भाषा

ENहिગુ
ग्रंथ पाठ

सार्धत्रिशतिकालोत्तरागम · अध्याय 2

2.1

अन्तःकरणविन्यासो भूतशुद्धिस्तथैव च
भूतशुद्धिं पुरा कृत्वा ततो ऽन्तःकरणं कुरु ॥

2.2

हृद्बीजं पार्थिवे युक्तं पार्थिवीं धारयेत्क्रमात्
शिरो ऽप्सु तेजसि शिखां कवचं वायुना सह ॥

2.3

अस्त्रं च शिवसंयुक्तम् आकाशं धारयेत्सदा
हुंफडन्तेन पटलं भित्त्वा चोर्ध्वं विशेषतः ॥

2.4

पञ्चोद्घाताश्च चत्वारस् त्रयो द्वावेक एव च
द्वादशान्ते निरालम्बं विज्ञानं केवलं स्थितम् ॥

2.5

दीक्षायां तु यथा वत्स तत्प्रयोगं समाचरेत्
प्रक्रियान्तस्थममृतं स्रवन्तं चिन्तयेत्ततः ॥

2.6

ओमित्यनेन कमलं योगपीठं तदा भवेत्
सूर्यमण्डलसंकाशम् अकारं ह्यात्मसम्भवम् ॥

2.7

विद्यातत्त्वमुकारं तु शिवतत्त्वं मकारजम्
पुर्यष्टकं च तन्मात्रं तुर्यातीतं सदाशिवम् ॥

2.8

चिन्तयेत्परमं धाम सुषुम्नाभिन्नमस्तकम्
तेनाप्लावितमात्मानं परिपूर्णं विचिन्तयेत् ॥

2.9

यो ऽभसेदीदृशं मर्त्यः समाधिं मृत्युनाशनम्
न तस्य जायते मृत्युर् इति शास्त्रस्य निश्चयः ॥

2.10

पश्चाद्गुरोः साधकानां मूर्तेस्तु ग्रहणं भवेत्
ईशानाद्यास्तु सद्यान्तं मूर्ध्न आरभ्य विन्यसेत् ॥

2.11

नेत्रं दत्त्वा तदावाह्यो देवदेवः सदाशिवः
सर्वज्ञं च तदात्मानं चिन्तयेत्तु विचक्षणः ॥

2.12

हृदयं च शिरश्चैव शिखां कवचमेव च
न्यसेदस्त्रं च मन्त्रज्ञो यथास्थानेष्वनुक्रमात् ॥

2.13

हृदये ऽर्चाविधानं तु नाभौ होमं प्रकल्पयेत्
ललाटे त्वीश्वरं ध्यायेद् वरदं सर्वतोमुखम् ॥

2.14

यथार्चने तथाग्नौ च ध्याने स्नाने तथैव च
यथा देवे तथा देहे चिन्तयेत्तु विचक्षणः ॥

2.15

कृत्वान्तःकरणं ह्येवं पश्चाद्बाह्यं तु षण्मुख
सबाह्यन्तरं कृत्वा पश्चाद्यजनमारभेत् ॥

मूल पाठ: Sārdhatriśatikālottarāgama · Edition: N.R. Bhatt: Sardhatrisatikalottaragama, avec le commentaire de Bhatta Ramakantha. Pondicherry : Institut Francais d'Indologie 1979. (Publications de l'Institut Francais d'Indologie, 61) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc