सर्वतथागततत्त्वसंग्रह · अध्याय 141
इति ॥
अथाकाशगर्भो बोधिसत्वः इदं सर्वतथागतवचनमुपश्रुत्य, सर्वतथागताभिषेकसमयं नाम स्वहृदयमभाषत् ओं वज्ररत्नं हूं ॥
अथ भगवान् वैरोचनस्तथागत इदं सर्वतथागतमणिसमयं नाम विद्योत्तममभाषत् ओं सर्वतथागताशापरिपूरणमहारत्न हूं ॥
अथ वज्रपाणिर्महाबोधिसत्व इमं स्वकुलसंभवं विद्योत्तममभाषत् ओं वज्र हूं त्रः ॥
अथ वज्रगर्भो बोधिसत्व इमं स्वविद्योत्तममभाषत् ओं मणि हूं ॥
अथ वज्रनेत्रो बोधिसत्व इमं स्वकुलसंभवं विद्योत्तममभाषत् ओं पद्म ह्रीः ॥
अथ वज्रविश्वो बोधिसत्वो महासत्व इमं स्वविद्योत्तममभाषत् ओं विश्वरत्न हूं ॥
अथार्याकाशगर्भो बोधिस[त्वो महासत्वः] सर्वतथागताभिषेकरत्नंनाम समाधिं समापन्नः; समनन्तरसमापन्ने चाथ तावदेव सर्वतथागतहृदयेभ्यो वज्रमणिरत्नरश्मयो निश्चरिताः । ते सर्वलोकधातवो ऽवभास्य सर्वसत्वान् सर्वतथागताभिषेकैरभिषिच्य, पुनरप्येकध्यीभूत्वा, भगवत आकाशगर्भस्य महाबोधिसत्वस्य हृदये ऽनुप्रविष्टा इति ।
अथ तत् आकाशगर्भहृदयात्स एव भगवान् वज्रपाणिः समन्तरश्मिज्वालागर्भा विचित्रवज्रमणिरत्नाभिषेकाद्याभरणालङ्कारालङ्कृतकाया महवज्रमणिरत्नचिन्हमुद्राव्यग्रकरा महाबोधिसत्वकाया भूत्वा विनिःसृत्य, सर्वलोकधातुषु महारत्नवर्षादिभिः रत्नोत्पत्तिभिः सन्तोष्य, पुनरागत्य, भगवतो वैरोचनस्य सर्वतो वज्रधातुमहामण्डलयोगेन चन्द्रमण्डलाश्रिता भूत्वेदमुदानमुदानयिंसुः ।
अहो हि सर्वबुद्धानां सर्वरत्नसमुच्चयं ।
वज्ररत्नकुलं त्वेदं संभूतं जगदर्थत ॥ इति ॥
देलिनेअतिओन् ओf थे मन्दल
अथाकाशगर्भो बोधिसत्वो महासत्व इति स्वकुलमुत्पाद्य, सर्वतथागतेभ्यः सर्वाशापरिपूर्ये निर्यात्येदं सर्वार्थसिद्धिन्नाम महामण्डलमभाषत् ।
अथातः संप्रवक्ष्यामि महामण्डलमुत्तमं ।
वज्रधातुप्रतीकाशं सर्वसिद्धिरिति स्मृतं
चतुरश्रं चतुर्द्वारं चतुष्तोरणशोभितं ।
चतुःसूत्रसमायुक्तं पट्टस्रग्दामभूषितं
सर्वमण्डलकोणेषु द्वारनिर्यूहसन्धिषु ।
खचितं वज्ररत्नैस्तु सूत्रयेद्बाह्यमण्डलं
तस्याभ्यन्तरतः कार्यं वज्ररत्नसमं पुरं ।
अष्टस्तंभाग्रयोगेन सूत्रणं तत्र कारयेत्
पञ्चमण्डलशोभं तु नानारत्नाकरोज्ज्वलं ।
स्वमुद्रापरिवारं तु तत्र बुद्धन्निवेशयेत्
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0