भाषा

ENहिગુ
ग्रंथ पाठ

सार्धत्रिशतिकालोत्तरागम · अध्याय 3

3.1

अतः परं प्रवक्ष्यामि स्नानं पापहरं शुभम्
सकृज्जप्तेन संगृह्य मृदा अस्त्रेण मन्त्रवित् ॥

3.2

मलस्नानं पुरा कृत्वा सकृज्जप्त्वा तु संहिताम्
तामेव मृत्तिकां पश्चाद् अभिमन्त्र्य सकृत्सकृत् ॥

3.3

भागत्रयं ततः कृत्वा एकमस्त्रेण मन्त्रयेत्
द्वितीयं ब्रह्मभिर्वत्स शिवजप्तं तृतीयकम् ॥

3.4

अस्त्रजप्तेन भागेन दिशां बन्धं तु कारयेत्
शिवजप्तेन तीर्थं तु ब्रह्मजप्तेन विग्रहम् ॥

3.5

कुण्ठयित्वा ततः स्नायाच् छिवतीर्थस्य मध्यतः
चक्रवत्युपचारेण सुगन्धामलकादिभिः ॥

3.6

उपस्पृश्य विधानेन संध्यां वन्देत साधकः
मन्त्रैः सर्वैः सकृद्वत्स उपस्थानं तु कारयेत् ॥

3.7

अभिषेकं पुरा कृत्वा ततः संध्यां समाचरेत्
अस्त्रं न योजयेद्देहे क्षिपेत्तद्बहिरेव च ॥

3.8

शरीरं शोषयेद्वत्स तेनात्मनि न योजयेत्
विघ्नेषु पाशजालेषु सदा योज्यं विचक्षणैः ॥

3.9

हृदयेन ततो विद्वान् पितृदेवांश्च तर्पयेत्
संहारं तस्य तीर्थस्य प्रासादेनैव कारयेत् ॥

मूल पाठ: Sārdhatriśatikālottarāgama · Edition: N.R. Bhatt: Sardhatrisatikalottaragama, avec le commentaire de Bhatta Ramakantha. Pondicherry : Institut Francais d'Indologie 1979. (Publications de l'Institut Francais d'Indologie, 61) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc