपकथनम् ॥
किमिदं स्वस्थ इति, ये ह्यागममापायिनो धर्मा बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माघर्मासंस्कारस्तानपहाय यदस्य स्वं नैजं ज्ञानशक्तिसत्ताद्रव्यत्वादि तस्मिन्नवतिष्ठत इत्यर्थः ।
यदि तु संसारावस्थायामविद्यमानो ऽप्यानन्दो मुक्तावस्थायां जन्यत इत्युच्यते ततो जनिमत्त्वादनित्यो मोक्षः स्यात् ।
केन चासावनुभाव्यः ।
न हि स्वप्रकाशत्वं कस्यचित्संभवीत्युक्तम् ।
न च मनसानुभवः संभवतीति मुक्तस्य मनसो ऽभावात् अमनलस्कत्वश्रुतेरित्युक्तम् ।
अत एव नित्यो ऽप्यानन्दः संसारदशायामबिभूतत्वादनुभूतोपि मुक्तावभिभवे निवृत्ते मनसानुभूयते इत्येदपि निरस्तम्* ॥॥
किं च सुखविशिष्चात्मानुभवः पुरुषार्थो न सुखमात्रानुभवः, न च मुक्तावात्मानुभवः संभवति विज्ञातारमरे केन विजानीयात् इति कण्ठेनैव श्रुत्या निषिद्धत्वात् अलं वा अरे इदं विज्ञानाय इति च श्रुत्या विज्ञानशब्दस्य मुक्तस्य विज्ञानमशक्यमभ्युपगन्तुम् ।
नह्यस्याः श्रुतेः प्रियाप्रियास्पर्शश्रुतेश्च तत्त्वकथनं मुक्त्वा कथञ्चिदन्यपरत्वं संभवति ।
विज्ञानाश्रुतयस्तु शक्तावेव विज्ञानोपचारं कुर्वन्ति प्ररोचनार्थतयेत्युपपन्नम् ।
एवमानन्दश्रुतयो ऽपि पुरुषार्थत्वसामान्यात्सुखत्वोपचारेण प्ररोचनार्थतया प्रवृत्ताः ।
युक्तं चैतत् वचनयोर्विरोधे ऽन्यतो निर्णयः इति ।
विरोधश्चात्रानन्दप्रियाभाववचनयोः ।
न चाभाववचनं वैषयिकाभिप्रायम्, इतरत्तु स्वाभाविकाभिप्रायमिति शक्यं वक्तुम् ।
उभयत्रापि सामान्योपादानादत्यन्तसमानविषयत्वात् ।
अतः प्रमाणान्तरवशादानन्दवचनं दुःखाभावपरम्, इतरत्तु यथाश्रुतमिति न्याय्यम् ।
तस्मात्सुखदुःखादिसमस्तवैशेषिकात्मगुणोच्छेदो मोक्षः ।
सुखदुःखोच्छेदश्च धर्माधर्मयोरुच्छेदात्,
धर्माधर्मयोरुच्छेदश्चोत्पन्नानां धर्माधर्माणामुपभोगेन नित्यनैमित्तिककर्मानुष्ठानेनात्मज्ञानेन च विरोधात्, उत्पाद्यानां च काम्यानुष्ठाननिमित्तानां धर्माणां तदनुष्ठानेनानुत्पादात्, विहिताकरणप्रतिषिद्धानुष्ठाननिमित्तानां चाधर्माणां विहितानुष्ठानेन प्रतिषिद्धाकरणेन च परिहारात्, असति शरीरारम्भे पूर्वशरीरनिपाते चाशरीरो ऽवस्थितो मुक्तो भवति ॥
आत्मज्ञानस्य क्रतुमोक्षोभयोपयोगित्वम् ।
नन्वात्मज्ञानं क्रत्वर्थम् ।
सत्यम् ।
पुरुषार्थमपि च तत् संयोगभेदात् ।
यत्तावत् अविनाशी वा अरे ऽयमात्मा इत्यादिना शरीराद्व्यतिरिक्तनित्यात्मस्वरूपसद्भावज्ञानं
तत्पारलौकिकफलकर्मानुष्ठानौपयिकत्वात्कर्मज्ञानवदेव सामर्थ्यतः क्रतुसंयोगात्क्रत्वर्थम् ।
यथाहि ज्योतिष्टोमोदिवाक्याध्ययनं दृष्टेनैवानुष्ठानौपयिकत्वं ज्ञानं जनयतीति तदर्थतयाध्ययनविधिना विधीयते तथा अविनाशी वा अरेयमात्मा इत्यादिवाक्यानामप्यध्ययनविधिरेव कर्मानुष्ठानोपयोग्यात्मज्ञानार्थतां विधत्ते ।
तद्यदि प्रमाणान्तरेणात्मनः शरीरादिविवेको नैकान्ततः सिद्ध्यति ततो दृढविवेकप्रतिपादकानामुपनिषद्वाक्यानां विस्पष्टमेव फलम् ।
यथोक्तम्- इत्याह नास्तिक्यनिराकरिष्णुरात्मास्तितां भाष्यकृदत्र युक्त्या ॥
दृढत्वमेतद्विषयः प्रबोधः प्रयाति वेदान्तनिषेवणेन इति ।
अथ त्वन्यतो ऽपि सिद्ध्यति, ततो यथैवान्यथापि क्रतुज्ञानसंभवे ऽध्ययनोपात्तवेदवाक्यावगतकर्मरूपाणामेव पुंसां कर्मस्वधिकारः तथैवाध्यायनोपात्तोपनिषद्वाक्यावगतात्मतत्त्वानामेवाधिकार इत्यध्ययनविधिबलादेव कल्प्यते* ॥॥
यत्त्वात्मसद्भावप्रतिपादनोपक्रमे विधिसरूपं वाक्यम् आत्मा वा अरे द्रष्टव्यः इत्यादि तद्वक्ष्यमाणस्यार्थस्यातिगहनत्वान्महोपयोगत्वाच्च कथं हि नामालस्यं हित्वा श्रद्धाविशेषेण वक्ष्यमाणमर्थं प्रतिपद्येतेत्यातावन्मात्रार्थम् ।
तस्मादेतज्ज्ञानं दृष्टोपयोगित्वात्क्रत्वर्थम्* ॥॥
यानि पुनरितिकर्तव्यताविशेषयुक्तान्युपासनात्मकानि विधीयन्ते तेषां क्रतौ दृष्टोपयोगाभावाददृष्टफलत्वम् ।
अदृष्टं च फलं वाक्यशेषाद्द्विविधं अभ्युदयरूपं निःश्रेयसरूपं च, सर्वन्कामानाप्नोति सो ऽश्नुते सर्वान्कामान् इत्याद्यभ्युदयफलम् ।
न स पुनरावर्तते इत्यादि निःश्रेयसफलमिति विवेकः ॥
आत्मनित्यत्वेनाधिकरणोपसंहारः ॥
यत्तु विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञास्ति इत्यनेन ब्राह्मणेन भूतचैतन्यमुक्तमित्याशङ्क्यते तत्स्वयमेव ब्राह्मणेनात्रेव मा भगवन्मोहान्तं प्रापितवान्पूर्वमजरामृत्वमभिधायाधुना विनाशीत्यभिधानादिति पूर्वपक्षं चोद्याख्यमुक्त्वा सिद्धान्तपरिहार उक्तः ।
अविनाशी वा अरे ऽयमात्मानुच्छित्तिधर्मा इत्युक्त्वा कथं तर्हि विनाशवचनमित्याशङ्क्य मात्रासंसर्गत्वस्य भवतीत्युक्तम् ।
मात्राशब्देन भूतेन्द्रियाणि धर्माधर्मौ च विकारशब्दवाच्या उच्यन्ते* ॥॥
एतदुक्तं भवति- विज्ञानघनशब्देन ज्ञानशक्तिस्वभावस्यात्मनो ऽभिधानम्, स ह्येतेभ्यो भूतेभ्यः समुत्थाय मुक्तो भूत्वा तान्येवानुविनश्यति भूतविनाशात्सो ऽपि विनष्ट इव भवतीति, भूतस्थो ह्यसौ स्वयं प्रत्यक्षेण विनश्यतीत्युच्यते, तदनेन प्रकारेण मात्राणामेव विनाश इत्युच्यते नात्मन इत्यविरोधःष ।
तदुक्तम्- अविनाशी स्वरूपेण पुरुषो या तु नाशिता ॥
मात्राणां साधिकाराणां भूतादीनामसंज्ञिता इति ।
किमिदं भूतादीनामसंज्ञितेति ।
यदि तावत् न प्रेत्य संज्ञास्तीत्यस्य व्याख्यानं, तदयुक्तम् ।
न हि न प्रेत्य संज्ञास्तीत्यनेन भूतादीनामसंज्ञित्वमुच्यते ।
किन्तर्ह्यात्मन एव मुक्तस्य संज्ञाभावो ऽनेनोच्यते, तस्यैवोपायाभावेन तत्केन कं पश्येदित्यादिना विज्ञानारमरे केन विजानीयादित्यन्तेन विज्ञानाभावोपपादनात् ।
सत्यम् ।
नेदमस्य व्याख्यानं, प्रकरणार्थोपसंहारस्त्वयं - यत एवं पूर्वोक्तेन न्यायेन भूतचैतन्यं न संभवति ब्राह्मणेनापि तथैवोक्तम्, तस्माद्भूतेन्द्रियाणामसंज्ञित्वमचैतन्यम्, अन्यस्तु नित्यश्चेतनः तस्य स्वर्गगमनसंभववान्न स्वर्गं लोकं यातीत्यस्य प्रत्यक्षविरोधः ॥
शब्दानित्यताधिकरणम् ॥6 ॥
कर्मैके तत्र दर्शनात्
अस्थानात्
करोति शब्दात्
सत्त्वान्तरे च यौगपद्यात्
प्रकृतिविकृत्योश्च
वृद्धिश्च कर्तृभूम्नास्य
समं तु तत्र दर्शनम्
सतः परमदर्शनं विषयानागमात्
प्रयोगस्य परम्
आदित्यवद्यौगपद्यम्
वर्णान्तरमविकारः
नादवृद्धिपरा
नित्यस्तु स्याद्दर्शनस्य परार्थत्वात्
सर्वत्र यौगपद्यात्
संख्याभावात्
अनपेक्षत्वात्
प्रख्याभावाच्च योगस्य
लिङ्गदर्शनाच्च
लिङ्गदर्शनाच्च
शब्दस्यार्थप्रत्याययकत्वं स्वाभाविकमिति यदक्तं तदाक्षिप्यते- शब्दस्यानित्यत्वात्, न ह्यभिनवस्य शब्दस्य
वृद्धव्यवहारपरम्परया स्वाभाविकं प्रत्यायकत्वं शक्यते गृहीतुम्, अगृहीतमपिचेत्स्वभावतश्चक्षुरादिवत्प्रत्याययेत् प्रथमश्रवणे ऽपि प्रत्याययेत्, तस्मादनित्यत्वे शब्दस्य देवदत्तादिशब्दवत्पुरुषकृतमेव प्रत्यायकत्वमापद्यते ।
कथं पुनरित्यत्वं शब्दस्य, प्रयत्नानभिव्यङ्ग्यत्वे सति तदनन्तरमुपलब्धेर्घटादिवत्तज्जन्यत्वमध्यवसीयते ।
अन्यथा किमिति तदनन्तरमेवोपलभ्यते न पूर्वं, उपलब्धस्य च द्रागेव तिरोभावाद्विनाशित्वमध्यवसीयतेष नचासिद्धमनभिव्यङ्ग्यत्वम्, अभिव्यक्त्ययोगात् ।
सा हि प्रतिबन्धकनिरासेन वा संस्कारविशेषानेन वा ।
न तावत्प्रतिबन्धनिरासः- प्रतिबन्धकानुपलब्धेः ।
स्तिमिता वायवः श्रोत्रमाच्छाद्यावस्थिताः शब्दोपलब्धिं प्रतिबध्नन्ति, तेषु प्रयत्नोत्थापितैः कौष्ठ्यैर्वायुभिरुत्सारितेषूपलभ्यते शब्द इति चेत् ।
एवं तर्हि सर्वे शब्दाः श्रोत्रं प्राप्यावस्थिताः प्रतिबन्धकेषूत्सरितेषु युगपच्छ्रूयेरन्* ॥॥
अथ संस्काराधानं तत्रापि त्रैविध्यं- शब्दस्य वा संस्कारमादध्युः कौष्ठ्या वायवः श्रोत्रस्य वा उभयोर्वा ।
शब्दस्य चेत् तस्यैकत्वात्सर्वगतत्वादनवयवसंस्कारायोगात् स्रुध्नस्थैर्वायुभिः संस्कृतः शब्दः पाटलिपुत्रेप्युपलभ्येत, तदिदमुक्तं- तत्र सर्वैः प्रतीयेत इत्यादिना ।
श्रोत्रसंस्कारपक्षे ऽप्ययमेवदोषः* ॥॥
यदि काणादकापिलवैदिकमतेनाकाशमहङ्कारो दिग्वा श्रोत्रं तस्यैकत्वात्सर्वगतत्वादनवयवत्वाच्च सर्वपंसामेकमेव श्रोत्रं स्यात्तच्चैकदेशस्थैरपि ध्वानाभिः संस्क-तमिति कः सर्वेषां शब्दोपलब्धिं वारयेत् ।
तदिदम्- आकाशश्रोत्रपक्षेचेत्यादिना श्रोत्रादेरियमेव दिगित्यन्तेन दर्शितम् ।
अस्मिंश्च पक्षे श्रोत्रस्य सर्वशब्दसाधरणत्वादेकशब्दोपलब्ध्यर्थमपि संस्कृतं श्रोत्रं प्रसङ्गात्सर्वान्शब्दान्घटार्थोन्मीलितमिव नेत्रं समानदेशस्थान्पटादीनवबोधयेत् ।
तदिदं- सकृच्च संस्कृतं श्रोत्रमित्यादिना दर्शितम्* ॥॥
अयं च दोषः पूर्वोपक्षिप्ते ऽपि शब्दसंस्कारपक्षे दर्शयितव्यः- सर्वे हि शब्दाः श्रोत्रदेशे ऽवस्थितास्तत्रैकस्मिन्संक्रियमाणे बलादन्येषामपि संस्कारः स्यादेव ।
न हि समानदेशानां समानेन्द्रियग्राह्याणां कस्यचित्संस्कारः कस्यचिच्चासंस्कार इति व्यवस्था संभवति घटादावदर्शनात्, तदिदमुक्तं- एतदेव प्रसंक्तव्यम् इत्यादिना* ॥॥
उभयसंस्कारपक्षे तूभये ऽपि दोषाः समुच्चित्य दर्शयितव्याः, तथा सति हि कैश्चिदेव कश्चिदेव शब्दः श्रूयत इत्युपपद्यते, अन्यथा श्रोत्रव्यवस्था चोभयमपि न स्यात् ।
किच नानादेशस्थैश्च वक्तृभिरुच्चारितः शब्दो युगपन्नानादेशेषूपलभ्यते तदेकस्य नित्यस्यानुपपन्नमिति शा0 भाष्यम् ।
तत्र नित्यस्यानुपपन्नमिति प्रतिज्ञा, एकस्येति हेतुः, नित्यो ह्यसेवकः स्यात् एकस्यानुपपन्नं नानादेशेषूपलम्भनमिति* ॥॥
ननु नावश्यत्वं नित्यत्वे सत्येकत्वं भवति, अनेकान्येव हि गकारादीनि नित्यानि भवन्त्वित्यत आह- असति विशेषे नित्यस्य नानेकत्वम्(शाभा) इति ।
एतदुक्तं भवति- प्रत्यभिज्ञाख्यविशेष्यप्रत्ययबलेन ह्यस्तनाद्यतनगकारयोरेकत्वावगमान्नित्यत्वमाश्रीयते ।
अस्तिचासावविशेषप्रत्ययो युगपन्नानावक्तृभिरुच्चारिते ऽपि गकारे नहि तत्रापि प्रत्ययविशेषो ऽस्ति, असति च विशेषे नित्यस्य नानेकत्वं संभवति ।
अनेकत्वे हि प्रत्यभिज्ञाया अप्रामाण्यमस्माकमिव भवतो ऽपि स्यात् तदप्रामाण्येच
नित्यत्वानुपपत्तिः, तस्मान्नित्यत्वे सत्येकत्वमङ्गीकर्तव्यम्, एकस्य चानुपपन्नं नानादेशोपलम्भनमिति* ॥॥
वार्तिके ऽपि- यौगपद्योपलम्भाद्वा भेदो भेदाच्च कार्यतेति द्वयमुपक्षिप्य यथायौगपद्योपलम्भाद्भेदो भवति तथा दर्शितम्- अविभुत्वे हि युगपदित्यादिना तथा दर्शितम्- नित्यत्वे त्वेकबुद्धिः स्यादिति ।
न हि नित्यत्ववादिना प्रत्यभिज्ञाया भ्रान्तित्वमिष्यते ।
तथा च वक्ष्यते- अपि चैकरूप्ये सति देशभेदेन कामं देशा एव भिन्नाः स्युर्नतु शब्दः इति ।
न हि तदप्रामाण्ये नित्यत्वं सिद्ध्यति प्रमाणान्तराभावात्, अतो नित्यत्वे सत्येकत्वं स्यात्तच्च नानादेशोपलम्भेन विरुध्यत इति, ततश्च यौगपद्योपलम्भाद्भेदो भेदे च प्रत्यभिज्ञाया अप्रामाण्यं तदप्रामाण्ये च नित्यत्वाभावात्कार्यत्वं- तदेतदानुपूर्व्यं स्वतन्त्रसिद्धम् ।
दृढे चानित्यत्वे जीपवत्सादृश्यात्प्रत्यभिज्ञा भवति तस्मादनित्यः शब्द इति प्राप्ते ॥
शब्दनित्यत्वोपपादम् ।
अभिधीयते- प्रयत्नानन्तरं दृष्टैर्नैकान्त्यात्कार्यता ध्वनेः ।
तदभिव्यङ्ग्यपक्षे ऽपि युज्यते तत्र दर्शनम् ।
यत्तु कथमभिव्यङ्ग्यत्वमिति, श्रोत्रसंस्कारेणेति ब्रूमः ।
यत्त्वाकाशस्याहङ्कारस्य वा श्रोत्रत्वे तत्संस्कारत्वे च सर्वत्र पुंसामुपलब्धिः स्यादित्युक्तं तत्र ब्रूमः- यदि तयोः श्रोत्रत्वे भवेदयं दोषः ।
तत्कर्णशष्कुलीभवतु श्रोत्रं सा च प्रतिपुरुषं भिन्नेति नातिप्रसङ्गः ।
यद्यपि चाकाशमेव श्रोत्रं तत्तु न साक्षात्संस्क्रियते किन्त्वधिष्ठानद्वारेण, ततश्च यद्यपि श्रोत्रं सर्वेषामेकं तथाप्यधिष्ठानं भिन्नत्वात्संस्कारव्यवस्थया श्रवणस्य व्यवस्था भविष्यति* ॥॥
नन्वेकत्वेसतीन्द्रियस्य यद्यप्यधिष्ठानानि भिन्नानि तथाप्येकेनाप्यधिष्ठानेन संस्कृतेनेन्द्रियस्य संस्कृतत्वात्सर्वपुंसामिन्द्रियं संस्कृतमिति सर्वेषामुपलब्धिः स्यादेव ।
तदुक्तं- नन्वेकस्मिन्नधिष्ठाने लब्धसंस्कारमिन्द्रियम् ॥
बोधकं सर्वहेतुषु स्यादेकेन्द्रियवादिनः इति ।
सर्वदेहवर्तिनां पुंसामित्यर्थः ।
अत्रोत्तरम्- पुंसां देहप्रदेशेषु स्यादेकेन्द्रियवादिनः इति ।
सर्वदेहवर्तिनां पुंसामित्यर्थः ।
अत्रोत्तरम्- पुंसां देहप्रदेशेषु
विज्ञानोत्पत्तिरिष्यते ।
तेन प्रधानवैदेश्याद्विगुणा सा तु संस्कृतिः इति ।
अयमर्थः- स्वशरीर एव भोग्यायतने सर्वपुंसामपि ज्ञानमुत्पद्यते नान्यत्र, शब्दज्ञानाङ्गं चायमधिष्ठानसंस्कारः प्रधानसमानदेशत्वं चाङ्गानां गुणस्तेन देहन्तरवर्तिनः पुरुषस्य यस्त्वदेहे निष्पादयितव्यं विज्ञानं तस्य तद्देहगत एव संस्कारो निष्पादको भवति न देहान्तरगतः ।
सा हि तत्प्रधानभूतेन ज्ञानेन विदेशत्वाद्विगुणः* ॥॥
ननु संस्कार्यस्यैकत्वात्तद्दूरत्वाच्च संस्काराङ्गभावस्य देशभेदो ऽकिञ्चित्कर एव, यथा बर्हिरेकत्वात्तत्संस्काराणामतिथ्याकालानामप्युपसदग्रीषोमीयाङ्गात्वं न विहन्यते तद्वदत्रापि स्यात् ।
न ।
अदर्शनात् ।
नह्येकस्मिन्नधिष्ठाने सर्वेषां ज्ञानमुपलभ्यते, अतः साधारणमपीन्द्रियं विज्ञानसमानदेससंस्कारसचिवमेव ज्ञानमुकत्पादयति नान्यथेति दर्शनबलादध्यवसीयते ततो नातिप्रसङ्गः* ॥॥
नचावश्यमेकमेवेन्द्रियं- यद्यप्याकाशमेकमनवयवं च तथापि तस्य प्रादेशिकैर्घटादिभिर्ये संयोगास्ते ऽपि प्रादेशिकास्ततश्च कर्णशष्कुलीसंयोगानां प्रतिपुरुषं भिन्नत्वात्तदवच्छिन्नस्य चाकाशस्य श्रोत्रत्वात्सत्यपि स्वरूपैकत्वे ऽवच्छिन्नरूपाणां श्रोत्राणां भेदाद्व्यवस्थासिद्धिः ।
एवमहङ्कारभागे दिग्भागे वा श्रोत्रे द्रष्टव्यम्* ॥॥
यत्तु सकृच्च संस्कृतं श्रोत्रं सर्वशब्दान्प्रकाशयेदित्युक्तं, तत्रोच्यते- ध्वनयो हि ताल्वादिस्थानविशेषसंपर्काद्विजातीया विलक्षणसामर्थ्यान्निष्पद्यन्ते, ततश्च कश्चिदेव ध्वनिः कस्यचिच्छब्दस्यानुगुणं संस्कारमाधत्ते न सर्वसाधारणमित्युपलब्धिव्यवस्था कल्प्यते शब्दसंस्कारपक्षे ऽपि कश्चिदेव ध्वनिः कञ्चिच्छब्दं
संस्करोति न सर्वः सर्वमिति युक्ततरैव व्यवस्था ।
दृष्टाच समानेन्द्रियग्राह्याणामप्यभिव्यञ्जकव्यवस्था- सावित्रं हि तेजो घटादीनामेवाभिव्यञ्जकं न नक्षत्राणां, निम्बत्वक् चन्दनगन्धस्यैवाभिव्यञ्जिका न गन्धान्तराणां, तस्माददोषः* ॥॥
न च शब्दसंस्कारे सर्वपुंसामुपलब्दिप्रसङ्गः- ध्वनीनां प्रादेशिकत्वात्तद्देशे शब्दः संस्क्रियते न सर्वत्र, अतः संस्कृतेन शब्देन यस्येन्द्रियं संनिकृष्टं स एव शृणोति नान्य इत्युपपन्नम् ॥
शब्दस्यानेकदेशोपलम्भः ॥
युगपद्देशभेदश्च स्यादेकस्य सूर्यवत् ॥
ये विन्ध्यनिलया ये च कामरूपे व्यवस्थिताः ॥
प्राग्भागे ह्यात्मनः सर्वैरुद्यन्भास्वान्निरीक्ष्यते ॥
प्रत्यग्भावे तथास्तं यन्मध्याह्ने चोपरि स्थितः ॥
भिन्नाश्च तेषां प्राग्भागास्तथा प्रत्यक् तथोपरि ॥
तेष्वस्य दृश्यमानस्य विस्पष्टा भिन्नदेशता ॥
तथा यस्मिन्यावद्दूरे देशे कैश्चित्सूर्योदयो दृश्यते तद्देशवर्तिनो ऽन्येपि ततः परस्तात्तावति पश्यन्ति ततो ऽप्यस्ति भेदाभेदः ।
न च सूर्यनानात्वमाशङ्कनीयम्, न हि केचिद्भिन्नं सूर्यं पश्यन्ति* ॥॥
कि पुनरेकदेशस्थस्यैव सवितुर्नानादेशोपलम्भे कारणम्, उच्यते- अतिदूरवर्तिनो ऽस्य यथावद्देशमजानन्तः स्वसंनिधिमध्यस्यन्तो देशभेदं मन्यन्ते ।
विस्पष्टं चैतत् ।
तथाहि- यो ऽपराह्ने यस्मिन्यावद्दूरे देशे सूर्यं पश्यति- अस्मिन्क्षेत्रे ऽस्मिन्पर्वते सूर्यः इति, स सवितारमीक्षमाण एव तद्देशे गतस्ततः परस्तात्तथैव तं पश्यति तेनावगम्यते सर्वेषां देशानामग्रतः स्थितो ऽसौ संनिहितवदवभासत इति ।
ये चादित्यापेक्षया स्तोकदेशाः पर्वतास्ते ऽपि द्वियोजनस्थितानां त्रियोजनस्थितानां च पुरुषाणां तुल्यवदवभासन्ते, तस्मादेकत्वे ऽपि संभवति नानादेशोपलम्भः ।
तथैकमेव मुखं भिन्नेष्वादर्शेषु युगपद्दृश्यते* ॥॥
ननु प्रतिबिम्बं नामार्थान्तरं तत्र दृश्यते ।
न ।
तस्याभावादनुपलम्भाच्च, न हि मूर्तमध्ये मूर्तान्तरं संभवति ।
किं च शरावस्थमुदकं भूमेरुपरि नाभिदध्ने धारयित्वा तस्योपरिष्टादरत्रिदध्ने स्वमुखं कुर्वन्नुदकस्याधस्तादरत्रिमात्रे मुखप्रतिबिम्बं पश्यति, तस्मिंश्च देशे पार्श्वस्थाः पुरुषा न कञ्चिदपि पश्यन्ति तेन दृश्यादर्शननिरस्तः प्रतिबिम्बाख्योर्ऽथो न शक्यो ऽभ्युपगन्तुम् ।
तस्मादादर्शतेजसा जलेन च प्रतिहतं नायनं तेजः परावृत्त्या गृह्णातीति युक्तम् ।
तस्मादनैकान्तिको नानादेशोपलम्भो न नानात्वं शब्दस्य साधयति* ॥॥
ननु सवितुः सांनिध्याध्यासाद्युक्ता नानादेशावगतिः शब्दे तु कथम् ।
सर्वगतत्वात्- सर्वगतो हि शब्दो भिन्नदेशैर्ध्वनिभिः स्वेस्वे देशे ऽभिव्यज्यमानो भिन्नदेशो ऽवभासते, ध्वनयो हि श्रोत्रदेशमागत्यापि शब्दं व्यञ्जयन्तः स्वोत्पत्तिदेसमिव शब्दं भासयन्तीति दर्शनबलादभ्युपगम्यते* ॥॥
ननु प्राप्यकारि श्रोत्रं, न च ध्वन्युत्पत्तिदेशः श्रोत्रेण प्राप्यत इति कथं तस्य श्रोत्रेण ग्रहणम्, तदग्रहे च कथं तद्विशिष्टशब्दग्रहः ।
उच्यते- नायं श्रोत्रतस्तद्विशिष्टशब्दप्रत्ययः, किं तु श्रोत्रं गि स्वदेशस्थितं शब्दं बोधयदपि न देशविशिष्टं बोधयति किन्तु स्वरूपमात्रेण, यतस्तु दिश आगता ध्वनयस्तया विशिष्टं शब्दं बोदयन्ति, सा हि दिक् श्रोत्रप्राप्ता शक्यते श्रोत्रेण ग्रहीतुम्, यद्यपि न स्वातन्त्र्येण दिशः श्रोत्रग्राह्यत्वं तथापि रावे गृह्यमाणे तद्विशेषणतया अथ च विषयेषु स्वेषु गृह्यमाणेषु तद्विशेषणतया सर्वैरपीन्द्रियैर्गृह्यते तद्वत् ।
ततश्चास्यां दिशि शब्द इति विशिष्टग्रहणं तावत्सिद्धम् ।
...
मूल पाठ: Śāstradīpikā (Jaimini's Mīmāṃsāsūtra 1,1.1-23) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0