सर्वतथागततत्त्वसंग्रह · अध्याय 198
इत्याह भगवानवलोकितेश्वरः ।
तत्रेदं मणिकुलचक्षुर्ज्ञानसिद्धितन्त्रं ।
आकाशे रत्नसंकाशा हिरण्यादिषु सादृशाः ।
यदा तु पश्यते खे तु खचक्षुः सिध्यते सदे- ।
त्याह भगवान् वज्रगर्भः ।
सर्वकुलचक्षुर्ज्ञानसिद्धिविधिविस्तरतन्त्रं ॥
अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतकर्मोत्तमसिद्धितन्त्रमुदाजहार । तत्रेदं तथागतकर्मोत्तमसिद्धितन्त्रं ।
कर्ममण्डलयोगेन पूजयं सर्वनायकान् ।
रागसौख्यविपाकार्थं बुद्धसिद्धिमवाप्नुयाद् ॥
इत्याह भगवान् बुद्धः ॥
तत्रेदं तथागतकुलकर्मोत्तमसिद्धितन्त्रं ।
गुह्यपूजां प्रकुर्वाणो रागो ऽहमिति भावयन् ।
प्राप्नुयादुत्तमां सिद्धिं वज्ररागसमद्युतिम् ॥
इत्याह भगवान् कामः ॥
तत्रेदं वज्रकुलकर्मोत्तमसिद्धितन्त्रं ।
गुह्यपूजां प्रकुर्वाणो क्रोधो ऽहमिति भावयन् ।
प्राप्नुयादुत्तमां सिद्धिं त्रिलोकविजयोपमाम् ॥
इत्याह भगवान् वज्रपाणिः ॥
तत्रेदं पद्मकुलकर्मोत्तमसिद्धितन्त्रं ।
अन्तर्गतेन मनसा कामशुद्धिं तु भावयन् ।
स्वरे ऽतो बिन्दुभिर्बुद्धां पूजयं सिद्धिमाप्नुयाद् ॥
इत्याह भगवानवलोकितेश्वरः ॥
तत्रेदं मणिकुलकर्मोत्तमसिद्धितन्त्रं ।
वज्रगर्वा समाधाय नमेदाशयकम्पितैः ।
प्रणामपरमो नित्यमभिषेकां समाप्नुयाद् ॥
इत्याह भगवान् वज्राभिषेकरत्नः ॥
सर्वकुलकर्मोत्तमसिद्धिविधिविधिविस्तरतन्त्रः ॥
अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतकर्मसमयगुह्यसिद्धितन्त्रमुदाजहार । तत्रायं तथागतकर्मसमयगुह्यसिद्धितन्त्रः ।
कामाद्याः सर्वसौख्या मे सदैव हृदये स्थिताः ।
अहो सत्वार्थानामविरागो यत्र देश्यते
अयं हि कर्मसमयस्तथागतसमाधिना ।
भावयं पूजयेद् बुद्धामुत्तमां सिद्धिमाप्नुयाद्
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0