सर्वतथागततत्त्वसंग्रह · अध्याय 16
अथ कर्ममुद्राबन्धो भवति ।
वज्रमुष्टिं दृढां बध्वा द्विधीकुर्यात्समाहितः ।
वज्रमुद्राद्वयं भूयात् ततो बन्धः प्रवक्ष्यते
वामवज्राङगुलिर्ग्राह्यं दक्षिणेन समुत्थिता ।
बोधाग्री नाम मुद्रेयं बुद्धबोधिप्रदायिका
अक्षोभ्यस्य भूमिस्पर्शा रत्ने तु वरदा तथा ।
अमितायोः समाध्यग्रा अमोघस्याभयप्रदा
अतः परं प्रवक्ष्यामि कर्ममुद्रा समासतः ।
वज्रसत्त्वादिसत्त्वानां वज्रकर्मप्रवर्तिकाः
सगर्वोत्कर्षणं द्वाभ्यामङ्कु शग्रहसंस्थिता ।
वाणघन्तनयोगाच्च साधुकारा हृदि स्थिता
अभिषेके द्विवज्रं तु हृदि सूर्यप्रदर्शनम् ।
वामस्थबाहुदण्डा च तथास्ये परिवर्तिता
सव्यापसव्यविकचा हृद् वामां खड्गमारण ।
अलातचक्रभ्रमिता बज्रद्वयमुखोत्थिता
वज्रनृत्यभ्रमोन्मुक्तं कपोलोष्णीषसंस्थिता ।
कवचा कनिष्ठदंष्ट्राग्र्या मुष्टिद्वयनिपीडिता
वज्रगर्वाप्रयोगेण नमेदाशयकंपितैः ।
मालाबन्धा मुखोद्वान्ता वज्रनृत्यप्रनर्तिता
वज्रमुष्टिप्रयोगेण दद्याद् धूपादयस्तथा ।
सर्वबुद्धप्रपूजायाः पूजामुद्राः प्रकल्पिता
तर्जन्यङ्कुशबन्धेन कनिष्ठाया महाङ्कुशी ।
बाहुग्रन्थिकटाग्र्याभ्यां पृष्ठयोश्च निपीडिता ॥ इति
अथासां साधनं वक्ष्ये वज्रकर्मकृता समम् ।
सर्ववज्रमयं वज्रं हृदये परिभावयेद् ॥ इति
अथासां कर्ममुद्राणां वज्रकर्माण्यनेकधा ।
ज्ञानमुष्ट्यां तु बद्धायां बुद्धज्ञानं समाविशेत्
अक्षोभ्यायां तु बन्धायामक्षोभ्यं भवेत् मनः ।
रत्नसंभवमुद्रायां परानुग्रहवान् भवेत्
सद्धर्मचक्रमुद्रायां धर्मचक्रं प्रवर्तयेत् ।
अभयाग्र्या भवेत क्षिप्रं सर्वसत्त्वामयप्रदः
ज्रगर्वां दृढीकृत्य वज्रसत्वसुखं लभत् ।
वज्राङ्कुश्या समाकर्षेत् क्षणात् सर्वतथागतान
रागयेद् वज्रवाणैस्तु वज्रभार्यामपि स्वयम् ।
वज्रतुष्ट्या जिनाः सर्वे साधुकारान् ददन्ति हि
महावज्रमणिं बध्वा शास्तृभिः सो ऽभिषिच्यते ।
वज्रसूर्यां समाधाय वज्रसूर्यसमो भवेत्
वज्रध्वजां समुच्छ्राप्य रत्नवृष्टिं स वर्षयेत् ।
वज्रस्मितां समाधाय हसेद् बुद्धैः समं लघु
वज्रफुल्लां समाधाय वज्रधर्मं स पश्यति ।
वज्रकोशां दृढं बध्वा सर्वदुःखाञ्छिनत्ति सः
वज्रचक्रं समाधाय धर्मचक्रं प्रवर्तयेत् ।
सर्वं वै बुद्धवचनं सिध्यते वज्रजापतः
[वज्रनृत्यपूजया बुद्धो ऽपि वशिभूतं भवेत्] ।
वज्रवर्म निबध्वा सो वज्रसारत्वं प्राप्नुयात्
वज्रदंष्ट्रं समाधाय [प्रध्वंसेद् वज्रत्वमपि] ।
वज्रमुष्ट्याहरे[त् सर्वं मुद्रासिद्धिरालभ्यते]
वज्रलास्या रतिन् दद्याद् वज्रमाला सुरूपताम् ।
वज्रगीता सुगीता [त्वं वज्रनृत्या च वशयेत्]
धूपया तु मनोल्हादं पुष्पयाभरणानि तु ।
दीपपूजा महादीप्तिं वज्रगन्धा सुगन्धताम्
वज्राङ्कुश्या समाकर्षेद् वज्र आशा प्रवेशयेत् ।
बन्धयेद् वज्रनिगडा वज्रघण्टा तु चालयेद् ॥ इति
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0