सर्वतथागततत्त्वसंग्रह · अध्याय 199
इत्याह भगवान् बुद्धः ॥
तत्रायं तथागतकुलकर्मसमयगुह्यसिद्धितन्त्रः ।
समन्तभद्रः कामो ऽहं सर्वसत्वसुखप्रदः ।
वज्रसत्वसमाधिस्थः पूजयं सिद्धिमाप्नुयाद् ॥
इत्याह भगवान् कामः ॥
तत्रायं वज्रकुलकर्मसमयगुह्यसिद्धितन्त्रः ।
समन्तभद्रः क्रोधो ऽहं सर्वसत्वहितंकरः ।
वज्रहुंकारयोगेन पूजयं सिद्धिमाप्नुयाद् ॥
इत्याह भगवान् वज्रपाणिः ॥
तत्रायं पद्मकुलकर्मसमयगुह्यसिद्धितन्त्रः ।
समन्तभद्रो रागो ऽहं सर्वसौख्यप्रदः स्वयं ।
जगद्विनयरूपस्थः पूजयं सिद्धिमाप्नुयाद् ॥
इत्याह भगवान् पद्मरागः ॥
तत्रायं मणिकुलकर्मसमयगुह्यसिद्धितन्त्रः ।
समन्तभद्रो राजाहं सर्वसत्व[महार्थदः ।
सर्वार्थसिद्धिरूपेण] पूजयं सिद्धिमाप्नुयाद् ॥
इत्याह भगवान् सर्वार्थसिद्धिः ॥
सर्वकुलकर्मसमयगुह्यसिद्धिविधिविस्तरतन्त्रं ॥
अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतकर्मधर्मतोत्तमसिद्धितन्त्रमुदाजहार । तत्रायं तथागतकर्मधर्मतोत्तमसिद्धितन्त्रः ।
दक्षिणाग्र्याभिमुखतः कवचं स्वसमाधिना ।
निबध्योष्णीषसंस्था तु रक्षात्यन्तं भविष्यती- ॥
त्याह भगवान् बुद्धः ॥
तत्रायं तथागतकुलकर्मधर्मोत्तमसिद्धितन्त्रः ।
संलिख्य तु भगाकारं कुड्ये मेढ्रं समुच्छ्रितं ।
यां स्त्रियं चिन्तयन् मृदुं कुर्यात्सास्य वशीभवेद् ॥
इत्याह भगवानार्यवज्रपाणिः ॥
तत्रायं वज्रकुलकर्मधर्मोत्तमसिद्धितन्त्रः ।
भूमौ यक्षमुखं लिख्य तस्याग्र्याङ्गु लितो नखं ।
निहत्य चक्षुर्देशे तु समाकर्षेत्स्त्रियो वराः ॥
इत्याह भगवान् वज्रसत्वः ॥
तत्रायं पद्मकुलकर्मधर्मोत्तमसिद्धितन्त्रः ।
पद्मं गृह्य कराभ्यां तु निरीक्ष्य रागशुद्धितां ।
वज्रदृष्ट्या तु स स्त्रीणां रागयेदभितस्तथे- ॥
त्याह भगवान् वज्रधरः ॥
तत्रायं मणिकुलकर्मधर्मोत्तमसिद्धितन्त्रः ।
वज्ररत्नसमाधिस्थो मणिं गृह्य [द्वि]पाणिना ।
रत्नहुंकारयोगेन मारयेत्सर्वयोषितः ॥
इत्याह भगवान् वज्रहुंकारः ॥
सर्वकुलकर्मधर्मोत्तमसिद्धिविधिविस्तरत्नत्रः ॥ ॥
अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतकर्मकार्यसिद्धितन्त्रमुदाजहार । तत्रायं तथागतकर्मकार्यसिद्धितन्त्रः ।
पूजाकर्मविधिं योज्य यद्यत् कार्यं तु चिन्तयेत् ।
तत्तद् विज्ञाप्य मुद्रां तु साधयेत विचक्षणः ॥
इत्याह भगवान् वज्रधातुः ॥
तत्रायं तथागतकुलकर्मकार्यसिद्धितन्त्रः ।
गुह्यपूजाविधिं योज्य वज्रसत्वसमाधिना ।
यत्कार्यं वदते तत्तु शीघ्रं सिद्धिमवाप्नुयाद् ॥
इत्याह भगवान् वज्रधरः ॥
तत्रायं वज्रकुलकर्मकार्यसिद्धितन्त्रः ।
कुलगुह्यमहापूजां कृत्वा क्रोधसमाधिना ।
यत्किञ्चिच्चिन्तयेत्प्राज्ञः स शीघ्रं सिद्धिमेष्यती- ॥
त्याह भगवान् वज्रक्रोधः ।
तत्राय पद्मकुलकर्मकार्यसिद्धितन्त्रः ।
कृत्वा तु मनसीं पूजां लोकेश्वरसमाधिना ।
यत्कार्यं चिन्तयेत्प्राज्ञः तत्सर्वं शीघ्रमाप्नुयाद् ॥
इत्याह भगवान् पद्मधरः ॥
तत्रायं मणिकुलकर्मकार्यसिद्धितन्त्रः ।
कृत्वा धूपादिभिः पूजां वज्रगर्भसमाधिना ।
यत्कार्यं चिन्तयेत्प्राज्ञः तत्सर्वं सिध्यति क्षणाद् ॥
इत्याह भगवान् वज्रगर्भः ॥
सर्वकुल[कर्मकार्य]सिद्धिविधिविस्तरतन्त्रं ॥
अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतमुद्राभावना[धिष्ठानयोगसिद्धितन्त्रमुदाजहार ।] तत्रायं तथागताधिष्ठानयोगसिद्धितन्त्रो भवति ।
सूक्ष्मवज्रप्रयोगेण बुद्धयोगसमाहितः ।
उत्तमासि[द्धिमाप्नुयाद्] बुद्धमुद्राप्रसाधक ॥
इत्याह भगवान् वज्रपाणिस्तथागतः ॥
तत्रायं तथागतकुलसत्वाधिष्ठानयोगसिद्धितन्त्रः ।
सत्वो हि [सर्वात्मभावः काये ऽ]प्यात्मनि संस्थितः ।
इत्यधिष्ठाय सत्वो ऽहमहंकारेण भावयन् ॥
सिध्यतीत्याह भगवान् सर्वतथागतमहायानाभिसमय[वज्रसत्वः ॥
तत्रायं व]ज्रकुलवज्राधिष्ठान[योगसिद्धितन्त्रः ।]
यथा सत्वस्तथा मुद्रा यथा मुद्रास्तथा ह्यहं ।
अनेन भावयोगेन सर्वमुद्राः सु[साधयेद् ॥
इत्याह भगवान् वज्रधरः ॥
तत्रायं पद्मकुलधर्मा]धिष्ठानयोगसिद्धितन्त्रः ।
धर्ममुद्राप्रयोगेण सूक्ष्मवज्रेण भावना ।
