सार्धत्रिशतिकालोत्तरागम · अध्याय 10
नाडीचक्रं परं सूक्ष्मं प्रवक्ष्याम्यनुपूर्वशः
नाभेरधस्ताद्यत्कन्दम् अङ्कुरास्तत्र निर्गताः ॥
द्वासप्ततिसहस्राणि नाभिमध्ये व्यवस्थिताः
तिर्यगूर्ध्वमधश्चैव व्याप्तं नाभेः समन्ततः ॥
चक्रवत्संस्थिता नाड्यः प्रधाना दश तासु याः
इडा च पिङ्गला चैव सुषुम्ना च तृतीयका ॥
गान्धारी हस्तिजिह्वा च पूषा चैव यशास्तथा
अलम्बुषा कुहूश्चैव शङ्खिनी दशमी स्मृता ॥
दश प्राणवहा ह्येता नाडयः परिकीर्तिताः
प्राणो ऽपानः समानश्च उदानो व्यान एव च ॥
नागः कूर्मो ऽथ कृकरो देवदत्तो धनंजयः
प्राणस्तु प्रथमो वायुर् नवानामपि स प्रभुः ॥
प्राणः प्राणमयः प्राणो विसर्गः पूरणं प्रति
नित्यमापूरयत्येष प्राणिनामुरसि स्थितः ॥
निश्वासोच्छ्वासकासैस्तु प्राणो जीवसमाश्रितः
प्रयाणं कुरुते यस्मात् तस्मात्प्राणः प्रकीर्तितः ॥
अपानयत्यपानस्तु आहारं च नृणामधः
मूत्रशुक्लमलान्वायुर् अपानस्तेन कीर्तितः ॥
पीतं भक्षितमाघ्रातं रक्तपित्तकफादिकम्
समं नयति गात्रेषु समानो नाम मारुतः ॥
स्पन्दत्यधरं वक्त्रं नेत्रगात्रप्रकोपनः
उद्वेजयति मर्माणि उदानो नाम मारुतः ॥
व्यानो विनामयत्यङ्गं व्यानो व्याधिप्रकोपनः
प्रीतेर्विनाशकरणो व्यापनाद्व्यान उच्यते ॥
उद्गारे नाग इत्युक्तः कूर्म उन्मीलने स्मृतः
कृकरस्तु क्षुते चैव देवदत्तो विजृम्भणे
धनंजयः स्थितो घोषे मृतस्यापि न मुञ्चति ॥
इत्येतद्वायुवृन्दं हृदि च विनिहितं नाभिचक्रप्रतिष्ठितम् निश्वासोच्छ्वासकैः श्वसनपुरमधः कम्पिताघूर्णितैश्च
नित्यं नित्याल्पजन्मा व्यसनयति पशुं यौवने बालभावे आक्रान्तो वायुरेकः स जननमरणैः क्रीडति भ्रान्तसत्त्वैः ॥
नाडीचक्रं यथावस्थं प्रवक्ष्याम्यनुपूर्वशः
दशारं चक्रमेत्तत्तु विभागो जायते यथा ॥
चक्रे भ्रमत्यसौ जीवो दशस्थानेष्वनुक्रमात्
स जीवो जीवलोकस्य बुध्यन्ते नैव मोहिताः ॥
जीवः प्रयाति दशधा तेन चक्रं प्रकीर्तितम्
नाडीचक्रमिति प्रोक्तं येन संक्रामति ह्यसौ ॥
हृद्व्योममध्ये पङ्कजमष्टदलं कर्णिका च तस्यान्तः ।
हृदये पङ्कजमर्केन्द्वग्निहिरण्यद्योताभाः शक्तयस्तस्मिन् ॥
उपरिचरी खलु शक्तिस्तासां प्राग्भाविनी शिवस्य ततः ।
शक्तिचतुष्टयपङ्कजमध्ये पुरुषो ऽलिरिव स लीनः ॥
शून्यमरुत्संदंशकगृहीतकरणात्मको ह्युभयतो ऽपि ।
संयाति यत्र नेयः शुष्कदलं मारुतेनेव ॥
भ्राम्यति पङ्कजमध्ये कलाचतुष्कात्मपाशसंरुद्धः ।
गोलकमिव हेलाभिहतमुत्पतनं निपातनं कुरुते ॥
ईश्वरयोगाद्विषुवत्संक्रान्तिश्चैव सिद्धिसंयोगात् ।
सौरनियोगाद्दक्षिणमुदगयनं चान्द्रसंयोगात् ॥
अयने सव्यासव्ये द्वौ पुटकौ युग्मतो विषुवदाहुः ।
संक्रान्तिरितश्चेतश्च गच्छतस्तेन समाख्याता ॥
सौरः सव्यो मार्गश्चान्द्रमसश्चेतरः समाख्यातः ।
धन्यो ऽभिषेक इन्दुः सौरः खलु वह्निसंधाने ॥
ध्यानाद्यो विषुवति च प्राग्दलसंस्थो नृपावलेपी स्यात् ।
तेजस्वी च बुभुक्षा पीडा वा जायते ऽग्निदिक्पत्रे ॥
याम्ये याम्यो भावो नैरृत्ये नैरृतो विनिर्दिष्टः ।
वारुणपत्रे वारुणो मारुत्पत्रे गतो मरुद्भावम् ॥
सौम्ये सौम्यो भावस्त्वैशे त्वैशः समाख्यातः ।
यां यां दिशमभिगच्छति तद्भावं निखिलमायाति ॥
पत्रान्तरालयोगाच्छून्यमिवात्मा ततो भाति ।
इति खलु पुद्गलचारो नाडीसधानमण्डलं मुख्यम् ।
कथितमिह सिद्धिहेतोर्बोद्ध्यव्यं यत्नतः सिद्धम् ॥
मूल पाठ: Sārdhatriśatikālottarāgama · Edition: N.R. Bhatt: Sardhatrisatikalottaragama, avec le commentaire de Bhatta Ramakantha. Pondicherry : Institut Francais d'Indologie 1979. (Publications de l'Institut Francais d'Indologie, 61) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0