सार्धत्रिशतिकालोत्तरागम · अध्याय 9
अभिषेकं प्रवक्ष्यामि संक्षेपान्न तु विस्तरात्
हिताय साधकेन्द्राणां परमेशेन भाषितम् ॥
मृण्मयं कलशं ह्येकं चन्दनेन विलेपितम्
ब्रह्मपत्रपुटं वाथ पद्मपत्रमथापि वा ॥
सर्वौषधियुतं कृत्वा सर्वगन्धोपशोभितम्
शतमष्टोत्तरं जप्त्वा प्रासादं सर्वतोमुखम् ॥
यागं कृत्वा तु पूर्वोक्तम् अभिषेकं तु कारयेत्
शुभनक्षत्रदिवसे मुहूर्ते करणान्विते ॥
बहुमङ्गलनिर्घोषैः शङ्खवादित्रनिःस्वनैः
ब्रह्मघोषैश्च विविधैर् नृत्तगीतसमन्वितैः
अनुज्ञातो ऽभिषिक्तश्च आचार्यः पाशहा भवेत् ॥
मूल पाठ: Sārdhatriśatikālottarāgama · Edition: N.R. Bhatt: Sardhatrisatikalottaragama, avec le commentaire de Bhatta Ramakantha. Pondicherry : Institut Francais d'Indologie 1979. (Publications de l'Institut Francais d'Indologie, 61) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0