भाषा

ENहिગુ
ग्रंथ पाठ

सार्धत्रिशतिकालोत्तरागम · अध्याय 8

8.1

अथ दीक्षां प्रवक्ष्यामि पञ्चतत्त्वव्यवस्थिताम्
पृथिव्यापस्तथा तेजो वायुराकाशमेव च ॥

8.2

पञ्चैतानि च तत्त्वानि यैर्व्याप्तमखिलं जगत्
सर्वतत्त्वानि तत्रैव द्रष्टव्यानि तु साधकैः ॥

8.3

ब्रह्माण्डे तु निवृत्तिर्वै शतरुद्रावधिस्तथा
तदूर्ध्वं तु प्रतिष्ठा स्याद् यावदव्यक्तगोचरम् ॥

8.4

ततो विद्या नियुक्ता सा यावद्विद्येश्वरान्तिकम्
शान्तिस्तदूर्ध्वमध्वान्ते शक्तिरेव शिवे पदे ॥

8.5

अज्ञात्वैतानि तत्त्वानि यो दीक्षां कर्तुमिच्छति
वृथा परिश्रमस्तस्य नैव तत्फलमाप्नुयात् ॥

8.6

निवृत्तिः पृथिवी ज्ञेया प्रतिष्ठा आप उच्यते
विद्यां तेजो विजानीयाद् वायुः शान्तिः प्रकीर्तितः ॥

8.7

शान्त्यतीता भवेद्व्योम तत्परं शान्तमव्ययम्
तं विदित्वा महासेन श्वपचानपि दीक्षयेत् ॥

8.8

निवृत्तिं हृदयेनैव प्रतिष्ठां शिरसा गुरुः
शिवो विद्यां तु शिखया शान्तिं वै कवचेन तु ॥

8.9

शान्त्यतीतं परं व्योम प्रासादेन तु होमयेत्
एकैकस्य शतं होम्यम् इत्येवं पञ्च होमयेत् ॥

8.10

पञ्चपूर्णाहुतीर्दद्यात् प्रासादेन तु षण्मुख
प्रायश्चित्तविशुद्ध्यर्थम् अष्टावेकैकयाहुतीः ॥

8.11

अस्त्रबीजेन मन्त्रज्ञो होमयेदनुपूर्वशः
एवं समाप्यते दीक्षा जननादिविवर्जिता ॥

8.12

हुतेनैव तु मुच्यन्ते साधका जन्मबन्धनात्
इयमिष्टिर्न प्रकाश्या गोपनीया प्रयत्नतः ॥

8.13

रहस्यं सर्वतन्त्राणाम् एष संस्कार उत्तमः
योनिन्यासादिकं कर्मोद् धारणं चाप्यपश्चिमम् ॥

8.14

शोधनानुक्रमं देव कथयस्व यथाविधि
दश सप्त च ये शोध्याः पृष्टाश्चात्र त्वया गुह ॥

8.15

यस्य यद्बीजमुक्तं तु तद्वक्ष्याम्यनुपूर्वशः
योनिबीजं तु हृदये कल्पयेच्च यथाक्रमम् ॥

8.16

अर्चनं प्रोक्षणं चैव ताडनं च तथा परम्
संधानं चैव संयोगं निक्षेपं तदनन्तरम् ॥

8.17

अर्चनं च ततः कुर्याद् गर्भाधानं तथैव च
जननं चाधिकारं च भोगं चैव लयं तथा ॥

8.18

स्वतत्त्वे चाहुतिशतं हृदयेन तु षण्मुख
पाशच्छेदं तथास्त्रेण दद्यात्पूर्णाहुतिं ततः ॥

8.19

हृदयेनात्र तूद्धारः कर्तव्यश्चाप्यनुक्रमात्
उद्धारे प्रोक्षणे चैव ताडने च तथैव च ॥

8.20

हुम्फट्कारसमायुक्तं कर्तव्यं चानुपूर्वशः
संधानं चैव तत्त्वानां कर्तव्यं तु यथाक्रमम् ॥

8.21

तत्त्वे तत्त्वे त्विदं कर्म एष एव विधिक्रमः
एभिस्तु शोधितैर्वत्स विधिं प्राप्नोति पुष्कलम् ॥

8.22

अन्यथा नैव मुच्यन्ते विधिहीनाः षडानन
पूर्णाहुतिप्रदानं च कर्तव्यं धारणायुतम् ॥

8.23

अमृतं यत्परं वत्स स्रवन्तं मनसा स्मरेत्
दीक्षाप्रकरणे ह्येतद् योज्यं सर्वत्र सर्वदा ॥

8.24

लिङ्गोद्धारविधाने च नित्यसंस्कारकर्मसु
पशोर्ग्रहणमोक्षं तु यत्त्वयोक्तं पुरानघ ॥

8.25

पाशा आभ्यन्तरा बाह्याः कम्सिन्स्थाने कथं स्थिताः
कस्मिन्स्थाने तु विच्छेद्याः सद्य उत्क्रमणं कथम् ॥

8.26

पशूनां चैव निर्देशं कथयस्व महेश्वर
आदिमस्य द्वितीयेन गृहीत्वात्मानमात्मना ॥

8.27

मुष्टिना यावत्स्थानं तन् नयेत्तं सुविचक्षणः
विषुवत्सम्प्रयोगेण ब्रह्माद्यास्ते शिवान्तकाः ॥

8.28

एकत्र समतां यान्ति अन्यथा तु पृथक्पृथक्
द्वादशान्ते तु ते च्छेद्याः शरेणास्त्रेण संयुताः ॥

8.29

तदा सायुज्यतां यान्ति समयैः परिवर्जिताः
अनिर्दिष्टमसंज्ञं च यत्कृतं तद्वृथा भवेत् ॥

8.30

तमुद्दिश्य कृतं कर्म मोक्षदं तन्न संशयः
सूर्यस्य ग्रहणे वत्स विषुवद्योगसंयुतम् ॥

8.31

आयामान्ते यदा च्छिन्नं तदा चोत्क्रमते ध्रुवम्
मनसि ग्रथिताः पाशाः सूत्रे मणिगणा इव ॥

8.32

हृत्पद्माद्यावत्तत्पद्मं मनस्तन्तुवितानितम्
तद्दृष्ट्वा छेदनं कुर्यान् मनोवृत्त्या मनश्च्छिदा ॥

8.33

मनसा मनसि च्छिन्ने जीवः केवलतां व्रजेत्
विस्तरं त्यज देवेश संक्षेपात्कथयस्व मे ॥

8.34

येन विज्ञातमात्रेण पशून्मोचयते क्षणात्
शृणु षण्मुख तत्त्वेन येन मोक्षो ध्रुवं भवेत् ॥

8.35

प्रयोगेणातिसूक्ष्मेण योगदृष्टेन मन्त्रवित्
दिव्येन योगमार्गेण शक्तिं यः प्रेरयेत्तु ताम् ॥

8.36

तं विदित्वा महासेन जीवं प्राणमयं बुधः
विषुवत्सम्प्रयोगेण योजयेच्छाश्वते पदे ॥

8.37

योगं तु विषुवं प्राप्य को न मुच्येत बन्धनात्
पृथिव्याद्यब्जनाडीर्वै शब्दादिगुणवायुभिः ॥

8.38

आत्माधिदेवता मन्त्राञ् ज्ञात्वा मुक्तस्तु मोचयेत्
नाडीविवरसम्बन्धा ऊर्ध्वनाला ह्यधोमुखाः ॥

8.39

ग्रन्थिद्वययुताः सर्वे हुम्फडन्तेन योजिताः
ततश्चोर्ध्वत्वमायान्ति उद्घातैः पूर्ववद्गुह ॥

8.40

क्ष्माद्यानालोक्य मनसा सबाह्याभ्यन्तरं पुनः
तत्त्वे तत्त्वे नियोक्तव्या वियुक्ता निरहंकृता ॥

8.41

ब्रह्माद्याञ्श्रावयेद्वत्स न पुनर्जन्मतां व्रजेत्
तेजश्चेतो द्विरभ्यस्य आयामो भास्करस्य तु ॥

8.42

ताडयित्वा पुरा वत्स ग्रहणं पूर्ववद्भवेत्
भित्त्वार्गलां न्यसेद्योनिं तत्त्वं तत्त्वेन संधयेत्
शक्तिभिः सम्पुटीकृत्य वौषडन्तेन निक्षिपेत् ॥

मूल पाठ: Sārdhatriśatikālottarāgama · Edition: N.R. Bhatt: Sardhatrisatikalottaragama, avec le commentaire de Bhatta Ramakantha. Pondicherry : Institut Francais d'Indologie 1979. (Publications de l'Institut Francais d'Indologie, 61) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc