सर्वतथागततत्त्वसंग्रह · अध्याय 17
अथ सर्वमुद्राणां सामान्या बन्धविधिविस्तरो भवति । तत्रादित एव वज्रबन्धाङ्गुलीं तालं कृत्वा हृदये, इदं हृदयमुच्चारयेत् वज्रबन्ध त्रट् ॥ ततः सर्वमुद्राबन्धाः स्वकायवाक्चित्तवज्रेषु वशीभवन्ति ॥
ततो वज्रावेशसमयमुद्रां बध्वा, इदं हृदयमुच्चारयेत् अः ॥ ततः समाविष्टा मित्रत्वेनोपतिष्ठन्ति ॥
ततो मुद्रासमयमहासत्त्वाननुस्मृत्येदं हृदयमुदाहरेत् महासमयसत्त्वो ऽहम् ॥ अनेन सर्वमुद्राः सिद्ध्यन्तीति । सर्वमुद्राविधिविस्तरः ॥
अथ सामान्यः साधनविधिविस्तरो भवति । तत्रादित एव स्वमुद्रां बध्वा स्वमुद्रासत्वमात्मानं भावयेदनेन हृदयेन समयो ऽहम् ॥
ततः स्वमुद्रासत्त्वमात्मानं भाव्य तेनाधिष्ठायेदनेन मन्त्रेण समयसत्त्वाधितिष्ठस्व माम् । ततः साधयेदिति । साधनाविधिविस्तरः ॥
अथ सिद्धिविधिविस्तरो भवति । तत्रादित एव अर्थसिद्धिमिच्छता तेन हृदयेन अर्थसिद्धि ॥ अनेन सिद्धा मुद्रा महार्थोत्पत्तिन् करोति ॥
अथ वज्रसिद्धिमिच्छेदनेन हृदयेन वज्रसिद्धि ॥ अनेन यथाभिरुचितवज्रसिद्धो भवति ॥
अथ विद्याधरसिद्धिमिच्छेदनेन हृदयेन वज्रविद्याधर ॥ अनेन यथाभिरुचितविद्याधरसिद्धिः । अथोत्तमसिद्धिमिच्छेत् स्वमुद्राहृदयेनेति ।
सिद्धिविधिविस्तरः ॥
अथ सर्वमुद्राणां सामान्यः स्वकायवाक्चित्तवज्रेषु वज्रीकरणविधिविस्तरो भवति ।
यदा मुद्राधिष्ठानं शिथिलीभवति, स्वयं वा मुक्तुकामो भवति, ततो ऽनेन हृदयेन दृढीकर्तव्या ।
ओं वज्र सत्त्वसमयमनुपालय,
वज्रसत्त्वत्वेनोपतिष्ठ,
दृढो मे भव, सुतोष्यो मे भवानुरक्तो मे भव,
सुपोष्यो मे भव, सर्वसिद्धिञ्च मे प्रयच्छ,
सर्वकर्मसु च मे चित्तश्रेयः कुरु हूं
ह ह ह ह होः भगवन् सर्वतथागतवज्र मा मे मुंच,
वज्रीभव महासमयसत्व आः ॥
"अनेनानन्तर्यकारिणो ऽपि सर्वतथागतमोक्षा अपि सद्धर्मप्रतिक्षेपका अपि सर्वदुष्कृतकारिणो ऽपि सर्वतथागतमुद्रासाधका वर्जसत्त्वदृढीभावादिहैव जन्मन्यासु यथाभिरुचितां सर्वसिद्धिमुत्तमसिद्धिं वज्रसिद्धिं वज्रसत्त्वसिद्धिं वा यावत् तथागतसिद्धिं वा प्राप्स्यन्ती- "त्याह भगवां सर्वतथागतवज्रसत्त्वः ॥
अथ स्वमुद्राणां सामान्यो मोक्षविधिविस्तरो भवति । तत्रादित एव यतोयतः समुत्पन्ना मुद्रा तान् तत्रतत्रैव मुञ्चेदनेन हृदयेन वज्र मुः ॥
ततो हृदयोत्थितया रत्नवज्रिमुद्रया स्वाभिषेकस्थानस्थितयाभिषिच्याग्राङ्गुलिभ्यां मालां वेष्टव्यं बध्वा तथैव कवचं बन्धयेदनेन हृदयेन ओं रत्नवज्राभिषिञ्च सर्वमुद्रा मे दृढीकुरु वरकवचेन वम् ॥
ततः पुनः कवचान्तं मालाबन्धं कृत्वा, समतालया तोषयेदनेन हृदयेन वज्र तुष्य होः ॥
अनेन विधिना मुद्रा मुक्ता बद्धाश्च तोषिता ।
वज्रत्वमुपयास्यन्ति वज्रसत्त्वेन वा पुनः ॥
वज्रसत्त्वः सकृज्जप्तो यथाकामं सुखात्मना ।
सिध्यते जापमात्रेण वज्रपाणिवचो यथा ॥
इत्याह भगवान् समन्तभद्रः ॥
वज्रसत्त्वादिसत्त्वानां सर्वसाधनकर्मसु ।
जापस्तु रुचितो ऽप्यत्र सर्वकल्पेषु सिद्धिदः ॥
हृन्मुद्रामन्त्रविद्यानां यथाभिरुचितैर्नयैः ।
कल्पोक्तैः स्वकृतैर्वापि साधनं त्वत्र सर्वतः ॥ इति ॥
ततः पूजागुह्यमुद्रामुदाहरन्, गुह्यपूजाचतुष्टयं कार्यम्, अनेन वज्रस्तुतिगीतेन गायन् ।
ओं वज्रसत्त्वसंग्रहाद् वज्ररत्नमनुत्तरम् ।
वज्रधर्मगायनैश्च वज्रकर्मकरो भव ॥
ततो ऽभ्यन्तरमण्डले ऽप्यनेनैव वज्रस्तुतिगीतेन वज्रनृत्यकरपुटेन गृह्य धूपादिभिः पूजा कार्या । ततो बाह्यमण्डले वज्रधूपादिभिः पूजां कृत्वा, ताः पूजा स्वस्थानेषु स्थापयेत् । ततः "सर्वे यथाशक्त्या पूजयन्त्वि" ति सर्वतथागतान् विज्ञाप्य, यथेच्छया धूपादिभिः पूजां कारयित्वा, यथा प्रविष्टां यथा विभवतः सर्वरसाहारविहारादिभिः सर्वोपकरणर्महामण्डले निर्यातितैः सन्तुष्येदं सर्वतथागतसिद्धिवज्रव्रतं दद्यात् ।
इदं तत्सर्वबुद्धत्वं वज्रसत्त्वकरे स्थितम् ।
त्वयापि हि सदा धार्यं वज्रपाणिदृढव्रतम ॥
ओं सर्वतथागतसिद्धि वज्रसमय तिष्ठ
एष त्वा धारयामि वज्रसत्व हि हि हि हि हूं ॥
ततः " सर्वेषां पुनरपि न कस्यचिद् वक्तव्यम्" इति शपथहृदयमाख्येयं ।
ततो यथा प्रविष्टान् संप्रेष्य सर्वतथागतान् विज्ञापयेत्, सत्ववज्रिमुद्रां बध्वोर्ध्वतो मुञ्चेद्, इदं च हृदयमुच्चारयेत् ।
ओं कृतो वः सर्वसत्वार्थः सिद्धिर्दत्ता यथानुगा । गच्छध्वं बुद्धविषयं पुनरागमनाय तु ॥ वज्रसत्त्व मुः ॥
एवं सर्वमण्डलेषु कर्तव्यं । समयाग्र्या मुद्रासु च मोक्त इति ॥
सर्वतथागतमहायानाभिसमयान् महाकल्पराजाद् वज्रधातुमहामण्डलविधिविस्तरः समाप्तः ॥
छप्तेर् 2 वज्र-गुह्य-वज्र-मन्दल-विधि-विस्तर
अथ भगवान् सर्वतथागतसर्ववज्रधरणीसमयसंभववज्रन्नाम समाधिं समापन्नः । समनन्तरसमापन्ने चाथ तावदेव सर्वतथागतहृदयेभ्यः । स एव भगवान् वज्रपाणिः वज्रधररूपधारिण्यः समन्त ज्वालागर्भा वज्रधारणीसमयमुद्रा देवता भूत्वा विनिःसृत्य, सर्वलोकधातुषु सर्वबुद्धानां सर्वतथागतवज्रधारणी ज्ञानानि निष्पाद्य, सर्वतथागतसमयमुद्राबिम्बानि भूत्वा, सर्वतथागतानां वज्रधातुमहामण्डले सन्निवेशयोगेन चन्द्रमण्डलान्याश्रित्येदमुदानमुदानयामास ।
अहो हि बोधिचित्तस्य सर्वसत्वहितैषिता ।
यद् विनयवशाद् धीराः स्त्रीरूपमपि कुर्वते ॥
एमनतिओन् ओf देइतिएस् fरोम् समधि
अथ भगवान् सर्वतथागतज्ञानमुद्रासमयवज्रधात्वधिष्ठानं नाम समाधिं समापद्येमां स्वविद्यात्तमामभाषत् ओं वज्रधात्वीश्वरि हूं वज्रिणि ॥
अथ खल्वक्षोभयस्तथागतः सर्वतथागतवज्रसत्वसमयज्ञानमुद्रामण्डलाधिष्ठानन् नाम समाधिं समापद्येमां स्वविद्योत्तमामभाषत् ओं वज्रवज्रिणि हूं ॥
अथ रत्नसंभवस्तथागतः सर्वतथागतवज्ररत्नसमयज्ञानमुद्रामण्डलाधिष्ठानन् नाम समाधिं समापद्येमां स्वविद्योत्तमामभाषत् ओं रत्नवज्रिणि हूं ॥
अथामितायुस्तथागतः सर्वतथागतवज्रधर्मसमयज्ञानमुद्रामण्डलाधिष्ठानन् नाम समाधिं समापद्येमां स्वविद्योत्तमामभाषत् ओं धर्मवज्रिणि हूं ॥
अथामोघसिद्धिस्तथागतः सर्वतथागतवज्रकर्नसमयज्ञानमुद्रामण्डलाधिष्ठानन् नाम समाधिं समापद्येमां स्वविद्योत्तमामभाषत् ओं कर्मवज्रिणि हूं ॥
अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतमहाधारणीसमयमुद्राचतुष्टयमभाषत् ॥
ओं वज्रसत्वगुह्यसमये हूं ॥
ओं गुह्यवज्राङ्कुशि हूं ॥
ओं वज्रगुह्यरागे रागय हूं ॥
ओं गुह्यवज्रसाध्वीश्वरि हूं ॥
समन्तभद्रा, तथागताङ्क शी, रतिरागा, साधुमती च । वज्रधारण्यः ।
ओं वज्रगुह्यरत्नसमये हूं ॥
ओं वज्रगुह्यप्रभे हूं ॥
ओं वज्रध्वजाग्रगुह्ये हूं ॥
ओं गुह्यहासवज्रि हूं ॥
रत्नोत्तमा, रत्नोल्का, ध्वजाग्रकेयूरा, हासवती च । रत्नधारण्यः ॥
ओं वज्रधर्मगुह्यसमये हूं ॥
ओं वज्रकोशगुह्ये हूं ॥
ओं वज्रगुह्यमण्डले हूं ॥
ओं वज्रगुह्यजापसमये हूं ॥
वज्राम्बुजा, आधारणी, सर्वचक्र, सहस्रावर्ता च । धर्मधारण्यः ॥
ओं वज्रगुह्यकर्मसमये हूं ॥
ओं वज्रगुह्यकवचे हूं ॥
ओं गुह्यवज्रदंष्ट्राधारिणि हूं ॥
ओं वज्रगुह्यमुष्टि हूं ॥
सिद्धोत्तरा, सर्वरक्षा, तेजःप्रत्याहारिणी, धरणीमुद्रा च । सर्वधारण्य इति ॥
अथ वज्रपाणिर्महाबोधिसत्वः पुनरपि सर्वतथागतवज्रगुह्यसमयमुद्राचतुष्टयमभाषत् ।
ओं गुह्यसत्ववज्रि हूं ॥
ओं गुह्यरत्नवज्रि हूं ॥
ओं गुह्यधर्मवज्रि हूं ॥
ओं गुह्यकर्मवज्रि हूं ॥
ता एव वज्रपारमितादयः सर्वतथागतवज्रगुह्यसमयधारणीसंग्रहसमयमुद्राः ।
वज्रधत्वीश्वरीमहामण्डले सज्वालाः चन्द्रमण्डलाश्रिताः स्थाप्याः ॥
अथ पुनरपि वज्रपाणिः सर्वतथागत वज्रगुह्यपूजासमयमुद्राचतुष्टयमभाषत् ।
ओं वज्रगुह्यरतिपूजासमये सर्वपूजां प्रवर्तय हूं ॥
ओं वज्रगुह्याभिषेकपूजासमये सर्वपूजां प्रवर्तय हूं ॥
ओं वज्रगुह्यगीतापूजासमये सर्वपूजां प्रवर्तय हूं ॥
ओं वज्रगुह्यनृत्यपूजासमये सर्वपूजां प्रवर्तय हूं ॥
ता एव वज्रलास्यादयः सज्वालाः स्वचिन्हा मुद्राश्चक्रमण्डलकोणचतुष्टये स्थाप्याः ॥
देलिनेअतिओन् ओf थे मन्दल
अथ वज्रपाणिः पुनरपीदं वज्रगुह्यं नाम महावज्रमण्डलमभाषत् ।
अथातः संप्रवक्ष्यामि वज्रमण्डलमुत्तमं ।
वज्रधातुप्रतीकाशं वज्रगुह्यमितिस्मृतं
महामण्डलयोगेन सर्वमण्डलमालिखेत् ।
सर्वमण्डलमध्येषु बुद्धमुद्राः समालिखेत्
पर्यङके सुस्थितं चैत्यं वज्रधात्वीश्वरी स्मृता ।
पर्यङ्के वज्रा वज्रां तु वज्रचिन्तेति कीर्तिता
॥
वज्ररत्नं तु पर्यङ्के स्वाभिषेकेति कीर्तिता ।
पर्यङ्के वज्रपद्मं तु आयुधैति प्रकीर्तिता
कर्मवज्रं तु पर्यङ्के सर्ववज्रेति कीर्तिता ।
पद्मप्रतिष्ठाः समालेख्याः प्रभामण्डलसंस्थिताः
पर्यङ्केतु लिखेद् वज्रमुत्थितं द्वयङ्कुशं तथा ।
वज्रं वज्रपरियुक्तं साधुकारद्वयं तथा
रत्नं करोज्वलं कुर्यात्सूर्यमुद्रान्तथैव च ।
ध्वजाग्रं चैव सज्वालं दन्तपङिक्तर्द्विवज्रगे
वज्रमध्ये लिखेत्पद्मं खड्गं सज्वालमेव च ।
वज्रारं वज्रचक्रं तु जिव्हां रश्मिकरोज्ज्वलां
वज्रं तु सर्वतो वक्त्रं कवचं वज्रसंयुतं ।
वज्रदंष्ट्रे तथा लेख्ये मुष्टिमुद्रा करद्वये
सत्ववज्रादयो लेख्या यथावद् धातुमण्डले ।
चिन्हमुद्राः समालेख्या वज्रलास्यादिमण्डले
बाह्यातश्च यथायोगं स्वचिन्हंतु समालिखेत् ।
मैत्रेयादिस्वचिन्हानि यथाभिरुचितं लिखेद्
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0