भाषा

ENहिગુ
ग्रंथ पाठ

सार्धत्रिशतिकालोत्तरागम · अध्याय 23

23.1

शृणु षण्मुख तत्त्वेन ज्ञानामृतमनुत्तमम्
यन्न कस्यचिदाख्यातं नाख्येयं कथयामि तत् ॥

23.2

देहस्थः सकलो ज्ञेयो निष्कलो देहवर्जितः
आप्तोपदेशगम्यो ऽसौ सर्वतः किमपि स्थितः ॥

23.3

हंस हंसेति यो ब्रूयद् धंसो देवः सदाशिवः
गुरुवक्त्रात्तु लभ्येत प्रत्यक्षं सर्वतोमुखः ॥

23.4

तिलेषु च यथा तैलं पुष्पे गन्ध इव स्थितः
पुरुषस्तु शरीरे ऽस्मिन् सबाह्याभ्यन्तरे स्थितः ॥

23.5

उल्काहस्तो यथा कश्चिद् द्रव्यमालोक्य तां त्यजेत्
ज्ञानेन ज्ञेयमालोक्य तथा ज्ञानं परित्यजेत् ॥

23.6

पुष्पं तु सकलं विद्याद् गन्धस्तस्य तु निष्कलः
वृक्षं तु सकलं विद्याच् छाया तस्य तु निष्कला ॥

23.7

सकले निष्कलो भावः सर्वत्रैव व्यवस्थितः
उपायः सकलस्तद्वद् उपेयश्चैव निष्कलः ॥

23.8

सकले सकलो भावो निष्कले निष्कलस्तथा
त्रिमात्रश्च द्विमात्रश्च एकमात्रस्तथैव च ॥

23.9

अर्धमात्रा परा सूक्ष्मा तस्या ऊर्ध्वं परात्परम्
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरः शिव एव वा ॥

23.10

पञ्चधा पञ्चदैवत्यः सकलः परिपठ्यते
ब्रह्मणो हृदयं स्थानं कण्ठे विष्णुः समाश्रितः ॥

23.11

तालुमध्ये स्थितो रुद्रो ललाटस्थो महेश्वरः
नासाग्रे तु शिवं विद्यात् तस्यान्ते तु परं पदम् ॥

23.12

परस्मात्तु परं नास्ति इति शास्त्रस्य निश्चयः
गमागमः कथं तस्य केन वा नीयते तु सः ॥

23.13

संशयो मे महादेव कथयस्व यथार्थतः
शक्त्या तु नीयते जीवस् तस्मिन्प्राप्य निवर्तते ॥

23.14

अस्यान्तं ते प्रवक्ष्यामि शृणु षण्मुख तत्त्वतः
देहातीतं तु तद्विद्यान् नासाग्रे द्वादशाङ्गुलम् ॥

23.15

तदन्तं तद्विजानीयात् तत्रस्थो व्यापयेत्प्रभुः
मनो ऽप्यन्यत्र निक्षिप्तं चक्षुरन्यत्र पातितम् ॥

23.16

तथापि योगिनां योगो ह्यविच्छिन्नः प्रवर्तते
एतत्तत्परमं गुह्यम् एतत्तत्परमाक्षरम् ॥

23.17

नातः परतरं किञ्चिन् नातः परतरं शिवम्
नातः परतरं ज्ञानम् इत्याह भगवाञ्शिवः ॥

23.18

शिवज्ञानामृतं प्राप्य संक्षेपान्न तु विस्तरात्
कथितो देवदेवेन परमाक्षरनिर्णयः ॥

23.19

एतत्ते शिवसद्भावं शिववक्त्राद्विनिःसृतम्
गुह्याद्गुह्यतमं गुह्यं गूहनीयं प्रयत्नतः ॥

23.20

नाशिष्याय प्रदातव्यं नापुत्राय कदाचन
गुरुदेवाग्निभक्ताय नित्यं मुक्तिरताय च ॥

23.21

प्रदातव्यमिदं शास्त्रं नेतरेभ्यः प्रदापयेत्
दातास्य नरकं याति सिद्ध्येच्च न कदाचन ॥

23.22

शिवामृतं मया ख्यातं सत्यं सत्यमिदं तव
एवं ज्ञात्वा तु मेधावी विचरेत्तु यथासुखम् ॥

23.23

गृहस्थो ब्रह्मचारी च वानप्रस्थो ऽथ भैक्षुकः
यत्र यत्र स्थितो ज्ञानी परमाक्षरवित् सदा ॥

23.24

विषयी विषयासक्तो याति देहान्तके शिवम्
ज्ञानादेवास्य शास्त्रस्य सर्वावस्थो ऽपि मानवः ॥

23.25

ब्रह्महत्याश्वमेधाद्यैः पुण्यपापैर्न लिप्यते
चोदको बोधकश्चैव मोक्षदश्च परः स्मृतः ॥

23.26

इत्येवं त्रिविधो ज्ञेय आचार्यस्तु महीतले
चोदको दर्शयेन्मार्गं बोधकः स्थानमादिशेत्
मोक्षदस्तु परं तत्त्वं यज्ज्ञात्वामृतमश्नुते ॥

मूल पाठ: Sārdhatriśatikālottarāgama · Edition: N.R. Bhatt: Sardhatrisatikalottaragama, avec le commentaire de Bhatta Ramakantha. Pondicherry : Institut Francais d'Indologie 1979. (Publications de l'Institut Francais d'Indologie, 61) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc