भाषा

ENहिગુ
ग्रंथ पाठ

सर्वदुर्गतिपरिशोधनतन्त्र · भाग 120

इ
ओं नमः श्रीवज्रसत्त्वाय ।
एवं मया श्रुतम् एकस्मिन् समये भगवान् सर्वदेवोत्तमनन्दवने विहरति स्म । मणिसुवर्णशाखालताबद्धवनस्पतिगुल्मौषधिकमलोत्पलकर्णिकारबकुलतिलकाशोकमान्दारवमहामान्दारवादिभिर् नानाविधैः पुष्पैर् उपशोभिते । कल्पवृक्षसमलंकृते । नानालंकारविभूषिते । नानापक्षिगणकूजिते । तूर्यमुकुन्दवेणुभेरीप्रभृतिप्रणदिते । शक्रब्रह्मादिदेवाप्सरोभिर् नानाविधाभिर् विक्रीडिते । सर्वबुद्धबोधिसत्त्वाधिष्ठिते । सर्वशक्रब्रह्मादिदेवविद्याधरदेवाप्सरःपर्षत्कोटीनियुतशतसहस्रैर् अनेकयक्षराक्षसासुरगरुडगन्धर्वकिन्नरमहोरगनागादिपर्षद्भिर् नानाविधाभिर् महाबोधिसत्त्वकोटीशतसहस्रैर् अष्टाभिः ।
तद्यथा ।
प्रतिभानमतिना च बोधिसत्त्वेन महासत्त्वेन । अचलमतिना च । विपुलमतिना च । समन्तमतिना च । अनन्तमतिना च । असमन्तमतिना च । कमलमतिना च । महामतिना च । दिवामतिना च । विविधमतिना च । अशेषमतिना च । समन्तभद्रेण च । एवं प्रमुखैर् अवैवर्तिकबोधिसत्त्वमहासत्त्वसंघैर् अनन्तापर्यन्तैः सत्कृतः ।
गुरुकृतो ऽर्चितः पूजितः सुप्रकृष्टो महापर्षद्गणमध्ये महाब्रह्मा पद्मासने निषण्णः सर्वदुर्गतिपरिशोधननामसमाधिं समापन्नः समनन्तरम् एवापायत्रयसन्ततिविमोक्षकनाममहाबोधिसत्त्वरश्मिस्फरणसंहरणानेकमाला स्वोर्णाकोशान्निश्चचार । तेन त्रिसहस्रमहासहस्रलोकधातुर् अवभासितः । तेनावभासेन सर्वसत्त्वाश् चित्तक्लेशबन्धनान् मोचयित्वा पृथक् पृथक् संप्रापितो नन्दवनं च समन्तादवभासयित्वा । ( स्द्प् 122 ) नानापूजामेघैः पूजयित्वा शतसहस्रं प्रदक्षिणीकृत्य शिरसा वन्दित्वा भगवतः पुरस्ताद् विमलासनेर् उपरि निषद्यैवम् आहुः अहो बुद्ध अहो बुद्धस्य धर्मशोभनम् ॥
तत् कस्य हेतोः ॥
अस्माकं दुर्गतिपरिशोधनम् ॥
बोधिसत्त्वचर्याप्रतिष्ठापनञ् च ॥
अथ देवेन्द्रो भगवन्तं शतसहस्रं प्रदक्षिणीकृत्य वन्दित्वा भगवन्तम् एतद् अवोचत् । भगवन् केन कारणेन बुद्धरश्मिसमन्तावभासेन दुर्गतिसमन्तान् मोचयित्वा विमुक्तिमार्गे प्रतिष्ठापिता आश्चर्यं सुगत । भगवान् आह । नेदं देवेन्द्राश्चर्यं बुद्धानां भगवतां सूपचिताप्रमाणपुण्यसंभाराणाम् ।
देवेन्द्र सम्यक्संबुद्धा अपरिमितगुणरत्नाकरभूताः । देवेन्द्र सम्यक्संबुद्धानाम् अप्रमाणोपायाः पर्मिष्पन्नाः । देवेन्द्र बुद्धानां भगवताम् अपरिमिता प्रज्ञोपचिता । देवेन्द्र बुद्धानाम् अप्रमाणा वीर्या । बुद्धेन भगवताप्रमाना विनेयजना भाजनीभूताः कृताः । असमसमज्ञानाभि बुद्धा भगवन्तो ऽसमसमर्द्धिसमन्वागताः । भगवन्तो ऽसमसमप्रणिधानसमन्वागताः । तस्माद् देवेन्द्र बुद्धानां भगवतां यथा भाजनं तथा सत्त्वार्थकरणञ् च । यथा विनेयं तथा सत्त्वानाम् अर्थकरणञ् च । यथाभिप्रायं तथा सत्त्वार्थकरणं भवतीति । ज्ञातव्यम् इत्य् अत्र संशयशङ्काविमतिर् न कर्तव्या । तथागतवैनेयं न भवतीति नेदं स्थानं विद्यते ।
अथ देवेन्द्रः स्वकीयाद् आसनाद् उत्थाय पुनर् अपि भगवतो विपुलां महतीं पूजां कृत्वा भगवन्तम् एतद् अवोचत् । सर्वसत्त्वानां हितकरणायानुकम्पाकरणाय शरणकरणाय समहाकृपाकरणाय सर्वाशापरिपूरणकरणाय भगवन् मम प्रतिभानम् उत्पादय सुगत मम प्रतिभानम् उत्पादय । भगवन् ( स्द्प् 124 ) इतस् त्रयस्त्रिंशद्देवनिकायाद् विमलमणिप्रभनाम्नो देवपुत्रस्य च्युतस्य कालगतस्य सप्तदिवसा अभूवन् । भगवन् स कुत्रोपपन्नः सुखं दुःखं वानुभवति । इदं भगवन् व्याकुरु सुगत व्याकुरु । भगवान् आह । देवेन्द्र प्राप्तकालसमयं ज्ञात्वा श्रोष्यसि । देवेन्द्र आह । भगवन् अयं कालः । अयं समयः सुगत । भगवान् आह । देवेन्द्र विमलमणिप्रभनामदेवपुत्र इतश् च्युत्वावीचौ महानरक उत्पन्नस् तत्र द्वादशवर्षसहस्राणि तीव्रं कटुकं दुःखम् अनुभवति । पुनर् अल्पनरके दशवर्षसहस्राणि दुःखम् अनुभवति । पुनर् अपि तिर्यक्प्रेतेषूत्पन्नो दशवर्षसहस्राणि दुःखम् अनुभवति । पुनर् अपि प्रत्यन्तजनपदेषूत्पन्नो बधिरमूकाव्यक्तस्वभावताम् अनुभवति षष्टिवर्षसहस्राणि । पुनर् अपि चतुरशीतिवर्षसहस्राणि व्याधिरक्तातिसारकुष्ठविघातपीडितश् च बहुजननिन्दितो ऽशेषपरित्यक्तो हीनकुलो भवति । दुःखदुःखपरंपरां न विच्छेदयति । अन्येषाम् अप्य् अहितं करोति । नानाकर्मावरणानि चाविच्छेदेन करोति । पुनर् अप्य् अन्योन्यदुःखपरंपराम् अनुभवति ।
अथ खलु शक्रादयः सर्वदेवपुत्राः श्रुत्वा भ्रान्तास् त्रस्ताः खिन्ना अधोमुखं पतिताः । पुनर् उत्थायैवम् आहुः । कथं भगवन् तस्माद् दुःखपरंपरातो मुच्यते । कथं सुगत मुच्यते । केनोपायेन भगवन् दुःखराशेः तस्मान् मुच्यत इति । परित्रानं कुरु भगवन् । परित्राणं कुरु सुगत । भगवान् आह । देवेन्द्र चतुरशीतिबुद्धकोटिभिर् भाषितम् इदम् अहम् अपि भाषे शृणु । अथ खलु देवेन्द्रः पुनर् अपि भगवन्तं मान्दारवमहामान्दारवपुष्पैर् नानाविधैर् रत्नमुकुटकेयूरकर्णालंकारहारार्धहाराद्यनेकालंकारविशेषैर् अभ्यर्च्यानेकशतसहस्रवारं प्रदक्षिणीकृत्य प्रणम्य साधु भगवन् साधु सुगतेति । साधुकारेण हर्षयित्वा सदेवकस्य लोकस्य हितसुखकरणायानागतानां सत्त्वानाम् अपायसन्ततिविमोक्षणाय सुभाषितार्थं विज्ञापयामि । अथ पुनर् अपि ब्रह्मादयो देवगणा
( स्द्प् 126 ) एवम् आहुः । साधु भगवन् साधु सुगत येनानागतानां सत्त्वानां नाममात्रम् अपि श्रुतवताम् अपायत्रयमार्गविमोक्षो भवति । स्वर्गदेवलोके वा मनुष्यलोके चोत्पन्नानाम् अनुत्तरसम्यक्संबोधिप्राप्त्यर्थं भाषतु ।
अथ खलु भगवान् शक्रब्रह्मादिदेवपुत्राणां सर्वतथागतहृदयेनाधिष्ठानार्थम् अमोघवज्राधिष्ठाननामसमाधिं समापन्नः ।
ओं वज्राधिष्ठानसमये हुं ।
एवञ् च समाधिं समापन्नो ऽनभिभवनीयवज्राधिष्ठानेनाधिष्ठायेदं सर्वदुर्गतिपरिशोधनराजनामतथागतहृदयं निश्चारयाम् आस ।
ओं शोधने शोधने सर्वपापविशोधनि शुद्धे विशुद्धे सर्वकर्मावरणविशुद्धे स्वाहा ।
अस्या विद्याया भाषणानन्तरम् एव सर्वसत्त्वानां दुर्गतिर् विनिपातिता सर्वनरकतिर्यक्प्रेतगतिः शोधिता ।
तीव्रदुःखानि प्रशान्तानि बहवश् च जाताः सुखीमुखीभूताः । पुनर् अपरं गुह्यहृदयम् अभाषत ।
ओं शोधने शोधने शोधय सर्वापायान् सर्वसत्त्वेभ्यो हुं पुनर् अपरं देवेन्द्रेदं सर्वतथागतहृदयं ।
ओं सर्वापायविशोधनि हुं फट् ।
पुनर् अपरं देवेन्द्रेदं सर्वतथागतहृदयोपहृदयम् ।
ओं त्राट् ।
पुनर् अपरं देवेन्द्र सर्वदुर्गतिपरिशोधनहृदयम् । हुं । पुनर् अपरं देवेन्द्र संक्षेपतः स्मरणमात्रेणाप्य् अल्पपुण्यसत्त्वानां सर्वदुर्गतिशान्तिकरणायानायासतो विमोक्षणकरम् इदं भवति ।

ओं नमो भगवते सर्वदुर्गतिपरिशोधनराजाय तथागतायार्हते सम्यक्संबुद्धाय । तद्यथा ।
ओं शोधने शोधने सर्वपापविशोधनि शुद्धे विशुद्धे सर्वकर्मावरणविशोधनि स्वाहा । मूलविद्या ।
( स्द्प् 128 ) ओं सर्ववित् सर्वावरणानि विशोधय हन हुं फट् ।
ओं सर्वविद् हुं ।
ओं सर्वविद् ह्रीः फट् ।
ओं सर्वविद् अः । ओं सर्ववित् त्रां त्राट् । ओं सर्वविद् ओं ।
ओं सर्वविद् धीम् । ओं सर्वविद् हुं । ओं सर्ववित् क्रीं त्रट् ।
ओं सर्वविद् महावज्रोद्भवदानपारमितापूजे हुं । लास्याया मन्त्रः ।
ओं सर्वविद् महावज्रोद्भवशीलपारमितापूजे त्रां । मालाया मन्त्रः ।
ओं सर्वविद् महावज्रोद्भवक्षान्तिपारमितापूजे ह्रीः । गीताया मन्त्रः ।
ओं सर्वविद् महावज्रोद्भववीर्यपारमितापूजे अः । नृत्याया मन्त्रः ।
ओं सर्ववित् सर्वापायविशोधनि धम धम ध्यानपारमितापूजे हुं हुं फट् । धूपाया मन्त्रः ।
ओं सर्ववित् सर्व दुर्गतिपरिशोधने क्लेशोपक्लेशच्छेदनि पुष्पालोकिनि प्रज्ञापारमितापूजे त्रां हुं फट् । पुष्पाया मन्त्रः ।
ओं सर्ववित् सर्वापायविशोधनि ज्ञानालोककरि प्रणिधिपारमितापूजे ह्रीः हुं फट् । दीपाया मन्त्रः ।
ओं सर्ववित् सर्वापायगन्धनाशनि वज्रगन्धोपायपारमितापूजे अः हुं फट् । गन्धाया मन्त्रः ।

ओं सर्वविद् नरकगत्याकर्षणि हुं जः फट् । वज्राङ्कुशस्य मन्त्रः ।
ओं सर्वविद् नरकोद्धरणि हुं हुं फट् । वज्रपाशस्य मन्त्रः ।
ओं सर्ववित् सर्वापायबन्धनमोचनि हुं वं फट् । वज्रस्फोटस्य मन्त्रः ।
ओं सर्ववित् सर्वापायगतिगहनविशोधनि हुं होः फत् । वज्रावेशस्य मन्त्रः ।
ओं मैत्रीयहरणाय स्वाहा । मैत्रेयस्य मन्त्रः ।
ओं अमोघे अमोघदर्शिनि हुं । अमोघदर्शिनः ।
ओं सर्वापायजहे सर्वापायविशोधनि हुं । सर्वापायजहस्य।
ओं सर्वशोकतमोनिर्घातनमति हुं । सर्वशोकतमोनिर्घातनमतेः ।
ओं गन्धहस्तिनि हुं । गन्धहस्तिनः ।
ओं शूरंगमे हुं । शूरंगमस्य ।
ओं गगने गगनलोचने हुं । गगनगञ्जस्य ।
ओं ज्ञानकेतो ज्ञानवति हुं । ज्ञानकेतोः ।
ओम् अमृतप्रभे अमृतवति हुं । अमृतप्रभस्य ।
ओं चन्द्रस्थे चन्द्रव्यवलोकिनि स्वाहा । चन्द्रप्रभस्य ।
ओं भद्रवति भद्रपाले । भद्रपालस्य ।
ओं जालिनि महाजालिनि हुं । जालिनीप्रभस्य ।
ओं वज्रगर्भे हुं । वज्रगर्भस्य ।
ओम् अक्षये हुं हुं अक्षयकर्मावरणविशोधनि स्वाहा । अक्षयमतेः ।
ओं प्रतिभाने प्रतिभानकूटे स्वाहा । प्रतिभानकूटस्य ।
ओं समन्तभद्रे हुं । समन्तभद्रस्य ।
एते भद्रकल्पिकस्य बोधिसत्त्वस्य मन्त्रान् यथाक्रमम् उच्चारयेत् ।
अनेन यथोक्ततन्त्रानुसारानुक्रमेण विधानेन प्रत्यहं प्रभातकाल उत्पत्तिक्रमेण भावयमानो भावयेत् । देवतायोगं समाधित्रयम् उत्तमं यत्नतो दुर्गतिपरिशोधनसिद्धिर् भवति । पुनर् अपरं देवेन्द्र सर्वदुर्गतिपरिशोधनतेजोराजस्य तथागतस्य गुह्यहृदयम् इदम् । कुलपुत्रो वा कुलदुहिता वा यः कश्चिद् नाममात्रं शृणोति धारयति वाचयति लिखित्वा च शिरसि शिखायां वा बाहौ ग्रीवायां वा बद्ध्वा धारयति तस्येहैव जन्मन्य् अष्टाव् अकालमरणानि न्मरणसंबन्धस्वप्नप्रकारा ( स्द्प् 132 ) वा दुर्गतिनिमित्तानि वा तानि सर्वाणि स्वप्नमात्रतो नोपसर्पन्ति । मण्डलञ् च यथावत् प्रवेश्याभिषिक्तो हृदयञ् च जप्त्वा मन्त्रार्थं ये केचिद् भावयन्ति कः पुनर् वादस् तेसां यानि कानिचित् पापानि न निकटीभवन्तीति न दुर्गतिं गच्छन्तीति ।
पुरुषस्त्रीदेवनागयक्षराक्षसप्रेततिर्यग्नरकादीनां येषां केषाञ्चित् मृतकायेषु मण्डलं प्रवेश्याभिशिक्तेषु ते नरकेषूत्पन्नाः समनन्तरम् एवं विमुच्यन्ते देवनिकायेषूत्पद्यन्ते । तत्रोत्पन्नाः सन्तः सर्वतथागतानां धर्मताम् अभिमुखीकुर्वन्त्य् अवैवर्तिकाश् च भवन्ति । सन्ततिश् च नियता भवति । सर्वतथागतकुले प्रजाताश् च भवन्ति । प्रहीणावरणाश् च । सर्वतथागतकुलेषु देवकुलेषु वान्यस्मिन् वा सुखम् अनुभवन्ति । देवेन्द्र संक्षेपतो लौकिकलोकोत्तरसर्वहितसुखम् अनुभवन्ति ।
अथ देवेन्द्रो भगवन्तं पूर्ववत् प्रदक्षिणीकृत्य वन्दित्वैवम् आह । भगवन् सर्वदुर्गतिवशीभूतानां हितसुखकरणाय यथासत्त्वैः सर्वदुर्गतिपृष्ठीकरणायानायासतो ऽनुत्तरसम्यक्संबोध्यधिगमार्थं धर्मं देशयतु ।
अथ खलु भगवान् शाक्यमुनिः सर्वदुर्गतिपरिशोधनज्ञानवज्रनामसमाधिं समापद्य सर्वतथागतसर्वदुर्गतिपरिशोधनतेजोराजनाममण्डलम् अभाषत ।
तत्साधनं शाक्यनाथेन भाषितम् ।
प्रथमं तावद् योगी विजने मनो ऽनुकूलप्रदेशे मृदुसुकुमारासने निषण्णः सुगन्धेन मण्डलं कृत्वा पञ्चोपहारपूजा करणीया । ततः सर्वधर्मनैरात्म्यं भावयित्वा । आत्मानं हुंकारेण वज्रज्वालानलार्कं भावयेत् । तस्य कण्ठे ह्रीःकारेण पद्मं तस्योपरि दलाग्र आकारेण चन्द्रमण्डलं तस्योपरि हुंकारेण पञ्चसूचिकवज्रम् । तद् वज्रं जिह्वायां रीणं भवति । वज्रजिह्वेति । तेन वज्रजिह्वा भवति । मन्त्रजापक्षमो भवेत् । हस्तद्वयस्य मध्ये सिताकारेण चन्द्रमण्डलं तस्योपरि हुंकारेण पञ्चसूचिकवज्रम् । तद् वज्रं करमध्ये निलीयते वज्रहस्तो भवति ।
सर्वमुद्राबन्धक्षमो भवेत् ।
ततो रक्षाचक्रभावना कर्तव्या ।
ओं गृह्ण वज्रसमये हुं वम् । इति ब्रुवन् क्रोधतेरिन्तिरीं बध्नीयात् ।
वज्रबन्धं तले कृत्वा च्छादयेत् क्रुद्धमानसः ॥ गाढम् अङ्गुष्ठवज्रेण क्रोधतेरिन्तिर् स्मृता ॥
ततो वज्रार्धासननिषण्णो वज्रतेरिन्तिरीं बद्ध्वा वज्रमालाभिषेकं गृह्णीयात् ।
ओं वज्रज्वालानलार्क हुं अभिषिञ्च माम् इति ।
वज्रबन्धे ऽङ्गुष्ठद्वयं सहितोत्थितं वज्रबन्धस्योपरि श्लिष्ठं धारयेत् । वज्रतेरिन्तिरी ।
ओं टुं इति । अनेन द्व्यक्षरकवचेन कवचयित्वा ।
ओं वज्रज्वालानलार्क हुं इत्य् उदीरयेत् ।
वामवज्रमुष्टिं हृदये कृत्वा दक्षिणवज्रमुष्टिम् उल्लालयन् सर्वविघ्नान् हन्यात् ।
ततो वज्रानलेन मुद्रासहितेन विघ्नदहनादिकं कुर्यात् ।
ओं वज्रानल हन दह पच मथ भञ्ज रन हुं फट्
इत्य् उदीरयेत् । अभ्यन्तरवज्रबन्धे ऽङ्गुलिज्वालागर्भे ऽङ्गुष्ठवज्रम् उत्थितम् इयं वज्रानलमुद्रा ।

तद् अनु । वज्रनेत्रि बन्ध सर्वविघ्नान् इति । मुद्रायुक्त्या सर्वविघ्नबन्धं कुर्यात् । वज्रबन्धं बद्ध्वाङ्गुष्ठद्वयं प्रसार्य समं धारयेत् । वज्रनेत्रिमुद्रा ।
प्रसारितवज्रबन्धं भूम्यां प्रतिष्ठाप्याधोबन्धं कुर्यात् ।
ओं वज्र दृढो मे भव रक्ष सर्वान् स्वाहा ।
वज्रभैरवनेत्रेण मुद्रासहितेनोर्ध्वबन्धं कुर्यात् ।
ओं हुलु हुलु हुं फत् । इति ।
वज्रमुष्टिद्वयं बद्ध्वालातचक्रं भ्रामयित्वा शिरसोपरि तर्जन्यङ्कुशाकारेण धारयेत् । वज्रभैरवनेत्रमुद्रा । तस्याधस्ताद् वज्रयक्षेण मुद्रासहितेन पुनर् बन्धं कुर्यात् ।
ओं वज्रयक्ष हुं इति । वज्राञ्जलेर् अङ्गुष्ठद्वयं प्रसारितं तर्जनीद्वयं दम्ष्ट्रा । वज्रयक्षमुद्रा ।
वज्रोष्णीषेण मुद्रायुक्तेन पूर्वां दिशं बन्धयेत् ।
ओं द्रुं बन्ध हं इति । द्रुं ऽइति वा ।
वज्रमुष्टिद्वयं कन्यसाश्र्ङ्खलाबन्धेन तर्जनीद्वयसूचीमुखं परिवर्तोष्णीषे स्थापयेत् । वज्रोष्णीषमुद्रा ।
पुनर् वज्रपाशेन ताम् एव बन्धयेत् ।
हुं वज्रपाशे ह्रीः इति । वज्रमुष्टिद्वयेन बाहुग्रन्थिं कुर्यात् । वज्रपाशमुद्रा ।
वज्रपताकया पश्चिमां दिशं बन्धेत् ।
ओं वज्रपताके पतंगिनि रटेति । वज्रबन्धे ऽङ्गुष्ठसत्त्वपर्यङ्कसूचीं कृत्वाग्रासमानामाविदारितान्त्यपटाग्री । वज्रपताकायाः ।
दिग्विदिक्ष्व् अध ऊर्ध्वञ् च विघ्ननिकृन्तनं कुर्यात् । वज्रकाल्योत्तरां दिशं बन्धेत् ।
ह्रीः वज्रकालि रुट् मट् । इति । वज्रयक्षमुद्राम् एव मुखे दृढीकृत्य वज्रकाल्याः । वज्रशिखरया दक्षिणां दिशं बन्धेत् ।
ओं वज्रशिखरे रुट् मट् । इति । वज्रमुष्टिद्वयेन पर्वतोत्कर्षणाभिनयाकारं वज्रशिखरायाः ।
वज्रकर्मना मण्डलबन्धं कृत्वा प्राकारं दद्यात् ।
हुं वज्रकर्मेति । पुनर् अभ्यन्तरप्राकारं वज्रहुंकारेण हुं इति । वज्रमुष्टिद्वयं बद्ध्वा बाहुवज्रं समाधाय कनिष्ठाङ्कुशबन्धिता त्रिलोकविजयनामतर्जनीद्वयं तर्जनी । वज्रहुंकारस्य । इयम् एव मध्याग्रद्वयं वज्रं वज्रकर्मणः ।
ततो वज्रचक्रमुद्रया सर्वदुर्गतिपरिशोधनमन्ण्डलं पुरतो निष्पादयेत् ।
ओं वज्रचक्र हुं । इति ।
वज्रमुष्टिद्वयं बद्ध्वा द्व्यग्रान्त्यावज्रबन्धनात् ॥
वज्रचक्रेति विख्याता सर्वमण्डलसाधिका ॥
अनया सर्वदिक्षु प्रदक्षिणतया भ्रामयित्वा सर्वमण्डलनिर्माणं भवति । इमाम् एव मुखे न्यस्य निरीक्षमाणो ऽष्टौ वारान् वज्रचक्रं जपेत् ।
ततः प्रत्यक्षम् इव मण्डलं बुद्ध्यालग्यपुष्पादिभिः संपूज्य सर्वदिक्षु पञ्चमण्डलकेन प्रणमेद् अनेन ।
ओं सर्ववित् कायवाक्चित्तप्रणामेन वज्रबन्धनं करोमीति । ततश् चतुःप्रणामं कुर्यात् । तद्यथा ।
सर्वशरीरेण वज्राञ्जलिप्रसारितेन पूर्वस्यां दिशि प्रणमेद् अनेन ।
ओं सर्ववित् पूजोपस्थानायात्मानं निर्यातयामि । सर्वतथागतवज्रसत्त्वाधितिष्ठस्व माम् । इति ।
ततस् तथैवोत्थाय वज्राञ्जलिं हृदि कृत्वा दक्षिणस्यां दिशि ललाटेण भूमिं स्पृशन् प्रणमेद् अनेन ।
ओं सर्ववित् पूजाभिषेकायात्मानं निर्यातयामि । सर्वतथागतवज्ररत्नाभिषिञ्च माम् । इति ।
ततस् तथैवोत्थाय वज्राञ्जलिबन्धेन शिरसा पश्चिमायां दिशि मुखेन भूमिं स्पृशन् प्रणमेद् अनेन ।
ओं सर्ववित् पूजाप्रवर्तनायात्मानं निर्यातयामि । सर्वतथागतवज्रधर्म प्रवर्तय माम् । इति ।
ततस् तथैवोत्थितो वज्राञ्जलिं शिरसो ऽवतार्य हृदि कृत्वोत्तरस्यां दिशि मूर्ध्ना भूमिं स्पृशन् प्रणमेद् अनेन ।
ओं सर्ववित् पूजाकर्मणा आत्मानं निर्यातयामि । सर्वतथागतवज्रकर्म कुरुष्व माम् । इति ।
जानुमण्डलद्वयं पृथिव्यां प्रतिष्ठाप्य वज्राञ्जलिं हृदि कृत्वा सर्वपापं प्रतिदेशयेत् ।
समन्वाहरन्तु मां दशसु दिक्षु सर्वबुद्धबोधिसत्त्वाः सर्वतथागतवज्रमणिपद्मकर्मकुलावस्थिताश् च सर्वमुद्रामन्त्रविद्यादेवता अहम् अमुकवज्रो दशसु दिक्षु सर्वबुद्धबोधिसत्त्वानां पुरतः सर्वतथागतवज्रमणिपद्मकर्मकुलावस्थितानां सर्वमुद्रामन्त्रविद्यादेवतानां च पुरतः सर्वपापं प्रतिदेशयामि ।
विस्तरेण दशसु दिक्ष्व् अतीतानागतप्रत्युत्पन्नानां सर्वबुद्धबोधिसत्त्वप्रत्येकबुद्धार्यश्रावकसम्यग्गतसम्यक्प्रतिपन्नानां सर्वसत्त्वनिकायानां च सर्वपुण्यम् अनुमोदयामि । दशसु दिक्षु सर्वबुद्धान् भगवतः । अप्रवर्तितधर्मचक्रान् अध्येषे धर्मचक्रप्रवर्तनाय । दशसु दिक्षु सर्वबुद्धान् भगवतः परिनिर्वातुकामान् याचे ऽपरिनिर्वाणाय ।
ततः पुष्पमुद्रां बद्ध्वैवं वदेत् ।
ओं सर्ववित् पुष्पपूजामेघसमुद्रस्फरणसमये हुं । इति ।
धूपमुद्रां बद्ध्वैवं वदेत् ।

ओं सर्वविद् धूपपूजामेघसमुद्रस्फरणसमये हुं ।
दीपमुद्रां बद्ध्वैवं वदेत् ।
ओं सर्वविद् आलोकपूजामेघसमुद्रस्फरणसमये हुं ।
गन्धमुद्रां बद्ध्वैवं वदेत् ।
ओं सर्वविद् गन्धपूजामेघसमुद्रस्फरणसमये हुं ।
संपुटान्जलिं बद्ध्वैवं वदेत् ।
ओं सर्वविद् बोध्यङ्गरत्नालंकारपूजामेघसमुद्रस्फरणसमये हुं । इति ।
ओं सर्वविद् हास्यलास्यरतिक्रीडासौख्यानुत्तरपूजामेघसमुद्रस्फरणसमये हुं । इति ।
ओं सर्वविद् अनुत्तरवस्त्रपूजामेघसमुद्रस्फरणसमये हुं । इति ।
ततः सर्वसत्त्वसंसारदुःखम् अनुस्मृत्य भगवतो वज्रसत्त्वस्य कर्ममुद्रां बद्ध्वा करुणावशेन सर्वसत्त्वोत्तारणाय बोधिचित्तम् उत्पादयेत् । अतीर्णतारणायामुक्तमोचनायानाश्वस्ताश्वासनायापरिनिर्वृतपरिनिर्वातनाय सकलसत्त्वधातोः संसारसमुद्राद् उत्तारणाय च ।
ओं सर्वविद् वज्रपूजामेघसमुद्रस्फरणसमये हुं । इति ।
ततो लास्यामुद्रां बद्ध्वैवं वदेत् ।
सर्वसत्त्वाः सर्वोपकरणसमन्वागता भवन्तु । इच्छामात्रप्रतिबद्धसर्वसंपत्तयः ।
ओं सर्वविद् महावज्रोद्भवदानपारमितापूजामेघसमुद्रस्फरणसमये हुं । इति ।
वज्रमालामुद्रां बद्ध्वैवं वदेत् ।
सर्वसत्त्वाः सर्वाकुशलकायवाग्मनस्कर्मान्तविगता भवन्तु । सर्वकुशलकायवाग्मनस्कर्मान्तसमन्वागता भवन्तु ।
ओं सर्वविद् अनुत्तरमहाबोध्याहारशीलपारमितापूजामेघसमुद्रस्फरणसमये हुं । इति ।
गीतामुद्रां बद्ध्वैवं वदेत् ।
सर्वसत्त्वाः सर्वलक्षणानुव्यञ्जनेन समलंकृतगात्रा भवन्तु । परस्परतो नित्यम् अभयावैरप्रतिपन्ना हृदयनयनाभिरामा गम्भीरधर्मक्षान्तिकाश् च ।
ओं सर्वविद् अनुत्तरमहाधर्मावबोधक्षान्तिपारमितापूजामेघसमुद्रस्फरणसमये हुं । इति ।
नृत्यामुद्रां बद्ध्वैवं वदेत् ।
सर्वसत्त्वा बोधिसत्त्वचर्याभियुक्ता भवन्तु । बुद्धतत्त्वपरायणाः संसारापरित्यागवीर्ययुक्ताः ।
ओं सर्ववित् संसारापरित्यागवीर्यपारमितापूजामेघसमुद्रस्फरणसमये हुं । इति ।
पुष्पामुद्रां बद्ध्वैवं वदेत् ।
सर्वसत्त्वाः सर्वक्लेशोपक्लेशविगता भवन्तु । सर्वध्यानविमोक्षसमाधिसमापत्त्यभिज्ञाविद्यावशितासंपन्नाः ।
ओं सर्वविद् अनुत्तरसौख्यविहारध्यानपारमितापूजामेघसमुद्रस्फरणसमये हुं । इति ।
धूपामुद्रां बद्ध्वैवं वदेत् ।
सर्वसत्त्वाः सर्वलौकिकलोकोत्तरप्रज्ञाज्ञानसमन्विता भवन्तु । चतुःप्रतिसंवित्प्राप्ताः सर्वशास्त्रशिल्पज्ञानकलायोगगुणगुह्यविधिज्ञास् तत्त्वदर्शिनः सर्वक्लेशज्ञेयावरणसमुछेदज्ञानप्राप्ताः ।
ओं सर्वविद् अनुत्तरक्लेशछेदमहाप्रज्ञापारमितापूजामेघसमुद्रस्फरणसमये हुं । इति ।
दीपामुद्रां बद्ध्वैवं वदेत् ।
सर्वसत्त्वाः सर्वापायविगता भवन्तु ।
ओं सर्ववित् सर्वापायविशोधनि ज्ञानालोकप्रणिधानपारमितापूजामेघसमुद्रस्फरणसमये हुं । इति ।
गन्धामुद्रां बद्ध्वैवं वदेत् ।
सर्वसत्त्वाः सर्वाज्ञानविगता भवन्तु ।
ओं सर्ववित् सर्वापायगन्धनाशनि वज्रगन्धोपायपारमितापूजामेघसमुद्रस्फरणसमये हुं । इति ।
दशसु दिक्ष्व् अशेषसर्वतथागतपादमूलगतम् आत्मानम् अधिमुच्य कायपरिचर्यार्थं ।
ओं सर्ववित् कायनिर्यातनपूजामेघसमुद्रस्फरणसमये हुं । इति ।
असमाचलेत्यादि । सर्वत्र जिह्वाशतमुखेन स्तोत्रोपहारम् अधिमुच्य ।
ओं सर्वविद् वाग्निर्यातनपूजामेघसमुद्रस्फरणसमये हुं । इति ।
सर्वबोधिसत्त्वैकाशयप्रयोगतया धर्मसमताम् अधिमुच्य ।

ओं सर्ववित् चित्तनिर्यातनपूजामेघसमुद्रस्फरणसमये हुं । इति ।
अभावस्वभावाः सर्वधर्माः शून्यतानिमित्ताप्रणिहिताकारा इत्य् अधिमुच्य ।
ओं सर्वविद् गुह्यनिर्यातनपूजामेघसमुद्रस्फरणसमये हुं । इति ।
एवं विंशतिप्रकारपूजया सर्वतथागतान् संपूज्यात्मानं निर्यातयेत् ।
आत्मानं सर्वबुद्धबोधिसत्त्वेभ्यो निर्यातयामि । सर्वदा सर्वकालं प्रतिगृह्णन्तु मां महाकारुणिका नाथा महासमयसिद्धिञ् च प्रयच्छन्तु । तच् च कुशलमूलं सर्वसत्त्वसाधारणं कर्तव्यं । अनेन कुशलमूलेन सर्वसत्त्वाः सर्वलौकिकलोकोत्तरविपत्तिविगता भवन्तु ।
सर्वलौकिकलोकोत्तरसंपत्तिसमन्वागताश् च भवन्तु ।
सहैव सुखेन सहैव सौमनस्येन बुद्धा भवन्तु नरोत्तमा इति ।
अनेन चाहं कुशलकर्मणा भवेय बुद्धो ॥
न चिरेण लोके देशये धर्मं जगतो हिताय ॥
मोचये सत्त्वान् बहुदुःखपीडितान् इति ॥
अनुत्तरायां सम्यक्संबोधौ परिणामाय संवरं गृह्णीयात् ।
उत्पादयामि परमं बोधिचित्तम् अनुत्तरम् ॥
यथा त्रैयध्विकनाथाः संबोधौ कृतनिश्चयाः ॥
त्रिविधां शीलशिक्षां च कुशलधर्मसंग्रहम् ॥
सत्त्वार्थक्रियाशीलं च प्रतिगृह्णाम्य् अहं दृढम् ॥
बुद्धं धर्मं च सङ्घं च त्रिरत्नाग्रम् अनुत्तरम् ॥
अद्याग्रेण ग्रहीष्यामि संवरं बुद्धयोगजम् ॥
वज्रघण्टां च मुद्रां च प्रतिगृह्णामि तत्त्वतः ॥
आचार्यं च ग्रहीष्यामि महावज्रकुलोच्चये ॥
चतुर्दानं प्रदास्यामि षट्कृत्वा तु दिने दिने ॥
महारत्नकुले योगे समये च मनोरमे ॥
सद्धर्मं प्रतिगृह्णामि बाह्यं गुह्यं त्रियानिकम् ॥
महापद्मकुले शुद्धे महाबोधिसमुद्भवे ॥
संवरं सर्वसंयुक्तं प्रतिगृह्णामि तत्त्वतः ॥
पूजाकर्म यथाशक्त्या महाकर्मकुलोच्चये ॥
उत्पादयित्वा परमं बोधिचित्तम् अनुत्तरम् ॥
गृहीतं संवरं कृत्स्नं सर्वसत्त्वार्थकारणात् ॥
अतीर्णान् तारयिष्याम्य् अमुक्तान् मोचयिष्याम्य् अहम् ॥
अनाश्वस्तान् आश्वासयिष्यामि सत्त्वान् स्थापयामि निर्वृत्ताव् इति ॥
तत आकाशस्थं मण्डलं देवादिभिः पूज्यनानं विचिन्तयेत् । पञ्चोपहारादिना पूजयेत् । सम्यक् प्रपूज्य बुद्धानां गुणवर्णानां स्तुतिं कुर्यात् ।
अहो बुद्ध अहो बुद्ध साधु बुद्ध कृतोत्तम ॥
सर्वदुर्गतिं संशोध्य सत्त्वानां बोधिः प्राप्यते ॥
तत ओं वज्राञ्जलीति । वज्रबन्धनं हृदये स्फोटयेत् ।
ओं सर्वविद् वज्रबन्ध त्राट् ब्रुवन् । वज्रावेशमुद्रां बद्ध्वा ।
ओं तिष्ठ वज्र दृढो मे भव शाश्वतो मे भव हृदयं मे ऽधितिष्ठ सर्वसिद्धिं च मे प्रयच्छ हुं ह ह ह ह होः । इति ।
ओं वज्रमुष्टि वं ।
सत्त्ववज्रीं बद्ध्वा ।
ओं सर्ववित् शोधने शोधने सर्वपापान् अपनय हुं । पापाकर्षणमन्त्रः ।
वज्रबन्धं दृढं बद्ध्वा वज्रमुद्राधिष्ठान्तरात् ॥
समुत्क्षिपेत् क्षणाद् ऊर्ध्वं पतितोत्क्षेपणं परम् ॥ इति ।

ओं सर्ववित् सर्वापायविशोधनि हुं फट् । पापविशोधनमन्त्रः ।
वज्रबन्धं दृढीकृत्य मध्यमा मुखसहिता ॥
चतुरन्त्यमुखासक्ता पापं स्फोटयति क्षणात् ॥
ओं सर्ववित् त्राट् हुं । सत्त्ववज्रीं बद्ध्वा ।
ओं सर्ववित् सर्वावरणविशोधने मुः हुं फट् । उद्धरणलक्षणम् ।
ततः पश्चाद् योगिनो हृदयमध्ये ऽकारेण चन्द्रमण्डलं तस्योपरि ।
ओं मुने मुने महामुनये स्वाहा ।
ओं नमः सर्वदुर्गतिपरिशोधनराजाय तथागतायार्हते सम्यक्संबुद्धाय । तद्यथा ।
ओं शोधने शोधने सर्वपापविशोधं शुद्धे विशुद्धे सर्वकर्मावरणविशुद्धे स्वाहा ।
एतेन मन्त्रेण दुर्गतिपरिशोधनमण्डलं परिनिष्पन्नं भवति । ततो वज्राङ्कुशाद्यैर् आकृष्य प्रवेश्य बद्ध्वा वशीकृत्याकाशमण्डलपूजां कृत्वा हृदयमण्डले निवेशयेत् । द्वयमण्डलेनैकमण्डलं भवतीति । निष्पन्नयोगो भूत्वा समयमण्डलं देवतापरिपूर्णं भवति । तत्र मण्डलमध्ये चक्रवर्तिरूपम् आत्मभावं शाक्यसिंहं विभावयेत् । ततः शाक्यमुनेर् हृद्यकारेण चन्द्रमण्डलं भावयेत् । चन्द्रमण्डलमध्ये ।
ओं मुने मुने महामुनये स्वाहा ।
ततो वज्रहेतुकर्ममुद्रया मण्डलं निर्माय ।
ओं सर्वविद् वज्रचक्र हुं । इति ।
सत्त्ववज्रीं बद्ध्वैव मध्याङ्गुलिद्वयेन मालाम् आदाय मनसा प्रविशेत् । समये हुं इत्य् अनेन तां च मालां स्वशिरसि क्षिपेत् । अनेन प्रतिच्छ वज्र होः । इति । ततः स्वशिरसि बन्धेद् अनेन ।
ओं प्रतिगृह्ण त्वम् इमां सत्त्व महाबलेति ॥
मुखबन्धं चानेन मुञ्चेत् ।
ओं वज्रसत्त्वः स्वयं ते ऽद्य चक्षूद्घाटनतत्परः ॥
उद्घाटयति सर्वाक्षो वज्रचक्षुर् अनुत्तरम् ॥ इति ।
हे वज्र पश्य । इति ।
ततो महामण्डले तावत् पश्येद् यावद् भगवन्तं शाक्यमुनिं । पुनः सत्त्ववज्रीं बद्ध्वा हृदये मुञ्चेत् । वज्राधिष्टितकलशाद् उदकाभिषेकं वज्रमुष्ट्या दद्यात् ।
ओं सर्वविद् वज्राभिषिञ्च माम् । इति ।
पुनर् वज्रधात्वीश्वर्यादिमुद्रयाभिमु द्रयेत् ।
ओं सर्वविद् वज्रधात्वीश्वरि हुं अभिषिञ्च माम् ।
ओं सर्वविद् वज्रवज्रिणि हुं अभिषिञ्च माम् ।
ओं सर्वविद् रत्नवज्रिणि हुं अभिषिञ्च माम् ।
ओं सर्वविद् धर्मवज्रिणि हुं अभिषिञ्च माम् ।
ओं सर्ववित् कर्मवज्रिणि हुं अभिषिञ्च माम् ।
ओं टूं टूं टूं वज्र तुष्य होः ।
द्व्यक्षरकवचेन कवचयित्वा । ततः स्ववज्राभिषेकं गृह्णीयात् । अद्याभिषिक्तस् त्वम् असि बुद्धैर् वज्राभिषेकतः ॥
इदं तत् सर्वबुद्धत्वं गृह्ण वज्रसुसिद्धये ॥
ओं वज्राधिपति त्वाम् अभिषिञ्चामि तिष्ठ वज्रसमयस् त्वं वज्रनामाभिषेकतः ।
ओं वज्रसत्त्व त्वाम् अभिषिञ्चामि ।
इदं तत् सर्वबुद्धत्वं वज्रसत्त्वकरे स्थितम् ॥
त्वयापि हि सदा धार्यं वज्रपाणिदृढव्रतम् ॥
ओं सर्वतथागतसिद्धिवज्रसमय तिष्ठैष त्वां धारयामि वज्रसत्त्व हि हि हि हि हुं । इति ।
ओं सर्वविद् वज्राधिष्ठानसमये हुं । आत्माधिष्ठानमन्त्रः ।
वज्रमुष्टिद्वयं बद्ध्वाङ्गुष्ठमध्यमाकनिष्ठोर्ध्वं स्थित्वा मुखे श्लिष्येत् तर्जन्यनामिकासत्त्वपर्यङ्कं कृत्वा । वज्रमुद्रा । हृत्कण्ठललाट ऊर्णाभ्रूमध्ये नासिकाकर्णकटिजानुपादद्वये जंघायां चक्षुर्द्वये गुह्ये ऽधिष्ठाणं तु कारयेत् ।
ततः स्वकायसमय अकारेण चन्द्रमण्डलम् । सर्वबीजसमुत्पन्नचिह्नाहंकारं मन्त्रम् उद्वहन् ।
ओं सर्वविद् जः हुं वं होः समयस् त्वं समय होः ।
ओं मुने मुने महामुनये स्वाहा । त्रिर् उच्चारयेत् सामान्यम् अपि ।

ततः स्वकाये वज्रसमाजमुद्रां बद्ध्वा ।
जः हुं वं होः प्रवर्तयेत् ।
यथास्थानेष्व् आकृष्य प्रवेश्य बद्ध्वा वशीकुर्यात् ।
स्वहृदि हुंकारयोगेन पञ्चसूचिकवज्रम् ॥
समयं तु प्रवक्ष्यामि शाक्यसिंहस्य मुद्रया ॥
समाध्यग्रस्थितो मध्ये मुद्रासमय उच्यते ॥
वज्रबन्धं दृढीकृत्य मध्यमा मुखसंहिता ॥
वज्रोष्णीषमुद्रा ।
सैव मध्यमा रत्नं तु पद्माकारं तु मध्यमा ॥
सैव मध्यमा वज्रं तु शेषा ज्वालांगुलीकृता ॥
सैवांगुली ज्वालाकृता तेज उष्णीषमुद्रया ॥
सैव तु समानामिका कनिष्ठाद्वयम् उत्सृजेत् ॥
तर्जनी पद्मपत्त्रं तु मध्यमा वज्रं उत्थिता ॥
सैव पुरतः स्थित्वा वज्रपञ्जरकारका ॥
हृदये तु समांगुष्ठा सुप्रसारितमालिनी ॥
अञ्जल्यग्रमुखोद्धान्ता नृत्यतो मूर्ध्नि संपुटा ॥
वज्रबन्धं त्व् अधोदानात् स्वाञ्जलिस्थोर्ध्वदायिका ॥
समांगुष्ठनिपीडा च सुप्रसारितलेपना ॥
वज्रमुष्टिद्वयं बद्ध्वा तर्जन्यंगुष्ठमध्यमाः ॥
प्रत्येकम् अप्य् अन्योन्यम् अभिमुखं धारयेत् ॥
एकतर्जनीं संकुच्य द्व्यंगुष्ठौ ग्रन्थिं बन्धितौ ॥
अंगुष्ठाग्रकटिबन्धा वज्रमुष्ट्यग्रसंहिता ॥ इति ।
धर्ममुद्रां भावयेत् कण्ठे पद्मेन्दुमण्डले ॥
पूर्वम् उत्सर्गमन्त्रेण धर्ममुद्रा विधीयते ॥
कर्ममुद्रा हृदये विश्ववज्रम् ॥
धर्मचक्रं यथोक्तस्य शाक्यराजस्य मुद्रया ॥
भूस्पर्शवरदध्यानम् अभयाद्या यथाक्रमम् ॥
तेजोष्णीषस्य मुद्रया समाध्यग्रावस्थिता ॥
दक्षिणबाहुदण्डा च हृद्वामखड्गधारिणी ॥
वामतर्जनीम् उत्सृज्य दक्षिणेन प्रसारयेत् ॥
द्वयहस्तेन संमील्य छत्राकारेण धारयेत् ॥
कर्ममुद्राविधिर् येन नवसंबुद्धतायिनाम् ॥
वज्रगर्वप्रयोगेण नमेद् आशयकम्पितैः ॥
मालाबन्धा मुखोद्धान्ता नृत्यतः परिवर्तिता ॥
वज्रमुष्टिप्रयोगेण दद्याद् धूपादयस् तथा ॥
तर्जन्यंकुशबन्धेन कनिष्ठायां महांकुशी ॥
बाहुग्रन्थिकटाग्राभ्यां पृष्ठयोश् च निपीडयेत् ॥
अथातः संप्रवक्षामि बोधिसत्त्वमहात्मनाम् ॥
कर्ममुद्राप्रबन्धेन यथानुक्रमलक्षणम् ॥
वज्रमुष्टिद्वयं बद्ध्वान्योन्यं सहनि मीलयेत् ॥

तर्जनीमध्यमाकुञ्च्य पुष्पाकारेण धारयेत् ॥
मैत्रेयस्य मुद्रा ।
वाममुष्टिं कटौ न्यस्य दक्षिणं बाहुपार्श्वतः ॥
तर्जनीमध्यमोत्सृज्य नेत्राकारेण धारयेत् ॥
अमोघदर्शिनः ।
वज्रमुष्टिद्वयं बद्ध्वा तर्जनीस् संप्रसारयेत् ॥
सव्येनांकुशं संधार्य सर्वापायजहस्य च ॥
वाममुष्टिं कटिं न्यस्य दक्षिणदण्डम् आकृतिः ॥
धारयेद् ऊर्ध्वतश् चैव सर्वशोकतमस्य च ॥
वामे नाभस्थिता मुष्टिर् गजपुष्करम् आकृतिः ॥
धारयेद् दक्षिणे हस्ते गन्धहस्तिनो मुद्रया ॥
वाममुष्टिं कटिं न्यस्य दक्षिणे खड्गकारतः ॥
शूरंगमस्य ।
वाममुष्टिं हृदि धार्य दक्षिणं ऊर्ध्वं भ्रामयेत् ॥
गगनगञ्जस्य ।
वज्रमुष्टिद्वयं बद्ध्वा दक्षिणेन तु धारयेत् ॥
ध्वजगृहिताकारेण ज्ञानकेतोश् च मुद्रया ॥
द्वयहस्तेन संधार्य कलशाकारेण धारयेत् ॥
अमृतप्रभस्य ।
वाममुष्टिम् उरौ स्थित्वा दक्षिणमुष्टिं पार्श्वतः ॥
प्रसार्य कनिष्ठांगुष्ठौ चन्द्ररेखा तु आकृतिः ॥
चन्द्रप्रभस्य ।
द्वयहस्तं हृदि देशे पद्माकारं विकासयेत् ॥
अन्योन्यं मुखम् आसज्य भद्रपालस्य मुद्रया ॥
वज्रमुष्टिद्वयं बद्ध्वा कवचाकारेण धारयेत् ॥
स्तनद्वये च संधार्य जालिनीप्रभमुद्रया ॥
वाममुष्टिः कटिं न्यस्तो दक्षिणहृदयस्थितः ॥
मध्यमांगुलिम् उत्सृज्य वज्रगर्भस्य मुद्रया ॥
वाममुष्टिर् हृदि न्यस्तो वरदाकारं दक्षिणे ॥
अक्षयमतेर् मुद्रा ।
वामे नाभस्थिता मुष्टिर् दक्षिणे छोटिकां ददन् ॥
प्रतिभानकूटस्य ।
वाममुष्टिं कटिं धार्य दक्षिणरत्नमुष्टिका ॥
समन्तभद्रस्य ।
चिह्नरहितेन विधिना कर्ममुद्रा चोक्तिता ॥
हृदये वज्रं संधार्य पञ्चसूचिकरूपिणम् ॥
उत्सर्गेषु यथाधार्य मुद्रासायुधधारिणां ॥
वज्रघण्टाधरो भूत्वा हृदये वज्रं धारयेत् ॥
महामुद्रेति बोद्धव्या बोधिसत्त्वमहात्मनाम् ॥
उत्सर्गेषु यथागृह्य मुद्राप्रहरणधारिणाम् ॥

यां यां मुद्रां तु बध्नीयाद् यस्य यस्य महात्मनः ॥
जपन् तु हृदयार्थेन भावयेत् तु स्वम् आत्मानम् ॥
चतुर्मुद्रा विधातव्या देवतासर्वमुद्रितुम् ॥
सर्वज्ञगुणसंपन्नाः सर्वसत्त्वार्थकारणात् ॥
सर्वदुर्गतिं संशोध्य सत्त्वानां बोधिः प्राप्यते ॥
अथ मन्त्रं प्रवक्षामि सर्वदुर्गतिमण्डले ॥
मुद्रामन्त्रप्रयोगेण सर्वकार्यक्षमो भवेत् ॥
प्रतिप्रतिवज्रनृत्यं कृत्वा मन्त्रैश् चोदाहृतम् ॥
ओं नमः सर्वदुर्गतिपरिशोधनराजाय ॥
तथागतायार्हते सम्यक्संबुद्धाय तद्यथा ॥
ओं शोधने शोधने सर्वपापविशोधने शुद्धे ॥
विशुद्धे सर्वकर्मावरणविशुद्धे स्वाहा ॥
वामवज्रमुष्ट्या वज्रघण्टाम् आदाय दक्षिणहस्तेन वज्रंसगर्वम् उल्ललयन् एवं वदेत् । वज्रवाचाटक्कि हुं जः जः जः । स्वहृद्य् उत्कर्षणयोगेन धारयेत् । टक्कि जः होः इति वदेत् ।
तदनुशताक्षरेणदृढीकृत्य । एतेन दशभूमीश्वरबोधिसत्त्वसदृशो भवति । तान् दृष्ट्वा सर्वपूजां प्रपूजयेत् ।
ततः ताभिः सर्वाभिः स्तुतिभिः संपूजयेत् ।
नमस् ते शाक्यसिंहाय धर्मचक्रप्रवर्तकः ॥
त्रैधातुकं जगत्सर्वं शोधयेत् सर्वदुर्गतिम् ॥
नमस् ते वज्रोष्णीषाय धर्मधातुस्वभावतः ॥
सर्वसत्त्वहितार्थाय आत्मतत्त्वप्रदर्शकः ॥
नमस् ते रत्नोष्णीषाय समतातत्त्वभावनैः ॥
त्रैधातुकं स्थितं सर्वम् अभिषेकप्रदायकः ॥
नमस् ते पद्मोष्णीषाय स्वभावप्रत्यवेक्षकः ॥
आश्वासयति सत्त्वेषु धर्मामृतप्रवर्षणैः ॥
नमस् ते विश्वोष्णीषाय स्वभावकृत्यानुष्ठितः ॥
विश्वकर्मकरो ह्य् एषां सत्त्वानां दुःखशान्तये ॥
नमस् ते तेजोष्णीषाय त्रैधातुकम् अवभासयेत् ॥
सर्वसत्त्वेष्व् अपायेषु सत्यदृष्ट्वा करिष्यति ॥
नमस् ते ध्वजोष्णीषाय चिन्तामणिध्वजधरः ॥
दानेन सर्वसत्त्वानां सर्वाशा परिपूरयेत् ॥
नमस् ते तीक्ष्णोष्णीषाय क्लेशोपक्लेशछेदकः ॥
चतुर्मारबलभग्नं सत्त्वानां बोधिः प्राप्यते ॥
नमस् ते छत्रोष्णीषाय सितातपत्रशोभनम् ॥
त्रैधातुकं जगत्सर्वं धर्मराजत्वं प्राप्यते ॥
लास्या माला तथा गीता नृत्या देव्यश् चतुष्टयाः ॥
पुष्पा धूपा च दीपा च गन्धा देवी नमो ऽस्तु ते ॥
द्वारमध्ये स्थिता आवेशो ऽंकुशः पाशस् स्फोटकः ॥
श्रद्धाद्यभावनिर्जाता द्वारपाला नमोऽस्तु ते ॥
वेदिकादौ स्थिता ये च चत्वरद्वारपार्श्वतः ॥
मुदितादौ दशे स्थित्वा बोधिसत्त्वा नमो ऽस्तु ते ॥
ब्रह्मेन्द्रौ रुद्रचन्द्राद्यैर् लोकपालचतुर्दिशम् ॥

अग्निराक्षसवायुश् च भूताधिप नमो ऽस्तु ते ॥
अनेन स्तोत्रराजेन संस्तुत्य मण्डलाग्रतः ॥
वज्रघण्टाधरो मन्त्री इदं स्तोत्रम् उदाहरेत् ॥
पश्चाद् आत्मदेहेषु आत्ममण्डलं कल्पयेत् ॥
एवं भावयमानां वै मण्डलम् आदियोगतः ॥
आदियोगनामसमाधिः ।
ततो मण्डलराजाग्रीनाम प्रवक्ष्यामि ।
ओं अकारो मुखं सर्वधर्माणाम् आद्यनुत्पन्नत्वात् । तदर्थाधिमोक्षतो दशदिक्षर्वलोकधातुषोडशशून्यताम् अधिमुच्य शून्यताहंकारम् आत्मानं पश्येत् ।
ततो हुंकारेण निष्पन्नवज्रेण वायुमण्डलं तस्योपरि रंकारेणाग्निमण्डलं तस्योपरि वंकारेण महोदधिं तस्योपरि कंकारेण काञ्चनमण्डलं तद्मध्ये हुं सुं हुं इति । तेन सुमेरुं चतुरस्रं रत्नमयं सर्वरत्नविभूषितं निष्पाद्य । ओं वज्र दृढेत्यादिना वज्रबन्धेनाधितिष्ठेत् । तस्योपरि वज्रहेतुकर्ममुद्रया भूंकारसितनिष्पन्नवज्रमणिरत्नशिखरकूटागारम् ।
चतुरस्रं चतुर्द्वारं चतुस्तोरणभूसितम् ॥
चतुष्कोणेषु सर्वेषु द्वारनिर्यूहसंधिषु ॥
चन्द्रार्कवज्रचिह्नितं हारार्धहाररचितम् ॥
चतुस्सूत्रसमायुक्तं पटस्रग्दामभूषितम् ॥
अभ्यन्तरमण्डलम् अष्टारचक्रं वज्रावलीपरिवृतम् । तस्य नाभोपरि सिंहासनं तस्योपरि चन्द्रमण्डलं । चक्राष्टारमध्येषु चन्द्रमण्डलं देवतास्थानम् । ( स्द्प् 162 )
बाह्यमण्डलस्य देवतास्थानं पटिकायाम् अष्टाविंशतिचन्द्रमण्डलं पश्येत् । सिंहासनोपरि चन्द्रमण्डले । अकारादिककाराद्यक्षरप्रज्ञोपायस्वरूपं द्रवीभूतम् आकाशस्फरणक समाधिसमापन्नं बोधिचित्तस्वरूपेण सत्त्वार्थहेतुसंपन्नमन्त्ररूपं भवति ।
ओं मुने मुने महामुनये स्वाहा ।
अनेन मन्त्रेण श्रीशाक्यसिंहराजनिष्पन्नो भवति । सर्वनीवारणं नाम समाधिसमापन्नः ।
ततस् समाधिसमापन्नो बुद्धो भगवान् तस्य मुद्रामन्त्रं उदाहरेत् ।
वज्रमुष्टिद्वयं बद्ध्वा परिपाट्या विकासयेत् ॥
मुद्रेयं धर्मचक्रस्य सर्वसंसारछेदनी ॥
तद्यथेति दृष्टान्तः ।
यथा पद्मेषु आसक्ता भ्रमराद्या विबन्धिताः ॥
तथा पद्मविकासेन विबन्धा दुःखमोचिताः ॥
तथैव दुःखसंसारे विबन्धास् त्न्भवे गतौ ॥
एवं विबन्धा मुच्यन्ते शाक्यसिंहकृपात्मनः ॥
ततश् शाक्यमुनेर् हृदये ऽकारेण चन्द्रमण्डलम् । ततश् चन्द्रमण्डले सर्वासां मन्त्राणि निष्पाद्यन्ते । वज्रोष्णीषम् आरभ्य यावद् वज्रावेशपर्यन्तं भावयेत् । ततो मन्त्राणि भवन्ति ।
ओं नमस् सर्वदुर्गतिपरिशोधनराजाय तथागतायार्हते सम्यक्संबुद्धाय । तद्यथा ।
ओं शोधने शोधने सर्वपापविशोधने शुद्धे विशुद्धे सर्वकर्मावरणविशुद्धे स्वाहा । इदं मन्त्रम् उदाहरेत् ।
अथातः संप्रवक्षामि परिपाट्या यथाक्रमम् ।
ओं वज्र हुं फट् ।
निश्चार्य मुखद्वारेण निर्गत्य पञ्चरश्मिकं ॥
समन्ततो दशसु दिक्ष्व् अवभास्य सर्वसत्त्वानाम् ॥
दुःखस्यान्तं करिष्यति पुनर् आगत्य रश्मीनाम् ॥
प्रविश्य हृदये ततः ॥
मन्त्ररश्मिद्वयं मील्य निष्पन्नरूपसंभवम् ॥
अभ्यन्तरमण्डलस्य चक्रारे पूर्वदिशि पद्मचन्द्रस्थः ॥
वज्रोष्णीषस् तथागतो हृदयाद् अवतीर्य निषीदेत ॥
हितार्थतः ।
शुक्लवर्णप्रभादिव्यो मुद्राभूस्पर्शसंस्थितः ॥
एवं रश्मिस्फरणसंहारपूर्वोक्तेन सर्वशः ॥

स्फरणसंहारयोगेन मन्त्ररश्मिनिमिलनम् ॥
बिम्बनिष्पत्तिसंपूर्णहृदयाद् अवतीर्य च ॥
निषीदेत यथास्थाने दक्षिणारेषु सुस्थितः ॥
ओं रत्नोत्तम त्रं उत्सृजेत् ।
पद्मस्थचन्द्रमध्येषु रत्नोष्णीषस् तथागतः ॥
अवतीर्य हृदयाद् बुद्धलक्षणैः समलंकृतः ॥
नीलवर्णस्वभावं तु मुद्रेयं वरदस्य तु ॥
त्रैधातुकम् अशेषं तु सर्वसत्त्वाभिषेकदः ॥
पूर्ववत् स्फरणसंहारं बिम्बोत्पत्तिक्रमेण च ॥
ओं पद्मोत्तम ह्रीः उत्सृजेत् ।
ततः पश्चिमारस्थपद्मोपरि चन्द्रमण्डले ॥
रश्मिबीजेन निष्पन्नः पद्मोष्णीषस् तथागतः ॥
हृदयाद् निर्गतो भूत्वा निषीदेद् अनुशासकः ॥
पद्मरागप्रभादिव्यो ध्यानमुद्राव्यवस्थितः ॥
ओं विश्वोत्तम अः उत्सृजेत् ।
उत्तरे चक्र आरस्थपद्मोपरीन्दुमण्डले ॥
अवतीर्य हृदयाद् बुद्धो विश्वोष्णीषस् तथागतः ॥
हरितवर्णप्रभाज्वाल्यो मुद्रा चास्याभयप्रदः ॥
विश्वकर्मकरो बुद्धः सत्त्वान् संसाराद् उत्तरेत् ॥
ओंकारेनोत्सृजेद् बुद्धस् तेजोष्णीषस् तथागतः ॥
आग्नेयारे स्थितः सम्यक् पद्मस्थचन्द्रमण्डले ॥
सव्येन सूर्यं संगृह्य वामहस्ते कटिस्थितः ॥
शितरक्तकवर्णाभस् त्रैधातुकम् आभासयेत् ॥
हुंकारबीजसंजातो ध्वजोष्णीषस् तथागतः ॥
उत्सृजेद् हृदयातीर्णो नैरृत्यारे निषण्णकः ॥
पद्मस्थचन्द्रबिम्बे च रक्तकृष्णकवर्णिकः ॥
चिन्तामणिध्वजं धार्य सत्त्वमात्सर्यशोधकः ॥
धीःकारबीजनिष्पन्नस् तीक्ष्णोष्णीषस् तथागतः ॥
क्लेशोपक्लेशान् संछेद्य वायव्यारे च उत्सृजेत् ॥
पद्मचन्द्रे निषीदेश् च मुद्रास्य खड्गदक्षिणः ॥
गगनवर्णनिभकायो वामे पुस्तकधारिणः ॥
क्रींकारबीजनिर्जातश् छत्रोष्णीषस् तथागतः ॥
धर्मस्वामी च सत्त्वानाम् ईशानारे च उत्सृजेत् ॥
कुन्देन्दुवर्णसन्निभो मुद्रेयं छत्रधारिणः ॥
सर्वे ते विश्वपद्मस्था निषन्णाश् चन्द्रमण्डले ॥
हुं त्रां ह्रीः अः ।
तेन मन्त्रेण उच्चार्य हृदयाद् उत्सृजन्ति च ॥
चतुर्षु कोणस्थानेषु पद्मस्थचन्द्रमण्डले ॥
लास्यादिदेव्यश् चतस्रः कुलवर्णकधारिण्यः ॥
सितं पीतं रक्तं विश्ववर्णकम् ॥

तेषां मुद्रा विधीयते यथोक्तितम् ॥
तेनैव मन्त्रम् उच्चार्य उत्सृजेद् हृदयाद् अपि ॥
धूपादिदेव्यश् चतस्रः पद्मस्थचन्द्रमण्डले ॥
चतुर्षु कोणसर्वेषु वर्णकुलक्रमेण तु ॥
ओं सर्वसंस्कारपरिशुद्धे धर्मते गगनसमुद्गते स्वभावविशुद्धे महानयपरिवारे स्वाहा ।
मन्त्रेण उत्सृजेत् पूर्वद्वारपार्श्वद्वये स्थिताः ॥
मैत्रेयादिचतुष्कस्य पद्मस्थचन्द्रमण्डले ॥
सत्त्वपर्यंकिनः सर्वे मुद्रावर्णक्रमेन तु ॥
पीतवर्णप्रभादिव्यो नागपुष्पकदक्षिणे ॥
वामेन कुण्डिकां गृह्य मैत्रीचित्तविशुद्धितः ॥
द्वितीयो ऽमोघदर्शी तु पीतवर्णप्रभोज्वलः ॥
वामहस्तकटिन्यस्तो दक्षिणपद्मनेत्रकः ॥
तृतीयो बोधिसत्त्वश् च नाम्नापायजहस्य च ॥
श्वेतवर्णप्रभाज्वालो मुद्रा अंकुशधारिणः ॥
चतुर्थः सर्वशोकतमनिर्घातनमतिस् तथा ॥
सितपीतमिश्रवर्णाभो मुद्रा दण्डधारिणः ॥
वाममुष्टिकटिन्यस्तः सत्त्वपर्यंकिना स्थितः ॥
चत्वारो बोधिसत्त्वाश् च दक्षिणद्वारे प्रतिष्ठिताः ॥
प्रथमो गन्धहस्ती च सितश्यामश् च वर्णकः ॥
मुद्रेयं दक्षिणहस्ते गन्धशंखं प्रपूरितम् ॥
वामहस्तकटिन्यस्तः सर्वावरणशोधनः ॥
द्वितीयो शूरंगमो नाम सर्वक्लेशप्रमोचकः ॥
स्फटिकवर्णप्रभादिव्यो मुद्रेयं खड्गधारिणः ॥
वामहस्तकटिन्यस्तः सत्त्वानां दुःखशन्तकः ॥
तृतीयः गगनगञ्जः सर्वाभरणभूषितः ॥
सितपीतमिश्रवर्णाभः सर्वावरणवर्जितः ॥
मुद्रेयं दक्षिणहस्ते पद्मस्थधर्मगञ्जतः ॥
वामहस्तकटिन्यस्तः सर्वाकाशधनधरः ॥
चतुर्थो ज्ञानकेतुश् च सर्वाशापरिपूरकः ॥
नीलवर्णकसंकाशश् चिन्तामणिध्वजधरः ॥
वाममुष्टिकटिन्यस्तः दारिद्रदुःखमोचकः ॥
पश्चिमद्वार आसीनः पद्मस्थचन्द्रमण्डले ॥
प्रथमम् अमृतप्रभश् चन्द्रवर्णविराजितः ॥
अमृतकलशं संधार्य मुकुटं रत्नपाणिना ॥
वाममुष्टिकटिन्यस्तो विस्तीर्णम् आयुर्दायकः ॥
द्वितीयश् चन्द्रप्रभो नामाज्ञानतमध्वंसकः ॥
शुक्लवर्णतनुदिव्यो मुद्रा दक्षिणपाणिना ॥
पद्मस्थचन्द्रबिम्बं तु वाममुष्टिकटिस्थितः ॥
तृतीयो भद्रपालेति सितरक्तं तु वर्णिकः ॥
सर्वधर्मप्रकाशको मुद्रा दक्षिणपाणिना ॥

ज्वलितरत्नं संधार्य वाममुष्टिकटिस्थितः ॥
चतुर्थो बोधिसत्त्वश् च जालिनीप्रभसंज्ञितः ॥
रक्तवर्णप्रभादिव्यो वज्रपञ्जरधारिणः ॥
प्रथमबुद्धपुत्रस् तु वज्रगर्भेतिनामतः ॥
सितनीलवर्णसंयुक्तो मुद्रा दक्षिणपाणिना ॥
उत्पलं वज्रसंयुक्तं वाममुष्टिकटिस्थितः ॥
द्वितीयो अक्षयो नाम मतिर् अन्तेषु संस्थितः ॥
कुन्देन्दुवर्णसंकाशो मुद्राहस्तद्वयेन तु ॥
ज्ञानकलशं संधार्य सर्वसत्त्वान् प्रपीनयेत् ॥
तृतीयो बुद्धपुत्रश् च प्रतिभाकूटसंज्ञितः ॥
रक्तवर्णप्रभाज्वालो मुद्रा दक्षिणपाणिना ॥
पद्मस्थरत्नकूटं तु वाममुष्टिकटिस्थितः ॥
चतुर्थो बोधिसत्त्वश् च समन्तभद्रनामतः ॥
सुवर्णवर्णसंकाशो मुद्रा दक्षिणपाणिना ॥
रत्नमञ्जरिकादिव्यं वाममुष्टिकटिस्थितः ॥
एवं रूपेण संयुक्ता बोधिसत्त्वकृपात्मनः ॥
मण्डलराजाग्री नामसमाधिः ।
ओं मुने मुने महामुनये स्वाहा ।
ओं नमस् सर्वदुर्गतिपरिशोधनराजाय तथागतायार्हते सम्यक्संबुद्धाय ल् तद्यथा ।
ओं शोधने शोधने सर्वपापविशोधने शुद्धे विशुद्धे सर्वकर्मावरणविशुद्धे स्वाहा ।
अनेन मन्त्रेण श्रीशाक्यसिंहराजप्रमुखसप्तत्रिंशद्देवतापरिपूर्णं भावयेत् । ततः पश्चाद् ज्ञानमण्डलम् आकर्षयेत् ।
द्वारोद्घाटनं कृत्वा मन्त्रमुद्रासमायुतः ॥
वज्रमुष्टिद्वयं बद्ध्वा तर्जनी द्वे प्रसारयेत् ॥
कनिष्ठां शृंखलीकृत्य द्वारोद्घाटनमुद्रया ॥
ओं सर्वविद् द्वारम् उद्घाटय हुं ।
द्वारोद्घाटनमन्त्रमुद्रया द्वारम् उद्घाटयेत् ।
वज्रचक्रमुद्रया मण्डलं परिकल्पयेत् ।
ओं सर्वविद् वज्रचक्रे हुं ।
बाहुभ्यां वज्रबन्धेन वज्रछटकविमोक्षणे ॥
श्रीशाक्यराजयोगात्मा सर्वबुद्धान् समाजयेत् ॥
वामे छटकतालेन समतालेन सिद्ध्यति ॥
दक्षिणेन तु तालोक्तं संनिपाताव् उभाव् अपि ॥
ओं वज्रसमाज जः हुं वं होः ।
अस्या आज्ञाया मात्रेण सपर्षच्चक्रसंचयः ॥
सर्वबुद्धाः समायान्ति का कथान्येषु वर्त्तते ॥
ततो ऽग्रत आकाशदेशे मण्डलचक्रं दृष्ट्वा वज्रयक्षमन्त्रेण । जप्तार्घभाजने स्थितगन्धवारिणा संप्रोक्ष्याचमनं दद्यात् । ततो ऽर्घमुद्रयार्घं दद्यात् । ततः पाद्यमुद्रया पाद्यं दद्यात् । ततः ।
वज्रपुष्पे हुं । वज्रधूपे हुं । वज्रदीपे हुं । वज्रगन्धे हुं ।
वज्रयक्षमन्त्रेण विघ्नान् उत्सार्य मण्डलेषु प्रवेशयेत् ।
ततश् चतुर्मुद्राः ।
प्रथमं पूर्वोक्तविधिमुद्रया समयमुद्रा निबन्धयेत् । ततः पूर्वोक्तमन्त्रेण धर्ममुद्रा विधीयते । ततः कर्ममुद्रामन्त्रेण कर्ममुद्रां बध्म्यात् । ततो महामुद्रामन्त्रेण महामुद्रां बध्नीयात् ।

ततो वज्रोष्णीषादितथागतैः सत्त्ववज्रीरत्नवज्रीधर्मवज्रीकर्मवज्रीं स्फारयित्वा समाण्डलेयदेवताश्रीशाक्यराजप्रमुखवज्रावेशपर्यन्तम् अभिषेकं दद्यात् । पञ्चाभिषेकाधिपत्मशपर्यन्तं दद्यात् । अभिषेकानन्तरम् ।
ओं सर्वतथागतधूपपूजामेघसमुद्रस्फरणसमये हुं ।
ओं सर्वतथागतपुष्पपूजामेघसमुद्रस्फरणसमये हुं ।
ओं सर्वतथागतदीपपूजामेघसमुद्रस्फरणसमये हुं ।
ओं सर्वतथागतगन्धपूजामेघसमुद्रस्फरणसमये हुं ।
ततो लास्यादिचतुष्टयेन पूजयेत् ।
वज्रम् उल्लालयन् वज्रवाचाशताक्षरपूर्ववत् स्तुतिं कुर्यात् । ततः ।
असमाचलासमितसारधर्मिणः ।
करुणात्मका जगति दुःखहारिणः ।
असमन्तसर्वगुणसिद्धिदायिनः ॥
असमाचलासमवराग्रधर्मिणः ॥
गगने समोपमगता न विध्यते ॥
गुणरेणुरेणुकणिकाप्य् असीमिके ॥
स्फुटसत्त्वधातुवरसिद्धिदायिषु ॥
विगतोपमेषु असमन्तसिद्धिषु ॥
सततामला करुणवेगतोत्थिता ॥
प्रणिधानसिद्धिर् अनिरोधधर्मता ॥
जगतो ऽर्थसाधनपरासमन्तिनी ॥
सततं विरोचति महाकृपात्मनाम् ॥
न निरोधतां करुणचारिकाचरा ॥
व्रजते त्रिलोकवरसिद्धिदायिका ॥
अमितामितेषु सुसमाप्तितां गता ॥
सुगतिं गतेष्व् अपि अहो सुधर्मता ॥
समयाग्रसिद्धिवरदा ददन्तु मे ॥
वरदानता सुगतितां गता सदा ॥
सकलत्रिलोकवरसिद्धिदायिका ॥
सुगतत्रियाध्वगतिता अनावृता ॥
सर्वत्र जिह्वाशतमुखेन स्तोत्रोपहारम् अधिमुच्य वज्रघण्टाधरः स्तुतिं कर्यात् ।
ततो दशसु दिक्षु सर्वतथागतबोधिसत्त्वेभ्यो लौकिकलोकोत्तरबाह्यदेवताभ्यश् च सर्वपूजाभिर् बलिविधिम् उपकरणेन सहितं बलिं दद्यात् ।
सुबहुपाठां पठेत् ।
आदौ छटादिशब्देनाकर्षयेत् पापराशयः ॥
त्रिलोकविजयमुद्रेण त्र्यक्षरादिसमन्वितं ॥
सर्वापायसमापत्तिलोकधातुम् अशेषतः ॥
आकर्षणम् उद्धरणबन्धविनाशनानि ॥
चत्वारि मन्त्राणी सुयोजनानि ।
ताड्यादिमन्त्रैः सितसर्षपताडमानैः ।
प्रक्षाल्यम् अस्थि सितवस्त्रसहितम् ॥
ओं शोधन इत्यादिमन्त्रेण उदकेन क्षालयेत् त्रयभवनमलं ।
ओं कंकणीत्यादिमन्त्रेण क्षलयेत् पञ्चगव्येन ।
ओं रत्ने रत्न इत्यादिमन्त्रेण क्षालयेत् सर्वगन्धतः ।

ओं अमोघावरणेत्यादिमन्त्रेण क्षालयेत् क्षीरगावितः ।
ओं अमृते अमृत इत्यादिमन्त्रेण क्षालयेत् मद्यम् उत्तमम् ।
ओं पुण्ये पुण्य इत्यादिमन्त्रेणोदकेन क्षालयेत् अन्तरान्ततः ।
पुनर् मंगलगाथां पाठयेद् अभिषिञ्चेत् । मार्गशोधनं कर्तव्यं । धूपादिदेयाश् चतुर्विधमन्त्राः ।
हस्तमात्रम् इदं कुण्डं कर्तव्यं होमयेत् ततः ॥
अनुस्मृत्य च तं सत्त्वम् अपायगतिसंस्थितम् ॥
होमयेत् शुभसंतानः पापावरणशान्तये ॥
घृतक्षीरसमाक्षिकैर् लाजासर्षपमिश्रितैः ॥
तिलतण्डुलव्रीह्यादि समिधासु करद्वयम् ॥
अन्यान्य् अपि तु कर्माणि यथा पूर्वं तथा कुर्यात् ॥
तेन संपद्यते क्षिप्रं सत्त्वानां च सुखावहम् ॥ इति ।
कर्मराजाग्रीनामसमाधिः ।
तस्मिंश् च सत्त्वे कृते सति । ततस् ते नारकदुःखाद् विमुक्ताः सन्तस् तुषितेषु सर्वसत्त्वहितकारिणः । सुगतवद् उत्पन्नाः । तत इन्द्रेण सहितमहायशसो देवा नृत्यन्तो ऽनन्तैः पूजामेघैर् इह जन्मनि तथागतपूजार्थं पुरस्कृत्य देवगणा उत्पातितबोधिचित्ता दिव्यनानाविधपुष्पधूपदीपगन्धछत्रध्वजपताकादिभिर् अनेकाकाराभिश् च शोभितम् । वस्त्ररत्नवर्षादिभिश् च परिपूरितं कुर्वन्ति स्म नन्दनवनम् । ततो महाश्चर्यं भूतम् ।
इइ
अथ भगवान् वज्रपाणिर् बोधिसत्त्वो भगवतो ऽधिष्ठानेन मन्त्रकल्पराजोत्तरकल्पम् अभाषत । वीरासनाद् उत्थाय प्रहर्षन् वज्रम् उल्ललयन् शाक्याधिपं नन्दन् मुनीश्वरं प्रणम्य सर्वावरणविशोधनवज्रं नाम समाधिं समापद्येदं दुर्गतिपरिशोधनं नाम हृदयं स्वहृदयाद् निश्चचार ।
ओं सर्वपापदहनवज्र हुं फट् ।
ओं सर्वापायविशोधनवज्र हुं फट् ।
ओं सर्वकर्मावरणानि भस्मीकुरु हुं फट् ।
ओं भ्रुं विनाशयावरणानि हुं फट् ।
ओं द्रुं विशोधयावरणानि हुं फट् ।
ओं ज्वल ज्वल धक धक हन हनावरणानि हुं फट् ।
ओं स्रुं सर सर प्रसर प्रसरावरणानि हुं फट् ।
ओं हुं हर हर सर्वावरणानि हुं फट् ।
ओं हुं फट् सर्वावरणानि स्फोटय हुं फट् ।
ओं भृत भृत सर्वावरणानि हुं फट् ।
ओं त्रट त्रट सर्वावरणानि हुं फट् ।
ओं छिन्द छिन्द विद्रव विद्रव सर्वावरणानि हुं फट् ।
ओं दह दह सर्वनरकगतिहेतुं हुं फट् ।
ओं पच पच सर्वप्रेतगतिहेतुं हुं फट् ।
ओं मथ मथ सर्वतिर्यग्गतिहेतुं हुं फट् ।
ततस् तेषाम् उपकरणान्य् अभाषत ।
ओं सर्वपापविशोधनि धम धम धूपय हुं फट् ।
ओं सर्वदुर्गतिविशोधनि पुष्पविलोकिनि हुं फट् ।
ओं सर्वापायविशोधनि ज्ञानालोककरि हुं फट् ।
ओं सर्वापायगतिनाशनि गन्ध हुं फट् ।
ओं नरकगत्याकर्षणि हुं फट् ।
ओं सर्वनरकगत्युद्धरणि हुं फट् ।
ओं सर्वापायबन्धनविमोचनि हुं फट् ।
ओं सर्वापायगतिगहनविनाशनि हुं फट् ।
ततो मण्डलम् अभाषत ।

चक्रान्तरं तु मण्डलम् अष्टारैश् च सुभूषितम् ॥
नाभिनेमिकसंयुक्तम् अभ्यन्तरावरणिकम् ॥
संलिख्य नाभौ शाक्याधिपेन्द्रमुनिं संलिखेत् ॥
ततो वीराग्रतो लिखेद् वज्रपाणिं महाबलम् ॥
पृष्ठतो ऽभिसंलिखेच् चक्रवर्तिनं च ॥
दक्षिणे जयोष्णीषं च वामतो विजयं लिखेत् ॥
तेजोराशिम् अप्य् आग्नेयां सितातपत्रम् ऐशान्याम् ॥
विकिरिणंश् चैव वायव्यां नैरृत्यां विध्वंसकं लिखेत्॥
ततो बाह्यं संलिखेत् ।
चतुरश्रं चतुर्द्वारं चतुस्तोरणशोभितम् ॥
वीरेणांकुशपाशस्फोटघण्टाः स्थापनीयाः ॥
सर्वकोनेषु पुष्पादयो लेख्याः ॥
ततः स्रग्गन्धगन्धादिना स्वकायम् अनुलेपयेत् ॥
तथैव वज्राचार्यः प्रविशेत् । जः हुं वं होः । भगवन् एहि महाकरुणिक दृश्य होः । इति । सर्वदेवान् आकर्षयेत् । तथैव प्रवेश्याभिषिक्ताः सर्वदुर्गतिभ्यो विमुक्ताः स्वर्गलोकोत्तरभूमिषूद्पद्यन्ते । सर्वसिद्धयो ऽपि सिद्ध्यन्ति । सम्यक्संबोधिश् चावश्यं प्राप्यते । पूर्ववत् सर्वकर्मां कुर्वन्ति । सर्वत्राप्रतिहता भवन्ति । उन्मार्जनेन सर्वज्वरग्रहादीन् मोक्षयन्ति । वज्रपाणिर् हुंकारेण सर्वकर्माणि करोति । अन्यकल्पविधिनापि सर्वसाधको भवति । देवनागयक्षगन्धर्वासुरराक्षसादीनां दुर्गतिवशीभूतानां सर्वप्रतिबिम्बादिकम् अभिलिख्य जपहोमाभिषेकैः सर्वदुर्गतिभ्यो मुक्तिर् भवति । अथ भगवान् वज्रधरः सिंहावलोकितेन भगवतो मुखम् अवलोक्य प्रणम्यैतद् अवोचत् । भगवन् परममुद्रालक्षणम् उत्तमम् आभाषे करुणावेदनावशगचित्तेन सर्वजिना अधिष्ठानं कुर्वन्ति ।
समाधिस्थो लला@टे ऽञ्जलिं कृत्वा प्रणमेत् । बुद्धानां प्रणाममुद्रा । योगवित् कण्ठप्रदेशे ऽञ्जलिं मुकुलितपद्माकृतिं कुर्यात् । पद्मकुले पद्ममुद्रा । हृदि वज्राञ्जलिं कृत्वा मध्यमांगुलीसूचीयोजयति । वज्रकुले समयमुद्रा । वामहस्तम् उत्तानम् उत्संगे स्थापयित्वा तस्योपरि दक्षिणं व्यवस्थाप्यांगुष्ठद्वयं योजयित्वा शान्तं दृष्ट्वा निरीक्षयेत् । इयं तथागतकुले समाधिमुद्रा समयः ।
ताम् एव परिवर्त्यान्योन्यं योजयित्वा कनिष्ठांगुष्ठकानि शृंखलाकाराणि बद्ध्वा हृदि स्थापयेत् । इयं वज्रकुले समयमुद्रा । पूर्णाञ्जलिं कृत्वा कन्यसांगुष्ठौ सूचिं धारयेच् छेषान् प्रसारयेत् । इयं पद्मकुले पद्ममुद्रा ।
वज्रबन्धं दृढीकृत्य मध्यमांगुलिं वज्रसूचीकृत्य कन्यसांगुष्ठौ प्रसारयेत् । इयं वज्रपाणेर् वज्रमुद्रा । तस्या एव कनिष्ठांगुष्ठद्वयं तथैव कृत्वा तर्जन्यनामिके पद्मपत्राकारैः कुर्यात् । इयं सर्वदुर्गतिपरिशोधनराजस्य सर्वशोधनमुद्रा । तस्या एव तर्जन्यनामिके रत्नाकारं कुर्यात् । इयम् अभिषेकमुद्रा । कन्यसांगुष्ठौ पृथक् पृथग् योजयित्वा शेषाः प्रसारिताः । सर्वप्रसहनमुद्रा ।
वामहस्तस् तथैव परिवर्तितः सर्वकर्मिकमुद्रा ।
अञ्जलेर् ऊर्ध्वक्षेपाद् धूपमुद्रा ।
तस्या एवाधःक्षेपात् पुष्पमुद्रा ।
सैव शंखाकारो गन्धमुद्रा ।
एताम् एव प्रसारितां धारयेद् बलिमुद्रा ।
तस्या एव मध्यमाद्वयाद् अन्तरम् अर्पणमुद्रा ।
वज्रबन्धमध्यमाद्वयं मध्ये पर्वभंगं कृत्वा सर्वांगुलीः प्रसारयेद् विकीरिणमुद्रा ।
तस्या एव कन्यसाद्वयांगुष्ठद्वयम् आकृष्टं विध्वंसनमुद्रा ।
सैवाञ्जलिः प्रभाकारस् तेजोराशिमुद्रा ।
ताम् एवोष्णीषस्थाने भ्रामयेत् सितातपत्रमुद्रा ।
वज्रबन्धे कन्यसांगुष्ठद्वयं शृंखलाकारेण बद्ध्वोर्ध्वं भ्रामयेत् । चक्रमुद्रा ।
वज्रबन्धे मध्यमे वज्राकारेण तर्जन्यो रत्नाकारौ कृत्वा शेषाः प्रभाकारा जयोष्णीषमुद्रा ।
तथैव तर्जनीद्वयं वज्रीकृत्य शेषांगुल्यो बद्ध्वा वज्राकाराह् कुर्याद् विजयास्य ।
दक्षिणेन वरदा वामेनाभयदा तथागती ।
वज्रबन्धे तर्जनीद्वयं वज्राकारं कुर्याद् वज्रमुद्रा ।
एतस्या एवांगुलदक्षिणतर्जन्याकृष्टांकुशी ।
सैव रोपाकारा शरः । सैवाग्रांगुष्ठा स्थापिता साधुमतेः ।
सैव मध्ये भग्ना रत्नम् ।
तस्या एवांगुलयः प्रभाकारास् तेजः ।
ताम् एवोष्णीषे स्थापयेत् केतुमुद्रा ।
ताम् एवाग्रतः स्थापयेद् वाशमुद्रा ।
सैव पद्माकारा पद्मा ।
सैवाग्राकृष्टा खड्गः ।

ताम् एव वलयाकारां कुर्याच् चक्रम् ।
ताम् एव पद्मपत्राकारां जिह्वा ।
सैवाग्रप्रसारिता विश्वा ।
सैव सुप्रसारिता रक्षा ।
सैवाग्रतः कुंचिता यक्षा ।
सैवाकुंचिता बन्धम् ।
तस्या एव तर्जनीद्वयं कुंचितम् अंकुशम् ।
सैवाग्रग्रस्ता पाशः ।
सैवान्योन्यं ग्रन्थिता स्फोटः ।
ताम् एव चालयेद् तोषा ।
अथ खलु भगवान् वज्रपाणिस् तं शक्रब्रह्माप्रमुखं महापर्षद्मण्डलम् अवलोक्य साधुकारैः संतोष्य साधु साधु शक्रप्रमुखा देवपुत्रा यद् युष्माकम् ईदृशं प्रतिभानं सजातं तत् साधु प्रतिपद्यध्वं देशयामि ।
अथ खलु भगवान् वज्रपाणिः सर्वामितायुस्स्फरणसंभववज्रं नाम समाधिं समापद्यापरिमितायुःपुण्यज्ञानसंभारवर्धनं नाम सर्वतथागतहृदयं स्वहृदयाद् निश्चचार ।
ओं पुण्ये पुण्ये महापुण्ये ऽपरिमितपुण्ये ऽपरिमितायुःपुण्यज्ञानसंभारोपचयकारिणि स्वाहा ।
अस्यां सर्वतथागतहृदयधारण्यां भाषितमात्रायां सर्वापायाः प्रशान्ता मोचितश् चात्मा सर्वे नरकप्रेततिर्यग्गतिपन्नाः सत्त्वाः प्रजानन्ति ।
सर्वे च लोकधातवो ऽवभासिता अवभास्य च द्वादशकारं बुद्धकृत्यं कृत्वा तस्मिन् एव सर्वतथागतहृदयधर्माक्षरे प्रविष्टान्य् अभूवन् ।
अथ खलु भगवान् पुनर् अप्य् अमितायुर्वज्रप्रभाकरीं नाम समाधिं समापद्येमं सर्वतथागतायुर्वज्रं नाम हृदयधारणीम् अभाषत ।
ओं अमृते ऽमृते ऽमृतोद्भवे ऽमृतसंभवे ऽमृतविक्रान्तगामिनि सर्वक्लेशक्षयंकरि स्वाहा ।
अथास्यां भाषितमात्रायां तथैव सर्वसत्त्वानां सर्वदुःखानि प्रशान्तानि ।
अथ भगवान् पुनर् अप्य् अमोघावरणविनाशनीं नाम समाधिं समापद्येमं सर्वतथागतावरणत्रोटनं नाम हृदयधारणीं स्वहृदयाद् निश्चचार ।
ओं कंकणि कंकणि रोचनि रोचनि त्रोटनि त्रोटनि प्रतिहन प्रतिहन सर्वकर्मपरंपराणि सर्वसत्त्वानां स्वाहा ।
अस्यां भाषितमात्रायां तथैव सर्वम् अभूत् ।
अथ खलु भगवान् पुनर् अपि सर्वावरणविमलविशुद्धिवज्रं नाम समाधिं समापद्येमां सर्वतथागताशेषावरणविनाशनीं नाम हृदयधारणीं स्वहृदयाद् निश्चचार ।
ओं रत्ने रत्ने महारत्ने रत्नसंभवे रत्नकिरणे रत्नमालाविशुद्धे शोधय सर्वपापं हुं फट् ।
अस्यां भाषितमात्रायां सर्वमारभवनानि ध्वस्तानि विध्वंसितान्य् अभूवन् ।
अथ खलु भगवान् पुनर् अप्य् अमोघाप्रतिहतसर्वावरणविध्वंसनिनामसमाधिं समापद्येमां सर्वतथागतहृदयधारणीं स्वहृदयाद् निश्चचार ।
ओम् अमोघाप्रतिहतसर्वावरणविनाशनि हर हर हुं फट् ।
अस्यां भाषितमात्रायां सर्वोपमलोकधातुः कम्पितः प्रकम्पितः संप्रकम्पितश् चलितः प्रचलितः संप्रचलितः क्षुभितः प्रक्षुभितः संप्रक्षुभितः ।
अनेकान्य् आश्चर्याद्भुतानि लोके संदृश्यन्ते स्म ।
तथैषां मण्डलं भवति ।
चतुरस्रं चतुर्द्वारं चतुःपार्श्वे समन्वितम् ॥
चतुस्तोरणसंयुक्तं नेमिनिर्यूहसंयुतम् ॥
तस्याभ्यन्तरतो लेख्यं चक्रमण्डलम् उत्तमम् ॥
चतुरारसमायुक्तं नाभिमण्डलम् उत्तमम् ॥
तस्य मध्ये लिखेद् नाथं वज्रपाणिं महाबलम् ॥
वज्रघण्टाकरं सौम्यं पूर्णेन्दुहसिताननम् ॥
पूर्वारमध्यभागेषु लिखेद् अक्षोभ्यनायकम् ॥
दक्षिणेन लिखेद् रत्नं पश्चिमेनाम्बुजोत्तमम् ॥
उत्तरेणामोघाख्यातं लिखेद् वीरं महाबलम् ॥
चक्रवर्तिकृताटोपान् लिखेत् सर्वतथागतान् ॥
चन्द्रमण्डलसंकाशान् सर्वाभरणभूषितान् ॥

वरदाभयहस्तान् तु वज्रपर्यंकसुस्थितान् ॥
कोणभागेषु सर्वेषु लेख्या धूपादयस् तथा ॥
द्वारपालाश् च ते लेख्याः क्रुद्धाः क्रोधपरायणाः ॥
ततः प्रविश्य स्वयं योगी आकर्षयेद् मन्त्रदेवताः ॥
जः हुं वं होः भगवन् वज्र एह्य् एहि समयस् त्वम् ॥
ततश् चागतं नाथं पूजयित्वा समासतः ॥
प्रवेशयेद् मृत्युहानाय मृत्यूरगभयानि च ॥
ओं वज्रसमये हुं ।
वज्रतेरिन्तिरीं बद्ध्वा प्रवेशयेद् रत्नकरान्वितम् ॥
पुष्पमालान्वितो वापि क्षेपयेद् मण्डले तु तम् ॥
ओं प्रतीच्छ वज्र हुं ।
ततः समयं देयं । ओं वज्रसमये हुं ।
ततो ऽनेनोद्घाटयेद् वज्रम् । ओं वज्रहासोद्घाटय हुं ।
ततो ऽनेन दर्शयेत् । ओं वज्र दृश्य होः ।
ततो ऽभिषेकम् अनेन दद्यात् ।
ओं वज्राभिषिञ्च हुं । ओं बुद्धाभिषिञ्च ओं । ओं रत्नाभिषिञ्च त्रां ।
ओं पद्माभिषिञ्च ह्रीः । ओं कर्माभिषिञ्च अः ।
ततः कलशाभिषेकं दद्यात् ।
ओं वज्रकलशाभिषिञ्च हुं । ओं बुद्धकलशाभिषिञ्च ओं ।
ओं रत्नकलशाभिष्ःइञ्च त्रां । ओं पद्मकलशाभिषिञ्च ह्रीः ।
ओं कर्मकलशाभिषिञ्च अः ।
ओं मालाभिषिञ्च त्रां । ओं वज्रपटावलम्बनाभिषिञ्च त्रीं ।
ओं बुद्धमुद्राभिषिञ्च ओम् । ओं वज्रमुद्राभिषिञ्च हुं ।
ओं रत्नमुद्राभिषिञ्च त्रां । ओं पद्ममुद्राभिषिञ्च ह्रीः ।
ओं कर्ममुद्राभिषिञ्च अः ।
ओं वज्रनामाभिषिञ्च ओं हुं त्रां ह्रीः अः । ओं कर्माभिषिञ्च हुं अः ।
ओं वज्रचक्राभिषिञ्च हुं भ्रूम् ।
ओं वज्रचक्राधिपतिस् त्वाम् अभिषिञ्च (येत्) ओं ओं ओं । हुं हुं हुं । त्रां त्रां त्रां । ह्रीः ह्रीः ह्रीः । अः अः अः ।
ओं वज्रधारिण्य् अभिषिञ्च हुं । ओं तथागतधारिण्य् अभिषिञ्च ओं ।
ओं रत्नधारिण्य् अभिषिञ्च त्रां । ओं पद्मधारिण्य् अभिषिञ्च ह्रीः ।
ओं कर्मधारिण्य् अभिषिञ्च अः ।
ओं सर्वतथागतगुह्याभिषिञ्च ओम् । ओं वज्रगुह्याभिषिञ्च हुं ।
ओं रत्नगुह्याभिषिञ्च त्रां । ओं पद्मगुह्यभिषिञ्च ह्रीः ।
ओं कर्मगुह्याभिषिञ्च अः ।
ओं प्रज्ञोपायसमायोगाभिषिञ्च हुं अः ।
एवम् अभिषिञ्च्यायुर्वर्धनीं विद्यां दद्यात् । ओं वज्रायुषि हुं अः ।
अस्यः साधनं भवति ।
वज्रायुर् भगवाञ् चन्द्रमण्डलारूढश् चन्द्राभः सर्वाभरणमण्डितः । अभयहस्तो वरदश् च । अमृतं क्षरन्तं । तस्याधस्तात् साधकं प्रसारितांजलिहस्तं ऊर्ध्वमुखं भगवन्तं निरीक्षयन्तं लिखेत् । पञ्चोपचारेण पूजां कृत्वा तस्याग्रतः शतसहस्रं जपेत् ।
ततः पूर्णमास्यां महतीं पूजां कृत्वा कपिलागोघृतं नवे भाण्डे स्थाप्य वामवज्रेणाक्रम्य भगवन्तं प्रध्यायन् सकलां रात्रीं जपेत् । ततो गन्धं विनस्यति । अपूर्वं वा गन्धम् उद्वहति । ऊष्मा धूमः शिखा वा निश्चरति । रश्म्युल्का प्रमुञ्चति । एवम् आदिभिर् निमित्तैस् तद् घृतं नवनीतं तैलं वा । उदकं दधि क्षीरं मद्यं रुधिरं वसाम् अस्थिकां वा । मांसं वान्यतमं वा संप्रसाध्य प्रत्यूषे रक्षादिकं च कृत्वा । आत्मानंश् च संशोध्य पिबेद् भक्षयेत् । यथा निमित्तेन यावदा चन्द्रार्कायुर् भवति । वज्रसत्त्वश् चेति । अधमेनाधमा सिद्धिर् भवेत् । नात्र संशयः । निर्मित्तेन भवेल् लोके निर्व्याधिर् मेधान्वितः । वलिपलितसुखात्मा दृढकायः शतायुः । अन्यान्य् अपि कर्माणि शान्तिपुष्टिवशादिकं करोत्य् अविचारेण जापमात्रात् । न संशयः ।
अथ चत्वारो महाराजानो भगवन्तं वज्रपाणिं प्रणिपत्यैवम् आहुः । वयम् अपि भगवन् सर्वसत्त्वानाम् अर्थाय हिताय सुखाय स्वकस्वकानि हृदयानि भाषयामः । आज्ञापयतु भगवान् आज्ञापयतु वज्रधृक् । साधु साधु महाराजानो देशयध्वम् अहम् अनुमोदे । अधितिष्ठामि स्वसमयम् ।

अथ वैश्रवणो महायक्षराजा भगवदनुज्ञातो ऽनुमोदितो ऽधिष्ठितस् स्वहृदयं स्वहृदयाद् निश्चचार । ओं वैः । अथ धृतराष्ट्रस् तथैव स्वहृदयम् अभाषत । ओं धृः । अथ विरूढकः कुम्भाण्डमहाराजा स्वहृदयम् अभाषत । ओं विः । अथ विरूपाक्षो नागमहाराजा तथैव स्वहृदयम् अभाषत । ओं क्षः ।
अथ तेषां मण्डलं भवति ।
चतुरस्रं चतुर्द्वारं पञ्चमण्डलमण्डितम् ॥
तस्य मध्ये लिखेद् नाथं वज्रपाणिं सगर्वितम् ॥
तस्य वामे पार्श्वे तु लिखेद् वैश्रवणं शुभम् ॥
गदानकुलिकाहस्तं रत्नाभरणमण्डितम् ॥
स्थूलं सिंहासनारूढं हेमवर्णं महाद्युतिम् ॥
भद्रकुम्भादिरत्नौघवर्षयन्तं लिखेद् बुधः ॥
पुरतो धृतराष्ट्रं तु वीणावादनतत्परम् ॥
ललितं श्यामवर्णं तु सर्वाभरणभूषितम् ॥
दक्षिणेन लिखेद् वीरं खड्गहस्तं विरूढकम् ॥
पश्चिमेन विरूपाक्षं वज्रपाशधरं परं ॥
फणैः सप्तभिः संपूर्णं लोहिताक्षिभिर् निर्गतम् ॥
द्वारदेशेषु सर्वेषु द्वारपालास् तथैव च ॥
ततः प्रविशेत् स्वयं मन्त्री मुद्रया चक्रसंज्ञया ॥
आकर्षयेद् भगवन्तं ततो राज्ञः समाहरेत् ॥
आकृष्य पूजयेद् विद्वान् अर्घपात्रैर् यथाविधि ॥
ततः प्रवेशयेच् छिष्यान् पुष्पमालाविभूषितान् ॥
राजानं क्षत्रियं वापि ब्राह्मणादिकम् एव वा ॥
मन्त्रेणानेन मन्त्रज्ञो मुद्रया वज्रधारया ॥
ओं वज्रसमये हुं ।
ततः पुष्पं रत्नं वा क्षेपयेद् अनेन च ।
ओं वः प्रतीच्छध्वं महोत्तमाः ।
पतति यस्य राजस्य सो ऽस्य सिध्यति नान्यथा ॥
ततो ऽभिषिञ्चेत् कलशैश् चतुर्भिः कोणसंस्थितैः ॥
पञ्चमं वज्रपाणेस् तु मुद्रयैवाभिषिञ्चयेत् ॥
एवम् आदिक्रमेणैव मण्डलाख्याभिषिञ्चनात् ॥
अथ राजाभवते राजा राजा भवते महान् ॥
जम्बुद्वीपपतिश् श्रीमाञ् चतुर्द्वीपपतिर् वरः ॥
चतुरभिषेकाच् च चतुर्द्वारप्रवेशनात् ॥
तस्याहं वज्रधरो राजा पालयामि स्वपुत्रवत् ॥
वयं चतुर्महाराजाः पालयामः सततं नृपम् ॥
सभृत्यपरिजनन् तु सराष्ट्रपुरमण्डलम् ॥
दुष्टान् तस्य हनिष्यामः परराष्ट्रं च तस्य च ॥
व्याधिमृत्युभयं चापि दुर्भिक्षम् ईत्युपद्रवम् ॥
वैश्रवणः कुरुते पुष्टिं धृतराष्ट्रस् तु शान्तिकं ॥
विरूढको ऽकालमृत्युं हन्यात् सपशुबान्धवान् ॥
विरूपाक्षः कुरुते क्षेमं दुर्भिक्षादिविनाशनम् ॥
संक्षेपतो वयं तस्य सर्वाशां सर्वचिन्तितं ॥
करोम वज्रपाणिस् तु द्रोहं यदि न निश्चयात् ॥

अथ दशदिग्लोकपाला भगवन्तं प्रणिपत्यैवम् आहुः ॥
वयम् अपि भगवन् सर्वसत्त्वहितसुखाय ॥
स्वकस्वकानि हृदयानि प्रददामः ॥
साधु साधु लोकपालाः साधु साधु वदतेति ॥
अथेशानो भूताधिपतिर् हृदयं ददाति ।
ओं इ । ओम् ई । ओं अः । ओं यः । ओं ऋः । ओं वः । ओं यः । ओं कुः । ओं आः । ओं व्रः ।
अथैषां मण्डलं भवति ।
मण्डलं पूर्ववद् लिखेद् मध्ये नाथं तथैव च ॥
दिक्पालास् तु स्वदिग्भागे स्थापयेत् पुरतो द्वयम् ॥
आदित्यं वराहरूपन् तु द्वारपालास् तथैव च ॥
ततश् चाकृष्य तान् सर्वान् पूजयेत् सर्वपूजया ॥
ततः प्रवेशयेत् शिष्यान् प्रविश्य स्वयम् एव तु ॥
अभिषिञ्चयेत् कलशैश् च दिक्पालादिमन्त्रितैः ॥
ततो दद्याद् धृदयं साधनाय हितैषणतः ॥
सिध्यन्ते ऽविचाराश् च दिक्पालास् स्वदिक्स्थिताः ॥
अथ ते तुष्टा एवम् आहुः । यः कश्चिद् भगवन् राजा क्षत्रियो वा मूर्ध्न्य् अभिषिक्तः । एतद् मण्डलं प्रविश्याभिषेकं गृह्णेत् । अन्यो वा श्राद्धः कुलपुत्रो वा कुलदुहिता वा । तस्य वयं भगवन् सर्वदा सर्वत्र रक्षावरणगुप्तिं संविधास्यामः । परराष्ट्राणि च वर्धयिष्यामः । कालेन कालं वर्षिष्यामः । सस्यपुष्पफलानि च निष्पादयिष्यामः ।
अथ यमो महाधर्मराजा भगवन्तं प्रणम्यैवम् आह ।
अहं भगवन् तस्य महाराज्ञ आयुर् ददामि । अष्टकालमरणानि प्रतिबाधयामि ।
नैरृतो महाराक्षसाधिपतिर् एवम् आह । अहं भगवन् तस्य राज्ञो राजपुत्रस्य ब्राह्मणस्य क्षत्रियस्य वान्यतरेषु वा मनुष्येषु न व्याधिप्रेतपिशाचभयं न राक्षसभयादिकं नाकालमृत्युभयं करिष्यामि । सर्वदा रक्षावरणगुप्तिं करिष्यामि ।
अथ वरुणो महाराजैवम् आह । अहं भगवन् तस्य महाराज्ञः सर्वदा सर्वत्र सर्वविषयं प्रतिपालयिष्यामि । आरक्षां च करिष्यामि । सस्यानि च निष्पादयिष्यामि । नागदोषानि च न प्रयच्छामि । विषाशनीञ् च नोत्सृजामि । सर्वाकालमरणानि च प्रतिबाधयामि ।
अथ वायव्याधिपतिर् एवम् आह ।
अहम् अपि भगवन् तस्य महासत्त्वस्य सर्वदा वायुभयं नोत्सृजामि । नाकालवातं चोत्सृजामि । सर्वसस्यपुष्पफलानि च परिनिष्पादयिष्यामि । सर्वभयञ् च प्रतिबाधयामि ।
अथ कुवेरो महायक्षराजा भगवन्तं नमस्यैवम् आह । अहं भगवन् तस्य महासत्त्वस्याष्टाशीतिभिर् महायक्षसेनापतिभिः सहागत्य सर्वकालोद्योगेन सर्वदा सर्वभयं प्रतिबाधयामि । सर्वधनधान्यसमृद्धिञ् च करोमि । स्वजनपरिजनदेशविषयभृत्यबन्धुबान्धवमित्रपुत्रदुहितृभार्यादिरक्षां च करोमि । गोगव्यखरोष्ट्रमेषगजवाजिच्छागलादिरक्षं करोमि ।
अथेशानः सर्वभूताधिपतिर् भगवन्तं प्रणिपत्यैवम् आह । अहं भगवन् तस्य राज्ञो राजपुत्रस्य क्षत्रियस्य ब्राह्मणस्य वा । इहामुत्र परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं दिग्बन्धं वज्रप्राकारं वज्रकीलनं वज्रपञ्जरं च करोमि । सर्वकार्येषु प्रत्युपस्थापयामि । कार्येष्व् अकार्येसु निमित्तं च दर्शयामि । स्वप्ने च सर्वं शुभं कथयामि । साधयतो ऽविघ्नेन सर्वसिद्धिं च दास्यामि ।
अथाकाशचारी खगपतिर् भगवन्तं प्रणिपत्यैवम् आह । अहं भगवन् सर्वदा सर्वं च पथिगतस्य राज्ञो राजपुत्रस्य राजामात्यस्य ब्राह्मणस्य क्षत्रियस्य वा स्वयम् आगत्य सर्वपरिवारेण रक्षावरणगुप्तिं संविधास्यामि । सर्वावरणं प्रतिवारयामि । सर्वव्याधिम् अपनयामि । सर्वदा चानुबद्धो भवति । अथ पातालाधिपतिर् महावराहो भगवन्तं नमस्यैवम् आह । अहं भगवन्तस्य नराधिपतेश् च नृपसुतस्य वा द्विजातेर् द्विजसुतस्य वा क्षत्रियवैश्यशूद्रस्य वान्यतरस्य श्राद्धस्य कुलपुत्रस्य कुलदुहितुर् वा सर्वदा सर्वार्थं निष्पादयिष्यामि । सर्वभयेषु च रक्षां करिष्यामि । अनेनापि परित्रायिष्यामि ।
अथाष्टौ महाग्रहाः सनक्षत्रपरिवारा एवम् आहुह् । वयं भगवन् सपरिवाराः स्वकस्वकानि हृदयानि ददामः । तद् भगवान् अधितिष्ठतु । साधु साध्व् अधितिष्ठंतु मया भाषध्वं महाग्रहाः । अथादित्यादयो महाग्रहा भगवन्तं नमस्याभाषन्त ।
ओम् आः । ओं सोः । ओं अः । ओं बुः ।
ओं ब्र्ः । ओं शुः । ओं साः । ओं राः ।
अथैषां मण्डलं भवति ।
मध्ये भगवन्तं वज्रपाणिं त्रैलोकविजयरूपं संलिख्य ।
समन्ताच् चत्वारो महासमुद्रान् लिखेत् ॥
शुक्रन्तु तस्य पुरतः सोमं पृष्ठतो लिखेत् ॥
दक्षिणे बृहस्पतिं लिखेद् वामतश् च बुधं लिखेत् ॥
अग्निस्थाने तु चांगारम् आदित्यं वायव्यां दिशि ॥
शनिश्चरं तु ऐशान्यां राहुं राक्षससन्निधौ ॥
नक्षत्रं सर्वत्र लेख्यं समन्ताद् बाह्यमण्डले ॥
द्वारे द्वारे तथा द्वारीं लिखेच् च क्रोधमानसम् ॥
वज्रधार्या प्रविश्य सर्वान् आवाहयेत् ॥
वज्रांकुशादिभिर् इति ततश् शिष्यान् प्रवेशयेत् ॥
ओं वज्र हन हुं फट् ।

मूल पाठ: Sarvadurgatipariśodhanatantra · Edition: Tadeusz Skorupski: The Sarvadurgatiparisodhana Tantra, Elimination of All Destinies, Sanskrit and Tibetan Texts with Introduction, English Translation and Notes. Delhi 1983. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc