भाषा

ENहिગુ
ग्रंथ पाठ

सार्धत्रिशतिकालोत्तरागम · अध्याय 7

7.1

अतः परं प्रवक्ष्यामि मण्डलं सार्वकामिकम्
भूमिशोधनं कृत्वा शास्त्रदृष्टेन कर्मणा ॥

7.2

अधिवासं ततः कृत्वा नक्षत्रे गुरुणान्विते
आलिखेन्मण्डलं प्राज्ञः सर्वसिद्धिप्रदं शुभम् ॥

7.3

सूत्रेण सुमितं कृत्वा चतुरश्रं समन्ततः
मध्ये पद्मं प्रतिष्ठाप्यम् अष्टपत्र सकर्णिकम् ॥

7.4

एकहस्तं द्विहस्तं वा चतुर्हस्तमथापि वा
स्वतन्त्रविहितं प्राज्ञो लिखेदावरणत्रयम् ॥

7.5

वाहयेत्पश्चिमद्वारम् आचार्यः सुसमाहितः
आग्नेय्यां कारयेत्कुण्डं हस्तमात्रप्रमाणतः ॥

7.6

यज्ञकर्मविधिं कुर्यात् सुसमिद्धे हुताशने
पूर्वादारभ्य वक्त्रादीन् विन्यसेदनुपूर्वशः ॥

7.7

पवित्राणि पुरा न्यस्य शिवाङ्गानि न्यसेत्ततः
आग्नेय्यां हृदयं न्यस्य ऐशान्यां तु शिरस्तथा ॥

7.8

नैरृत्यां तु शिखा ज्ञेया कवचं वायुगोचरे
अस्त्र दिक्ष्वथ विन्यस्य कर्णिकायां सदाशिवम् ॥

7.9

गर्भन्यासविधिः प्रोक्तो द्वितीयावरणे शृणु
हृदा पूर्वं समारभ्य लोकपालान्प्रपूजयेत् ॥

7.10

[तृतीयावरणे ऽस्त्राणि स्वमन्त्रेण प्रपूजयेत्।]
संक्षेपेण मया स्कन्द विधानं परिकीर्तितम् ॥

7.11

अनुक्तं यद्भवेत्किंचित् तत्सर्वं मूलमाश्रयेत्
एवं विधिविधानज्ञो दीक्षाकर्म समाचरेत् ॥

मूल पाठ: Sārdhatriśatikālottarāgama · Edition: N.R. Bhatt: Sardhatrisatikalottaragama, avec le commentaire de Bhatta Ramakantha. Pondicherry : Institut Francais d'Indologie 1979. (Publications de l'Institut Francais d'Indologie, 61) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc