सार्धत्रिशतिकालोत्तरागम · अध्याय 5
यजनं संप्रवक्ष्यामि यथाविध्यनुपूर्वशः
बीजाङ्कुरं पुरा शक्त्या पश्चादानन्तमासनम् ॥
अनन्तं चान्तगं कुर्यात् क्रमेणैव षडानन
हृदयं कर्णिका पद्मं धर्मं ज्ञानादिमेव च ॥
वैराग्यं च तथैश्वर्यम् ईशान्तं वह्नितो न्यसेत्
शक्तिभिः केसरव्यूहं हृदयेन च कल्पयेत् ॥
आवाहयेत्ततो देवं हृदयेन तु षण्मुख
स्थापनं पाद्यमर्घ्यं च तथाचमनमेव च ॥
स्नपनं पूजनं चैव हृदयेन तु कारयेत्
उक्तानुक्तं च यत्किञ्चित् तत्सर्वं हृदयेन तु ॥
एकावरणमेतत्तु सर्वकामार्थसाधनम्
सर्वतन्त्रेषु सामान्यं सर्वज्ञानेषु चोत्तमम् ॥
मूल पाठ: Sārdhatriśatikālottarāgama · Edition: N.R. Bhatt: Sardhatrisatikalottaragama, avec le commentaire de Bhatta Ramakantha. Pondicherry : Institut Francais d'Indologie 1979. (Publications de l'Institut Francais d'Indologie, 61) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0