भाषा

ENहिગુ
ग्रंथ पाठ

सार्धत्रिशतिकालोत्तरागम · अध्याय 6

6.1

अतः परं प्रवक्ष्यामि अग्निकार्यविधिं क्रमात्
अस्त्रेणोल्लेखनं कुर्याद् वर्मणाभ्युक्षणं ततः ॥

6.2

शक्तिन्यासं ततो दर्भैर् हृदयेनैव कारयेत्
हृदा वै शक्तिगर्भे तु प्रक्षिपेज्जातवेदसम् ॥

6.3

गर्भाधानादिकं कृत्वा निष्कृतिं चाप्यपश्चिमाम्
हृदयेनैव मन्त्रज्ञः सर्वकर्माणि कारयेत् ॥

6.4

पश्चात्पद्मविधानं तु प्रागुक्तं परिकल्पयेत्
शिवादिसर्वमन्त्रांश्च होमयेदनुपूर्वशः ॥

मूल पाठ: Sārdhatriśatikālottarāgama · Edition: N.R. Bhatt: Sardhatrisatikalottaragama, avec le commentaire de Bhatta Ramakantha. Pondicherry : Institut Francais d'Indologie 1979. (Publications de l'Institut Francais d'Indologie, 61) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc