सर्वतथागततत्त्वसंग्रह · अध्याय 139
अथैषां हृदयानि भवन्ति ।
ओं गन्धपूजाग्र्य साधय ह्रीः ॥
ओं पद्ममुकुट तथागत वशीकुरु सर्वान् लोकेश्वराभिषेक समय होः ॥
ओं पद्मपद्म मारय सर्वप्रत्यर्थिकान् समाधिज्ञान धिक् ॥
ओं विश्वपद्म सर्वकर्मकरो भव ललि लुलि लेलि हूं फट् ॥
मुद्र
ततो मुद्रारहस्यज्ञानं शिक्षयेत् ।
रक्तः सं सर्वकार्याणि साधयेत्समयो ह्ययं ।
दुःसाध्यापि हि मुद्रा वै क्षणात् सिध्यति योगत ॥ इति ॥
तत्रास्य समयो भवति ओं साधय पद्मराग समय अः ॥
ततो महामुद्रादिसर्वमुद्राबन्धं शिक्षयेत् ॥
चतुर्मुद्रामण्डलविधिविस्तरः समाप्तः ॥
इइइ.6 एकमुद्र-मन्दल
अथार्यावलोकितेश्वरो महाबोधिसत्व इदं सर्वजगद्विनयंनाम हृदयमभाषत् । ओं सर्वजगद्विनय महासत्वागच्छ शीघ्रं वैश्वरूप्यं दर्शय मम च सर्वसिद्धयः प्रयच्छ ह्रीः ॥
देलिनेअतिओन् ओf थे मन्दल
अथार्यावलोकितेश्वरो महाबोधिसत्व इदं सर्वजगद्विनयं नाम मण्डलमभाषत् ।
अथातः संप्रवक्ष्यामि जगद्विनयमण्डलं ।
महामण्डलयोगेन संलिखेद् बाह्यमण्डलं
तस्याभ्यन्तरतः पद्मं तथैव च समालिखेत् ।
तत्र सरोजा विस्फारि विश्वरूपं समालिखेद् ॥ इति
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0