भाषा

ENहिગુ
ग्रंथ पाठ

सार्धत्रिशतिकालोत्तरागम · अध्याय 22

22.1

प्रासादः कीदृशो ज्ञेयो व्याप्तिस्तस्य च कीदृशी
शरीरं कीदृशं तस्य कथयस्व महेश्वर ॥

22.2

प्रासादं यो न जानाति पञ्चमन्त्रमहातनुम्
अष्टत्रिंशत्कलोपेतं नासावाचार्य उच्यते ॥

22.3

प्रासादं सम्यगज्ञात्वा यो दीक्षां कुरुते गुरुः
अधस्ताच्छिष्यमात्मानं नयत्यत्र न संशयः ॥

22.4

प्रासादाब्जशिखान्तस्थो यस्तु दीक्षां करोति सः
आचार्यः सह शिष्येण शिवसायुज्यमाप्नुयात् ॥

22.5

ब्रह्मा विष्णुश्च रुद्रश्च इन्द्रश्चन्द्रो बृहस्पतिः
प्रजापतिस्तथादित्यः शुक्रः स्कन्दो भृगुस्तथा ॥

22.6

ये चान्ये प्राणिनो देवाः सर्वे प्रोक्ताः प्रसादजाः
एते चान्ये च बहवो मुनयः संशितव्रताः ॥

22.7

ध्यायन्ति परमं हंसं प्रासादं नामरूपतः
विभागं चास्य वक्ष्यामि यं ध्यात्वामृतमश्नुते ॥

22.8

सद्यः कलाष्टसंयुक्तम् अकाराक्षरजं विदुः
विद्यादुकारजं वामम् अघोरं च मकारजम् ॥

22.9

बिन्दुजः पुरुषो ज्ञेय ईशानस्तु शिखात्मजः
एवं मन्त्रास्तु पञ्चैते प्रासादात्सम्भवन्ति ये ॥

22.10

दशकोटिः सहस्राणां मन्त्राणाममितौजसाम्
इष्टेन तु प्रसादेन सर्व इष्टा न संशयः ॥

22.11

मारुता नव शक्त्याद्या ये मन्त्राः परिकीर्तिताः
प्रासादाब्जसमुत्पन्नाः सर्वे चामोघशक्तयः ॥

22.12

सद्यस्तु पृथिवी ज्ञेयो वामो ह्यापः प्रकीर्तितः
अघोरस्तेज इत्युक्तो वायुस्तत्पुरुषः स्मृतः ॥

22.13

आकाशस्तु भवेदीशः स्वयं देवो महेश्वरः
सद्योजातस्तु ऋग्वेदो वामदेवो यजुः स्मृतः ॥

22.14

अघोरः सामवेदः स्याद् अथर्वः पुरुषः स्मृतः
पञ्चमस्तु परः सूक्ष्मो व्योमव्यापी सदाशिवः ॥

22.15

सद्योजातस्तु वै ब्रह्मा वामो विष्णुः प्रकीर्तितः
अघोरो रुद्रदैवत्य ईश्वरः पुरुषः स्मृतः ॥

22.16

ईशानः शिवदैवत्यो हृदयादाववस्थितः
षष्ठं तु यत्परं तत्त्वम् असादृश्यगुणैः स्थितम् ॥

22.17

तस्य देहो न वक्तव्यः प्राकृतैर्गुणसम्भवैः
ज्ञात्वा परमनिःश्रेणीं पञ्चसंस्थानगामिनीम् ॥

22.18

ज्ञातमेव सकृद्येन विस्तृतं तु तदेव तत्
तत्काल एव मुक्तो ऽसौ यदा ज्ञातं हि तत्पदम् ॥

मूल पाठ: Sārdhatriśatikālottarāgama · Edition: N.R. Bhatt: Sardhatrisatikalottaragama, avec le commentaire de Bhatta Ramakantha. Pondicherry : Institut Francais d'Indologie 1979. (Publications de l'Institut Francais d'Indologie, 61) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc