सर्वतथागततत्त्वसंग्रह · अध्याय 53
अथात्र हृदयानि भवन्ति ।
हुं अः ॥
हुं ज्जः ॥
हुं होः ॥
हुं हं ॥
ततस्त्रिलोकविजयमहामण्डलसमयतत्वमुद्राज्ञानं शिक्षयेत् ।
वज्रधातुप्रयोगेण बुद्धानुस्मृतिमान् भवेत् ।
यस्तु सत्वहितार्थाय स तु बुद्धत्वमाप्नुयात्
महेश्वरमुमांश्चैव भूमौ लिख्य तथाक्रमेत् ।
यथालेख्यानुसारेण सत्वमुद्रां समाधयेत्
अनया बद्धमात्रया त्रिलोकविजयी स तु ।
सिद्धविद्यो भवेत्क्षिप्रं बज्रहुंकारसन्निभः
ज्वालामण्डलमध्यस्था यथा लेख्यानुसारतः ।
कायवाक्चित्तवज्रैस्तु सत्वमुद्रास्तु बन्धयेत्
अथासां कर्म वक्ष्यामि वज्रकर्ममनुत्तरं ।
बुद्धानुस्मृतिसंसिद्धः शीघ्रं बुद्धत्वमाप्नुयाद् ॥ इति
त्रिलोकविजयां बध्वा त्रिलोकविजयी भवेत् ।
वज्रायुः सर्वगामी तु वज्रहुंकारसन्निभः
वज्राभिषेका राज्यत्वं लोकैश्वर्यं सुधर्मिणी ।
कर्मवज्रमहाक्रोधा वज्रकर्मकरी भवेत्
सत्वक्रोधा महादाढ्र्यं क्रोधाङ्कुश्या समाव्हान ।
रागयेत्क्रोधरागा तु साधुक्रोधा तु तुष्टिदा
भृकुट्या नाशयेत्सर्वं क्रोधसूर्या सुतेजतां ।
केतुक्रोधा हरेदर्थान् अट्टहासा तु मारयेत्
धर्मक्रोधा हरेद् धर्मान् च्छिन्देद्वै क्रोधवज्रया ।
हेतुक्रोधा हरेद् दुःखान् वाग्घरेत् क्रोधभाषया
कर्मक्रोधा सुकर्माणि कुर्याद् रक्षां तु रक्षया ।
क्रोधयक्षा रिपुं खादेत् क्रोधमुष्टिस्तु सिद्धिदा ॥ इति
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0