भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 200

200.1

ति ॥
[अथ भगवान् वैरोचनः सर्वतथागतधिपतिना]ज्ञावचनमुपश्रुत्य, सर्वतथागतानाहूयैवमाह । "प्रतिपद्यत भगवन्तः तथागताः समा[जमापन्तुम्" इति ॥
अथ सर्वतथाग]ताः समाजमापद्य, इमां गाथामभाषन्त ।
सर्वसत्वहितार्थाय सर्वलोकेषु सर्वतः ।
[यथा विनयतो विश्वं धर्मचक्रं प्रवर्त्यताम् ॥ इति ॥]
अथास्मिन् भाषितमात्रे सर्वबुद्धक्षेत्रेषु सर्वलोकधातुषु सर्वसत्वानां पुरतः स्फर्य यावत्सर्व[परमाणुरजोमण्डलेषु भगवान् शाक्यमुनि]स्तथागतो धर्मचक्रं प्रवर्तयामास ॥
अथ वज्रपाणिर्महाबोधिसत्वः पुनरपीमां गाथमभाष[त् ।
सर्वसत्वहितार्थाय सर्वलोकेषु] सर्वतः ।
यथा विनयतो विश्वं वज्रचक्रं प्रवर्त्यताम् ॥ इति ॥
अथास्मिन् भाषितमात्रे तथैव सर्वबुद्धक्षे[त्रेषु यावत् सर्वपरमाणुरजोमण्डलेषु भ]गवान् वज्रधातुस्तथागतो वज्रधात्वादीन् सर्ववज्रचक्राणि प्रवर्तयामास ॥
अथ त्रिलोकविजयो [महाबोधिसत्व इमां] गाथामभाषत् ।
सर्वसत्वहितार्थाय सर्वलोकेषु सर्वतः ।
यथा विनयतो विश्वं क्रोधचक्रं प्रवर्त्यताम् ॥ [इति ॥
अथास्मिन् भाषितमात्रे तथैव] सर्वबुद्धक्षेत्रेषु यावत् सर्वपरमाणुरजोमण्डलेषु भगवांस्त्रिलोकविजयी तथागतः सर्वतथागतक्रो[धचक्रं प्रवर्तयामास ॥
अथार्याव]लोकितेश्वरो बोधिसत्व इमां गाथामभाषत् ।
सर्वसत्वहितार्थाय सर्वलोकेषु सर्वतः ।
यथा वि[नयतो विश्वं पद्मचक्रं प्रवर्त्यताम् ॥ इति ॥]
अथास्मिन् भाषितमात्रे तथैव सर्वबुद्धक्षेत्रेषु यावत् सर्वपरमाणुरजोमण्डलेषु भगवां धर्मराजा तथागतः पद्मचक्रं प्रवर्तयामास ॥
अथार्याकाशगर्भो बोधिसत्व इमां गाथामभाषत् ।
सर्वसत्वहितार्थाय सर्वलोकेषु सर्वतः ।
यथा विनयतो विश्वं मणिचक्रं प्रवर्त्यताम् ॥ इति ॥
अथास्मिन्[भाषितमात्रे सर्वबुद्धक्षेत्रान्तर्गत]सर्वसत्वाः सूक्ष्मा वा स्थूला वा ते सर्वे सर्वतथागतं सुमेरुगिरिमूर्ध्नि वज्रमणिरत्नशिखरकूटागारे सर्वतथा[गतसिंहासने स्थित्वा वज्रधात्वादीन् सर्व]चक्राणि प्रवर्तयन्तं सर्वतो ऽद्राक्षुरिति ॥
अथ वज्रपाणिर्महाबोधिसत्वः तस्यां वेलायामिमां गा[थामभाषत् ।
सर्वसत्वहितार्थाय प्र]तिपद्यस्व कार्यतः ।
मानुष्यमवताराग्र्यं वज्रचक्रं प्रवर्त्यताम् ॥ इति ॥
अथ पुनरपि भगवान् सर्वत[थागतानाहूयैवमाह । "प्रतिपद्यत भ]गवन्तस्तथागताः पुनः समाजमापन्तुम्" इति ॥
अथ भगवन्तः सर्वतथागताः पुनः समाजमा[पद्य, वैरोचनस्य हृदये प्रविष्टा]इति ॥
अथ भगवान् वैरोचनस्तथागतः सर्वतथागतकायवाक्चित्तवज्रमात्मानमवबुध्य, व[ज्रपाणिमेवमाह । "प्रविशकुलपु]त्र त्वमपि मम हृदये; सर्वतथागतसर्ववज्रकुलसर्वमण्डलाः सर्वतथागतहृदयेषु समनुप्र[विष्टाः" ।
अथ वज्रपाणिर्महाबोधिसत्वः] सर्वतथागतानुज्ञात इमां गाथामभाषत् ।
सर्वसत्वहितार्थाय प्रतिपद्यामि सर्वतः ।
प्रवेष्टुं सर्वबुद्धानां का[यवाक्चित्तस्य वज्र ॥ इति ॥
अथास्मिन् भा]षितमात्रे यावन्तस्तथागताः सर्वलोकधातुपरमाणुरजःसमेषु सर्वलोकधातुषु तिष्ठन्ति ते तथा[गता एकैकेन सर्वलोक]धातुपरमाणुरजःसमाः स्फरणकायाः भगवतो वैरोचनस्य हृदये प्रविष्टाः ।
अथ वज्रपाणिर्महाबोधिस[त्वः सर्वतथागतेषु] भगवतश्च वैरोचनस्य सर्वकायेषु सर्ववाक्प्रवर्तनस्थानेषु सर्वचित्तसन्ततिप्रवाहेषु सर्ववज्रनयेषु सर्वा[ङ्गप्रत्यङ्गेषु सर्वस्थानेषु] सर्वलक्षणेषु सर्वानुव्यञ्जनेषु सर्वरोमकूपेषु सर्वपरमाणुरजोमण्डलेषु च हृदयेषु प्रविष्ट्वा स्थिता इति ॥
[अथ भगवानचिराभि] संबुद्धः सर्वतथागतकायवाक्चित्तवज्रः सर्वतथागतकायमात्मानमवबुध्य, तस्मात् सुमेरुगिरिमूर्धाद्येन [बोधिमण्डं तेनोपजगा]मोपेत्य, भगवतो बोधिवृक्षस्याधस्तात् लोकानुवर्तनतया, पुनस्तृणानि गृह्येदमुदानमुदानयामास ।
अ[हो ह्यग्रार्थ आत्मनः स]त्वार्थः सत्वशासिनां ।
यद् विनेयवशाद्धीरास्तीर्थदृष्ट्या विहन्ति हि ॥
अविनेयस्य लोकस्य दुर्दृष्ट्यान्धस्य सर्वतः ।
ज्ञा[नाभया शोधनार्थं बुद्धबो]धिमवाप्नुयाद् ॥ इति ॥
अथ कामावचरा देवा भगवतस्तत्वमजानन्तो ब्रूवन् । "किं भो श्रमण एवं तीव्राण्येवं रौद्राणि बो[ध्यार्थाय] दुःखान्युत्सहसी-" ति ।
अथ भगवांस्तानि तृणान्यास्तर्योपविष्ट्वा तां देवानेवमाह । "प्रतिपद्यत मार्षा मम बोधिं [प्राप्तुम्" इति ।
अथ कामाव]चरा देवा भगवतो भाषितस्यार्थमजानन्तो येन शक्रो देवानामिन्द्रः तेनोपजगामोपेत्य, शक्रं देवानामिन्द्रमि[दं वृत्तान्तमारोचया]मास ।
अथ शक्रो देवानामिन्द्रः सर्वकामावचरदेवसङ्घपरिवारो रूपावचराधिपतिं महाब्रह्माणमिदं [वृत्तान्तमारोचया]मास ।
अथ महाब्रह्मा सर्वकामावचररूपावचरदेवसहितस्त्रिलोकाधिपतिमीश्वरं तं वृत्तान्तमारोच[यामास ॥
अथ महे]श्वरस्त्रिलोकाधिपतिर्नारायणादीन् सर्वदेवाधिपतीनेवमाह । "प्रतिपद्यत मार्षास्तथागतो ऽर्हं सम्यक्संबुद्धो [लोकानुवर्तनतया पु]नरनुत्तरां सम्यक्संबोधिं दर्शयिष्यति । मामन्त्र्या एवं विद्येन् न तथागतो मानुषो भवति, देवा एव [तथागता भवन्ति], मनुषे घटयेयुः, न तथागतत्व इति । तत्साधु प्रतिपद्यत तत्र पूजनाय गन्तु" मिति ।
अथ महेश्व[रादिदेवाधिपतयः स्थित्वा] बोधिमण्डे, येन च भगवान् बोधिमण्डनिषण्णः तेनोपजगामोपेत्य च भगवतः पादौ शिरसाभिवन्द्य, भगवन्तमेवमाहुः । ["प्रतिपद्य भ]गवन्नस्माकमनुकम्पामुपादाय, अस्मात् तृणसंस्तरादुत्थाय, दिव्येष्वासनेषु निषद्यानुत्तरां समयक्संबोधिमभिसंबोद्धु" ॥
अथ [भगवान् दे]वाधिपतीनेवमाह । "प्रतिपद्यत मार्षा ममानुत्तरां समयक्संबोधि दातु" मिति । अथ ते एवमाहुर् । "न वयं भगवं समर्था बोधिं द[आतुं] । यदि वयं समर्था भवेमस्तदात्मनैवाभिसंबोधिमभिसंबुध्येमही-" ति ॥
अथ भगवानिदमेवार्थमुद्दीपयं भूयस्या मात्रया इ[मां गाथा]मभाषत् ।
न सा रूपि न चारूपि न सत्यं न मृषाशुचि ।
बुद्धबोधिरिदं ज्ञानमवबुध्य जिनो भवेद् ॥ इति ॥
अथ ते देवाधिप[तियो मु]हूर्तं तूष्णीम्भावेन तस्थुः ॥
अथ भगवांस्ततस्तृणासनादुत्थाय, तां देवानेवमाह । "प्रतिपद्यत मार्षा ईदृशं ज्ञानमवबोद्धुं ।" [त ए]वमाहुर् । "न शक्तमो भगवन्" ॥
अथ भगवांस्तस्मिन्नेवासने निषद्येमां गाथामभाषत् ।
मनसः प्रतिवेद्येन बोधिचित्तं दृढीकुरु ।
वज्रं सत्वे दृढीकृत्वा बुद्धमात्मानुभावय ॥
अथ त एवमाहुर् । "एवमस्त्व्" इति कृत्वा सर्वे प्रक्रान्ताः ॥
अथ भगवान् रात्रौ प्रभातायां [लोकानु]वर्तनतया मारां जित्वानुत्तरां सम्यक्संबोधिमभिसंबुध्य, अशेषानवशेष[सत्वधातुषु सर्वसत्वहितार्थाय, स्वहृद]यावस्थितमार्यवज्रपाणिनमनेन नामाष्टशतेनाभिस्तौति ।

वज्रसत्व महासत्व [महायान महात्मक ।
महाप्रभ महाशु]द्ध महानाथ नमो ऽस्तु ते

200.2

वज्रराज महावज्र वज्र सर्वतथागत ।
महासत्व महावीर्य महोपाय नमो ऽस्तु ते

200.3

वज्ररा[ग महाशुद्ध स]र्वसौख्य महासुख ।
सुखाग्र्यानादिनिधन महाकाम नमो ऽस्तु ते

200.4

वज्रसाधु महातुष्टि साधुकार प्रहर्षक ।
महाहर्ष महामो[दन] प्रामोद्य नमो ऽस्तु ते

200.5

वज्ररत्न महाराज स्वभिषेक महामते ।
सर्वरत्न महाशोभ विभूषण नमो ऽस्तु ते

200.6

वज्रतेज म[हातेज] वज्रप्रभ महाद्युते ।
जिनप्रभ महाज्वाल बुद्धप्रभ नमो ऽस्तु ते

200.7

वज्रकेतु महाकेतु महाध्वज धनप्रद ।
आकाशकेतो महा[यष्टि त्या]गध्वज नमो ऽस्तु ते

200.8

वज्रहास महाहास महाप्रीति प्रमोदन ।
प्रीतिवेग रतिप्रीते धर्मप्रीते नमो ऽस्तु ते

200.9

वज्रधर्म महा[धर्म सर्व]र्धर्म सुशोधक ।
बुद्धधर्म सुधर्माग्र्य रागधर्म नमो ऽस्तु ते

200.10

वज्रतीक्ष्ण महाकोश प्रज्ञाज्ञान महामते ।
पापच्छेद म[हाखड्ग बु]द्धशस्त्र नमो ऽस्तु ते

200.11

वज्रहेतु महाचक्र बुद्धचक्र महानिधि ।
सर्वमण्डल धर्माग्र धर्मचक्र नमो ऽस्तु ते

200.12

वज्रभा[ष महाभाष] निःप्रपञ्च महाक्षर ।
अनक्षर महाजाप बुद्धवाच नमो ऽस्तु ते

200.13

वज्रकर्म सुकर्माग्र्य महाकर्म सुकर्मकृत् ।
गुह्यपू[ज महापूज बुद्धपूज नमो]स्तु ते

200.14

वज्ररक्ष महावर्म कवचाग्र्य महादृढ ।
महारक्ष महासार बुद्धवीर्य नमो ऽस्तु ते

200.15

वज्रयक्ष महाक्रोध सर्वदुष्टभयानक ।
सर्वबुद्धमहोपाय अग्रयक्ष नमो ऽस्तु ते

200.16

महासन्धि महामुद्र महासमयबन्धक ।
महामुष्टे समुद्राग्र्य वज्रमुष्टे नमो ऽस्तु ते

200.17

वन्द्यो मान्यश्च पूज्यश्च सत्कर्तव्यस्तथागतैः ।
यस्मादनादिनिधनं बोधिचित्तं त्वमुच्यसे

200.18

त्वामासाद्य जिनाः सर्वे बोधिसत्वाश्च शौरिणः ।
संभूता संभविष्यन्ति बुद्धबोध्यग्रहेतवः

200.19

नमस्ते वज्रसत्त्वाय वज्ररत्नाय च ते नमः ।
नमस्ते वज्रधर्माय नमस्ते वज्रकर्मणे

200.20

त्वामभिष्टुत्य नामाग्रैः प्रणम्य च सुभावतः ।
यत्पुण्यं तेन सर्वो हि बुद्धबोधिमवाप्नुयात्

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc