सर्वदुर्गतिपरिशोधनतन्त्र · भाग 4142
देवताश् च महातुष्टीं प्रलभन्ति क्षणेन च ॥
ईत्युपद्रवदोषादि दूरं गुरुतरं भृशम् ॥
नश्यन्ति तत्र देशे ऽस्मिन् व्याधिज्वरग्रहादिकम् ॥
परचक्रा विनश्यन्ति दुर्भिक्षाश् च सरौरवाः ॥
देवा नागा महोत्साहाः पालयन्ती सुखेन तु ॥
चतुरश् च महाराजाः पालयन्ति महर्द्धिकाः ॥
लोकपालाः सनक्षत्रा यक्षाश् चापि ग्रहादिकाः ॥
अथ शक्रब्रह्मादयो देवाः प्रणिपत्य मुहुः ॥
पूजां नानाविधां कृत्वा रत्नछत्रादिभिर् वराम् ॥
वज्रपाणिं जिनाधृष्टं संस्तुवुर् मुदिताश्रयाः ॥
सर्वबुद्धादिसंबुद्धं सर्वाज्ञानमलापहम् ॥
वज्रवज्रधरो राजा वज्रवज्रसवज्रधृक् ॥
वज्रकायो महाकायो वज्रपाणिर् नमो नमः ॥
वज्रवज्राग्रवज्राग्रो वज्रज्वालो महाज्वलः ॥
वज्रावेशो महावेशो वज्रायुधो महायुधः ॥
वज्रपाणिर् महापाणिर् वज्रवाणः सुवेधकः ॥
वज्रतीक्ष्णो महातीक्ष्णो महामहान् महोदधिः ॥
वज्रपद्मो महाबोधो बौधिबुद्धः स्वयं भुवः ॥
वज्रोदारो महोदारो वज्रमायाविशोधकः ॥
वज्रहेतुर् महायक्षो वज्रपद्मविशोधकः ॥
वज्रक्रोधो महाचण्डो वज्रारिदुष्टहा विभुः ॥
वज्रभीमो महारक्षो वज्रांकुशश् चामोघकृत् ॥
वज्रवेतालो वेतालो वज्रराक्षसभक्षकः ॥
वज्रयक्षो महायक्षो वज्रग्रहो ग्रहोत्तमः ॥
भीषणो रौद्रो रुद्रो भैरवभीकरः ॥
असाध्यः साधकः साधुः वज्रसाधुप्रहर्षकः ॥
वज्रप्रीतिर् महाप्रीतिर् वज्रायुधवशं करः ॥
वज्रतेजो महातेजो ज्वालाप्रभयमान्तकृत् ॥
वज्रघोरो महाघोरो घनप्रभो महाघनः ॥
आकाशसमसर्वाशः सर्वाशापरिपूरकः ॥
वज्राभिषेकतत्त्वाग्रो वज्रध्वजो गुणोदधिः ॥
वज्रज्ञानं महाज्ञानं विद्याकोटिगणार्चितः ॥
हालाहलमहाकालः कोलाहलविलासकः ॥
वज्रकामो महाकामः कषायकरिनाशकः ॥
वेलाचपलदोलाग्रो विद्युज्जिह्वास्फुरद्मुखः ॥
वज्रानलो प्रचण्डास्यश् चन्दप्रद्योतद्योतकः ॥
सहस्रसूर्यप्रभास्यो लोहिताक्षो भयानकः ॥
क्रोधानेकस्फरद्रश्मिर् भुजानेकशतायुधः ॥
मुखानेकसहस्रांगः कुटिलः कुटिलांगकः ॥
अनंगश् चित्तधर्मात्मा विकल्पाशेषवर्जितः ॥
अविद्याघातको ब्रह्मा रागद्वेषमलान्तकः ॥
रागो द्वेषो महामोहो भवाभवविशोधकः ॥
शान्तो दान्तो महाशुद्धो बुद्धो बुद्धप्रबोधकः ॥
बुद्धात्मा बुद्धरूपी च वज्रसत्त्वः सुवज्रजः ॥
समन्तभद्रो महाभद्रः सर्वलक्षणलक्षितः ॥
सर्वधातुमयो व्यापी सर्ववज्रमयः शुचिः ॥ इति ।
येन लिखेत् पठेद् वापि धारयेद् अर्थतः सदा ॥
स्मरेत् शृणुयाद् वापि वज्रपाणिसमो भवेत् ॥ इति ।
इदम् अवोचद् भगवान् आत्तमनः । शक्रब्रह्मादिदेवपर्षत् सदेवमानुषासुरगन्धर्वयक्षसादिभिर् हितसुखप्राप्तये भगवतो भाषितम् अभ्यनन्दन् इति ॥
आर्यसर्वदुर्गतिपरिशोधनतेजोराजस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य कल्पैकदेशः समाप्तः ॥
मूल पाठ: Sarvadurgatipariśodhanatantra · Edition: Tadeusz Skorupski: The Sarvadurgatiparisodhana Tantra, Elimination of All Destinies, Sanskrit and Tibetan Texts with Introduction, English Translation and Notes. Delhi 1983. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0