सर्वदुर्गतिपरिशोधनतन्त्र · भाग 2140
ओं वज्रग्रहसमये हुं फट् ।
ओं वज्रग्रह प्रतीच्छ समये हुं ।
ततो ऽष्टभिः कलशैर् अभिषिञ्चेत् ॥
अष्टग्रहाभिमन्त्रितैः ॥
ततो वज्रमुद्रयाभिषिञ्चेत् ॥
ततस् सर्वग्रहं साधयेत् ॥
अथ ते महाग्रहा भगवन्तं नमस्यैवम् आहुः । वयं भगवन् अष्टौ महाग्रहास् तस्य महाराज्ञो राजपुत्रस्य वा सर्वदा सर्वत्र तथैव सर्वं करिष्यामः । अथ नक्षत्रक्षणलवमुहूर्तकरणतिथियोगराशिलग्नविष्टिमण्डलादिदेवतास् तथैव नमास्यैवम् आहुः । वयम् अपि भगवन् सर्वदा तस्य महासत्त्वस्याज्ञां नोत्सृजामः । भृत्यवत् प्रतिपालयामः । सर्वनगरनिगमजनपदराष्ट्रराजधानीं च प्रतिपालयामः । उत्पन्ने तु महाभये युष्माकं पूजयिष्यति तस्यावश्यं तद् भयं न भविष्यति ।
अथाष्टौ महानागाः फुंकारध्वनिना भगवन्तं संतोष्यैवम् आहुः ।
वयं भगवन् सर्वेषां गुह्यहृदयं दास्यामः ।
साधु साधु महानागा ददध्वं हृदयं वरम् ।
अथ ते तुष्टा महानागा भगवन्तं नमस्यैवम् आहुः ।
ओं फुः । ओं फः । ओं फुं । ओं फां ।
ओं फीः । ओं फेः । ओं फईः । ओं फौः ।
अथैषां मण्डलं भवति ।
अष्टपत्रं महापद्मं संलिखेच् छ्वेतवर्णकम् ॥
तस्य मध्ये लिखेद् नाथं वज्रपाणिं सुकृष्णकम् ॥
समन्तात् सप्तफणं तर्जयन्तं महोरगम् ।
अनन्तं तक्षकं चैव कर्कोटं कुलिकं तथा ॥
वासुकिं शंखपालं च पद्मं वै वारुणं तथा ॥
एते लेख्याः समासेन पत्रे पत्रे फनज्वलाः ॥
सप्तसप्तफणा लेख्याः सभार्याः कण्ठसमागमाः ॥
कलशाष्टकं संस्थाप्य बलिनैवेद्यशोभितम् ॥
घृतक्षीरसमाक्षिकं कृत्रिमाश् चापि भेदकाः ॥
ततः संप्रविश्य वज्रात्माकर्षयेत् पाणिना फणैः ॥
फुंकारसहितैस् तु जः हुं वं होः प्रवर्तयेत् ॥
ततः प्रवेश्य तान् सर्वान् राजं क्षत्रियम् एव वा । अभिषिञ्चेत् फुंकारैर् विषदोषमलापहैः ।
ततः सिध्यन्ति सर्वे ते नागा नामग्रहाद् अपि ॥
अथ ते समन्तं तुष्टा भगवन्तं नमस्य च ॥
प्रणिधानं प्रकुर्वन्ति स्थित्वा प्राञ्जलयः पुरः ॥
वयं भगवतः शासनाभिरतस्य यद् इदं मण्डलं प्रविष्टस्य विषंवादयामः । तदा भगवन्तम् एव विषंवादयामः । तदास्माकं तप्तवालुका भविष्यन्तु । आदीप्तेन वज्रेनास्माकं मूर्ध्नि स्फुटिष्यन्ति । सततं समितं च तस्य महासत्त्वस्य रक्षावरणगुप्तिं करिष्यामः । महौजोबलवीर्यं क्षेप्स्यामः । निर्विषं चापि विषं करिष्यामः । कालेन कालं वर्षयिष्यामः । सर्वसस्यानि निष्पादयिष्यामः । सर्वपरराष्ट्राणि च विकालवृष्टिम् उत्सृजामः । सर्वभयं विनाशयिष्यामः। जिनाज्ञया वज्रधराज्ञया प्रतिपालयिष्यामः ।
अथ साधनं भवति ।
फुंकारं जपेल् लक्षं ध्यात्वा वज्रधरं प्रभुम् ॥
सितांशुमालिनं दिव्यं शिखायां फणावस्थितम् ॥
ततो विषं गृह्य ध्यात्वा फुंकारमण्डलम् ॥
रश्मिमालाकुलं दिव्यं फुंकारं तत्र चिन्तयेत् ॥
आकर्षयेद् हृतकृतिफणिपाशाकृतिकरेण ॥
फुंकारवातेन समीरयेत् तं विषं समस्तम् ॥
तनुरस्थिमांसगम् ॥
ततः सर्वकर्माणि कुर्याद् विषज्वरगरादिकं ॥
मुष्ट्या वै हरेत् सर्वं किं पुनः फणमुद्रयेति ॥
अथ महाभैरवो महादेवाधिपतिर् अष्टभिर् महामातृकाभिः परिवृतो भगवन्तं प्रणिपत्यैवम् आह । मद्भयान् मातृकाभयाच् च भगवन् सर्वदेवनागादयः संत्रस्ता वित्रस्ताः प्रत्रस्ता अधोमुखीभूता निमग्ना नष्टचेतसः परिभ्रमन्ति तु तेषां हितार्थाय हृदयं प्रदास्यामि । तत् साधु भगवान् अधितिष्ठतु । साधु साधु महाभैरव सुभैरव भाषस्व स्वहृदयं दिव्यमातृकाणां च सर्वासाम् ।
अथ महाभैरवः सुभैरवनादं नदन् एवम् आह ।
ओं भैरवैः भीः स्वाहा ।
ओं भाः स्वाहा । ओं भीः स्वाहा । ओं भूः स्वाहा । ओं भेः स्वाहा ।
ओं भैः स्वाहा । ओं भोः स्वाहा । ओं भं स्वाहा । ओं भः स्वाहा ।
इत्य् एते भगवन् अष्टौ भैरवाः समाज्ञाकराः ।
अथैषां मण्डलं भवति ।
अष्टारं महाचक्रं लिख्य मध्ये निवेशयेत् ॥
वज्रपाणिं महाक्रोधं त्रिलोकविजयावहं ॥
तस्य पादतले क्रुद्धं भैरवाणां महाधिपम् ॥
लिखित्वा भैरवीयुक्तं लिखेद् अन्यान् यथासुखम् ॥
आरमध्येषु सर्वेषु लिखेद् भैरवम् अष्टकम् ॥
मातृकाभिश् च समायुक्तं तत्क्रोधास्यक्रुद्धमानसम् ॥
द्वारे द्वारे तथैवेह लिखेद् द्वारिं सुक्रोधनम् ॥
ततो वाह्यांकुशादिभिः पुजयित्वा कपालया रुधिरपूर्णया ॥
मद्यं मांसं बलिं दिव्यं रुधिरपूर्णभाजनम् ॥
कपालं मुण्डनखण्डं चाष्टौ कलशान् पूरितान् ॥
रुधिरैर् आसवैर् वापि स्थापयेत् तस्य मण्डले ॥
ततः प्रवेशयेच् छिष्यान् त्रिलोकविजयापरः ॥
अभिषिञ्चेत् कपालेन कलशैर् अपि चाष्टभिः ॥
ततः कर्माणि दद्यात् ।
मातृकागृह एकलिंगे वा त्रिलोकमथने वरं ॥
पूजां कृत्वा यथान्यायं जपेल् लक्षचतुष्टयं ॥
ततो नादं प्रश्रुयते भैरवस्य महात्मनः ॥
निर्भीर् अर्घं प्रयच्छेत् कपालेन सुरक्तिना ॥
ततः पश्यति तं क्रुद्धं भैरवं दुष्टमानसम् ॥
मातृकागणसंपूर्णम् अष्टभिर् भैरवैर् वृतम् ॥
तं दृष्ट्वा निर्भयो भूत्वा दद्याद् मांससुपूरितम् ॥
कपालं वासवैः पूर्णं हुंकारम् अनुस्मरेण ॥
ततस् तुष्टः प्रसिध्येत भैरवो दुष्टघातकः ॥
ब्रूयात् किम् इच्छेति तद् दद्यात् तुष्टमानसः ॥
रसरसायनं द्रव्यं खड्गं चक्रं त्रिशूलकम् ॥
स्वर्गमर्त्यपातालं राज्यं द्वीपचतुष्टयं चापि ॥
शक्रत्वं यक्षेश्वर्यं राक्षसत्वं विद्याधरत्वं ॥
विद्याधरचक्रवर्तित्वं त्रैलोक्याधिपतित्वम् ॥
मुक्त्वा भूमिदानञ् चेति ।
किंकरत्वं चापि स्वयगणं मातृकां वा ददाति ॥
यथेष्टान्यतमां सिद्धिं प्रार्थयेत् ॥
हुंहृतिना सुखिना दत्त्वा विहसन् याति ॥
भीतं मारयते क्षणात् ॥
अथ ब्रह्मादयो महादेवा भगवन्तं नमस्यैवम् आहुः । वयम् अपि भगवत आज्ञया स्वकल्पं भाषयामः । तद् भगवान् कम्पाम् उपादायाधितिष्ठतु । अथ ब्रह्मादयो देवाः स्वहृदयम् अभाषन्त ।
ओं ओं । ओं विः । ओं रुः । ओं इः । ओं कः । ओं गः । ओं भृः । ओं कः ।
अथैषां मण्डलं भवति ।
मण्डलं पूर्ववल् लिखेद् मध्ये त्रैलोक्यसंग्रहम् ॥
तस्याग्रतो लिखेद् वीरम् ईश्वरं शूलपाणिम् ॥
पृष्ठतो विलिखेद् ब्रह्माणं वामतश् चक्रपाणिम् ॥
दक्षिणेन लिखेद् इन्द्रं स्वमुद्राकरचिह्नितम् ॥
द्वारपालास् तथैवेह भार्या एसां स्वमण्डले ॥
कलशान् पूर्णकुम्भांश् च स्थापयेद् बाह्यमण्डले ॥
बलभद्रं दीप्तमहर्द्धिकम् ॥
ततः प्रविश्य तान् देवान् आह्वयति विचक्षणः ॥
जः हुं वं होः सुराः सर्वे प्रविशध्वं पुरोत्तमे ॥
अथ तान् ततो द्र्ष्ट्वा पूजयेद् महासुखैः ॥
ततः प्रवेशयेच् छिष्यान् मुद्रया वज्रधारया ॥
ओं प्रतीच्छध्वं महासत्त्वा वज्रधराज्ञया हुं ह ह ह होः ।
पुष्पान् प्रक्षिप्य यथावच् चक्षुर् उद्घाट्य दर्शयेत् ॥
ततो ऽभिषिञ्चेत् तोयेन कलशाद् अभिमन्त्रितम् ॥
ततः सर्वं प्रदद्यात् तद् देवानां तु यथेप्सितम् ॥
लक्षम् एकं द्विलक्षं वा कृत्वा सेवाप्ररोचितम् ॥
साधयेत् साधकस् तेषाम् ईश्वरादिसुरोत्तमान् ॥
एकलिंगादिषु स्थान अथ वा वज्रपाणिनः ॥
गृहे तथागते चापि सधातुवरचैत्यके ॥
साधयेत् साधको नित्यं सर्वदेवान् यथावद् इति ॥
अर्धरात्रे ततो देवा गत्वा वेदय ते ध्रुवम् ॥
ईप्सितं त्वया किं हितं दास्यामो यथासुखं ॥
वद भद्र द्रुतं चिन्त्य येन दास्यामस् ते वरम् ॥
ततो याचते मन्त्रज्ञो वरसिद्धिं तु देवते ॥
रसरसायनं दिव्यम् अन्तर्धानं तु खे गमम् ॥
गुलिकाराजद्रव्यादि याचयेद् मनैषिणाम् ॥ इति
अथ महेश्वरादयो भगवन्तं प्रणिपत्यैवम् आहुः । ये भगवन् लौकिकलोकोत्तरमण्डले प्रविशन्ति तेषां वयं भगवन् सर्वदेवाः सर्वावरणानि विशोधयामः । स्वर्गमार्गं च दर्शयामः । सुगतिमार्गं च दर्शयामः । अपापमार्गं च दर्शयामः । सद्धर्ममार्गं च दर्शयामः । अनामार्गं च दर्शयामः । विवेकमार्गं च दर्शयामः । सारमार्गं च दर्शयामः । निर्वाणमार्गं च दर्शयामः । प्रहाणमार्गं च दर्शयामः । निःक्लेशमार्गं च दर्शयामः । बुद्धत्वं च दर्शयामः । बोधिसत्त्वत्वं च दर्शयामः । वज्रधरत्वं च दर्शयामः । इति । सर्वदा सर्वभयेषु च रक्षावरणगुप्तिम् करिष्यामः । नगरनिगमजनपदराज्यराष्ट्रराजधानीं च रक्षयिष्यामः । विषयदेशग्रामगोष्ठं च रक्षयिष्यामः । राज्यं च दास्यामः । प्राप्तराज्यस्य राजवृद्धिं करिष्यामः । एकद्वीपं द्वितीयं तृतीयं चतुर्थं स्वर्गमर्त्यपातालं चक्रवर्तित्वं च दास्यामः । संक्षेपतः । शक्रत्वं ब्रह्मत्वं विष्णुत्वं महेश्वरत्वं च दास्याम इति । अथ भगवान् वज्रपाणिः पुनर् अपि स्वपर्षन्मण्डलम् अवलोक्य स्मितम् अकार्षीत् । ततः परिषन्मण्डलं प्रचलन् संप्रचलन् क्षुभन् प्रक्षुभन् संप्रक्षुभन् ज्वलन् प्रज्वलन् संप्रज्वलन् हर्षन् प्रहर्षन् संप्रहर्षन् क्रीडन् प्रक्रीडन् संप्रक्रीडन् अनेकान्य् आश्चर्याद्भुतानि च लोके संप्रदृश्यन्ते स्म ।
अथ ब्रह्मादयो देवगणाः सुविस्मयजाता भगवन्तं प्रणिपत्यैवम् आहुः । किम् एतद् भगवन् स्मितस्य कारणं नाकारणेन बुद्धा भगवन्तो बोधिसत्त्वा वा स्मितम् उत्सृजन्ति । तस्माद् भगवान् व्याकरोतु स्मितस्य कारणम् इति । अथ भगवान् वज्रपाणिर् देवानाम् अध्येषणावाचम् उपश्रुत्यैवम् आह । श्रुतं ब्रह्मादयो देवा यत् पुरः सर्वबुद्धैश् च भाषिता मृत्युनाशनी विद्या विद्यामन्त्रमहातेजा अकालमृत्युनाशनी ।
अथ भगवन्तं वज्रपाणिं प्रणिपत्य ते ब्रह्मादयो महादेवाः संहृष्टरोमकूपजाताः । साधुकारं प्राददुः । साधु साधु भगवन् साधु साधु वज्रधर । देशय तु विद्यां महातेजां महाबलपराक्रमां येनाल्पायुषाः सत्त्वा दीर्गायुषा भवन्ति । अकालमृत्युग्रस्ताश् च येनाकालमरणाद् विमुच्येरन् । अपायोपपन्नाश् च सर्वापायगतिपथाद् विमुच्येरन् । संसारभयभीताश् च सत्त्वाः सुखोपायेन संसारपरांमुखा भवन्ति । आशुर् एवानुत्तरसम्यक्संबोधिम् अभिसंबुध्यन्त इति । अथ भगवान् वज्रपाणिर् ब्रह्मादीनां देवानाम् अध्येषणावचनम् उपश्रुत्येमां सर्वतथागतहृदयविद्यां स्वकायवाक्चित्तवज्रेभ्यो निश्चचार ।
ओं पुण्ये पुण्ये महापुण्ये ऽपरिमितायुःपुण्ये ज्ञानसंभारोपचिते स्वाहा । हृदयविद्या ।
ओं ह्रीः स्वाहा । उपहृदयविद्या ।
ओं भ्रूं स्वाहा । हृदयोपहृदयविद्या ।
ओं क्रुं स्वाहा । हृदयसंचोदनीविद्या ।
ओं त्रां स्वाहा । हृदयोत्तरा ।
ओं हं स्वाहा । गुह्यहृदया ।
अथैषां मण्डलं भवति ।
मण्डलं चतुरारं कृत्वा मध्ये निवेशयेद् अपरिमितायुःपुण्यज्ञानसंभारतेजोराजं नाम तथागतम् । भ्रूंकारहृदयम्। तस्याग्रतो वज्रपाणिम् । ह्रींकारहृदयं । वामतः क्रोधम् । क्रुंकारहृदयम् । दक्षिणेनाकाशगर्भम् । त्रांकारहृदयम्। पृष्ठतो ऽभयंददं नामार्यावलोकितेश्वरम् । हंकारहृदयं । ( स्द्प् 216 ) तथागतस्य प्रभामण्डले विद्या लेख्याः । पञ्चाष्टौ कलशाः स्थाप्याश् चक्रवर्त्यभिमन्त्रिताः । सर्वकर्मिकक्रोधेनाभिमन्त्रितास् च धूपादिकं स्थापयेत् पूजादिकं सर्वद्वारपालान् एव च ।
ततः संप्रविश्य स्वयं मन्त्री । आकर्षयेत् सुगतोत्तमं सपुत्रभृत्यसंघैश् च वृतं विद्यया सह । विद्या च सुगतवामपार्श्वे लेख्या । ततश् चात्मानम् अभिषिञ्च्य पर्यंकेन निषद्य शतसहस्रं जपेत् । तथागतं संमुखं पश्यति वज्रधरार्यावलोकितेश्वरं वा । यथेप्सितं वरं प्रतिलभते । यदा समाहितस् तदा मनसा सर्वकर्मसमर्थो भवति । ततः शिष्यान् प्रवेशयेद् वज्रधरमुद्रया । इत्यभिमानम् उत्पादयेत् ।
ओं वज्रधर रत्नधर पद्मधर विश्वधर तथागतसमयातिक्रम तथागतसमयधारको ऽहम् ।
ततो ऽनेन क्षेपयेत् पुष्पान् । ओं सर्वतथागत प्रतीच्छ होः समयस् त्वं । ततस् तया मालयावेष्टयाभिषिञ्चयेत् । ओं सर्वतथागताभिषिञ्च वज्रधराज्ञापय हुं भ्रूं । ओं वज्रवज्राभिषिञ्च हुं हुं । ओं वज्ररत्नाभिषिञ्च हुं त्रां । ओं वज्रपद्माभिषिञ्च हुं ह्रीः । ओं कर्मविश्वाभिषिञ्च अः हुं कं ।
ततः समयं दद्याद् आज्ञाभिषेकं च । तत्र समयं ।
त्रिरत्नं न परित्याजं बोधिचित्तञ् च सद्गुरुम् ॥
प्राणिनश् च न संघात्या अदत्तं नैव चाहरेत् ॥
मृषा नैव च भाषेत नाचरेत् तत्परस्त्रियं ॥
गुरुनिन्दा न संकार्या नापि छायां तु लंघयेत् ॥
अनाचार्यान् न गृह्णीयाद् नाममाचार्यवज्रिणः ॥
मन्त्रमुद्रा न निन्देत देवतां चापि कदाचन ॥
निन्देद् यदि मोहात्मा म्रियते व्याधिभिर् ध्रुवम् ॥
निर्माल्यदेवताच्छायां मुद्रां चाक्षरचिह्नकाम् ॥
लौकिकलोकोत्तरां च पादाभ्यां चापि नाक्रमेत् ॥
रत्नत्रयादिद्रुग्धानां मूढानां बुद्धशासने ॥
गुरुनिन्दापराणां यत्नात् घातयेद् विचक्षणः ॥
अधर्मिकान् पापरतान् सत्त्वद्रोहनतान् सदा ॥
हनेत् कृपाया मन्त्री मन्त्रेण समयद्विषान् ॥
कृपणार्थं च संगृह्य दद्यात् सत्त्वे सुदुःखिते ॥
गुरुपूजानिमित्तं च तथा समयसाधने ॥
मण्डलार्थे हरेद् अर्थं कृपणार्थं चापि चिन्तितम् ॥
समयिनां हितार्थाय पूजार्थाय जिनौरसाम् ॥
रक्षणार्थाय भाषेत मृषा सत्त्वहिते रतः ॥
समयगुरुद्रव्यं च प्राणां प्राणिषु सर्वदा ॥
रागनार्थाय बुद्धानां समयपालनाय च ॥
सेवयेत् परदारां तु साधनार्थाय मन्त्रवित् ॥
सर्वकृत् सर्वभुग् वा किं वज्रसत्त्वपदे स्थितः ॥
सिध्यते नैव दुष्येत किं पुनः कृपयान्वितः ॥ इति ।
ततो ऽनेन किं मे अभिषेकं दद्यात् ।
ओं सर्वतथागताज्ञां ते दास्यामि गृह्ण वज्रसुसिद्धये ।
ओं वज्र तिष्ठ हुं ।
अनेन वज्रं हस्ते दत्वा कर्माभिषेकं दद्यात् ॥
ओं सर्वकर्माणि कुरु बुद्धानां हुं ।
ततो गुरुगौरवं तेन दातव्यं देहम् उत्तमम् ॥
द्रव्यं धनधान्यं च आसनं यानम् एव च ॥
वरभृत्यपुरं चैव राज्यम् ऐश्वर्यम् एव च ॥
पुत्रदुहितृकलत्रं च माताभगिनीभगिनीम् ॥
अन्यान् अपीप्सितांस् सर्वान् गुरोर् देयान् हिताशयः ॥
ततः सिद्धिं तु प्रार्थयेद् बुद्धानां बोधिसाधिकाम् ॥
अन्यानि च यथेष्टानि लौकिकानि वर्द्धिकानि ॥
ततो दद्याद् धितार्थाय सिद्धिं पुत्रस्य मन्त्रवित् ॥
अमत्सरेण चित्तेन श्रद्धया श्राद्धचेतसा ॥
निःस्वभावं तु धर्माणां भावयित्वा तु चेतसा ॥
अकारेन्दुमण्डलं चिन्त्य तस्य मध्ये स्वबीजकम् ॥
ध्यात्वा समयमुद्रां तु चिन्तयेत् तम् एव च ॥
सा एव परिवर्तेत देवताकारयोगतः ॥
ततो ऽधितिष्ठेत् तां मुद्रां स्वबिजेन तु मुद्रया ॥
अभिषिञ्चेद् बुद्धैस् तु यथावद् अनुपूर्वशः ॥
ततो ऽभिमानम् उत्पाद्य साधयेद् विचक्षणः ॥
सिद्धिं तथागतिं चापि किं पुनश् चान्यसिद्धयः ॥
अथ भगवन्तं प्रणिपत्य ब्रह्मादयो महादेवा एवम् आहुः । किं भगवन् तस्य राजपुत्रस्य राजामात्यस्य क्षत्रियस्य ब्राह्मणस्य वैश्यस्य शूद्रस्यान्यस्य वा हीनजघनस्य प्रत्यन्तिकजनपदकुलजात्यस्यास्य मण्डलराजप्रविष्टस्य विपाकं भवति ।
भगवान् आह । साधु साधु महाब्रह्मादयो देवगणा यन् ममेदम् अनागतानां सत्त्वानां हिताय परिप्रष्टवन्त इति । शृणुत देवगणस्य मण्डलराजप्रविष्टस्याभिषिक्तस्य लिखितस्य लिखापयितस्यानुमोदितस्य वन्दितस्य पूजितस्य फलविपाकं चेति । अहम् अपि देवपुत्राः संक्षेपतो नोत्साहामि । अनुशंसा वक्तुं यन् मम पुण्यसंभारं तम् अनेकशतसहस्रगुणितं कृत्वा संख्याम् अपि गणनाम् अप्य् उपमाम् अपि न क्षमते । यावत् सर्वतथागतानाम् अपि पुण्यस्कन्धं न क्षमते । इति ।
आश्चर्यं भगवन् आश्चर्यं वज्रधर यद् एवं मण्डलप्रविष्टानां सत्त्वानां फलविपाकम् इति । उत्साहामो वयं भगवन् उत्साहामो भगवन् वज्रधर मण्डलादिप्रवेशम् ।
अथ ते देवास् तथैव नमस्यैवम् आहुः । सन्ति भगवन् सत्त्वा जम्बुद्वीपका अल्पायुषो मन्दपुण्या अपायगतिका नरकप्रेततिर्यक्प्रत्युपपन्ना वा तेसां कथं वयं भगवन् प्रतिपत्स्यामः ।
तेषां भो देवपुत्रा इहैव मण्डले प्रवेशयध्वं । प्रवेश्य चाभिषिञ्चयध्वम् । धर्मताक्षरं च जपयध्वम् । तेन ते सत्त्वा दीर्घायुष्का भवन्ति । पुण्यहीनाः पुण्यवन्तो भवन्ति । अपायाद् विनिर्मुक्ता भवन्ति । ये चापायोत्पन्नास् तेषां भो देवपुत्रा नामाभिषेकं कुरुत । प्रतिबिम्बाभिषेकं कुरुत । स्तूपाभिषेकं कुरुत । स्वदेवताकायाभिषेकं कुरुत । अन्तशस् तज्जन्यं तत्पुत्रं तद्गोत्रं तन्नामधारकं वा भृत्यं वाभिषिञ्चध्वं सप्तरात्रदिवस्य सप्तभिर् मण्डले प्रवेश्याभिषेकैर् विमुच्यत अपायावरणात् । तन्नामकेनापि देवपुत्रा जपध्वं द्विलक्षं त्रिलक्षं चतुल्लक्षं यावल् लक्षशतसहस्रं पञ्चानन्तर्यकारिणो ऽपि विमुच्यन्ते । किं पुणः स्वल्पपापकारिण इति ।
हस्तमात्रं देवपुत्रा वर्तुलं द्विहस्तं वा शान्तिकं कुण्डं कृत्वा हीनोत्कृष्टमध्यमं तन्नाम्ना श्वेतसर्षपानां शतसहस्रं जुहुयात् । सर्वापायाद् विमुच्यते । तन्मांसास्थिकेशभस्मादिकं वा तेनैव विधानेन जुहुयात् । सर्वपापाद् विमुच्यते ।
तन्मध्ये लिखेच् चक्रम् अष्टारश्वेतज्वालिनम् ॥
समन्ताल् लिखेद् वज्रं पञ्चशूलं सितांशुलम् ॥
विश्ववज्रं ततो कुर्याद् वज्ररत्नाम्बुजोत्तमं ॥
ततो नानाविधामुद्रां कुर्यात् पापहननाय ॥
बाह्यवज्रकुलानां तु मुद्रा बाह्यतो लिखेत् ॥
ग्रहनक्षत्रचिह्नानि तथा लोकभृत्यान् अपि ॥
पटप्रतिमां तु नाथस्य स्थापयेद् वज्रिणा सह ॥
कलशान् पूर्णकुम्भांश् च बलिनैवेद्यशुक्लकान् ॥
सूत्रयित्वा समासेन संलिख्य च यथाविधैः ॥
श्वेताम्बरधरो भूत्वा बुद्धरूपी विशारदः ॥
अनुस्मृत्य च तं सत्त्वम् अपायगतिसंस्थितम् ॥
होमयेच् छुद्धसंतानः पापावरणशान्तये ॥
घृतक्षीरसमाक्षिकैर् लाजसर्षपमिश्रितैः ॥
अस्थिमांसादिकं तस्याथ वा नाममात्रकैर् ॥ इति ॥
उत्पाद्य सुगतौ तस्य पुष्टिं कुर्याद् विचक्षणः ॥
द्विहस्तं चतुर्हस्तं वाष्टहस्तं तथोत्तमम् ॥
कृत्वा कुण्डं चतुःकोणं समन्ताद् वेदिकायुक्तम् ॥
तस्य मध्ये रत्नपद्मं तु लिखेत् पीतरश्मिनम् ॥
समन्ताल् लिखेद् रत्नं वेदिकायां तु अंबुजं ॥
कुलपञ्चकभेदेन लिखेद् मुद्रां तु बाह्यतः ॥
तथैव बाह्यदेवानां लिखेद् अंकुशादिकम् ॥
पीताम्बरधरो भूत्वानुस्मृत्य सुगतिसंस्थितम् ॥
कुर्यात् पौष्टिककर्म पुष्ट्यर्थाय तद्धितम् ॥
आयुःश्रीकान्तिसौभाग्यं वर्धयेत् तस्य देहिनः ॥
ततः कुर्याद् वश्यं तु तस्य कर्म हिताय ॥
द्विहस्तं चतुर्हस्तं तु कृत्वा कुण्डं धनुराकृतिम् ॥
हस्तं वा तस्य मध्ये तु संलिख्य रक्तम् अम्बुजम् ॥
तस्योपरि च संलिखेत् सशरं धनुर् एव च ॥
समन्ताच् च लिखेच् चापं सशरं रक्तवर्णकम् ॥
बाह्यतस् तद्वद् एवास्य कुर्याद् मन्त्रभूतः सदा ॥
स्मृत्वा तस्य सत्त्वस्य रक्ताम्बरभुषितः ॥
रक्तपुष्पाम्बुजं वापि फलं रक्तं सधातुकम् ॥
भवेत् तस्य देवादयो घृतमिश्रितकुंकुमैः ॥
रक्तचन्दनचूर्णैश् च सर्वे तिष्ठन्ति तद्वशाः ॥
तस्य दुष्टविनाशाय अभिचारं समारभेत् ॥
द्व्यर्धहस्तं त्रिहस्तं वा नवहस्तं तथोत्तमम् ॥
कृत्वा कोणत्रयैर् युक्तैर् मध्ये वज्रनवात्मकम् ॥
त्रिसूचिकैर् वृतां वेदीं कृत्वा विश्वैश् च वज्रिभिः ॥
दण्डमुण्डत्रिशूलांकैर् वज्रपरशुसूचिकैः ॥
कारयेद् बाह्यतो चापि त्रिपुटं पूर्ववच् चित्रम् ॥
कलशान् बलिकुम्भांश् च नैवेद्यान् स्थापयेद् बहु ॥
मांसरुधिरसंपूर्णाः कपालाश् चापि सर्वतः ॥
कृष्णाम्बरधरः क्रुद्धस् त्रैलोक्यविजयी स्वयम् ॥
सर्वपापादिविघ्नानां नाशयेत् तस्य देहिनः ॥
ततः सौहतपापात्मा निर्विघ्नश् चरते सुखम् ॥
स्वर्गलोकेषु मानुष्ये यावत् त्रैलोक्यधातुषु ॥
अनेनैव क्रमेणाशु कुर्याज् जन्मनीह स्थितान् ॥
ततस् तथैव स्यात् तेषां येषाम् उद्दिश्य कार्यते ॥
अन्यान्य् अपि कर्माणि यथा पूर्वं तथा कुर्यात् ॥
तेन संपद्यते क्षिप्रं सत्त्वानां च सुखावहम् ॥
अथ ब्रह्मादयो देवाः संहृष्टमनसो भगवन्तं नमस्यैवम् आहुः । यो भगवन् अपायोपपन्नानां सत्त्वानाम् अर्थाय हिताय सुखाय । एतं कल्पराजं लिखिष्यति लिखापयिष्यति । किं पुनर् यथानिर्दिष्टम् अविकल्पयतः करिष्यति । वयं ब्रह्माद्दयो देवास् तस्य कुलपुत्रस्य कुलदुहितुर् वा भृत्यवत् परिपालयिष्यामः । यश् च राजैव राजपुत्रो वा राजामात्यो वा यथापठितुं मन्त्रं वर्तयिष्यति तस्य राजवृद्धिं करिष्यामः । विषयदेशांश् च जनपरिवारजनसस्यादिरक्षां च करिष्यामः । बहुधनधान्यसमृद्धिं करिष्यामः । स्त्रीपुरुषदारकदारिकासंपदं च करिष्यामः । ऋद्धिं च स्फीतं च सुभिक्षं च क्षेमं च करिष्यामः । यश् चेदं कल्पराजं श्राद्धो ध्वजाग्रावरोपितं कृत्वा नगरनिगमादिसु प्रवेशयेत् स्वयं वा प्रत्युद्गच्छेद् धस्तिस्कन्धावरोपितं च कृत्वा सर्वग्रामनगरादिकं भ्रामयेत् । सर्वमृत्यूपद्रवं च नश्यति । तस्य महासत्त्वस्य पदं ज्ञास्यामो भृत्यत्वेन पुत्रत्वेन वा । यत्र पापं प्रचरिष्यति तत्र भगवान् वज्रपाणिः स्वयम् एव संभोगिकैः कायैर् वज्रसत्त्वरूपेण व्यवस्थित इति मन्यामः । स एव भगवान् वज्रसत्त्वः समन्तभद्रः सर्वाशापरिपूरकः कल्पराजरूपेण विहरतीति मन्यामः । सर्वतथागताश् च सपरिवारा विहरन्त इति मन्यामः । तं च पृथिवीप्रदेशं चैत्यभूतं मन्यामः । पूजयामो वन्दयामः । आरक्षिष्यामः । यश् चैनं कल्पराजं प्रचरिष्यति वज्राचार्यमहातपा तस्य वयं ब्रह्मादयो देवा भृत्या भवामः । चेटत्वेनोपतिष्ठामः । किंकरत्वेनोपतिष्ठामः । सर्वाज्ञात्वे करिष्यामः । सर्वहितं सुखं च करिष्यामः । सर्वसिद्धिं च प्रयच्छामः । संक्षेपतश् च भगवन् तस्य पादरजांसि शिरसा धारयामः ।
वन्दयामो भगवन् पूजयामो भगवन् तस्य पृष्ठतश् चानुगच्छामः । ये भगवन् सत्त्वा मण्डले ऽभिषिक्तास् ते ऽस्माकं प्रभुर् इति मन्यामः । वज्रपाणिर् इति मन्यामः । वज्रसत्त्व इति मन्यामः । महासुखसमन्तभद्र इति मन्यामः । तथागतश् चेति मन्यामः ।
अथ भगवान् वज्रपाणिस् तान् ब्रह्मादीन् देवान् एवाह । साधु साधु ब्रह्मादयो देवा येन धर्मगौरवेणैव भूतां प्रतिज्ञां कुर्वतस् तत् साधु प्रतिपद्यध्वम् इति ।
इइइ
अथ भगवान् वज्रपाणिः सर्वमन्त्रविद्याहृदयदृढीकरणार्थं स्वहृदयम् अभाषत ।
ओं भ्रूं त्रूं वज्रपाणि दृधं तिष्ठ हुं । ओं हुं ।
ओं वज्र हुं फत् । ओं दृढवज्र हुं । ओं वज्र हुं सः ।
ओं वज्र हुं स्रः ।
अथास्य मण्डलं भवति ।
मण्डलं पूर्ववल् लिख्य मध्ये वज्रं समालिखेत् ॥
अथ वा वज्रसत्त्वं तु समन्तभद्रं महासुखम् ॥
पुरतो वज्रपाणिं तु दक्षिणे रत्नपाणिनम् ॥
पश्चिमे पद्मपाणिं तु विश्वपाणिं तु चोत्तरे ॥
बाह्यतो मण्डलीकृत्य सर्व बुद्धान् निवेशयेत् ॥
तस्य बाह्ये तु सत्त्वाख्यं संलिखेद् तु यथाक्रमम् ॥
तद्बाह्ये ऽपि लिखेत् सत्त्वान् मैत्रेयादीन् महोत्तमान् ॥
तद्बाह्ये तु लिखेद् भिक्षून् आनन्दादीन् मुनीन् तथा ॥
ब्रह्मादींश् च लिखेद् बाह्ये सभार्यायन्त्रमण्डितान् ॥
ग्रहनक्षत्रचन्द्रसूर्यं चतुर्नामवीरजिनाम् ॥
दिग्लोकपालानां संलिखेद् अस्मिन् मण्डले ॥
बाह्यतस् तु नारकादीन् तिर्यगुपमाम् ॥
द्वारे द्वारे तथैवापि ॥
दिनेष्व् एतेषु दशसु प्रयत्नतो मण्डलं लिखेत् ॥
कृष्णपक्षे ऽपि यद्बल्यो मण्डलं न विरुध्यते ॥
पञ्चम्याम् अथ सप्तम्यां पूर्णमास्यां विशेषतः ॥
शस्यते पद्महस्तस्य मण्डलानां क्रियाविधिः ॥
यानि च क्रूरकर्मासु तान्य् आलिखेत् कृष्णे ऽपि ॥
क्रोधानां मण्डलानि च पूर्णमास्यां विशेषेन ॥
शस्यन्ते जिनमण्डलाः ॥
अथाधिवासनां कुर्यात् स्वोभूते मण्डलोद्यमे ॥
दिग्भागं लक्षयेत् पूर्वम् उदयेन विवस्वतः ॥
ततो मण्डलविन्यासं मनसा परिकल्पयेत् ॥
मन्त्रतन्त्रोदितं स्निग्धं मन्त्ररूपशुभं शुचि ॥
मनो ऽनुकूलं भोक्तव्यं स्वशिष्यैः सह मात्रया ॥
ततः प्रदोषे सुस्नातः शिताम्बरधरः शुचिः ॥
सह शिष्यैर् गुरुर् धीमान् आगच्छेन् मण्डलान्तिकं ॥
सूपलिप्ते सुसंमृष्टे प्रदेशे मण्डलस्य तु ॥
महाक्रोधाभिजप्तेन प्रोक्षिते गन्धवारिणा ॥
मध्ये ऽधिवासनां कुर्यात् कुलानां हृदयेन तु ॥
मण्डलाधिपमन्त्रेण सर्वकर्माणि कारयेत् ॥
गन्धमण्डलकं कृत्वा मेदिन्यां द्वादशांगुलम् ॥
सप्तशः पाणिनालभ्य जपेन् मण्डलविद्यया ॥
देवतानां तु पश्चान् महतां नाम बोधिया ॥
हृदयेन यथाभागं गन्धपुष्पादिपूजनं ॥
कृत्वा बलिश् च दातव्यो धूपश् चैवाभिमन्त्रितः ॥
ततो ऽभिमन्त्रयेत् तोयं चन्दनेन विमिश्रितम् ॥
तस्मिन् देयानि पुष्पाणि धूपयेच् च विधानतः ॥
औदुम्बरं दन्तकाष्टम् अश्वत्थं वापि निर्व्रणम् ॥
नातिकृशं नातिस्थूलं द्वादशांगुलसंमितम् ॥
क्षालितं गन्धतोयेन सूत्रकेन विवेष्टितम् ॥
धूपितं गन्धदिग्धं च जपेद् आलभ्य पाणिना ॥
हृदयं च बहुशः सप्तशो वा कुलस्य तु ॥
शिष्याणां परिमाणेन दन्तकाष्ठादिसंग्रहः ॥
एकाद्यानि च कर्याणि अग्रेणैव खादयेत् ॥
ततो रक्षां दृढं कृत्वा शिष्याणाम् आत्मना बुधः ॥
होमकर्म सघृताक्ताभिः समिद्भिश् च ॥
तिलैश् च घृतमिश्रितैर् घृतैर् आहुतिहोमैश् च ॥
दध्यन्नेन च होमयेत् ॥
प्रथमं विघ्नशान्त्यर्थं ततो ऽनुहृदयेन च ॥
ततो ऽनुशान्तिहोमं च कुर्याच् छान्तिं वा पापस्य ॥
ततः शिष्यान् परीक्षयेद् विधिना चाधिवासयेत् ॥
तदहः शक्तितः कुर्यात् संवरं ग्रहणं तथा ॥
तेषाम् एवं विधानं तु शुचीनां शुक्लवाससाम् ॥
प्राङ्मुखानां निषण्णानाम् आरभेद् अधिवासनाम् ॥
आदौ त्रिशरनं दद्याद् बोधिचित्तं ततो गुरुः ॥
उद्पादयेद् अनुत्पन्नम् उत्पन्नं स्मारयेत् पुनः ॥
ततः क्रोधाभिजप्तेन वारिणाभ्युक्षयेच् छिरः ॥
शिरसि आलभ्य जपेत् सप्तवारान् समाहितः ॥
विद्यारजस्य हृदयं गन्धदिग्धेन पाणिना ॥
आलभ्य भयं वर्तेत सप्तवारं विचक्षणः ॥
चक्रवर्तिजिनकुले विद्याराजैकम् अक्षरम् ॥
हयश्वेताम्बुजकुले विद्याराजो दशाक्षरः ॥
सुम्भतथावज्रकुले विद्याराजो महर्द्धिकः ॥
युक्तश् चतुर्भिर् हुंकारैः प्रचण्डः सर्वकर्मसु ॥
कुलत्रयेषु सामान्यः क्रोधो ह्य् अमृतकुण्डलिः ॥
सर्वविघ्नविनाशाय गुह्यकाधिपभाषितः ॥
सर्वकर्मिकमन्त्रेण मूर्ध्न्य् आलभ्य ततो जपेत् ॥
प्रोक्षयेच् चापि तेनैव धूपनेन च धूपयेत् ॥
अभिषेकाय कलशं सर्वव्रीह्यादिसंयुतम् ॥
स्तोकं तोयस्य निक्षिप्य विद्याराजाभिमन्त्रितम् ॥
अधिवासयेद् विधिवद् दत्वार्घं गन्धवारिणा ॥
कुसुमानि विनिक्षिप्य धूपनेनाधिवासयेत् ॥
अहन्य् अहनि त्रिसंध्यं तत्सम्यक् परिजपेद् बुधः ॥
तेनाभिषेकं कुर्वीत पुनर् जप्तेन मण्डले ॥
शिष्याणां तु समग्राणाम् अञ्जल्या उत्तरामुखम् ॥
दन्तकाष्ठं ततो दद्याद् आसनानां यथाक्रमं ॥
खादयन् प्राङ्मुखान् शिष्यान् दन्तकाष्ठादि बाह्यतात् ॥
स्फुटयेत् पूर्णं खादित्वा क्षिपेयुश् च न पार्श्वतः ॥
सम्यक् क्षिप्तं दन्तकाष्ठं पतेद् अभिमुखं यदा ॥
ज्ञेयात् तस्योत्तमासिद्धिर् यस्य चापि उन्मुखं भवेत् ॥
प्रागग्रेण तथा सिद्धिर् मध्यमा परिकीर्तिता ॥
उदङ्मुखेन तु चक्षु विद्यासिद्धिस् तु लौकिकी ॥
दन्तकाष्ठं भवेत् क्षिप्तं कथञ्चिद् यदाधोमुखं ॥
तदा पातालसिद्धिः स्याद् भवान् नास्त्य् अत्र संशयः ॥
शिष्याणाम् उपस्पृष्ठानाम् आसीनानां तु पूर्ववत् ॥
सर्वकर्मिकमन्त्रेण दद्याद् गन्धोदकं गुरुः ॥
एकैकस्य तु पानाय दद्याच् चुलुकत्रयम् ॥
तत्रैव पीत्वा व्युत्थाय एकानेकभिर् आचरेत् ॥
ततः पूजां पुनः कृत्वा धूपम् उत्क्षिप्य पाणिना ॥
अध्येषयेद् मतिमान् भक्तिम् आस्थाय देवताम् ॥
पूर्वम् आमन्त्रयेद् मन्त्रं यस्य तद् मण्डलं भवेत् ॥
तेनानुक्रमयोगेन देवतानां निमन्त्रणं ॥
भगवन् अमुकनाम विद्याराज नमो ऽस्तु ते ॥
स्वो ऽहं लिखितुम् इच्छामि मण्डलं करूणात्मकम् ॥
शिष्याणाम् अनुकम्पाय युष्माकं पूजनाय च ॥
तन् मे भक्तस्य भगवन् प्रसादं कर्तुम् अर्हसि ॥
समन्वाहरन्तु मां बुद्धा लोकनाथाः कृपालवः ॥
अर्हन्तो बोधिसत्त्वाश् च या चान्या मन्त्रदेवता ॥
देवतालोकपालाश् च ये च भुतन्महर्द्धिकाः ॥
शासनाभिरताः सत्त्वा ये केचिद् दिव्यचक्षुषः ॥
अहम् अमुकनाम्ना तु अमुकं मण्डलं शुभम् ॥
स्वभूते तु करिष्यामि यथाशक्त्युपचारतः ॥
अनुकम्पाम् उपादाय सशिष्यस्य तु तन् मम ॥
मण्डले सहिताः सर्वे सानिध्यं कर्तुम् अर्हथ ॥
एवम् उक्त्वा तु या वाचा नमस् कृत्वा भगवतः ॥
स्तोत्रोपहारं कृत्वा च ततः कुर्याद् विसर्जनम् ॥
विरागप्रतिसंयुक्तां शिष्याणां धर्मदेशनाम् ॥
कृत्वा प्राच्छिरसो धीमान् स्थापयेत् कुशलं स्तरे ॥
प्रभातायां ततो रात्र्यां प्र्च्छते स्वप्नदर्शनं ॥
श्रुत्वा दिने निर्विशंकः शुभं वा यदि वाशुभं ॥
बुद्धधरो राजानां समयेत् सप्तकुलानि तु ॥
ततस् त्वं समयं पुत्र संवरं जिनभाषितम् ॥
श्रद्धया गुरोर् आज्ञां च पालय प्राणिनो न त्वया घात्याः ॥
नादत्तं ग्राह्यं काममिथ्या न कार्या सिद्धिम् इच्छताम् ॥
न मद्यं पेयं मांसादि भक्षं नैव कदाचन ॥
सत्त्वानाम् अहितं न कार्यं त्याज्यं रत्नत्रयं न च ॥
बोधिचित्तहृन्मुद्रा तु गुरुदेवास् तथैव च ॥
अलंघ्या गुरोर् आज्ञा यतः पापं तु लंघयेत् ॥
न लंघयेच् च निर्माल्यं तच्छायां नाक्रमेत् ॥
मुद्राकारान् तथैव च ॥
न निन्दयेद् मन्त्रदेवतां ग्रहकर्माणि न कुर्वीत ॥
तीर्थिकांश् च न निन्दयेत् ॥
संक्षेपतो विमतिकांक्षा विचिकित्सा न कार्या ॥
आत्मतन्त्रदेवादिषु तथैव च ॥
दृढश्रद्धया यथावत् सर्वविदाभिषेकतः ॥
कुम्भादिभिः समग्रैर् दशानां दशाभिषेको यथेच्छम् ॥
ततो वज्रघण्टाश् च हस्ते दातव्याः ॥
ततश् चक्रादिसप्तरत्नानि गृहीत्वा ॥
राज्यैश्वर्यादिचक्रवर्तित्वप्राप्तये ॥
पापस्फोटनाय चाभिषिञ्चेत् ॥
मन्त्रसाधयितुकामस्य शिष्यस्याज्ञां श्रावयेत् ॥
ततः श्रद्धया शिरसा प्रणम्य विद्यमानद्रव्यम् ॥
गुरवे देयम् ॥
रत्ननिधानव्रीहिहिरण्यसुवर्णवाहनगृहाः ॥
आसनदारकदारिकापुरुषस्त्रियो देयाः ॥
ग्रामनगराणि च यथेप्सितानि ॥
स्वचित्तप्रसादेन दक्षिणानि वेशयेत् ॥
आशुसिद्धये गुरवे संक्षिप्त आत्मानम् अपि निवेदयेत् ॥
इहैव जन्मन्य् अनवशेषसुखानि परलोके चोत्तमसुखं ॥
बुद्धत्वं प्राप्यते किं पुनर् देवसुखम् ॥
सर्वबुद्धसमं गुरुं वज्राचार्यनिन्दया ॥
नित्यदुःखावाप्तिर् इति आचार्यं न निन्दयेत् ॥
वज्रब्भातृभगिनीमाता योगी न निन्दयेत् ॥
उपनाहं च न कुर्यात् ॥ रत्नत्रयोपकारिणो न क्षमेत् ॥
गुरुनिन्दकान् दुष्टान् समयातिक्रमिणो ऽपि तथैव च ॥
एवमाद्यपकारकाइन्श् च ॥
एवं सन्ति सर्वविद्भाषितां सिद्धिम् आप्नोति ॥
सर्वसत्त्वानुकम्पी सिद्धिं प्राप्नोति शिग्रजाम् ॥
अथ खलु भगवान् देवेन्द्रसदेवलोकहितसुखार्थाय साधनविधिम् अभाषत । पटे भगवन्तं सर्वविदं तथैव लिखेत् । दक्षिणे सर्वदुर्गतिपरिशोधनराजं तथागतम् । वामे शाक्यमुनिम् । सर्वदुर्गतिपरिशोधनस्याधस्ताद् आर्यावलोकितेश्वरं चन्द्रार्कवर्णपद्मपाणिम् । शाक्यमुनेर् अधस्ताद् वज्रपाणिम् । तयोर् मध्ये भैषज्यराजं नीलवर्णम् एकेन हस्तेन हारितकीफलं धारयन्तम् अपरेण वरदं कारयन्तम् । हयग्रीवत्रैलोक्यविजयौ च दुष्टदमनतत्परौ स्वदेवताभिमुखौ लिखेत् । तयोर् मध्ये लोचनामामकीपाण्डुरवासिनीताराः स्वचिह्नकरा लिखेत् । तासाम् अधस्तात् पुष्करिणीं मकरमत्स्यश्वेतमण्डुकादिसहिताम् अनेकजलजपुष्पपरिपूर्णां लिखेत् । धूपदीपगन्धमाल्यनैवेद्यपुष्पफलानि नानाप्रकाराणि च लिखेत् । अधस्ताच् च साधकं अञ्जलिं कृत्वा प्रणमन्तं लिखेद् निषण्णम् ।
ततः पटसत्याधिष्ठानम् अवलम्ब्य चक्षुरुन्मीलनं कृत्वा पूजयेत् । ततो यदि निमित्तं पश्येत् सिद्ध्यति शीग्रम् । यदि न पश्येच् चिरं सिद्ध्यति । हसितुंकर्मशब्दं च घण्टाध्वनिगर्जितम् एव च ॥
भिक्षुब्राह्मणकन्याश् च फलानि च दृष्ट्वा शीघ्रम् ॥
सिध्यत्य् उत्तममध्यमाधमसिद्धिषु ॥
ततः पटं मन्त्रमुद्राभिर् अधितिष्ठेत् ॥
यथाप्राप्तेन च पूजयेत् तस्याग्रतो निषद्य ॥
त्रैलोक्यविजयेनात्मरक्षादिकं कृत्वा ॥
आत्मतत्वं च ध्यात्वा ॥
लक्षत्रयं षट्लक्षाणि वा जपेद् यावत् सिद्धिनिमित्तं भूतम् ।
ततो विवेकस्थाने ऽष्टौ ऽशतानि पूरयेत् । मन्त्रं चानूनाधिकं जपेत् ।
ततो जपावसाने मण्डलं पूर्ववच् चिन्तयित्वा ।
विपुलां च पूजां कृत्वा रात्रीम् एकां जपेत् ।
ततः प्रधानं च तत्पुत्रं च देवांश् च यदि पश्यति ।
तदा यथाभाजनम् ईप्सितोत्तमसिद्धिं विज्ञापयेत् ।
देवता नित्यं तुष्टाः सिद्धिफलं तस्य ददति ।
नमस्कृत्य च सिद्धिम् उत्तमादिकां गृह्णीयात् ।
गुरुरत्नत्रयस्वभागं दत्वा ।
ततो नित्यं विचरेत् तदभावेषु प्राज्ञः ।
गृहीत्वा स्वयं समाचरेत् । सर्वसत्त्वहितकारी चानेककल्पं तिष्ठेत् । असिद्धौ सर्वकर्मकरो भवेत् । यक्षनक्षत्रग्रहादयो वचनमात्रेण भृत्यवच् छान्तिकादिसर्वकर्मकरा भवन्ति ।
अथ खलु देवेन्द्रो भगवन्तम् एतद् अवोचत् । भगवन् पापकारिणां नारकादिवशीभूतानां सत्त्वानां नारकादिदुःखप्रहाणाय कथं प्रतिपत्तव्यम् । भगवान् आह । देवेन्द्र शृणु नारकवशगतसत्त्वानां महापापकारिणां तेषां यथा नारकदुःखेभ्यो ऽनायासतो मुक्तिर् भवति तथा शृणु । तथैव मण्डलं लिखित्वाष्टोत्तरशतजप्तैः कलशैः पूर्ववद् अभिषेकं कल्पयेत् । ततः सर्वपापगताः सर्वनारकादिदुःखेभ्यः शीघ्रं विमुच्यन्ते । ते च विमुक्तपापमहात्मानः शुद्धावासदेवेषूत्पन्नाः । सततं बुद्धधर्मसंगीतिम् प्राप्नुवन्ति । अवैवर्तिकभूमिप्रतिष्ठिताश् च क्रमेण बोधिं साक्षात् कुर्वन्ति ।
तत्प्रतिबिम्बं वा नाम च कुंकुमेन लिखित्वा ॥
अपायत्रयमहाभयात् सत्त्वानां मोक्षणाय ॥
मन्त्री परहिते रतः कृपाया अभिषिञ्चेत् ॥
ततः स योगी मन्त्रमुद्राभिर् अभिषिञ्चेत् ॥
देवतारूपं कल्पयित्वा चैत्यमध्ये स्थापयेत् ॥
स्वपरदेवताहृदयं तधृदये प्रदेशे लिखित्वा ॥
देवतातुल्यचित्तम् उत्पाद्य गृहे वा स्थापयेत् ॥
तन्नाम च विदर्भ्य मन्त्रं कुंकुमेन लिखित्वा ॥
चैत्यकर्म कुर्याद् यावल् लक्षं परिपूर्णम् ॥
महापापिनः पापक्षयाय कोटिम् अपि पूरयेत् ॥
एवं कृते ते ऽवश्यं नरकाद् मुक्ता भवन्ति ॥
तथा तिर्यग्भ्यश् च मुक्ता देवनिकायेषूत्पद्यन्ते ॥
तन्नाम च विदर्भ्य यथोक्तमन्त्रं सहस्रं जपेत् ॥
कदाचित् शतसहस्रम् अपि पूरयेद् यावत् कोटिम् अपि पूरयेत् ॥
देवनिकायेषूत्पद्यन्ते ॥
तन्नामविदर्भ्य कुशलो लक्षशतं वा यावच् छतसहस्रम् ॥
होमं कुर्यान् महानरकपापमुक्ता भवन्ति ॥
यावन् निमित्तं ज्वलिताग्नीस्थाने समुत्पद्यते ॥
तिलश्वेतसर्षपतण्डुला अजाक्षीरसंयुक्ताः ॥
समिधाश् च गन्धाक्तास् तावद् यथाविधि होतव्याः ॥
ततस् ते नियतं देवनिकायेषूत्पन्ना निमित्तम् उपदर्शयन्ति ।
कदाचिद् देवोत्तमा उत्पन्ना अथ वा कुण्डमध्ये श्वेतप्रदक्षिणज्वाला निर्मलोर्ध्वज्वलनम् । अवकीर्णसंदत्तज्वलनं विद्युदिव निर्मलं स्थिरम् । एतान्य् अगनिमित्तानि पश्यति । अथ वैश्वानलतात्मानं तथैव दर्शयन्ति । चन्द्रवन्निर्मलं शुक्लमुखवर्णज्वलितम् । एतन्निमित्तदर्शनात् तेषां नरकादि विमुक्तिपापस्फोटनस्वर्गोत्पत्तयो ज्ञातव्याः ।
चतुर्हस्तप्रमाणं च यथाविधि कुण्डं खनेत् ॥
पर्यन्ते वज्रपरिवृतं लिखेन् मध्ये चक्रम् ॥
यथावत् पञ्चकुलमुद्राः स्वदिक्षु लिखेत् ॥
तथावत् सत्त्वानां लोकाधिपं च लिखेत् ॥
अतः पूर्णकलशा बलिपूर्णभाजनानि ॥
चाष्टौ षोडशं वा स्थाप्यानि भक्षभोजननैवेद्यानि च ।
पुष्पमालादयस् तथैव च वितानध्वजपटादिभिर् उत्तमछत्रैश् च । सम्यग्विभूषणीयम् ।
एवम् उत्तमहोमकुण्डे सम्यक् होतव्यम् ।
लिखित्वैवं विधिज्ञो देवगणम् आकर्षयेत् ॥
मन्त्रज्ञो मन्त्रमुद्रयार्घ उपधौकनीयः ॥
संक्षेपतः पूजां कृत्वा देवगणनागयक्षगन्धर्वावस्थितः । कर्पूरचन्दनकुंकुमवस्त्रालंकारभूषितो ऽभिमन्त्रितधूपं धूपयेत् । पुष्पमालादिभिश् च पूजयेत् । चूडायां बाहौ च तथैव मन्त्रं लिखित्वा बन्धयेत् । हृत्कण्ठमुखप्रदेशे सर्वविद्याधिष्ठानं कुर्यात् । ललाटोर्णाकर्णद्वये शिरःशिखाबाहुद्वये । नासाकटिजानुपादनासिकाग्रचक्षुर्द्वये । गुह्येन्द्रियप्रदेशेष्व् एवम् अन्येष्व् अपि मन्त्राक्षराण्य् एकान्तशुभानि विन्यसेत्। ततो दुर्गतिपरिशोधनायासनसहितं तन्मध्ये स्थापयेत् ।
ततश् च मन्त्र्य् अभिमन्त्रितवस्त्रेण छादयेत् ।
ततो हुतभुजं सम्यक्प्रज्वाल्य । सहस्रज्वाल्य । सहस्रज्वालाकुलकायं कुण्डेन्दुदुसन्निभं शान्तम् अनन्तम् अग्निम् आकृष्यार्घं परिकल्पयेत् । तथैव च बुद्धिमान् अग्रतः प्रतिमादिकं स्थापयेत् । तथागतगणं तथैवाकृष्यार्घादिकं परिकल्पयेत् तथैव यथोक्तपूजा कर्तव्या ।
तत आहुतिं हव्यं पूरयित्वा ज्वलनाय परिकल्पयित्वा जिनादिनीम् अष्टोत्तरशतं परिकल्पयेत् । ततः शोधनमन्त्रराजस्यैकविंशतिम् आहुतिं परिकल्पयेत् ।
ततश् चाकृष्य श्वेतमुखम् उपकरणैर् वा वारत्रयम् अर्घादिना च पूजयेत् । वज्रपाणिं पद्मपाशधरं त्रैलोक्यरूपं पादपद्माक्रान्तपापं सर्वालंकारालंकृतं संबुद्धकिरीटिनं चिन्तयेद् अथ वा लिखेत् । तस्य ःर्दयेन शतसहस्रं यावत् कोटिं वा जुहुयात् ।
निमित्ते च समुत्पन्ने पापसंततिप्रहाणं तथैव ज्ञातव्यम् । ततो भस्मीभूतं वज्रसंहारमन्त्रेण यथाविधि संहरेत् । भस्मान्य् अस्थिरजांसि च गन्धोदकपञ्चगव्यसहितानि शोधनमन्त्रेण लक्षं जप्त्वा पिन्दीकृत्य कर्पूरगन्धमृद्भिर् मिश्रीकृत्य प्रतिमां चैत्यदेवतां वा कुर्यात् । एकद्वित्रिचतुःपञ्चवारं वाष्टोत्तरशतवारं वा ।
मन्त्रमुद्राभिर् अधिष्ठाय लक्षद्वयं जपेत् ॥
ततश् चैत्यं ज्वलति प्रतिमा वा हसति ॥
गन्धधूपप्रभा जिघ्रति पश्यति देवादीं नानाप्रकाराम् यस्य ऋद्धिप्रातिहार्याणि च पतन्ति पुष्पादीनि । शंखभेरीवंशवीणादीनां च शब्दाः श्रूयन्ते ।
कदाचिद् देवतानि निमित्तानि पापबहलतया यदि न पश्येत् तदाष्टौ लक्षसहस्राणि जपेत् ।
यावन् निमित्तं भवति तथागतं पूजयित्वा ॥ सुसमाहितो जपेत् ।
ततो ऽन्ते रात्रीम् एकां विधिज्ञो जपेत् ।
तदावश्यं पापविशुद्धात्मा पश्यति ।
देवतारूपकायं तत्सन्तानं परिजानाति ।
एतानि निमित्तानि ज्ञात्वा अविकल्पचित्तो ।
मैत्रीकृपापरीतः सर्वकर्माणि कुर्यात् ।
एवम् अपि यदि न संभवति तदा तन्नाममात्रं लिखित्वा चैत्यमालां कुर्यात् प्रतिमां वा कृत्वा । होमाभिषेककृते सति । नियतं स्वर्गेषूत्पद्यन्ते । भस्मसर्षपवालुकादींश् च नाम विदर्भ्याभिमन्त्र्य समुद्रगामिन्यां नद्यां क्षिपेत् । ततः पापीयसो ऽपि दुर्गति विमोक्षति ।
उत्तमकुशलबीजम् उत्पादितवतो बुद्धत्वफलसमन्वागतस्य दानशीलक्षान्तिवीर्यध्यानप्रज्ञाहेतुप्रभावितस्य पुण्यवतो लोकस्य दुर्गति भग्नेति ।
कः पुनः वादो नात्र संशयः ।
यश् चानुत्पादितकुशलमूलो यश् च नास्तिकदृष्टिर् बोधिमार्गाद् निवृत्तस् तस्य शासनविद्वेषिणो ऽपकारिणः पापानभिज्ञस्यमातृ पितृविप्रियचित्तस्य बोधिचित्तनिसृतवीतरागघातकस्य देवताबुद्धधर्मसंघमन्त्रमुद्रागनादीनां ( स्द्प् 250 ) च नास्तित्वादृष्ट्यादीनां च पापीयसाम् एषां प्रज्ञोपायाभावे मुक्तिर् नास्तीति सुगतजिनैर् भाषितम् ।
अथ शक्रादय उत्पलपद्मलोचनाः साध्व् इति तोषयन्ति स्म । संतोषयित्वा पूजयन्ति स्म । शक्रेण च परहितरतेन यथाविज्ञप्तं ।
द्वितीयं त्रिसूचिकवज्रसहितेन वरदो वामेनैकेन त्रिशूलधारि द्वितीयेन खड्गधारी सर्पयज्ञोपवीतनीलकण्ठो लेख्यो ऽनेन ।
ओं पशुपति नीलकण्ठ उमाप्रिय स्वाहा ।
अथास्य मुद्रा भवति । दक्षिणहस्तेन वाममुष्टिन कृत्वा कनीयसीम् अंगुष्ठेनाक्रम्य शेषांगुलवज्रलक्षणाः कृत्वानामिकां तर्जनीं च वज्राकारेण कञ्चिन् नामयेत् । इयं पशुपतेर् मुद्रा । विष्णुर् गरुदारूढःकृष्णवर्णश् चतुर्भुजः । दक्षिणभुजाभ्यां गदावज्रधरः । वामाभ्यां शंखचक्रधरः ।
वज्रहेमा कनकवर्णा आसनभुजायुधविष्णुवत् ।
वज्रघण्टामयूरारूढो रक्तवर्णः षड्मुखो दक्षिणभुजाभ्यां शक्तिवज्रधरः । वामाभ्यां कुक्कुटघण्टावज्रधरश् च ।
वज्रकौमारी वज्रघण्टावद् एव ज्ञेया ।
मौनवज्रो हंसारूढः कनकवर्णश् चतुर्मुखो दक्षिणभुजाभ्यां वज्राक्षसूत्रधारी । वामाभ्यां दण्डकमण्डलुधारी ।
वज्रशान्तिर् ब्रह्मवद् ज्ञेया ।
वज्रायुधः श्वेतगजारूढो गौरवर्णो वामभुजेन विश्ववज्रधरो दक्षिणेन लोकोत्तरवज्रधरः ।
वज्रमुष्टिर् वज्रायुधवज् ज्ञेया ।
वज्रकुण्डली क्रोधश् च रथारूढो दक्षिणकरेण सपद्मेन वज्रधरो वामेन सपद्मेनादित्यमण्डलधरो रक्तवर्णः । वज्रामृता वज्रकुण्डलिक्रोधवद् एव ।
वज्रप्रभक्रोधः सितवर्णो हंसारूढो दक्षिणकरेण वज्रधारी वामेन पद्मचन्द्रधरः ।
वज्रकान्तिर् वज्रप्रभक्रोधवत् ।
वज्रदण्डक्रोधः कच्छपारूढो नीलवर्णो दक्षिणकरेण वज्रधारी वामेन दण्डधरः ।
दण्डवज्राग्री वज्रदण्डक्रोधवत् ।
वज्रपिंगलक्रोधो ऽजारूढो रक्तवर्णो दक्षिणकरेण वज्रधरो वामेन मानुषम् आदाय भक्षयन् अवस्थितः ।
वज्रमेखला वज्रपिंगलक्रोधवत् ।
वज्रशौण्डो गणपतिर् गजवाहनो दक्षिणकरेण वज्रं धारयेद् वामेन लांगलं धारयेद् अवस्थितः । सितवर्णः ।
वज्रविणया वज्रशौण्डवद् अयन् तु विशेषो यद् उत वामकरेण खट्वांगधारिणीति ।
वज्रमालो गणपतिः श्यामवर्णः कौकिलरथारूढो दक्षिणकरेण वज्रधरो वामेन कुसुममालाधरः ।
वज्रासना वज्रमालावद् अयन् तु विशेषो यद् उत वामकरेण शक्तिधारिणीति ।
वज्रवशी शुकरथारूढो गौरवर्णो दक्षिणकरेण वज्रधरो वामेन मकरध्वजधारी ।
वज्रवशा वज्रवशीवद् अयन् तु तस्या विशेषो यद् उत रक्तवर्णेति ।
विजयवज्रो गणपतिर् मण्डूकारूढः सितवर्णो दक्षिणकरेण वज्रधरो वामेन खड्गधरः ।
वज्रसेना विजयवज्रवत् ।
वज्रमुसलदूतः पुष्पविमानारूढो गौरवर्णो दक्षिणकरेण वज्रधरो वामेन मुसलधरः ।
वज्रदूती वज्रमुसलवद् अयन् तु तस्या विशेषो यद् उत वामेन खट्वांगधारिणीति ।
वज्रानिलदूतो नीलवर्णो मृगारूढो दक्षिणकरेण वज्रधारी वामेन पटधारी । वेगवज्रिणी वज्रानिलदूतवत् ।
वज्रानलदूतो ऽजारूढो रक्तवर्ण ऊर्ध्वज्वालाप्रभस् त्रिशिखाज्वालो दक्षिणभुजाभ्यां वज्रकवचधरो वामाभ्यां दण्डकमण्डलुधरश् च । वज्रज्वाला वज्रानलवत् ।
वज्रभैरवदूतो नीलो वेतालारूढो दक्षिणकरेण वज्रधारी वामेन गदाधारी ।
वज्रविकटा दूती वज्रभैरववद् अयन् तु विशेषो ऽस्या यद् उत वामेन पाशधारिणीति ।
वज्रांकुशचेटः शेषनागारूढो नीलो वराहमुखः । दक्षिणेन वज्रधरो वामेनांकुशधरः ।
वज्रमुखी चेटी पुरुषवाहना नीला वराहमुखी दक्षिणेन वज्रधरा वामेन खड्गधरा ।
वज्रकालचेटको महिषारूढो नीलो दक्षिणकरेण वज्रधरो वामेन यमदण्डधरः ।
वज्रकाली चेटी वेतालवाहना वामकरेण खट्वांगधारिणी दक्षिणकरेण वज्रधारिणी कृष्णवर्णा ।
वज्रविनायकचेटक उन्दुरारूढः सितवर्णो गजमुखो दक्षिणकराभ्यां वज्रपरशुधरो वामाभ्यां त्रिशूलधरो दण्डधरश् च । सर्पयज्ञोपवीतः । वज्रपूतना चेटी नीलवर्ण दक्षिणेन वज्रधरा वामेन संमार्जनिकाधरा । उन्दुरारूढा ।
नागवज्रचेटको मकरारूढो ऽष्टफणः सितवर्णो दक्षिणेन वज्रधरो वामेन नागपाशधरः ।
वज्रमकरा चेटी मकरारूढा सितवर्णा । अष्टफणा । दक्षिणेन वज्रधरा वामेन वज्रांकितमकरधरा ।
भीमा श्यामवमा दक्षिणेन वज्रधारिणी वामेन खड्गफेटकधारिणी ।
श्री गौरवर्णा दक्षिणेन वज्रधरा वामेन पद्मधरा ।
सरस्वती वीणाहस्ता वामेन दक्षिणेन वज्रधरा ।
दुर्गा श्यामवर्णा सिंहारूढा दक्षिणभुजाभ्यां वज्रचक्रधरा वामाभ्यां पट्टिशाशंखढरा ।
सर्वासां मातृणां रुद्रादीनां च वरुणपर्यन्तानां यद् दक्षिणकरेषु वज्रम् उक्तं तत् त्रिसूचिकं ज्ञेयम् इति । सर्वलौकिकलोकोत्तराश् च देवता वैरोचनसंमुखलेख्या इति ।
ततः सन्ध्याकाले संप्राप्ते वज्रतेरिन्तिरीं बद्ध्वा नीलपुष्पमालाम् आदाय मण्डलं प्रविशेच् चतुर्हुंकारम् उदाहरन् वज्रवैरोचनसप्तप्रदक्षिणं च शंखवज्रघण्टां वादयन् कुर्यात् । सर्वमण्डलं चानातिरिक्तदोशशान्तये निरीक्ष्य मालां भगवतो निर्यात्य वज्रनृत्यं कृत्वा । आदाय स्वशिरसि बन्धेच् चतुर्हुंकारेणैव ।
तथा यथोक्तं यद् ऊनं परिपूरयेत् ॥
विजह्याद् अधिकं बुद्ध आबाधयेद् वज्रघण्टाम् ॥
सिध्यते न च दुष्यते ॥ इति ।
ततो मध्ये स्थितो भूत्वा वज्राचर्यसमाहितः ॥
मनसोद्घाटयेच् चैव वज्रद्वारचतुष्टयम् ॥
ओं वज्रोद्घाटय समये प्रवेशय हुं । इति ।
मुद्रा चास्य भवति ।
द्विवज्राग्रांगुली सम्यक् संधार्योत्तानतो दृढम् ॥
विधारयेत् सुसंक्रुद्धो द्वारोद्घाटनम् उत्तमम् ॥
इति ।
ततो ऽंकुशादिभिः कर्माणि कृत्वा सप्तरत्नमयं कलशं मृन्मयं वाकालमूलम् उच्चग्रीवं लम्बौष्ठं महोदरम् दिव्यगन्धोदकं
सर्वरत्नौषधिसर्वधान्यपरिपूर्णं सफलं सपल्लवं सद्वस्त्रावबद्धकण्ठकं कृतरक्षं बहिः समन्ताद् दिव्यगन्धानुलिप्तं स्रग्विणं वज्रांकितम् उपरि महावज्राधिष्ठितं क्रोधतेरिन्तिरीपरिगृहीतया वज्रकुसुमलतया ।
ओं वज्रोदक हुं इत्य् अनेनाष्टोत्तरसहस्राभिमन्त्रितं चतुर्हुंकारेण चाष्टशताभिमन्त्रितं कृत्वा भगवतो वज्रहुंकारस्याग्रतः संस्थाप्य । प्रवेशद्वाराभिमुखं च बहिर् द्वितीयं कलशं चतुर्हुंकारेणाष्टशतजप्तं स्थापयेत् । तेनोदकेनात्मशिष्याभिषेकं कृत्वा । प्रवेशमुद्रां बद्ध्वा न बन्धयेद् वा । प्रवालं जातरूपं च शंखं मुक्तामणिस् तथा । सर्वरत्नानि सिंहीव्याघ्रीगिरिकर्णासहदेवाश् चेति सर्वौषधयः । तिलान् माषान् यवान् धान्यान् गोधूमांश् चापि पञ्चमान् । शब्देन सर्वव्रीहीणां पञ्च तान् उपलक्षयेत् । तद् अनु चतुःप्रणामादिपूर्वकं संवरं ग्राहयित्वा वज्रयक्षेण नीलवस्त्राणि परिजप्य सत्त्वोष्णीषेण वस्त्रं द्वारपालैर् मुखवेष्टनं वज्रकवचेनोत्तरीयम् आबद्धोष्णीषादिक आचार्यः क्रोधतेरिन्तिर्या नीलपुष्पम् आदाय ।
ओं वज्रसमयं प्रविश्यामीत्य् उदीरयन् प्रविश्य सर्वतथागतान् विज्ञापयेत् । अहं भगवन् इत्यादिना ।
ततो वज्रोदकं पीत्वात्मावेशं कृत्वा तां मालां महामण्डले प्रक्षिप्य स्वशिरसि बद्ध्वा मुखबन्धं मुक्त्वा यथावद् मण्डलं दृष्ट्वा तिष्ठ वज्रेत्यादिना प्रवेशमुद्रामोक्षं च कृत्वा । उदकाभिषेकं पञ्चबुद्धमुकुटं पट्टवज्रमालाधिपतिवज्रनामाभिषेकं
भगवतः सकाशाद् भगवन्तं प्रणम्य गृहीत्वा । तत्त्वं धर्मसमयं सिद्धिवज्रव्रतं चादाय । पुष्पादिभिर् लास्यादिभिश् चात्मानं संपूज्य । गाथापञ्चकेनानुज्ञां च तु हुंकारम् उद्गताव्याकरणं चादाय पुनः स्वाधिष्ठानादिकं कृत्वा यथाभिरुचितजापं च हुंकारवज्रो ऽहं हुंकारवज्रो ऽहम् इति । स्वनामोच्चारणं कृत्वा वैरोचनमहामुद्रां बद्ध्वा । तन्मन्त्रेण अःकारान्तेन वैरोचनस्थाने तथागतवज्रम् आत्मानम् आवेशयेत् । वज्रो ऽहम् इति वज्राहंकारं विभाव्य । तद् वज्रं वैरोचनं भावयेत् । वज्रधातुर् अहम् इति । एवं यावद् वज्रावेशमहामुद्रां बद्ध्वोत्तरद्वारे तन्मन्त्रेणाःकारान्तेन वज्रघण्टाम् आत्मानम् आवेशयेत् । वज्रघण्टाहम् इत्य् अहंकारम् उत्पाद्य तां वज्रावेशक्रोधो ऽहम् इति भावयेद् एवं वज्रेण साधितं भवति । सत्त्ववज्रांकुशीं बद्ध्वा वज्राचार्यः ततः पुनः कुर्वन् अच्छटासंघातं सर्वबुद्धान् समाजयेत् । ओं वज्रसमाज जः वं होः इति । एकविंशतिवारं प्रवर्तयेत् । ततः शीघ्रं महामुद्रां वज्रक्रोधसमयम् उच्चारयेत् । सकृद् वारं नामाष्टकं शतं उत्तमम् । ततो वज्रांकुशादिभिः स्वद्वारेणाकृष्य प्रवेश्य बद्ध्वा वशी कृत्य यथावच् चतुर्हुंकारेणार्घं दत्वा । श्रीवैरोचनादीन् समयमुद्राभिर् भद्रकल्पिकपर्यन्तान् साधयेत् । स्वमन्त्रम् उच्चार्य वदेत् । जः हुं वं होः समयस् त्वं समयस् त्वम् अहम् ।
ततः स्वमन्त्रम् उच्चारयेद् एव सिद्धा भवन्ति ॥
अथ समयमुद्रा भवन्ति ।
वज्राद् विकर्षसंभूताः समयाग्रास् तु कीर्तिताः ॥
तासां बन्धं प्रवक्षामि क्रोधबन्धम् अनुत्तरम् ॥
बाहुवज्रं समाधाय कनिष्ठांकुशबन्धिता ॥
त्रिलोकविजया नाम तर्जनी द्वयतर्जनी ॥
तथैवाग्रा मुखसंगा मणिस् तु प्रविकुञ्चिता ॥
समोत्थमध्यमा पद्मा तु मध्याग्रद्वयतर्जनी ॥
तर्जनीद्वयं वज्रं तु दक्षिणांकुचितांकुशी ॥
तथैवाग्रस्तहुंकाराः साधुकारास् तथैव हि ॥
द्व्यग्रसंस्था भृकुट्यां तु हृदि सुर्याग्रमण्डला ॥
प्रसारितभुजा मूर्ध्नि तर्जनी मुखहासिनी ॥
तर्जनी नखसंसक्ता कोशमुष्टिस् तु दक्षिणा ॥
सममध्यगुण्ठचक्रा तु मुखतः प्रतिनिःशृता ॥
तर्जनीमध्ये वज्रा तु ग्रीवावेष्टिततर्जनी ॥
अग्रादिकमहादम्ष्ट्रा ग्रस्ताग्रावज्रमुष्टिता ॥ इति ।
लास्यादीनां तु वज्रधातु उक्ता एव हुंकृता । तद्यथा ।
वज्रबन्धं बद्ध्वा हृदयं तु समांगुष्ठा ॥
सुप्रसारितमालिनी ॥
अञ्जल्यग्रमुखोद्धान्ता नृत्यतो मूर्ध्नि संयुता ॥
वज्रबन्धं त्व् अधोदानात् स्वञ्जलिश् चोर्ध्वदायिका ॥
समांगुष्ठा निपीडा च सुप्रसारितलेपना ॥
एकतर्जनी संकोचा द्व्यंगुष्ठग्रन्थिबन्धिता ॥
अंगुष्ठाग्रकटाबन्धा वज्रमुष्ट्यग्रसंधिता ॥
हृदयमण्डले पञ्चसूचिकवज्रं विचिन्त्य । हुंकारम् एवोच्चारयता सर्वमुद्रा बन्धनीया ।
अथ मुद्राया नियमो भवति । वैरोचनवज्रहुंकाररत्नहुंकारधर्महुंकारकर्महुंकारस्थाने च । अथ रत्नहुंकारादीनां मन्त्राणि भवन्ति ।
ओं वज्रभृकुटीक्रोधानय सर्वरत्नानि ह्रीः फट् ।
ओं वज्रदृष्टिक्रोध दुष्टान् मारय हुं फट् ।
ओं वज्रविश्वक्रोध कुरु सर्वविश्वरूपया साधय हुं फट् ।
अन्यमुद्राः सत्त्ववज्रीम् आरभ्य द्रष्टव्याः । तथा हि सर्वविद्योत्तमानां विजयमन्त्रेत्युक्तम् । सवज्रहुंकारमुद्रासंग्रहश् च भगवान् वज्रहुंकारो पठ्यते । न चान्या वज्रहुंकारा भवतुम् अर्हन्ति । सर्वतन्त्रेषु वज्रहुंकारा निर्दिष्टेति ॥ तद् अनु तथैव जिह्वायां वज्रं न्यस्य यथाक्रमेण बुद्धवज्रधरादीनां धर्माक्षराणि न्यस्येत् । एतानि च तानि ।
हुंकारो बुद्धवज्रिभ्यां त्रःकारो वज्रगर्भतः ।
ह्रीःकारो वज्रसेनस्य अःकारो वज्रविश्वतः ।
हुं सत्त्ववज्र्याः । त्रः रत्नवज्र्याः । ह्रीः धर्मवज्र्याः ।
अः कर्मवज्र्याः ।
हुं हे त्रां त्रं हि ह्रीः देः हः । इति वज्रसत्त्वादीनाम् ।
महारते हुं । रूपशोभे हुं । श्रोत्रसौख्ये हुं । सर्वपूज्ये हुं ।
प्रह्लादिनि हुं । फलागमे हुं । सुतेजाग्रि हुं । सुगन्धाग्रि हुं ।
आपाही जः हुं । आहि हुं हुं हुं । हे स्फोट वं हुं । घण्ट अः अः हुं ।
इति । वज्रलास्यादीनां वज्रावेशपर्यन्तानाम् इति ।
तदनन्तरम् अःकाराणि हृदि विश्ववज्रान् निष्पाद्य कर्ममुद्राम् बध्नीयात् । तत्रेमाः क्रोधमुष्टिद्विधाकृत्य । वामवज्रांगुली ग्राह्या दक्षिणेन समुत्थिता ॥
बोध्यग्रि नाम मुद्रेयं बुद्धबोधिप्रदायिका ॥ सगर्वोत्कर्षनं द्वाभ्यां वज्रहुंकारवज्रसत्त्वसत्त्ववज्रीणाम् ।
अंकुशग्रहनसंस्थिता वाणघटनयोगा च ॥
साधुकारं हृदि स्थिता अभिषेकं द्विवज्रं तु ॥
रत्नहुंकारवज्रभृकुटिक्रोधरत्नवज्रीणाम् ।
हृदि सूर्यप्रदर्शनं वामस्थबाहुदण्डा च ॥
तथास्य परिवर्तिता सव्यापसव्यविकोच ॥
धर्महुंकारवज्रधर्मधर्मवज्रीणाम् ।
हृद्वामा खड्गधारिणी अलातचक्रभ्रमिता ॥
वज्रद्वयमुखोत्थिता वज्रनृत्यभ्रमोन्मुक्ता ॥
कपोतोष्णीषसंस्थिता ॥ कर्महुंकारवज्रकर्मकर्मवज्रीणां, ।
कवचकनिष्ठादम्ष्ट्राग्रा मुष्टिद्वयनिपीडिता ॥
वज्रगर्वप्रयोगेण नमेद् आशयकम्पितैः ॥
मालबन्धा मुखोद्धान्ता नृत्यतो मूर्धनि संस्थिता ॥
अधःक्षेपोर्द्ध्वप्रक्षेपा समांगुष्ठनिपीडिता ॥
गन्धलेपनयोगाच् च पूजामुद्रा प्रकीर्तिता ॥
तर्जन्यंकुशबन्धेन कनिष्ठाया महांकुशी ॥
बाहुग्रन्थिकटाग्राभ्यां पृष्ठयोश् च निपीडिता ॥ इति ।
द्वारपालमुद्राः ।
सर्वाश् च कर्ममुद्रा नृत्योद्भवाः ।
ततो यथालेखानुसारतो वैरोचनादीनां महामुद्राबन्धं कुर्यात् । वज्रसत्त्वरत्नधर्मकर्मक्रोधानां या महामुद्रास् ताः सत्त्वरत्नधर्मकर्मवज्रिणाम् अपि वज्राद्यन्तर्गताः स्त्रीरूपधारिण्यश् च ताः । यां यां मुद्रां तु बध्नीयाद् यस्य यस्य महात्मनः ।
सर्वमुद्रासमयः ।
वामतथागतमुष्टिम् उत्तानं कृत्वा दक्षिणहस्ततर्जन्यंगुष्ठाभ्यां कन्यसाम् आरभ्य विकास्य संपुटाञ्जलिं कुर्यात् । इयं मैत्रेयादीनां समयमुद्रा । विद्या चैषां पूर्वोक्ता । ताम् एव विद्यां तेषां जिह्वासु न्यसेद् इयं तेषां धर्ममुद्राः । अकारेण स्वहृदि विश्ववज्रं निष्पाद्य तेषां लेख्यानुसारतो महामुद्रा बद्ध्वा कर्ममुद्रा भवन्ति ।
स्वहृदि पञ्चसूचिकं वज्रं विचिन्त्य लेख्यानुसारत एव तेषां महामुद्रा बध्नीयाः । सैव विद्या सामान्यैवेति । कनिष्ठांगुष्ठबन्धे तु वाममध्यांगुलित्रिके त्रिशूके मध्यशूलं तु वज्रमुद्रापरिग्रहं वज्रविद्योत्तमेयं वज्रशूलेति कीर्तिता ।
अतः परं प्रवक्षामि मायावज्रादिसंज्ञिनाम् ॥
वज्रबन्धं दृढीकृत्य वामवज्रं तु बन्धयेत् ॥
वज्रमुष्टिर् इति ख्याता सर्ववज्रकुलेष्व् इयम् ॥
द्विधीकृत्य तु तद् वज्रं सर्वचिह्ननिवेशितम् ॥
सर्ववज्रकुलानां तु मुद्रासु च निवेशयेत् ॥
प्रसारिताग्रपृष्ठस्था ज्येष्ठांगुष्ठग्रहाधका ॥
ओंकारमूर्ध्नि संस्था तु वज्रत्वराप्रतिष्ठिता ॥
विद्याराजमहामुद्रागणः ।
प्रसारिताग्रीतापाणिर् हस्तपृष्ठे तथैव च ॥
मुष्टिसंस्था भुजद्वा च मुखतः परिवर्तिता ॥
वज्रक्रोधमहामुद्रागणः ।
वामांगुष्ठसुसंस्था तु मालाबन्धनियोजिता ॥
दक्षिणेनार्थदायी च खड्गमुद्राग्रमुष्टिगा ॥
महागनपतिमुद्रागणः ।
दक्षिणग्रस्तमुसला प्रसारितभुजस् तथा ॥
दक्षिणज्वाले संदर्श्य वज्रमुष्टिप्रकम्पिता ॥
दूतमहामुद्रागणः ।
सगर्वमुखडम्ष्ट्राग्रा दण्डघातप्रयोजिता ॥
बाहुसंकोचलग्ना च वज्रदक्षिणहारिणी ॥
चेटमहामुद्रा ।
अथोमादिमातृगणमुद्रा भवति ।
वामवज्रबन्धेन त्रिशूलांजं तु पीडयेत् ॥
अनया बद्धया सम्यक् सिद्ध्येद् विद्योत्तमः स्वयम् ॥
सर्ववज्रकुलानां तु वामवज्राग्रसंग्रहम् ॥
मुद्राबन्धं प्रवक्षामि समयानां यथाविधि ॥
चक्रसर्वाग्रसंपीडा घण्टामुद्रा तथैव च ॥
तथैवौंकारमुद्रा तु सिंहकर्णिपरिग्रहा ॥
मुद्रा राजनिका ज्वालापरिग्रहा चैव ॥
प्रभासंग्रहम् एव च ॥
दण्डमुष्टिग्रहा चैव मुखतः परिवर्तिता ॥
क्रोधसमयः ।
फणामुद्रा च माला च वज्रावस्तभ्यनामिका ॥
मूर्ध्नि स्था चैव गणिका मण्डलवद्वारफणिका ॥
गणिकासमयाः ।
बाहुसंकोचवक्त्रा च पृष्ठतः परिवर्तिता ॥
ज्वालास्फुलिंगमोक्षा च विदारितमुखस्थिता ॥
दूतसमयाः ।
द्व्यन्तप्रवेशितमुखी पीड्य चैव प्रपातिनी ॥
बाहुवेष्टनवेष्टा च सहसाहारिणी तथेति ॥
चेटासमया इति ॥
ततो महादेवादिजिह्वासु तद्मन्त्रं न्यस्य । अकारेण स्वहृदि तथैव वज्रं निष्पाद्य । तेषां मुद्रा बद्धाः कर्ममुद्रा भवन्ति । स्वहृदि पञ्चसूचिकवज्रं विभाव्य । महामुद्रा लेख्यानुसारतो बन्धनीय इति ।
ततो भगवन्तं वैरोचनं भद्रकल्पिकं बाह्यवज्रकुलानि च वज्ररत्नाभिषेकेनाभिषिञ्च्य । श्रीवज्रहुंकारादीन् पञ्चबुद्धमुकुटवज्रमालापटाभिःषेकैर् अभिषिञ्चेत् । ततो ऽर्घं दत्वा पूजां कुर्यात् । तत्र तावद् रत्नादिमयान् कलशान् पूर्वोक्तलक्षणान् वज्रादिस्वचिह्नकान् वैरोचनादिमन्त्रैर् अष्टोत्तरशतजप्तान् बाह्यमण्डलं बाह्यतो निवेशयेत् । पूर्णकुम्भाश् च वस्त्रयुगलक्षं दशसहस्रकं शतं प्रत्येकम् एकं वा सर्वसामान्यम् । नानाप्रकाराणि वितानानि चतुःकोणे विचित्रपताकावसक्तानि छत्रध्वजपताकाश् च । ओंकारेण श्रीवज्रहुंकारेण च परिजप्य । वज्रस्फरणम् इत्य् अनेन सर्वदेवतान् निर्यातयेत् । पुष्पवृक्षशतं चतुरो वा वृक्षान् सर्वपुष्पाणि च । वज्रानलेन मुद्रायुक्तेन ।
ओं वज्रपुष्पे हुं इति च पुष्पमुद्रयाभिमन्त्र्य । सर्वगन्धान् सुवासांश् च विलेपनसुगन्धकान् तथैव वज्रानलेन । ओं वज्रगन्धे हुं इत्य् अनया च गन्धमुद्रायुक्तया कर्पूरागुरुतुरुस्कानि चन्दनादिसंमिश्राणि । तथैव वज्रानलेन ओं वज्रधूपे हुं इत्य् अनया धूपमुद्रासहितया धूपघटिकालक्षं दशसहस्रं शतं यथालाभं वा प्रदीपलक्षं दशसहस्रं शतं सर्वप्रदीपान् प्रदीपवर्तिज्वलितयुक्तं कुण्डं सहस्रं च दशैकं वा । तथैव वज्रानलेन ओं वज्रालोके इत्य् अनया प्रदीपमुद्रायुक्तया परिजप्य । ओं वज्रस्फरणम् इत्य् उदीरयन् निर्यातयेत् । बल्युपहारं च लक्षं दशसहस्रं शतं दशसंख्यां वा स्वस्तिकम् आदितः कृत्वा नानाप्रकाराणि च भक्षाणि । तथैव वज्रानलेन परिजप्य ।
अकारो मुखं सर्वधर्माणाम् आद्यनुत्पन्नत्वाद् इत्य् उदीरयन् निर्यातयेत् । दशवाद्यसहस्राणि सहस्रशतं वाद्यानि दशवाद्यानि वा हुंकारेण वाद्यमुद्राभिर् वज्रमुष्टिभ्यां करांगुलिभिर् वाद्याभिनयदशप्रकाराः । तद्यथा वीणावंशामुरजामुकुन्दाकांसाभेरीमृदंगपटहगुंजातिमिलाभिनयश् चेति । वाद्यनटनर्तककुण्डलमुकुटादिपाजाश् च । ओंकारेणाभिमन्त्र्य । तथा पटावलम्बना कार्या स्रक् चामरविभूषिता । हारार्धहाररचितारचितार्धचन्द्रोपशोभिता । तुरंगहस्तिगोयूथा दातव्याश् च सुकल्पिताः ।
तोरणानि च रम्याणि घण्टादिसहितानि च । वज्रस्फरणम् इत्य् अनेन ।
ओं वज्रसत्त्वसंग्रहाद् वज्ररत्नम् अनुत्तरं वज्रधर्म गायनैर् वज्रकर्मकरो भवेद् इत्य् उदीरयन् । नृत्यं कृत्वा वज्रलास्याद्यष्टविधपूजाभिः क्रोधमुष्टिद्वययुक्तकर्ममुद्राभिः सर्वमण्डलं पूजयेत् । वज्रमुष्टिद्वयं बद्ध्वा तर्जनीद्वयं प्रसार्य क्रोधमुष्टिद्वयं भवति । पुनर् वज्रकुलमण्डलोक्तषोडशकर्ममुद्राभिर् अपि संपूज्य सर्वक्रोधकुलविज्ञप्तिं कुर्यात् । सर्वसत्त्वार्थं कुरुध्वं सर्वसिद्धय इति । ततो बाह्यबलिं दद्याद् उत्तरसाधकं मण्डले प्रतिष्ठाप्य । सलाजं सतिलं साम्भः सभक्तं कुसुमैह् सह सतिलकादिभक्तैश् चाकारादिना परिजप्य । पूर्वदिग्भागम् आरभ्य त्रिक्षेपां गन्धपुष्पधूपदीपार्घं चादाव् अन्ते दद्यात् । तत्र पूर्वं तावन् मण्डलानि कारयेत् । तत आवाहयेत् । ततः समयं दर्शयेत् । अर्घं च दत्वा गन्धादिभिः संपूज्य बलिं दद्यात् । ततो विसर्जयेद् इति ।
तत्रेमे मुद्रामन्त्रा भवन्ति ।
आलीढपदेन स्थितः । प्राङ्मुखो वामवज्रं दर्शयेत् । दक्षिणं कटिदेशे संधार्य तर्जन्यंकुश्यावाहयेत् । तर्जन्य् अंकुशरहिता । शक्रस्य समयमुद्रा ।
प्रत्यालीढपदेन स्थित्वावाहनमुद्रायस् तर्जनीं प्रसार्य विसर्जनमुद्रा । अथास्य मन्त्रः । नमो वज्रस्य दिशि वज्रपाणे रक्ष स्वाहा । दक्षिणकरतर्जनी कुण्डलाकारेण कुंचयित्वा मध्यमासूच्यास् तृतीयपर्वे धारयेद् अंगुष्ठकं च करमध्ये । अग्नेर् आवाहनमुद्रा ।
आवाहनमुद्राया अंगुष्ठं तर्जनीपार्श्वश्रितम् । अग्नेः समयमुद्रा । अस्या एव मुद्रायाः करमध्ये ऽभिमुखाव् अंगुष्ठतर्जनीनखाव् एकतो योज्यौ विसर्जनमुद्रा ।
मन्त्रः ।
अग्ने एहि एहि कपिल ज्वल ज्वल दह शिखितो लोल विरूपाक्ष स्वाहा ।
याम्याम् अभिमुखो योगी । अभिमुखकरौ कृत्वाभ्यन्तरवज्रबन्धे मध्ये ऽंगुष्ठयुगलं बहिर् अनामिकाद्वयासक्तसूची पुनर् अभ्यन्तरे धारयेत् । यमस्यावाहनमुद्रा । अनामिकाम् पुनर् बाह्यतः सूचीं तथैव कृत्वा । हृदये धारयेत् । समयमुद्रा । अनयैवानामिकासूच्या विसर्जनं भवति ।
अस्य । मन्त्रः । यमाय स्वाहा ।
नैरृत्याम् अभिमुखः समपदस्थितो दक्षिणकरमुष्टिम् कृत्वा । मध्यमातर्जन्याव् एवम् आकुंच्य धारयेत् खड्गाकारेण संस्थाप्य वामकरं कटिदेशे धारयेत् । वामतर्जनीं कुंचयित्वा । नैरृत्येर् आवाहनमुद्रा ।
अस्या एव मुद्राया वामकरं कटिदेशे ऽवस्थितं खड्गमुद्रा । नैरृतेः समयमुद्रा । आवाहनमुद्रायास् तर्जनीम् प्रसार्य विसर्जनमुद्रा । मन्त्रो ऽस्य । सर्वभूतभयंकरम् कुरु कुरु स्वाहा ।
वारुण्यां दिशि समपदस्थितो दक्षिणकरतर्जन्यंगुष्ठाव् एकतो योजयेद् वाममुष्टिं हृदि संधार्य वामतर्जन्यंकुशेनावाहयेत् । वरुणस्यावाहनमुद्रा । अस्या एव वामतर्जनीमुष्टियोगतो धारयेत् पाशमुद्रा । आवाहनमुद्रायास् तर्जनीं प्रसार्य विसर्जनमुद्रा । मन्त्रो ऽस्य । तृतृपुट तृतृशिखितोलि विरूपाक्ष स्वाहा ।
वायव्यां दिश्य् अभिमुखं स्थित्वा वामकरमध्यमा सूचीमुक्ता तर्जनी कुण्डलाकारेण तृतीयपर्वे संदध्याभिमुखं प्रसारयेद् दक्षिणकरं कटिदेशे संस्थाप्य । कुंचितांगुष्ठेन वायोर् आवाहनमुद्रा । अस्या च्वांगुष्ठं पूर्ववत् संधार्य वायोर् समयमुद्रा । आवाहनमुद्राया अंगुष्ठं प्रसार्य विसर्जनमुद्रा । मन्त्रः । ओं श्वस खाखे खुखः स्वाहा ।
कौबेर्यभिमुखं स्थितः करद्वयम् अभिमुखं कृत्वाभ्यन्तरवज्रबन्धं कनिष्ठाद्वयसूचीं तस्याः पृष्ठतो ऽनामिकायुगलं पृथक् संधार्य मध्यमासूचीं वज्राकारेण नामयेत् कुबेरावाहनमुद्रा । अस्या एव मुद्राया मध्यमाद्वयम् अभ्यन्तरवज्रबन्धयोगतो न्यस्य कुबेरस्य समयमुद्रा । आवाहनमुद्राया मध्यमाद्वयं प्रसार्य विसर्जनमुद्रा । मन्त्रो ऽस्य । ओं कुबेराय स्वाहा ।
ऐशान्यां दिश्य् अभिमुखं स्थित्वा कराव् एकतो योज्यांजलिं कृत्वा कन्यसानामिकातलवज्रबन्धं कृत्वांगुष्ठयुगलं मध्यमाश्रितं मध्यमासूच्यो बहिर् वज्राकारेण तर्जनीद्वयं न्यस्य तद् एवाकुंच्योपरि परस्परनखासक्तं कुर्याद् ईशानावाहनमुद्रा । अस्या एव तर्जन्यौ पूर्ववद् वज्राकारेण धारयेद् ईशानसमयमुद्रा । आवाहनमुद्रायास् तर्जन्यौ प्रसार्य विसर्जनमुद्रा ।
मन्त्रः । ओं जुं जुं शिव स्वाहा ।
प्रत्यालीढस्थानस्थो ऽंजल्याकारेण हस्तौ संधार्य । ऊर्ध्वं दृष्ट्वा तर्जनीद्वयांकुश्या ब्रह्मादीनां आवाहनमुद्रा । अस्या एव तर्जनीद्वयं पूर्ववत् संस्थाप्य समयमुद्रा । आवाहनमुद्रायास् तर्जनीद्वयं प्रसार्य विसर्जनमुद्रा । मन्त्रास् तेषाम् । ओं ऊर्ध्वं ब्रह्मणे स्वाहा । ओं सूर्याय ग्रहाधिपतये स्वाहा । ओं चन्द्राय नक्षत्राधिपतये स्वाहा ।
समपदं स्थानम् आस्थाय हस्तद्वयम् एकतो योज्याविचलान्योन्य् आंगुल्यग्रा सम्योज्यांगुष्ठौ वर्तुलाकारेणाधोदृष्टिं कृत्वा पृथिव्यादीनां तर्जन्यंकुशाभ्याम् आवाहनम् । तर्जन्यौ पूर्ववद् व्यवस्थाप्य समयमुद्रा । आवाहनमुद्रायाः प्रसारिततर्जनीभ्यां विसर्जनमुद्रा । मन्त्रः । ओम् अधः पृथिव्यै स्वाहा । ओं असुरेभ्यः स्वाहा । ओं नागेभ्यः स्वाहा ।
तत आचमनं स्वमन्त्रैर् एव सर्वेषां दत्वा । सशिष्यगणस्य ममाविघ्नं कुरुत कर्मसिद्धिं च मे प्रयच्छ । इत्य् उक्त्वा सर्वान् विसर्जयेद् इति ।
अथ सुबाहुपरिपठितगाथाभिर् बलिं दद्यात् ।
देवासुराः सर्वभुजंगसिद्धाः ॥
तार्क्षाः सुपर्णाः कटपूतनाश् च ॥
गन्धर्वयक्षा ग्रहजातयश् च ॥
ये केचिद् भूमौ निवसन्ति दिव्याः ॥
न्यस्तैकजानुः पृथिवीतले ऽस्मिन् ॥
कृतांजलिर् विज्ञापयामि तांस् तु ॥
सपुत्रदारैः सह भृत्यसंघैः ॥
श्रुत्वा इहायान्तु अनुग्रहार्थम् ॥
ये मेरुपृष्ठे निवसन्ति भूताः ॥
ये नन्दने ये च सुरालयेषु ॥
ये चोदयास्ते रविमण्डले च ॥
नगरेषु सर्वेषु च ये वसन्ति ॥
सरित्सु सर्वासु च संगमेषु ॥
रत्नालये चापि कृताधिवासाः ॥
वापीतटागेषु च पल्वलेषु ॥
कूपेषु वप्रेषु च निर्झरेषु ॥
ग्रामघोषेषु सुरकानने वा ॥
शून्यालये देवगृहेषु ये च ॥
विहारचैत्यावसथाश्रमेषु ॥
मठेषु शालासु च कुञ्जराणाम् ॥
ये भूभृतां चित्रगृहे वसन्ति ॥
रथ्यासु वीथीषु च चत्वरेषु ॥
ये चैकवृक्षेषु महापथेषु ॥
महाश्मशानेषु महावनेषु ॥
सिंहेभ ऋक्षाध्युषितेषु ये च ॥
वदन्ति घोरास् महाटवीषु ॥
द्वीपेषु दिव्येषु कृतालयाश् च ॥
मेरौ श्मशाने निवसन्ति ये च ॥
हृष्टाः प्रसन्नाः स्रजगन्धमाल्यम् ॥
धूपं बलिं द्xपं विधिं च भक्त्या ॥
गृह्णन्तु भुंजन्तु पिबन्तु चेदम् ॥
इदं च कर्मं सफलं जुषन्तु ॥
एवं तु कृत्वा ग्रहपूजनं तु ॥
दिगर्चनं त्व् एकमना प्रकुर्या ॥
इन्द्रा तु वज्री सह देवसंघैः ॥
इमां च गृह्णन्तु बलिं विशिष्टम् ॥
अग्निर् यमो नैरृतिर् भूपतिश् च ॥
अपां पतिर् वायुधनाधिपतिः ॥
ईशानभूताधिपतिश् च देवाः ॥
ऊर्ध्वं तु चन्द्रो ऽर्कः पिता महांश् च [।
देवाः समस्ता भुवि ये च नागाः ॥
धराधरा गुह्यगणैः समेताः ॥
प्रतिप्रतित्वेकनिवेदनं तु ॥
स्वकस्वकाश् चैव दिशासु भूताः ॥
गृह्णन्तु तुष्टाः सबलाः ससैन्याः ॥
सपुत्रमित्रस्वजनैः समेताः ॥
धूपं बलिं दीपं पुष्पविलेपनं च ॥
भुंजन्तु जिघ्रन्तु पिबन्तु चेदम् ॥
इदं च कर्मं सफलं जुषन्तु ॥ इति ।
तत्रायं सबाह्याभ्यन्तरे बलिप्रदानमन्त्रः । अकारो मुखं सर्वधर्माणाम् आद्यनुत्पन्नत्वाद् इति ।
ततो पस्पृश्य पूर्वद्वाराभिमुखावस्थितः सर्वकर्मिककुण्डमध्ये श्रीत्रैलोक्यविजयमण्डलसर्वदेवतामन्त्रान् उदाहरन् कुसुमैर् निवेश्य । होमविधिना श्रीवज्रहुंकारमन्त्रेणाष्टोत्तरशतं गोघृतेनाहुतिं दद्यात् । श्रीवैरोचनादिमन्त्रैर् अपि वज्रावेशक्रोधपर्यन्तैः सप्तसप्ताहुतिः पुनः ।
ततो यथावद् अग्निकुण्डे वैरोचनादीन् पुष्पैर् अवाकृष्य वैरोचनादिमन्त्रैर् आलिखिते मण्डले स्वस्थानेषु निवेशयेत् ।
ततः सर्वतथागतान् प्रणम्य ।
अहम् अमुकनाम्ना च वज्राचार्यो महातपाः ॥
शिष्यान् प्रवेशयिष्यामि सर्वसत्त्वहितार्थतः ॥
अत्र च मण्डलप्रवेशे पात्रापात्रपरीक्षा न कार्या । तत् कस्य हेतोः । सन्ति भदन्तस् तथागताः केचित् सत्त्वा महापापकारिणस् त इदं वज्रहुंकारमण्डलं दृष्ट्वा प्रविष्ट्वा च सर्वापायविगता भविष्यन्ति ।
सन्ति भगवन्तः सत्त्वाः सर्वार्थभोजनकामगुणगृद्धाः समयद्विष्टाः पुरश्चरणादीष्टाशक्तास् तेषाम् अप्य् अत्र यथाकामकरणीया प्रविष्टानां सर्वाशापरिपूर्तिर् भविष्यति ।
सन्ति च भगवन्तः सत्त्वा नृत्यगीतहास्यलास्याहारविहारप्रियतया सर्वतथागतमहायानधर्मतानवबोधाद् अन्यदेवकुलमण्डलानि प्रविशन्ति । सर्वाशापरिपूर्तीसंग्रहभूतेषु निरुत्तररतिप्रीतिहर्षसंभवकरेषु सर्वतथागतकुलमण्डलेषु शिक्षाभयभीतान् न प्रविशन्ति । तेषाम् अपायमण्डलप्रवेषे यथावस्थितसुखात्मसमयम् एव वज्रहुंकारमण्डलप्रवेशो युज्यते । सर्वरतिप्रीत्युत्तमसुखसौमनस्याभिवर्द्धनार्थं सर्वापायगतिप्रवेशाभिमुखपथविनिवर्तनाय च । सन्ति च पुनर् भगवन्तो धार्मिकाः सत्त्वाः सर्वतथागतशीलसमाधिप्रज्ञोत्तमसिद्ध्युपायैर् बुद्धबोधिं प्रार्थयन्तो ध्यानविमोक्षादिभिर् भूमिभिर् यत्नतः क्लिष्यन्ते । तेषाम् अत्रैव वज्रहुंकारमण्डलेप्रवेशमात्रेणैव सर्वतथागतत्वम् अपि न दुर्लभम् । किम् अंग पुनर् अन्यसिद्धिर् इति विज्ञापयेत् । ततः शिष्यान् प्रवेशयेत् । तत्र पञ्चशिक्षापदपरिगृहीतेन श्रामणेरकभिक्षुसंवरगृहीतेन वा । आचार्याभिषेकार्हे नाचार्यपादयोः प्रणिपत्यैवं वक्तव्यम् । त्वं मे शास्ता महारतः ॥
इच्छाम्य् अहं महानाथ महाबोधिनयं दृढम् ॥
देहि मे समयतत्त्वं संवरं च ददस्व मे ॥ इति ।
ततो वज्रयक्षपरिजप्तं नीलवस्त्रनिवसनोत्तरीयं वज्रांकुशादिद्वारपालचतुष्टयपरिजप्तं मुखवेष्टनं शिष्यं कृत्वा चतुःप्रणामं कारयेत् ।
पुनः पुष्पकरेण शिष्येणाचार्यं पुष्पकरेणैव देशनानुमोदनाध्येषणायाचनां च कृत्वा वक्तव्यम् ।
देहि मे संवरं विभो ॥
समन्वाहरन्तु मां बुद्धा अशेषा मुनिभास्कराः ॥
अहम् अमुकनाम्ना वई आचार्यसमक्षं स्थितः ॥
प्रविशामि महागुह्यं बुद्धनाटकसंभवम् ॥
अवैवर्तिकचक्राद्यं महामोक्षपुरं वरं ॥
प्रवेश मां महाचार्य सर्वगुह्यकुलोच्चयम् ॥
ददस्व मे महाभागं अवैवर्त्यभिषेचनं ॥
ददस्व मे महाचार्य लक्षणस्यानुमोदनं ॥
अनुव्यञ्जनसंयुक्तं बुद्धकायं मनोरमम् ॥
ददस्व मे महाचार्य अभिषेकं महाद्भुतम् ॥
आचार्यो ऽहं भवेन् नित्यं सर्वसत्त्वार्थकारणात् ॥
तत आचार्येण सर्वकुलविज्ञप्तिः कार्या ।
अयं एवामुकनाम्ना बोधिचित्तपरिग्रहः ॥
इच्छते गुह्यचक्रे ऽस्मिन् प्रवेष्टां समयसंवरम् ॥
तत आचार्येण वक्तव्यम् ।
इच्छसे त्वं महात्मन् महागुह्यकुलं शुद्धं रहस्यं परिग्र्ह्णितुम् ।
बुद्धं धर्मं च सङ्घं च त्रिरत्नशरणं व्रज ॥
एतद् बुद्धकुले रम्ये संवरं भवते दृढम् ॥
वज्रं घण्टा च मुद्रा च त्वया ग्राह्या महामते ॥
यद् बोधिचित्तं तद् वज्रं प्रज्ञा घण्टा इति स्मृता ॥
आचार्यश् च गृहीतव्यः सर्वबुद्धसमो गुरुः ॥
एतद् वज्रकुले शुद्धे संवरं समयोच्यते ॥
चतुर्दानं प्रदातव्यं त्रिदिवे च त्रिरात्रिके ॥
आमीषाभयधर्माख्या मैत्री रत्नकुलोच्चये ॥
सद्धर्मं च त्वया ग्राह्यं गुह्यं त्रियानिकम् ॥
एतत् पद्मकुले शुद्धे संवरं समयोच्यते ॥
संवरं सर्वसंयुक्तं परिगृह्णीष्व तत्त्वतः ॥
पूजाकर्म यथाशक्त्या महाकर्मकुलोच्चये ॥
एतत् पाराजिकाख्याताश् चतुर्दशम् अतः परम् ॥
न त्याज्यं न च क्षेप्तव्यं मूलापत्तिर् इति स्मृतम् ॥
त्रिदिवे च त्रिरात्रौ च वर्तितव्यं दिने दिने ॥
यदा हानिर् भवेद् योगी स्थूलापत्त्यो भविष्यति ॥
प्राणिनश् च न ते घात्या अदत्तं नैव चाहरेत् ॥
नाचरेत् काममिथ्यायां मृषा नैव च भाषयेत् ॥
मूलं सर्वस्यानर्थस्य मद्यपानं विवर्जयेत् ॥
अक्रियां वर्जयेत् सर्वां सत्त्वार्थं विनयेन च ॥
साधूनाम् उपतिष्ठेत योगिनां पर्युपासनम् ॥
त्रिविधं कायिकं कर्म वचसा च चतुर्विधम् ॥
मनसा त्रिप्रकारं च यथाशक्त्यानुपालयेत् ॥
मनसा त्रिप्रकारं च यथाशक्त्यानुपालयेत् ॥
हीनयानस्पृहा नैव सत्त्वार्थं विमुखं न च ॥
न संसारपरित्यागी न निर्वाणरतिः सदा ॥
अपमानं न ते कार्यं देवता न च गुह्यके ॥
न च चिह्नं समाक्रम्यं मुद्रा वाहनम् आयुधम् ॥
एतत् समयम् इत्य् उक्तं रक्षितव्यं त्वया मते ॥
तस्यैव चापि वक्तव्यं आचार्य तु शृणुष्व मे ॥
एवम् अस्तु करिष्यामि यथा ज्ञापयसे विभो ॥
उत्पादयामि परमम् इत्यादि यावत् सर्वान् स्थापयिष्यामि निर्वृताव् इति ।
यस् तु संवरं न गृह्णाति तस्य प्रवेशमात्रम् एव दातव्यम् ।
अद्य त्वम् इत्यादि न ब्रूयाद् आचार्याभिषेकं च न कुर्यात् ।
ततः । ओं सर्वयोगचित्तम् उत्पादयामीत्य् अनेन ।
उत्पादयित्वा परमं बोधिचित्तम् अनुत्तरम् ॥
वज्रम् अस्य प्रतिष्ठाप्य हृदये हृदयेन तु ॥
सुरते समयस् त्वं होः वज्रसिद्धि यथासुखम् ॥ इत्य् अनेन ।
ततस् तं वज्रहुंकारम् अधिष्ठाय गन्धपुष्पादिभिर् अभ्यर्च्य स्रग्विनं सुरभिताननं च कृत्वोत्तमां दक्षिणाम् आदाय बहिः स्थितकलशोदकेनाभिषिञ्च्य । ओं गृह्ण वज्रसमय हुं वं इत्य् अनेन क्रोधतेरिन्तिरीं स्वयं बद्ध्वा शिष्येन बन्धयेत् ।
वज्रबन्धं तले कृत्वा छादयेत् क्रुद्धमानसः ॥
गाढम् अंगुष्ठवज्रेण क्रोधतेरिन्तिरी स्मृता ॥
ततस् तयैवांगुस्थाभ्यां पुष्पमालां ग्राहयित्वा प्रवेशयेद् अनेन हृदयेन । ओं वज्रसमयं प्रविशामीति । पूर्वद्वारे च वज्रांकुशेन तम् आकर्षयेत् । दक्षिणेन पाशेन प्रवेशयेत् । पश्चिमेन स्फोटेन बध्नीयात् । उत्तरे वज्रावेशेन वेशयेत् । पुनः पूर्वद्वारेण प्रवेश्यैवं वदेत् । अभ्यर्च्य सर्वतथागतकुले प्रविष्टस् तद् अहं तु वज्रज्ञानम् उत्पादयिष्यामि । येन ज्ञानेन सर्वतथागतसिद्धिर् अपि प्राप्स्यसे । किम् अन्या सिद्धिः । न च त्वयादृष्टमण्डलस्य पुरतो वक्तव्यम् । मा ते समयो व्यथेद् इति ।
ततः स्वयं वज्राचार्यः क्रोधतेरिन्तिरीम् एवं ऊर्ध्वमुखीं बद्ध्वा वज्रं शिष्यस्य मूर्ध्नि स्थाप्यैवं वदेत् । अयं ते समयवज्रो मूर्ध्निं ते स्फारयेद् यदि त्वं कस्यचिद् ब्रूयाः । ततस् तयैव समयमुद्रयोदकं शयथा हृदयेन सत्कृत्य परिजप्य तस्मै वज्रशिष्याय पाययेद् इति । तत्रेदं शयथा हृदयम् ।
वज्रसत्त्वः स्वयं ते ऽद्य हृदये समवस्थितः ॥
निर्भिद्य तत् क्षणं यायाद् यदि ब्रूया इमं नयम् ॥
वज्रोदक । इति । ततः शिष्याय ब्रूयाद् अद्य प्रभ्त्ति ते ऽहं वज्रपाणिर् यद् अहं ब्रूयाम् इदं कुरु तत् कर्तव्यं न च त्वयाहम् अवमन्तव्यो मा ते विषमापरिहारेण कालक्रियां कृत्वा नरके पतनं स्याद् इति ।
तद् अनु अकारं वज्ररश्मिमालायुक्तं स्वहृदि चिन्तयेत् । ततः शिष्यहृदूर्णाकण्ठमूर्ध्निषु चन्द्रमण्डलस्थपञ्चसूचिकं ज्वालावज्रं रत्नं पद्मं विश्ववज्रं च चिन्तयेत् । एभिर् यथाक्रमेण हुं त्रं ह्रीः अः इति ।
कपाटोद्घाटनमुद्रया स्वकीयं शिष्यहृदयं चोद्घाट्य स्वहृदयाद् अकारं निश्चार्य शिष्यहृद्गतवज्रमध्ये बुद्ध्या प्रवेश्य सर्वकायम् आपूर्यमाणं चिन्तयेत् । एवं वदेत् । ब्रूहि सरतथागताश् चाधिष्ठन्तां वज्रसत्त्वो मे आविशतु । ततस् वर्तमानेन ब् वज्राचार्येण क्रोधतेरिन्तिरीं बद्ध्वेदम् उच्चारयितव्यम् । अयन् तत् समयवज्रं वज्रसत्त्व इति स्मृतम् ॥
आवेशयतु ते ऽद्यैव वज्रज्ञानम् अनुत्तरम् ॥
वज्रावेश अः इति । 10 । 20 । 30 । 40 । 50 । 60 । 70 । 80 । 90 । 100 वारानुच्चार्य नियतम् आविशति ।
ततः क्रोधमुष्टिं बद्ध्वा सत्त्ववज्रीमुद्रां स्फोटयेद् इदम् उदीरयेत् ।
ओं सुम्भनि सुम्भनि हुं । ओं गृह्ण गृह्ण हुं । ओं गृह्णापय गृह्णापय हुं ।
ओं आनय होः भगवन् वज्रराज हुं फट् । अः अः अः अः । 10 । 20 । 30 । 40 । 50 । 60 । 70 । 80 । 90 । शतवारान् उच्चारयेत् । भगवता च वज्रवातमण्डल्या च वज्रहुंकारेण रक्तवर्णज्वालाप्रभेणापार्यमाणं चिन्तयेत् । पुनर् अपि यद्य् आवेशो न भवति । ततो घण्टासहितां वज्रावेशसमयमुद्रां बद्ध्वा वामपादेन तस्य दक्षिणपादम् आक्रंयोपर्य् आकाशदेशे वैरोचनं श्रीवज्रहुंकारस्योपरि तस्यैवावेशनाय क्रुद्धहुंकाररश्मिसमूहेनाक्रम्यमाणम् अधस्ताच् च वज्रवातमन्दल्या हुंकारेणोत्थाप्यमानम् एवं पूर्वादिदिक्ष्थितैर् अक्षोभ्यादिभिः । हुं त्रां ह्रीः इति स्वबीजरश्मिव्यूहैः संपात्यमानं चिन्तयंस् तम् आवेशयेत् । हुं वज्रावेश अः शतधो च्चारयेत् ।
अथ पापबहुत्वाद् आवेशो न भवति । तदा पापस्फोटनमुद्रया ( स्द्प् 294 ) तस्य पापानि स्फोटयेत् । ततः ।
समिद्भिर् मधुरैर् अग्निं प्रज्वाल्य सुसमाहितः ॥
निर्दहेत् सर्वपापानि तिलहोमेन तस्य तु ॥
ओं सर्वपापदहनवज्राय स्वाहा । इति दक्षिणहस्ततले कृष्णतिलैः पापप्रतिकृतिं कृत्वा हुंकारं मध्ये विचिन्त्य । तर्जन्यंगुष्ठाभ्यां होमयेत् । ततो होमकुण्डान् निर्गत्य ज्वालाकुलैर् वज्रैस् तस्य शरीरे पापं दह्यमानं चिन्तयेत् । ततः पुनर् वज्रावेशं तथैवं बद्ध्वावेशयेत् । नियतम् आविशति । एवम् अपि यस्यावेशो न भवति तस्याभिषेकं न कुर्याद् इति । आविष्टस्य च पञ्चाभिज्ञादिनिष्पत्तिस् तत् क्षणाद् एव भवति । ततः समाविष्टं ज्ञात्वा पुनः । ओं वज्रसत्त्वसत्त्वसंग्रहादिगीतिम् उच्चार्य । क्रोधमुष्ट्या तथैव सत्त्ववज्रीमुद्रां स्फोटयेत् । स चेद् आविष्टो वज्रसत्त्वक्रोधमुद्रां बध्नीयात् । तदाचार्येण वज्रमुष्टिं क्रोधमुद्रां बध्नियात् । एवं यावत् स चेत् वज्रहासमुद्रां बध्नीयात् । तदा वज्रधर्मक्रोधमुद्रां बन्धयेद् इत्य् एवं सांनिध्यं कल्पयन्ति । ततस् तस्य जिह्वायां वज्रं विचिन्त्य । ब्रूहि वज्र । इति वक्तव्यम् । ततः सर्वं कथयति । ततस् तां मालां महामण्डले क्षेपयेत् । प्रतिच्छ वज्र होः । इति । ततो यत्र पतति सो ऽस्य सिद्ध्यति । ततस् तां मालां तस्यैव शिरसि बन्धयेत् । ओं प्रतिगृह्ण त्वम् इमां वज्रसत्त्व महाबल । इति । ततो मुखबन्धं मुञ्चेद् अनेन ।
ओं वज्रसत्त्वः स्वयं ते ऽद्य चक्षूद्घाटनतत्परः ॥
उद्घाटयति सर्वाक्षो वज्रचक्षुर् अनुत्तरम् ॥ इति । हे वज्र पश्य । इति । ततो महामण्डलवज्रांकुशाद् आरभ्य यावद् वैरोचनपर्यन्तं दर्शयेत् । ततस् तिष्ठ वज्रेत्यादिना शिष्यप्रवेशमुद्रां मोक्षयेत् ।
ततो बाह्यमण्डलाभ्यन्तरे चन्द्रमण्डलं पूर्वद्वाराभिमुखं संलिख्य बाह्यतो वा शिष्यं श्रीवज्रहुंकारमुद्रया सत्त्ववज्रादिभिश् चाधिष्ठाय महामुद्रया ततः प्रतिष्ठाप्याभिषिञ्चेत् ।
गन्धपुष्पादिभिर् अभ्यर्च्यार्घं दत्वा । छत्रध्वजपताकादिभिस् तुर्यशंखनिनादितैश् च ।
ततो मअलगाथाभिर् अभिनन्द्यादौ तावद् उदकाभिषेकेन ततो मुद्राभिषेकेन मुकुटपत्टवज्राधिपतिनामाभिषेकैश् चाभिषिञ्चेत् । पुनः पुष्पादिभिर् लास्याद्यष्टविधपूजया च पूजयेत् । शिष्येनाचार्यं वलितवज्रांजलिना प्रणम्योत्तमां दक्षिणां दत्वा पुष्पाद्यभिषेकाश् च ग्राह्या इति । आचार्याभिषेकं तु श्रीवज्रहुंकारमुद्रया तथैव प्रतिष्ठाप्य यथा निर्दिष्टेषु स्थानेषु समयमुद्राभिस् तस्य काये श्रीवज्रहुंकारादीन् न्यस्य । पुनर् अपि अनेनाष्टोत्तरशतसहस्रपरिजप्तं विजयकलशं कृत्वा ।
ओं वज्राधिपति त्वाम् अभिषिञ्चामि दृढो मे भव जः हुं वं होः हुं फट् इति । तत इमं चोदीरयन् । ओं वज्राभिषिञ्च । इति चोदकाभिषेकं वज्रमुष्टिनोदकं विजयकलशाद् गिहीत्वा दद्याद् इदं च ब्रूयात् ॥
इदं ते नारकं वारि समयातिक्रमाद् दहेत् ॥
समयाभिरक्षात् सिद्धिः सिद्धं वज्रामृतोदकम् ॥
वज्रघण्टां च मुद्रां च यद्य् अमण्डलिनो वदेत् ॥
हसेद् वाश्रद्धदानेन जनसंगणिकास्थितः ॥ इति ।
ततः सर्वविधिम् अनुष्ठाय नामाष्टशतेन संस्तुत्य गाथापञ्चकेनानुज्ञां दत्वोद्गतन्व्याकरणेन सर्वशिष्यान् सर्वशिष्यान् व्याकुर्याद् इति ।
अथ गुह्याभिषेको भवति । आचार्याभिषेकार्हं प्रवेश्य सर्वमण्डलं तु तत् कुरुस्व । इति ।
अनेककर्मसंसिद्धिं सिद्धिम्. चापि यथेप्सिताम् ॥
प्राप्नोति नियतं कृत्स्नाम् अधमोत्तममध्यमाम् ॥
निर्विघ्नेन परां भूमिं किं पुनः क्षुद्रसिद्धयः ॥
बुद्धत्वं बोधिसत्त्वत्वं वज्रसत्त्वत्वम् अदुर्लभम् ॥ इति ।
यस्य सिद्धिर् निर्जायते यस्य पापा महाग्रहाः ॥
विघ्ना विनायकाश् चापि मृत्यवो मारकायिकाः ॥
नानाभयशस्त्रैस् तीव्राः सिद्धिकर्मविधारिणः ॥
ते तस्य नश्यन्ति नापि जायन्ते च महोत्तमा ॥
होमकर्मविधानेन ध्रुवम् आशु प्रसिद्धयः ॥
मूल पाठ: Sarvadurgatipariśodhanatantra · Edition: Tadeusz Skorupski: The Sarvadurgatiparisodhana Tantra, Elimination of All Destinies, Sanskrit and Tibetan Texts with Introduction, English Translation and Notes. Delhi 1983. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0