भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 18

18.1

इति ॥
इनितिअतिओन् इन्तो थे मन्दल
अथात्र वज्रगुह्यमण्डले प्रवेशादिविविधविस्तरो भवति ।
तत्र प्रथमं तावद्वज्राचार्यः स्वयं सत्ववज्रिमुद्रां बध्वा प्रविशेत्; प्रविश्य सकृत् प्रदक्षिणीकृत्य, तां मुद्रां भगवते वज्रपाणये निर्यात्य, स्वहृदये यथावन्मुक्त्वा, चतुर्षु द्वारेषु वज्राङ्कु शकर्ममुद्रादिभिर्यथावत् कर्माणि कृत्वा निष्क्रमेद्, अभिनिष्क्रम्य शिष्यां प्रवेशयेत् वज्रधातुमहामण्डलयोगेनेति । ततः प्रवेश्य मुष्ट्याच्छाद्य सिद्धिगुह्यवज्रचिन्हं दत्वा, वज्रगुह्यमुद्राज्ञानं शिक्षयेत् ॥
मुद्र
तत्र प्रथमं तावद् वज्रगुह्यकायमुद्राज्ञानं शिक्षयेत् ।
चन्द्रमण्डलमध्ये तु हस्तपादाञ्जलिं मुखं ।
विजृंभन् भावयेद्वज्रं वज्रिणीमपि रागयेत्

18.2

अङ्कुशं बाहुसंकोचं शीर्षे वज्रं तु भावयेत् ।
शब्दापयंस्तु हस्तेन आनयेदङ्कुशीमपि

18.3

वाणप्रक्षेपयोगेन विजृंभन् प्रहरेद् हृदि ।
रागयेन्मारयोगेन रतिवज्रामपि स्वयं

18.4

बाहुबन्धेन बध्नीयाद् हृदयं स्वयमात्मनः ।
वज्रवर्मप्रयोगेण रक्षेद् बुद्धमपि स्वयम् ॥ इति

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc