सर्वतथागततत्त्वसंग्रह · अध्याय 54
अथ वज्रसमयमुद्राबन्धी भवति ।
वज्र[द्विकस]मुद्भूताः समयाग्र्यास्तु कीर्तिताः ।
तासां बन्धं प्रवक्ष्यामि क्रोधबन्धमनुत्तरं
बाहुवज्रं समाधाय कनिष्ठाङ्कुशं बन्धिता ।
त्रिलोकविजया नाम तर्जनीद्वयतर्जनी
तथैवाग्र्या मुखासंगान्मणिस्तु प्रविकुञ्चिता ।
समोत्थमध्यपद्मा तु मध्याग्र्यद्वयवर्जिते ॥ ति
तर्जनीद्वयवज्रा तु दक्षिणाङ्कुञ्चिताङ्कुशी ।
तयैव ग्रस्तहुंकारा साधुकारा तथव हि
द्व्यग्रा संस्था भृकुट्यान्तु हृदि सूर्याग्रमण्डला ।
प्रसारितभुजा मूर्ध्नि तर्जनीमुखहासिनी
तर्जनीनखसंसक्ता कोशमुष्टिस्तु दक्षिणा ।
सममध्याग्र्योत्थचक्रा तु मुखतः प्रविनिः सृताः
तर्जनीमध्यवज्रा च ग्रीवा वेष्टिततर्जनी ।
अग्र्याधिकमहादंष्ट्रा ग्रस्ताग्रा वज्रा मुष्टिने- ॥ति
वज्रलास्यादिसन्धीनां मुद्रास्ता एव हुंकृताः ।
धर्ममुद्रास्तु ता एव हुंकारैः सहिताः पुनः
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0