भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 140

140.1

इनितिअतिओन् इन्तो थे मन्दल
अथात्र महामण्डले यथावद् विधिविस्तरेण प्रवेश्य, तथैवोक्त्वा, सर्वजगद्विनयज्ञानं शिक्षयेत् ।
मुद्र
मण्डलं तु समालिख्य जगद्विनयसंज्ञितं ।
भावयंस्तु महामुद्रां भवेद् विश्वधरोपम ॥ इति ॥
ततो जगद्विनयरहस्यमुद्राज्ञानं शिक्षयेत् ।
विश्वरूपसमाधिन्तु भावयन् सुसमाहितः ।
द्वयेन्द्रियसमापत्त्या मण्डले तु स सिध्यति ॥
ततो महामुद्रादिमुद्राबन्धं शिक्षयेत् । तथैव सिद्धयः, एवं पटादिष्विति ॥ मुद्रायामप्येकमुद्रामण्डलयोगेन तथैव सिद्धय इति ॥
अथ सर्वतथागताः पुनः समाजमागम्यावलोकितेश्वराय महाबोधिसत्वाय साधुकाराण्यददन् ।
साधु ते वज्रसत्वाय वज्ररत्नाय साधु ते ।
वज्रधर्माय ते साधु साधु ते वज्र[कर्मणे ॥]1 ॥
सुभाषितमिदं सूत्रं वज्रयानमनुत्तरं ।
सर्वतथागतं गुह्यं महायानभिसंग्रहम् ॥ इति ॥
सर्वतथागततत्त्वसंग्रहात् सर्वतथागतधर्मसमयो नाम महाकल्पराजा परिसमाप्तः ॥
छप्तेर् 19 सर्वर्थसिद्धि-महमन्दल-विधि-विस्तर
ह्य्म्न् ओf 108 नमेस् ओf थे महबोधिसत्त्व अकसगर्भ
अथ खलु सर्वतथागताः पुनः समाजमागम्य, सर्वतथागताभिषेकरत्नं तमेव वज्रधरमार्याकाशगर्भ महाबोधिसत्वमनेन नामष्टशतेनाध्येषितवन्तः ।
आकाशगर्भं सत्वार्थ महासत्व महाद्युते ।
महारत्न सुरत्नाग्र्य वज्ररत्न नमो ऽस्तु ते

140.2

अभिषेक महारत्न महाशुद्ध महाशुभ ।
बुद्धरत्न विशुद्धाङ्ग रत्नरत्न नमो ऽस्तु ते

140.3

आकाशाकाशसंभूत सर्वाकाश महानभ ।
आकाशधातु सर्वाश सर्वाशाग्र्य नमो ऽस्तु ते

140.4

रत्नसंभव रत्नोर्ण बुद्धोर्ण सुतथागत ।
सर्वरत्न सुसर्वाग्र्य रत्नकार्य नमो ऽस्तु ते

140.5

रत्न रत्नाग्र्य रत्नोग्र रत्नसर्वतथागत ।
रत्नोत्तम महाकाश समाकाश नमो ऽस्तु ते

140.6

अलङ्कार महाशोभ शोभाकर सुशोभक ।
शुद्ध सर्वार्थ शुद्धार्थ दानचर्य नमो ऽस्तु ते

140.7

धर्मरत्न विशुद्धाग्र्य सङ्घरत्न तथागत ।
महाभिषेक लोकार्थ प्रमोदार्थ नमो ऽस्तु ते

140.8

दान प्रदन दानाग्र्य त्याग त्यागाग्र्य दायक ।
सर्वसत्वार्थ तत्वार्थ महार्थार्थ नमो ऽस्तु ते

140.9

चिन्ताराज महातेज दानपारमितानय ।
तथागत महासत्व सर्वबुद्ध नमो ऽस्तु ते

140.10

तथागत महारत्न तथागत महाप्रभ ।
तथागत महाकेतो महाहास नमो ऽस्तु ते

140.11

तथागताभिषेकाग्र्य महाभिषेक महाविभो ।
लोकनाथत्व लोकाग्र्य लोकसूर्य नमो ऽस्तु ते

140.12

रत्नाधिकाधिकतर रत्नभूषण रत्नधृक् ।
रत्नालोक महालोक रत्नकीर्ते नमो ऽस्तु ते

140.13

रत्नोत्कर सुरत्नोत्थ मणे वज्रमणे गुण ।
रत्नाकर सुदीप्ताङ्ग सर्वरत्न नमो ऽस्तु ते

140.14

महात्म यष्टि रत्नेश सर्वाशापरिपूरक ।
सर्वाभिप्रायसंप्राप्ति रत्नराशि नमो ऽस्तु ते

140.15

अ[भ्व]ग्र्य व्यापि सर्वात्म वरप्रद महावर ।
विभूते सर्वसंपत्ते वज्रगर्भ नमो ऽस्तु ते

140.16

यः कश्चिद् धारयेन् नाम्नामिदन्ते ऽष्टशतं शिवं ।
सर्वबुद्धाभिषेकं तु स प्राप्नोत्यनघः क्षणात्

140.17

अध्येषयामस्त्वां रत्न भाष स्वधनसंचयं ।
सर्वबुद्धाभिषेकाग्र्यमुत्पाद नियमकुलम्

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc