सर्वतथागततत्त्वसंग्रह · अध्याय 52
अथैषां हृदयानि भवन्ति ।
टक्कि अः ॥
टक्कि ज्जः ॥
टक्कि हुं ॥
टक्कि हं ॥
एकैकया तु मुद्रया चतुर्षु कर्मसु चत्वारि मुद्राहृदयानि प्रयुञ्चेदिति ॥
ततो रहस्यक्रोधमुद्राज्ञानं शिक्षयेत् ।
सर्वाङ्गतः परिष्वज्य हुंकारमस्य योजयेत् ।
द्वयेन्द्रियसमापत्त्या तस्य नश्येत जीवितं
चुम्बंस्तु दशनैरोष्ठं गृह्य हुङ्कारयोगतः ।
द्वयेन्द्रियसमापत्त्या यस्य तस्य मुखं पतेत्
हुं-कारं यः प्रयुञ्जीत सुखं ह्यनुभवन्नसौ ।
द्वयेन्द्रियसमापत्त्या यस्य सो दुःखमाप्नुयात्
हुंकारं यः प्रयुञ्जीत सर्वाङ्गेन तु पीडयन् ।
द्वये[न्द्रियस]मापत्त्या तस्य सर्वतनुः पतेद् ॥ इति
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0