सार्धत्रिशतिकालोत्तरागम · अध्याय 4
भस्मस्नानं प्रवक्ष्यामि तदूर्ध्वं च षडानन
मन्त्रैः सर्वैः सकृद्भस्म अभिमन्त्र्य यथाक्रमम् ॥
जलस्नानं पुरा कृत्वा अस्त्रबीजेन षण्मुख
विधिस्नानं ततः कुर्यान् मूर्ध्न आरभ्य मन्त्रवित् ॥
ईशानेन शिरः स्नायान् मुखं तत्पुरुषेण तु
हृदयं बहुरूपेण गुह्यं वै गुह्यकेन तु ॥
सर्वाङ्गाणि त्वजातेन अभिषेकं तु पञ्चभिः
उपरिष्टात्प्रसादेन स्नानं कुर्वीत षण्मुख ॥
मूल पाठ: Sārdhatriśatikālottarāgama · Edition: N.R. Bhatt: Sardhatrisatikalottaragama, avec le commentaire de Bhatta Ramakantha. Pondicherry : Institut Francais d'Indologie 1979. (Publications de l'Institut Francais d'Indologie, 61) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0