वाङ्मुद्राणां [तु तत्सर्वं महासत्वस्य समाधि ॥
इत्याह भगवानार्यावलोकितेश्वरः ॥] तत्रायं मणिकुलकर्माधिष्ठानयोगसिद्धितन्त्रः ।
सर्वबुद्धाभिषेकाणि [पजासमयसिद्धयः ।
भगवानिति भावयन् वज्रकर्माणि साधयेद् ॥
इत्याह भगवान्] वज्रकर्म ॥
सर्वकुलमुद्राभाव[नासिद्धितन्त्रं ॥
अथ] भगवन्[सर्वतथागताः] पुनः समाजमागम्य, भगवते सर्वतथागतचक्रवर्तिने वज्रपाणये महाबोधिसत्वाय साधुकाराण्यददुः ।
साधु ते वज्रसत्वाय [वज्ररत्ना]य साधु ते ।
[वज्रधर्माय ते साधु साधु ते] वज्रकर्मणे ॥
सुभाषितमिदं सूत्रं वज्रयानमनुत्तरं ।
सर्वतथागतं गुह्यं महायानाभिसं[ग्रहम् ॥ इति ॥]
सर्वतथागततत्वसंग्रहात् सर्वकल्पगुह्योत्तरतन्त्रविधिविस्तरः परिसमाप्तः ॥
छप्तेर् 26अ सर्व-कल्पनुत्तर-तन्त्र
अथ वज्रपाणिर्महाबोधिसत्व इमा[मुदानमुदानयामास ।]
दुर्दृष्टीनां विरक्तानामिदं गुह्यन्न युज्यते ।
सर्वसत्वहितार्थाय वक्ष्यामि विधयस्तथे- ॥ ति ॥
अथवज्रपाणिर्महाबोधिसत्वः [सर्वतथागत] कुलोपचारविधिविस्तरमभाषत् ।
तत्रेदं सर्वतथागतकुलोपचारविधिविस्तरतन्त्रं ।
तत्रायं हृदयोपचारविधि[विस्तरतन्त्रो भवति] । महामण्डलं दृष्ट्वा धूपपुष्पदीपगन्धपूजामुद्राभिर् कृत्वा, ततो वज्र[वाचा जापमारभ्यति ।]
तत्रायं जापविधिर्भवति । यथा स्थानस्थितश्चतुर्मासं चतुःसन्ध्यं धूपादिभिर्यथावत्पूजां कृत्वा, सर्वतथागतमहायानाभिसमयनामाष्टशतेन सर्वतथागतानभिष्टुत्य, चतुर्मुद्राप्रणामयोगेन प्रणमन्नात्मनिर्यातनपूजा कार्यनेन मन्त्रचतुष्टयेन ।
ओं सर्वतथागतपूजोपस्थानायात्मानं निर्यातयामि सर्वतथागतवज्रसत्वाधितिष्ठस्व मां ॥
ओं सर्वतथागतपूजाभिषेकायात्मानं निर्यातयामि सर्वतथागतवज्ररत्नाभिषिञ्च मां ॥
ओं सर्वतथागतपूजाप्रवर्तनायात्मानं निर्यातयामि सर्वतथागतवज्रधर्म प्रवर्तय मां ॥
ओं सर्वतथागतपूजाकर्मणे आत्मानं निर्यातयामि सर्वतथागतवज्रकर्म कुरु मां ॥
"ततो ऽविरक्तः सर्वकामगुणेषु सर्वाहारः सर्वकामोपभोगीहृदयार्थः स्वमात्मानं बुद्धबिम्बं पुरतो वाङ्मात्रेणापि भावयन् यथाकामकरणीयतया, अष्टशतं वज्रवाचा जपन्नाशु प्रसिध्यती-" त्याह भगवान् वज्रसत्वः ॥
"अथोत्तमसिद्धिमिच्छेत्ततः पटे भगवन्तं तथागतं मध्ये लेखयेत् । तस्य चतुर्महासत्वमण्डलयोगेन यथाभिरुचितवर्णाभरणा महासत्वाश्चन्द्रमण्डलप्रतिष्ठिता लेख्याः कोणभागेषु कुलदेव्य इति । ततः पटस्योदारां पूजां कृत्वा यथावज्जपयोगेन तावज्जपेत् यावन्मासचतुष्टयं, ततः सकलां रात्रिं जपेत् । ततः प्रभाते सर्वतथागततत्वादीनुत्तमसिद्धीनवाप्नोती-" त्याह भगवान् वज्रधरः ।
"अथमुद्रासाधनमिच्छेत्तेन सर्वतथागतसत्ववज्रिमुद्रां बध्वा पटस्याग्रतो वज्रवाचां शतसहस्रं यथाकामकरणीयतया यथावद् बन्धन् मुञ्चंश्च जपेत् । ततो ऽन्ते सकलां रात्रिं, अविश्रमतो किञ्चित्कालं मुञ्चन्, यथावच्च बन्धन् जपेत् । ततो मुद्रा ज्वलत्याविशत्युत्तिष्ठति वाचं मुञ्चतीति । ततो मुद्राबन्धनेनोत्पतति कामरूपी भवति अन्तर्धाति सर्वकर्माणि च करोति । सर्वमुद्राश्च बन्धमात्रा यथावत्सर्वकर्माणि कुर्वन्ती-"त्याह भगवान् वज्रधरः ॥
"अथ समाधयो इष्येत् तेन सूक्ष्मवज्रादारब्धव्य समाधिमभिरोचेत् तं हृदययोगतो ऽभ्यसेत्, तावद्यावच् चतुर्मासं । ततो ऽन्ते सकलां [रात्रिं पर्यङ्काविक्षप्तसमापन्नेन तिष्ठेत् । ततः प्रभाते सर्वतथागताद्याः] सर्वसिद्धय आमुखीभवन्ति । ततो यादृशी अभिरुचिस्तादृ[शीमवाप्नोती-"त्याह भगवान् वज्रसत्वः ॥]
अथ कर्मसाधनं भवति । तथैव जपन्मासमेकं साधयेत् । ततो ऽन्ते सकलां रात्रिं ज[पेत् । ततः सर्वकर्माणि सिध्यन्ती-"त्याह भगवान् वज्रध]रः ॥
"अथ कर्माणि भवन्ति । सकृदुच्चारितेनात्मपरग्रामनगररक्ष भवति ॥ कवचब[न्धादिनावेशमपि कृत्वा चन्दनगन्धेन ग्रहाग्रह]स्पृष्टवज्राङ्कु शशरहस्तरत्नसूर्यध्वजदन्तपङ्क्तिपद्मखड्गचक्रजिव्हासर्ववज्रकवचदंष्ट्रामुष्टिमुद्रादिनिसर्वभावानाविशयति सकृज्जप्तेन ॥ मायाकर्म च मयूरपत्रपिञ्च्छके वज्रं चिध्वा बन्धयेत् । ततस्तं मयूराङ्गपिञ्च्छकं सत्ववज्रि मुद्र[या बध्यात् ता]वज्जपेद्यावत् सर्वतथागतमुद्रा आविशति । ततश्च पिञ्च्छकान् नानाद्यानि रूपाणि पश्यति । ततः प्रभृति तेन पिञ्च्छकेन सर्वरूपाणि विधिवद् दर्शयति । तेनैव पिञ्च्छकेन सकृज्जप्ते भ्रामितेनात्मनः सर्वरूपाणि दर्शयति । तेनैव पिञ्च्छकेन लौकिकानि मायाकर्माणि दर्शयति । बुद्धबोधिसत्वबिम्बान्यपि दर्शयति । दशसु दिक्षु सर्वबुद्धक्षेत्रेषु तथागताः सपर्षन्मण्डलाः समारसेनाधर्षणादिबुद्धर्द्धिविकुर्वितानि कुर्वन्तो दर्शयति । यावत्सर्वाकारवरोपेतं बुद्धरूपमात्मानं भवती-"ति ॥
"वशीकरणं कर्तुकामः सर्वतथागतसत्वमुद्रां बध्वा तावज्जपेद् यावत्सा मुद्रां ज्वलति । ततः प्रभृति मुद्राबन्धेन सर्वतथागतानभ्यारागयति वशीकरोति । किं पुनरन्यां सत्वान्? ॥
"अथ लौकिकोत्तमसिद्धयः साधयितुकामेन तेनादित एव तथैव जपता मासमेकमष्टसाहस्रिकेण जप्तव्यः । ततो ऽन्ते मुद्रां बध्वा तथैव सकलां रात्रिं जपेत्, यावन्मुद्रा ज्वलति । ततः प्रभृति मुद्राबन्धेन लौकिकसिद्धिविद्याधरसिद्धीनामेकतरो भवती-"त्याह भगवां वज्रधरः ॥
तथागतकुलोपचारविधिविस्तरः परिसमाप्तः ॥
अथ वज्रकुलोपचारविधिविस्तरो भवति ।
"तत्रादित एव पूर्वमेवं कुर्यात् । तथैव यथाकामकरणीयतया, अक्षरलक्षं जपेत् । अस्य सकलां रात्रिं जपेत् । ततः प्रभृति सर्वसत्वनिग्रहानुग्रहक्षमो भवती-"त्याह भगवां वज्रधरः ॥
अथ साधयितुमिच्छेत् तेन यथावत्पटं चित्रापयितव्यः । ततस्तथैव पूजां कृत्वा मासमेकं सर्वकामभोजी यथाकामकरणीयतया, अष्टसाहस्रिकेण जापेन चतुःसन्ध्य वज्रवाचा जपेत्, तावद्यावन्मासान्ते पटस्योदारां पूजां कृत्वा वज्र-हुंकारमहामुद्रां बध्वा तावज्जपेद्यावत्तस्मात् मुद्रां बन्धात्, हुंकारशब्दो विनिःसृतः । ततः प्रभाते महेश्वरादयो देवाधिपतयः सगणपरिवाराः पुरःस्थित्वाज्ञां मार्गयन्ति । ततो विद्याधरेणैवं वक्तव्यं "यदाहं ब्रूयामागच्छतेदं कुरुत तदा भवद्भिरागत्य ममाज्ञा कार्ये-"ति । ततः प्रभृति सकलत्रिलोकाधिपतिर्भवति । यथेच्छया च मुहूर्तमात्रेण सकलं त्रिभुवनमाज्ञापयन् भ्रमति । पुनरप्येति च, निग्रहानुग्रहं कुर्वं, दिव्यानि च त्रिलोकभोगानि चोपभुञ्जन् यथाकामकरणीयतया, सर्वसुराधिपतियोषिताद्याः सर्वयोषिता आरागयित्वोपभुञ्जति । न च तस्य कश्चित् किंचिच्छक्नोति कर्तुं, हुंकारेण च सर्वदुष्टदे[वादीन् प्रमर्दित्वा ततस्तावत्कल्पशतसहस्रान् जीवती-"त्याह भगवान् वज्रधरः ॥
"अथ मुद्रासाधनमिच्छेद्] यथावज्जपं कृत्वा मासान्ते वज्र-हुं-कारसमयमुद्रां बध्वा सकलां रात्रिं जपेत् । ततः प्रभाते मुद्राः सिद्धा भवन्ति । ततो यथावन् मुद्राबन्धेन हुंकारप्रयुक्तेन आकाशगमनविश्वसंदर्शनान्तर्धानमायासन्दर्शनसर्वावेशनाकर्षणवशीकरणसर्वतुष्टिसंजननसर्वरत्नाभिहरणमहातेजोज्वालासन्दर्शनरत्नवृष्टिसन्दर्शनमहाट्टहासप्रमुञ्चनसर्वसत्वसंशोधनच्छिन्दनभिन्दनऋतुचक्रपरिवर्तनयथावत्तत्वोल्लापनसर्वकर्मप्रवर्तनरक्षजंभनस्तंभनत्रासनमारणसर्वसत्वमुद्रणकामरतिक्रियाप्रवर्तनाभिषेकसर्वभावगायापननृत्यापनाह्वायनप्रवेशनस्फोटनावेशनादीनि सर्वकर्माणि करोती-"त्याह भगवान् वज्रधरः ॥
"अथ सूक्ष्मज्ञानसाधनमिच्छेत् तेन वज्र-हुं-कारसमाधिमभ्यसता तथैव जापयोगेन मासं साधयितव्यं । ततो ऽन्ते ऽनेनैव समाधिना सकलां रात्रिं जपेत् । तावद् यावत् प्रभाते पञ्चाभिज्ञा भूत्वा सर्वसत्वानुग्रहनिग्रहक्षमो भवती-"त्याह भगवान् वज्रधरः ॥
"अथ कर्मसाधनमिच्छेत् तेन तथैव जपता मासमेकं साधयितव्यं । ततो ऽन्ते सकलां रात्रिं जपेत् । ततः सर्वकर्माणि सिध्यन्ती"त्याह भगवान् वज्रधरः ॥ ततः कर्माणि भवन्ति सकृदुच्चारितेन मनीषितया रक्षादीनि सर्वकर्माणि करोति ॥
वज्रकुलोपचारसिद्धिविधिविस्तरः [परिसमा]प्तः ॥
अथ पद्मकुलोपचारविधिविस्तरो भवति ।
"तत्रादित एव तावच्छतसहस्रं जपेत्, पूर्वमेवाकृता भ[वति]ततः साधनं भवति । पटे भगवान् सर्वजगद्विनयाद्याः कर्तव्यास्तस्य सर्वपार्श्वेषु चतुर्मण्डलयोगेन महासत्वचतुष्टयः कार्यः अन्ते च देव्यः । ततः स एव जापविधिविस्तरो मासान्ते सकलां रात्रिं जपेत् । ततः सर्वजगद्विनयो भगवानागच्छति, यथाकालं वरेणाभिप्रचारयती-"ति आह भगवान् वज्रधरः ॥
"अथ मुद्रासाधनमिच्छेत् तेन तथैव पद्मवज्रिमुद्राबन्धं कृत्वा यथावन् मुच्याष्टसाहस्रिकेण जापेन चतुःसन्ध्यं जपेत् । ततः सकलां रात्रिं मुद्राबन्धेन जपेत् । प्रभाते सिद्धिर्भवति । ततो मुद्राबन्धेन यथावत् सर्वजगद्विनयं करोती-"त्याह भगवानवलोकितेश्वरः ॥
"अथ समाधिनयसाधनममिच्छेत् तेन तथैव मासान्ते सकलां रात्रिं यथाभिरुचितेन समाधिना जापो दातव्यः । ततः प्रभाते सर्वसमाधय आमुखीभवन्ती-"त्याह भगवान् वज्रधर्मः ॥
अथ कर्मसाधनमिच्छेत् तथैव जपन्मासान्ते सकलां रात्रिं जपेत् । ततः सर्वकर्मक्षयो भवती-"त्याह भगवां वज्रधरः ॥
पद्मकुलोपचारविधिविस्तरः परिसमाप्तः ॥
अथ मणिकुलोपचारविधिविस्तरो भवति ॥
"तत्रादित एव सर्वतथागतप्रणामचतुष्टयं कृत्वा शतसहस्रं जपेत् । ततस्तथैव पटे भगवां सर्वार्थसिद्धिं चतुर्मुद्रामण्डलयोगेन लिखेत् । ततस्तथैव पूजां कृत्वा तथैव साधयेत् । मासान्ते सकलां रात्रिं जपेत् । ततः प्रभाते भगवां सर्वतथागताभिषेकरत्नः आकाशगर्भो बोधिसत्व आगत्याभिषेकं ददाति । तेनाभिषेकेण त्रिसाहस्रमहासाहस्रे लोकधातौ विद्याधरचक्रवर्ती भवती-"त्याह भगवान् वज्रधरः ।
"अथ मुद्रासाधनमिच्छेत् तेन तथैव धर्मवज्रिप्रयोगेण वज्ररत्नमुद्रा यथावत्साध्या सर्वाशाकर्मकरी भवती ॥
"अथ मणिज्ञानमिच्छेत् साधयितुं तेन तथैव वज्ररत्नोद्भवसमाधिर्यथानुक्रमतो भावयितव्यः । निःस्वभावादाकाशात्कथं रत्नसंभव इति, रत्नाच्च कथं बोधिसत्वकायसंभव इति । इमं समाधिं चतुःसंध्यं भाव्य जपेद्, यथोपरि ततो मासान्ते तेनैव समाधिना [सकलां रा]त्रिं जपेत् । ततः प्रभाते सर्वतथागतैरागत्य यथाभिरुचितो ऽभिषिच्यत"इत्याह भगवनाकाशगर्भः ॥
"अथ कामसाधन[मिच्छेत्] तथैव जपता मासान्ते सकलां रात्रिं जपेत् । ततः प्रभाते भगवानाकाशगर्भः सर्वार्थसाधको भवतीति । ततः सर्वकर्माणि कुर्याद्" इत्याह भगवानार्यवज्रधरः ॥
मणिकुलोपचारविधिविस्तरः परिसमाप्तः ॥
अथ सर्वकुलोपचारसाधारणविधिविस्तरो भवति ॥
तत्रादित एव च सर्वहृदयोपचारविस्तरः ।
"हृदयमनीषितानि सर्वतथागतानां सिध्यन्ताम्" इत्युच्चार्य हृदयं यथाभिरुचितो जप्य साधनविधिः कर्तव्य इति ॥
तत्रायं मुद्रोपचारविधिः । "सर्वमुद्रा मे भोग्या भवन्ती-" त्युक्त्वा समयमुद्रां बध्वा यथाभिरुचितो यथाशक्त्या जपेत् । ततो यथावत्सिद्धिरिति ॥
तत्रायं सर्वमन्त्रोपचारविधिः । "निःप्रपञ्चा वाक्सिद्धिर्भवतु, सर्वतथागतसमाधयो मे आजायन्ताम्" इत्युक्त्वा मन्त्रं यथाभिरुचितो जपेत्, एषा सिद्धिरिति ॥
तत्रायं विद्योपचारविधिः । "अविद्यान्धा च ते मे सत्वाः सर्वतथागताश्च विद्याधिगमसंवरभूता" इत्युक्त्वा विद्यां यथाभिरुचितो जप्य साधनमावहेद्" इत्याह भगवानार्यवज्रधरः ॥
"अथ सर्वहृदयमुद्रामन्त्रविद्यानां यथाकामकरणीयतया वज्रजापविधिविस्तरो भवति । यस्य सत्वस्य हृन्मुद्रां मन्त्रं विद्यां तु साधयेत् । जापार्थतस्तमात्मानं सत्वं वा साध्य सिध्यती-" त्याह भगवान् वज्रसत्वः ॥
सर्वकुलसाधारणजापविधिविस्तरः परिसमाप्तः ॥
अथ सर्वकुलसाधारणसिद्धिविधिविस्तरो भवति ॥
तत्रादित एव तथागतकुलसिद्धयः । तद्यथार्थनिष्पत्तिसिद्धिः ऋद्धिसिद्धिर्विद्याधरत्वं महासिद्धिश्चेति ॥
"तत्रार्थनिष्पत्तिर्भवति । यत्रा निधिशङ्का भवेत् तत्र मुद्रां बध्वा स्वसमाधिना तन्निधिस्थानं वज्रदृष्ट्या निरीक्षयेत् । यदि वज्राकारमुत्तिष्ठत्वं पश्यति तथा ज्ञातव्यं निधिरत्रास्तीति । ततो वज्रस्फोटसमयमुद्रां बध्वोत्खन्य यथाकामकरणीयतया गृण्हीयादचिरात् प्राप्नोती-" त्याह भगवान् वज्रसत्वः ॥
"तत्र ऋद्धिसिद्धिनिष्पत्तिर्भवति । यां मुद्रां साधयेद् "वज्रसिद्धिर् । "इत्युक्त्वा ऋद्धिसिद्धिश्चतुर्विधा भव[न्ति तद्यथा] जलस्योपरिचंक्रमणनिषीदतादिकं तथागतादिसर्वरूपसंदर्शनं यावदभिरुचिस्तावद् अद्रेष्यत्वं । आकाशगामी च योजनसहस्रमूर्ध्वमुत्पत्यधस्ताच्च गच्छति । सर्वादिशश्च योजनसहस्राद् यथाभिरुचितवेगः परिभ्रम्यागच्छति । योजनसहस्रादर्शेन सर्वसत्वमनीषितानि ज्ञानाति । सर्वभावानि च चक्षुषा पश्यति श्रोत्रेण शृणोति । सर्वदिक्षु स योजनसहस्रादर्शेन मनो ऽभिरुचिताः सर्वस्त्रियो ऽङ्गे समुत्क्षिप्यानयति । सर्वहिरण्यसुवर्णमणिमुक्तादयश्च सर्वार्थानपहरति, न चास्य कश्चित् किंचित् छक्नोति कर्तुं । यद् वज्रेणाप्यदृश्यो भवति ।
किं पुनरन्यैः? । दशपुरुषसहस्रबली नित्यारोग्यवान् नित्यं सर्वकामोपभोजी सदायौवनो दिव्यरूपी सर्वतथागतान् सवज्रसत्वां पश्यन् पूजयंश्चानुत्तरवज्रसिद्धिश्चत्वारिवर्षसहस्राणि जीवती-" त्याह भगवान् सर्वतथागतवज्रऋद्धिः ॥
तत्रायं वज्रविद्याधरसिद्धिनिष्पत्तिर्भवति । मुद्रान् साधयं "वज्रविद्याधर" इति कुर्यात्, सिद्धया वज्रविद्याधरचक्रवर्ती भवति । सर्वकामोपभोगी सहस्रबुद्धक्षेत्रमेकक्षणेन परिभ्रम्यागच्छति । सर्वसुखानि परिभुंक्ते । द्विरष्टवर्षवयुः आकुञ्चितकुण्डलकेशधारी महावज्रविद्याधरः सर्वतथागतान् सवज्रसत्वान् पश्यन् महाकल्पस्थायी भवती-" त्याह भगवान् सर्वतथागतविद्याधरः ॥
तत्र महासिद्धिनिष्पत्तिर्भवति । स्वमुद्रां हृदयार्थतः साधयन् । स्वमुद्रा सत्वरूपी भवत्य, एकक्षणेन दशसु दिक्षु सर्वलोकधातुषु विश्वरूपी विश्वक्रियाप्रवर्तकः, सर्वतथागतान् सवज्रसत्वां दृष्ट्वा सर्वाकारवरोपेताभिः सर्वतथागतपूजाभिः संपूज्याशेषानवशेषसत्वार्थं च कृत्वा पुनरप्यायाति । सर्वलोकधातुसर्वकामसर्वसुखसौमनस्यानि सर्वाकारवरोपेतान्युपभुञ्जन्, वज्रसत्वसमो महाबोधिसत्वः अशेषानवशेषमहाकल्पायुर्भवती-" त्याह भगवान् सर्वतथागतसिद्धिः ।
तत्रैता वज्रकुलसिद्धयः । तद्यथा त्रिलोकविजयसिद्धिः सर्वाभिषेकसिद्धिः सर्वसुखसौमनस्यसिद्धिः उत्तमसिद्धिरिति ॥
"तत्र त्रिलोकविजयसिद्धिर्भवति । त्रिलोकविजयमुद्रां बध्वा महेश्वरं [वामप]देनाक्रम्य साधयेत् । ततः सा प्रतिमा नादं मुञ्चति । ततो हुंकारः प्रयोक्तव्यः । हुंकारे प्रयुक्तेमात्रे महेश्वरादयः सर्वत्रैलोक्याधिपतयः सपरिवारा; साधकस्य पुरत आगत्वा आज्ञावश्यविधेया भवन्ति । ततः प्रभृति सर्वत्रिलोकाधिपतिर्वज्रधरो भवति । आकाशेन गच्छति सकलत्रिलोकचक्रं परिक्रम्यागच्छति, दुष्टदेवादयश्च सर्वसत्वान् हुंकारेण दमयति । सर्वतथागतवज्रहुंकाररूपी सकलत्रिलोकमाज्ञया वर्तयन् सर्वतथागतान् सवज्रसत्वान् पश्यन्नारागयंश्च वर्षहस्रान् जीवती-" त्याह भगवान् वज्रहुंकारः ॥
"तत्रायं सर्वाभिषेकसिद्धिमुद्रां साधयन् । सर्वतथागताभिषेकरत्नमुद्रया पूर्वमात्मानमभिषिच्य साधयेत् । ततस्तस्य सिद्धस्य चतुर्विधमभिषेको भवति ।
वज्राभिषेको रत्नाभिषेको धर्माभिषेकः कर्माभिषेकश्चेति । तत्र वज्राभिषेके लब्धे सर्वतथागतानां वज्रधरो भवति । रत्नाभिषेके सर्वरत्नाधिपतिर्भवति ।
धर्माभिषेके धर्मराजा भवति । कर्माभिषेके लौकिकरोकोत्तरसर्वकर्मसिद्धिमवाप्नोती-" त्याह भगवां सर्वतथागताभिषेकः ॥
"तत्रेयं सर्वसुखसौमनस्यसिद्धिर्, यदुत गुह्यपूजाभिर्नित्यं सर्वतथागतपूजां कुर्वन्, सर्वतथागतसर्वसुखसौमनस्यसिद्धिमवाप्नोती-" त्याह भगवां सर्वतथागतसर्वसुखसौमनस्यः ॥
"तत्रेयमुत्तमसिद्धिः, यदुत वज्रधरसमो ऽहम्" इत्याह भगवां वज्रधरः ॥
तत्रैताः पद्मकुलसिद्धयः । तद्यथानुरागणवशीकरणरक्षपद्मसिद्विश्चेति ॥
"तत्रानुरागणसिद्धिर्भवति, यथावत्पद्मरागभावनया सर्वतथागतादिसर्वसत्वानुरागणक्षमो भवति ।
स्वलोकेश्वरानुस्मृत्या तथैव सर्वसत्ववशीकरणसमर्थो भवति ।
मैत्र्यस्फरणसमाधिना सर्वजगद्रक्षावरणगुप्तक्षमो भवति ।
स्वं पद्मसमाधिना पद्मं हस्तेन गृह्य साधयं लोकेश्वररूपी सर्वाकारवरोपेतश्चतुर्वर्षहस्रं जीवती-" त्याह भगवान् सर्वतथागतपद्मः ॥
तत्रैता मणिकुलसिद्धयः । तद्यथा सर्वकुलाभिषेकसिद्धिः, महातेजस्त्वं, सर्वाशाप्रपूरणं, रत्नसिद्धिश्चेति ॥
"तत्र सर्वतथागताभिषेकसिद्धिः । यदुत स्वाभिषेकनिर्यातना प्रदीपदानं दानपारमितापारिपूरिः, यथाशक्यरत्नसाधनं चत्वाभिः सिद्धिभिः सर्वतथागतां पूजयन्नचिरात् सिध्यती-" त्याह भगवां सर्वतथागतरत्नः ॥
सर्वकुलसाधारणसिद्धिविधिविस्तरः [परिसमा]प्तः ॥
"अथ सर्वकल्पोपायसिद्धितन्त्रमनुव्याख्यास्यामी-" त्याह भगवाननादिनिधनसत्वः ॥
[तत्रादित एव हृदयोपायसिद्धितन्त्रं ।]
यथा विनयो लोको हि तादृशी सिद्धिरिष्यते ।
उपायस्तत्र मुद्रा हि सर्वसिद्धिप्रदं महत् ॥
तत्रायं मुद्रोपायसिद्धितन्त्रं ।
विरागविनयो लोको मुद्रासिद्धिस्तु रागजा ।
उपायो भावना तत्र सर्वसिद्धिकरी वरा ॥
तत्रेदं मन्त्रोपायसिद्धितन्त्रं ।
लोको ऽयं सत्यविभ्रष्टो मन्त्रसिद्धिर्न इष्यते ।
उपायो निःप्रपञ्चस्तु सर्वसिद्धिकरः परः ॥
तत्रेदं विद्योपायसिद्धितन्त्रं ।
अविद्याभिनिविष्टो ऽयं विद्यासिद्धिर्न इष्यते ।
उपायस्तत्र चौदारां सर्वसिद्धिप्रदं वरम् ॥ इति ॥
सर्वकल्पोपायसिद्धितन्त्रं ॥
"अथ सर्वकल्पपुण्यसिद्धितन्त्रमनुव्याख्यास्यामी-" त्याह भगवां सर्वतथागतः ॥
तत्रादित एव स्वहृदयपुण्यसिद्धितन्त्रं ।
कृत्वा चतुर्विधां पूजां महापुण्यमवाप्नुते ।
बुद्धपूजाग्रपुण्या हि सिध्यते नात्रं संशय ॥ इति ॥
तत्रेदं मुद्रापुण्यसिद्धितन्त्रं ।
रक्षंस्तु समयं गुह्यं महापुण्यमवाप्नुते ।
अपुण्यो ऽपि हि सिध्येय शीघ्रं समयरक्षणाद् ॥ इति ॥
तत्रेदं मन्त्रपुण्यसिद्धितन्त्रं ।
बुद्धानामादिवचनैर्महापुण्यमवाप्नुयात् ।
धर्मदानादपुण्यो ऽपि शीघ्रं सिद्धिमवाप्नुते ॥
तत्रेदं विद्यापुण्यसिद्धितन्त्रं ।
दानमग्र्यं हि पुण्यानां ददन्पुण्यमवाप्नुते ।
दानपारमिता पूर्णः शीघ्रं बुद्धत्वमाप्नुते- ॥ ति ॥
सर्वकल्पपुण्यसिद्धितन्त्रं ॥
"अथ सर्वकल्पप्रज्ञासिद्धितन्त्रमनुव्याख्यास्यामि ॥
तत्रादित एव हृदयप्रज्ञासिद्धितन्त्रं ।
अ-अक्षरप्रवेशेन सर्वाक्षरविजानना ।
स्ववक्त्रपरवक्त्रं तु भावयं सिद्धिमाप्नुयाद् ।
इत्याह भगवान् मञ्जुश्रीर्महाबोधिसत्वः ॥
तत्रेदं मुद्राप्रज्ञासिद्धितन्त्रं ।
प्रज्ञा नैर्वेधिकी नाम समाधिरिति कीर्तिता ।
तया तु मुद्राः सिध्यन्ते भावयं सिध्यति क्षणाद् ॥
इत्याह भगवान् प्रज्ञाग्र्यः ॥
तत्रेदं मन्त्रप्रज्ञासिद्धितन्त्रं ॥
प्रज्ञाघोषानुगा नाम समाधित्वात्प्रपञ्चतः ।
तय भावितया शीघ्रं मन्त्रसिद्धिमवाप्नुयाद् ॥
इत्याह भगवान् वज्रबुद्धिः ॥
तत्रेदं विद्याप्रज्ञासिद्धितन्त्रं ।
विद्यामन्त्रविशेषाणां विशेषो नहि विद्यते ।
प्रज्ञया भावयन्नेवमाशु सिद्धिर्ध्रुवा भवेद् ॥
इत्याह भगवान् सर्वतथागतप्रज्ञाज्ञानः ॥
सर्वकल्पप्रज्ञासिद्धिविधिविस्तरतन्त्रं ॥ ॥
"अथ कल्पसंभारसिद्धितन्त्रमनुव्याख्यास्यामी-" त्याह भगवान् वज्रपाणिः ॥
तत्रादित एव सर्वहृदसंभारसिद्धितन्त्रं ।
सर्वपूजां प्रकुर्वाणः सं[भारं हि] विवर्धते ।
कुशलानां तु धर्माणां ततः सिध्यति संभृतः ॥
तत्रेदं मुद्रासंभारसिद्धितन्त्रं ।
बहुचक्रप्रवेशाच्च बहुमण्डल[कल्पनात्] ।
[संभार]पूजामुद्राणां महासिद्धिः प्रवर्तते ॥
तत्रेदं मन्त्रसंभारसिद्धितन्त्रं ।
अनुमोदनादियोगेन सद्धर्मपठनात्तथा ।
बहुजापप्रदानाच्च मन्त्रसिद्धिर्ध्रुवा भवेद् ॥ इति ॥
तत्रेदं विद्यासंभारसिद्धितन्त्रं ।
अविद्यासुप्रहीणत्वात् दानपारमितानयात् ।
संभारपरिपूर्णस्तु शीघ्रं सिद्धिमवाप्नुते- ॥ ति ॥
सर्वकल्पसंभारसिद्धितन्त्रं ॥
सर्वकल्पविधिविस्तरतन्त्रं परिसमाप्तं ॥
अथ वज्रपाणिर्महाबोधिसत्वः सर्वकुलचिह्नसंभवज्ञानतन्त्रमुदाजहार ॥ तत्र कथं वज्रसंभवः? ।
स एव भगवां सत्वः सर्वचित्तः स्वयं प्रभुः ।
कायवाक्चित्तवज्रस्तु दृढः सत्वः स्वयंभुवां ॥
सत्वानामुत्तमः सत्वो वज्रभावनया हृदि ।
वज्रसत्व इति ख्यातस्तु तस्मिं वज्रो प्रतिष्ठितः ॥
स एव ज्ञानयोगेन बुद्धानामसमत्विषां ।
निःक्रम्य हृदयाद्विश्वो विश्वरूपो भवत्यपि ॥
सर्वधातुरजःसंख्याः स एव तु जिनो भवेत् ।
तेभ्यो वै वज्रकायेभ्यो वज्रसत्वस्तु संभवेत् ॥
तत एवादिसत्वास्तु सर्वचिह्नसमुद्भवः ।
चिह्नेभ्यस्तु महासत्वास्तेभ्यः सर्वमिदं नयम् ॥ इति ॥
य इदं शृणुयात्कश्चिच्छ्द्दधेद् धारयेद् हृदि ।
भावयेच्च सदा तुष्टः शीघ्रं सिद्धिमवाप्नुयाद् ॥
इत्याह भगवान् वज्रसत्वः ॥
सर्वतथागततत्वसंभवज्ञानविधिविस्तरतन्त्रं ॥
॥ अथ वज्रपाणिर्महाबोधिसत्वः सर्वकल्पसंभवज्ञानविधिविस्तरतन्त्रमभाषत् ॥
तत्रादित एव तावत् सर्वतथागतकल्पसंभवज्ञानन्तन्त्रं भवति ।
बुद्धानामविकल्पं तु ज्ञानं भवति शाश्वतं ।
अविकल्पात्ततो ज्ञानात्कल्पनात्कल्प उच्यते ॥
तत्रेदं तथागतकुलकल्पसंभवज्ञानतन्त्रं ।
यत्राविकल्पः कल्पात्मा कल्प्यते कल्पनोद्भवः ।
वज्रसत्वो महासत्वः तेन कल्पो निरुच्यते ॥
तत्रेदं वज्रकुलकल्पसंभवज्ञानतन्त्रं ।
यथा लिख्य हि कल्पयन्ते विधयः कल्पसिद्धिदाः ।
तेन कल्प इति प्रोक्तो विकल्परहितात्मभिः ॥
तत्रेदं पद्मकुलकल्पसंभवज्ञानतन्त्रं ।
रागो विकल्पसंभूतः स च पद्मे प्रतिष्ठितः ।
ततस्तु कल्पस्थायिन्यः सिद्धयः संभवन्ति हि ॥
तत्रेदं मणिकुलकल्पसंभवज्ञानतन्त्रं ।
मणयो ह्यविकल्पास्तु प्रभावैः सुसमुच्छ्रिताः ।
एवंस्तु सिद्धयो दिव्याः संभवन्त्यविकल्पिताः ॥
इत्याह भगवान् वज्रधरः ॥
सर्वकुलकल्पसंभवज्ञानतन्त्रं ॥
अथ सर्वकल्पहृदयसंभवज्ञानतन्त्रं ॥
मनीषितविधानैस्तु सिध्यते तु मनीषितं ।
समाधिसाधनो हृद्स्थः हृदयस्तु तेन चोच्यते ॥
अथ सर्वमुद्रासंभवज्ञानतन्त्रं ॥
दुरतिक्रमो यथाभेद्यो राजमुद्राग्रशासनः ।
महात्मचिह्नविश्वस्तु तथा मुद्रेति कीर्तिता ॥
अथ मन्त्रसंभवज्ञानतन्त्रं ॥
अनतिक्रम[णो च] हि दुर्भेद्यो गुह्य एव च ।
मन्त्र्यते गुह्यसिद्ध्यत्वं मन्त्रस्तेन निरुच्यते ॥
अथ विद्यासंभवज्ञानतन्त्रं ॥
अविद्याविप्रणाशाय वाग्विद्यो[त्तम]सिद्धये ।
विद्यते वेदनासिद्धिस्तेन विद्या प्रकीर्तिते ॥
त्याह भगवान् वज्रधरः ॥
सर्वकल्पहृदयादिसंभवज्ञानतन्त्रं ॥ ॥
अथ सर्वकल्पज्ञानोत्पत्तितन्त्रं ॥
तत्रादित एव हृदयज्ञानोत्पत्तितन्त्रो भवति ॥
हृदयं जप्य विज्ञेयमात्मनो वा परस्य वा ।
भव्यं भूतं भविष्यं च यः पश्यति शृणोति च ॥
तत्रेदं मुद्राज्ञानोत्पत्तितन्त्रं भवति ।
मुद्रामेकतरां बध्वा यथावद्विधिना मनः ।
कृत्वा निरीक्षेल्लोकं तु सर्वं ज्ञेयं यथोपरी- ॥ ति ॥
तत्रेदं मन्त्रज्ञानोत्पत्तितन्त्रं ।
सकृदुच्चारयन्मन्त्रं ब्रूयाज्जिह्वां स्वकीन्तु यः ।
भव्यं भूतं भविष्यं च तत्सर्वं सत्यमावहेद् ॥
इत्याह भगवानवलोकितेश्वरः ॥
तत्रेदं विद्याज्ञानोत्पत्तितन्त्रं ।
सकृदुच्चार्य विद्यां तु वेदयेन्मनसा स तु ।
भव्य भूतं भविष्यं [च वज्रवाक्शास]नं यथे- ॥ ति ॥
सर्वकल्पज्ञानोत्पत्तिविधिविस्तरतन्त्रं परिसमाप्तं ॥ ॥
अथ सर्वकुलसाधारणगुह्यकायवाक्चित्तवज्रमुद्रासाधनतन्त्रं भवति ॥
तत्रेदं तथागतकुलगुह्यकायमुद्रासाधनं भवति ।
यथा तथा निषण्णस्तु पर्यङ्केन तु साधयेत् ।
यथा लेख्यानुसारेण महासत्वः प्रसिध्यती- ॥
त्याह भगवान् वज्रसत्वः ॥
तत्रेदं वज्रकुलगुह्यकायमुद्रासाधनं भवति ।
प्रत्यालीढसुसंस्थानं यथा लेख्यानुसारतः ।
साधयेत सुसंक्रुद्धः सिध्यते नात्र संशय ॥
इत्याह भगवान् वज्रहुंकारः ॥
तत्रेदं पद्मकुलगुह्यकायमुद्रासाधनं भवति ।
वज्रपर्यङ्कसंस्थं तु वज्रबन्धं करद्वयं ।
समाधिकायो भूत्वा तु साधयेत्पद्मसंभवम् ॥
इत्याह भगवान् पद्मसत्वः ॥
तत्रेदं मणिकुलगुह्यकायमुद्रासाधनं भवति ।
उत्थितो वा निषण्णो वा चङ्क्रमन् वा यथा तथा ।
वज्ररत्नाभिषेकेण सिध्यते नत्र संशय ॥
इत्याह भगवान् वज्रगर्भः ।
तत्रेदं तथागतकुलगुह्यवाङ्मुद्रासाधनतन्त्रः ।
नातिस्यन्दितजिह्वाग्रदन्तोष्ठद्वयसंयुता ।
साधयेत्सर्वकल्पान्तु वज्रवाक्स्वरवर्जिते- ॥
त्याह भगवान् वज्रवाचः ।
तत्रेदं वज्रकुलगुह्यवाङ्मुद्रासाधनतन्त्रं ।
मेघघूल्लित-हुं-कारक्रोधगंभीरवाक्स्थिरा ।
क्रोधस्फुटा महावज्रं वज्रक्रोधवाग्साधनम् ॥
इत्याह भगवान् वज्रहुंकारः ॥
तत्रेदं पद्मकुलगुह्यवाङ्मुद्रासाधनतन्त्रं ।
अनुच्छ्वासं सूक्ष्म[श्वासं सूक्ष्मवाचासुसं]स्फुटं ।
सिध्यते सर्वजापानि समाधिज्ञानगर्भये- ॥
त्याह सर्वतथागतसमाधिज्ञानगर्भः ॥
तत्रेदं मणिकुलगुह्यवाङ्मुद्रा[साधन]तन्त्रं ।
सुपरिस्फुटया वाचा प्रणामपरमः सदा ।
जपेते विनयैश्चापि सर्वमाशु प्रसिध्यती- ॥
त्याह भगवान् सर्वतथागतपूजावि[धिविस्त]रकर्मा ॥
तत्रेदं तथागतकुलगुह्यचित्तमुद्रासाधनतन्त्रं ।
कामो हि भगवांच्छश्वः सर्वसत्वसुखप्रदः ।
वज्रसत्वः स्वयमे[व इ]ति भाव्याशु सिध्यती- ॥
त्याह भगवान् कामः ।
तत्रेदं वज्रकुलगुह्यचित्तमुद्रासाधनतन्त्रं ।
सर्वसत्वहितार्थाय दुष्टानां [विनयार्थाय] ।
बुद्धशासनरक्षार्थं क्रोधः सिद्धिकरः पर ॥
इत्याह भगवान् सर्वतथागतवज्रहुंकारः ।
तत्रेदं पद्मकुलगुह्यचित्तमुद्रासाधनतन्तं ।
यथा पद्ममलिष्ठं तु वासदोषैः सुरागवान् ।
तथा मे रागदोषैस्तु भवेद्रागः स सिध्यती- ॥
त्याह भगवान् पद्मरागः ॥
तत्रेदं मणिकुलगुह्यचित्तमुद्रासाधनतन्त्रं ।
कदा नु सर्वसत्वानां सर्वकार्यार्थसिद्धये ।
रत्नवर्षाणि वर्षेयं सिद्धः सर्वाशु सिध्यती- ।
त्याह भगवानार्याकाशगर्भः ।
तत्रेदं तथागतकुलगुह्यवज्रमुद्रासाधनतन्त्रं ।
उत्थितो वा निषण्णो वा [चङ्क्रमन्वा] यथा तथा ।
वाममुद्रागुह्यकरः सर्वं कुर्वं स सिध्यती- ॥
त्याह भगवां सर्वतथागतगुह्यवज्रपा[णिः ॥
तत्रेदं वज्रकुलगुह्यवज्रमुद्रासाधनतन्त्रं ॥]
यथा तथा स्थितश्चैव कुर्वन् चापि यथा तथा ।
वक्रज्रोधाङ्गुलिं बध्वा वस्त्रच्छन्नां तु सिध्यती- ॥
त्याह भगवा[न् सर्वतथागतक्रोधराजः ॥
तत्रेदं पद्मकुलगु]ह्यवज्रमुद्रासाधनतन्त्रं ।
पद्ममुष्टिं तु वामेन करेणाच्छादितेन तु ।
बध्वा यथा शीघ्रं पद्म[सिद्धिमवाप्नुयाद् ॥
इत्याह भगवानवलोकितेश्व]रः ॥
तत्रेदं मणिकुलगुह्यवज्रमुद्रासाधनतन्त्रं ।
रत्नमुष्टिं तु बध्वा वै वामाच्छादितसत्क[रः ।
यथा तथा क्रियते वै रत्नसिद्धिमवाप्नु] याद् ॥
इत्याह भगवानाकाशगर्भः ।
तत्रेदं सर्वकुलगुह्यसाधारणमुद्रासाधनतन्त्रं ।
महामु[द्राप्रयोगेण स्वसत्वसमाधिना हि ।]
वज्रवाग्वज्रदृष्टिभ्यामचिरात्सिद्धिरुत्तमे- ॥
त्याह भगवान् सर्वतथागतवज्रसत्वः ॥
सर्वकुलगुह्य[कायवाक्चित्तवज्रमुद्रासाधनतन्त्रं स]माप्तं ॥ ॥
अथ भगवान् वज्रपाणिः सर्वतथागतनाहूयैवमाह । "प्रतिपद्यत भगवन्तस्तथा[गता इदं कल्पमधितिष्ठन्ति प्रतिवेदयन्ति ।"
अथ स]र्वतथागताः पुनः समाजमागम्य, पुनरपि साधुकाराण्यददुः ।
साधु ते वज्रसत्वाय वज्ररत्ना[य साधु ते ।
वज्रधर्माय ते साधु साधु ते] वज्रकर्मणे ॥
सुभाषितमिदं सूत्रं वज्रयानमनुत्तरं ।
सर्वतथागतगुह्यं महायानाभिसंग्रहम् ॥ इ[ति ॥
सर्वतथागततत्वसंग्र]हात् सर्वकल्पानुत्तरतन्त्रं परिसमाप्तं ॥
छप्तेर् 26ब् एपिलोगुए ओf थे सर्व-तथगत-तत्त्व-सन्ग्रह
अथ वज्रपाणिर्महाबोधिसत्वः उत्थायास[नाद् भगवन्तमनेन नामाष्टशतेनाध्येषामा]स ।
वज्रधातु महासत्व सर्वार्थ परमार्थक ।
शाक्यराज महाज्ञान वज्रात्मक नमो ऽस्तु ते
[सत्वसंभव तत्वार्थ सत्वहेतु महानय ।]
महासत्वार्थ कार्यार्थ सत्वसत्व नमो ऽस्तु ते
बुद्धधर्म महाधर्म धर्मचक्रप्रवर्तक ।
म[हावचन विद्याग्र्य महासत्व नमो ऽस्तु ते]
महाकर्म महारक्ष सर्वकर्म प्रसाधक ।
महात्म सत्वचर्याग्र सत्वहेतो नमो ऽस्तु ते
[सर्वपारमिताप्राप्त सर्वज्ञज्ञानवेदक ।
सर्वस]त्व महोपाय महाप्रज्ञा नमो ऽस्तु ते
महाकारुणिकाग्र्याग्र्य कारुण्य करुणात्मक ।
सर्वदा[न महामैत्री सर्वकार नमो ऽस्तु ते]
शाक्यसिंह महाशाक्य शाक्यशाक्य महामुने ।
विभो महाविनय नेयार्थ विनयाग्र नमो ऽस्तु [ते
धर्मधातु समप्राप्त धर्मधातु तथाग]त ।
वज्रनाथ महानाथ सत्वराशि नमो ऽस्तु ते
महाप्रभ महालोक महावीर्य महाबल ।
म[हावीर सुवीराग्र्य शम्भु वीर नमो ऽस्तु ते]
ब्रह्मन् स्वयंभू भगवन् शाक्यवीर महामुने ।
सर्वात्मक मुने शुद्ध धर्मराज नमो ऽस्तु ते
आ[काशकाय कायाग्र्य त्रिकायाकायभा]वक ।
सर्वकाय महाकाय वज्रकाय नमो ऽस्तु ते
अवाच वाच [वाचाग्र्य त्रिवाचावाचदर्शक ।
सर्ववाच] सुमहावाच वज्रवाच नमो ऽस्तु ते
अचित्त चित्त चित्ताग्र्य त्रिचित्ताचित्तदर्शक ।
सर्वचित्त महाचित्त [वज्रचित्त नमो ऽस्तु ते
अवज्र वज्र व]ज्राग्र्य त्रिवज्रावज्रशोधक ।
सर्ववज्र महावज्र वज्रवज्र नमो ऽस्तु ते
सर्वव्यापि भवाग्र्याग्र्य सु[गताधिपति जय ।
त्रैधातुकमहाराज] वैरोचन नमो ऽस्तु ते
नामाष्टशतकंश्च तद्यः कश्चिच्छृणुया सकृत् ।
पठेद्वा भावयेद्वापि [सर्वो बुद्धत्वमाप्नुयात्
अध्येषया]मि त्वान्नाथ सर्वसत्वहितार्थतः ।
महाकारुण्यमुत्पाद्य धर्मचक्रं प्रवर्तये-
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0