सार्धत्रिशतिकालोत्तरागम · अध्याय 21
अतः परं प्रवक्ष्यामि अष्टधा प्रत्ययो यथा
अनग्निज्वलनं चैव वृक्षस्यालभनं तथा ॥
पाशानां स्तोभनं चैव महापातकनाशनम्
विषसंहरणं चैव निर्बीजकरणं तथा ॥
ग्रहज्वरविनाशश्च प्रत्ययो ऽष्टविधः स्मृतः
एवं ज्ञात्वा तु विधिवत् ख्यातिः सर्वत्र जायते ॥
प्रणवेनाग्निमध्यस्थो हकारो ह्रीं तथैव च
आदिरों च नमश्चान्ते अनग्निज्वलने हितम् ॥
अग्निं स्रोतसि संयोज्य सहस्रोद्घातसंयुतम्
पञ्चाक्षरप्रयोगेण ज्वलत्येव न संशयः ॥
ओंकारः सर्वतो ऽधस्ताद् रेफस्तस्योर्ध्वतः स्थितः
पूर्ववत्सम्प्रयुक्तो ऽयं प्रयोगो भुवि दुर्लभः ॥
शतैः सप्तभिरुद्घातैर् आलब्धो म्रियते द्रुमः
भूयस्श्चाप्यायनं तस्य वारुणे स्रोतसि स्थितम् ॥
स जीवति पुनर्वृक्षो यथापूर्वं तथैव सः
तादृगेव पुनश्चासौ किं तु रेफविवर्जितः ॥
आप्यायनविधौ ह्येष पञ्चधा बिन्दुदीपितः
औकारमध्यसंयुक्तः प्रणवेनान्तदीपितः ॥
ईकारादिः स हौ मध्ये वह्निमध्यं ततः परम्
प्रयोगो विषुवत्काले पाशानां स्तोभकारकः ॥
शतैः पञ्चभिरुद्घातैः पतत्येव न संशयः
पुनश्चोत्थापनं तस्य यथा भवति तच्छृणु ॥
ईकाराद्यन्तसंयुक्तं हौ च मध्ये नियोजितम्
प्राणानुस्वारसन्दीप्तं नमो ऽन्तं प्रणवं पुनः ॥
उत्थापने प्रयुञ्जीत सर्वभूतेषु तत्त्ववित्
तावद्भिरेव चोद्घातैर् योजनीयः प्रयत्नतः ॥
लबीजं जीवसंविष्टं हकाराद्यन्तसंस्थितम्
पूर्ववन्मध्यसंस्थं च वायुबिन्दुसमन्वितम् ॥
यदस्यारोहणे प्रोक्तं गुरुत्वं जायते यथा
भूय एव प्रवक्ष्यामि लघुत्वं जायते यथा ॥
ओंकारो हं यकारेण ह्यौकारो हं नमस्तथा
तुलापुरुषयोगो ऽयम् उद्घातैरयुतेन तु ॥
स हकारो वकारेण यकारेण च दीपितः
ह्यौ मध्ये ह्लीं नमश्चान्ते वारुणेन तु बुद्धिमत् ॥
उद्घाताष्टशतेनैव विषं संहरति ध्रुवम्
यथाग्निज्वलने दृष्टो निर्बीजकरणे तथा ॥
शतैः पञ्चभिरुद्घातैर् विशेषो ऽत्र विधीयते
ओंकारमादितः कृत्वा ह्रूंकारं तदनन्तरम् ॥
ह्रौं ह्रूं च फण्णमश्चान्ते ग्रहाणां नाशने मतः
प्रयोगे वारुणे मार्गे उद्घाताष्टशतेन तु ॥
प्रणवादि ततो हुं फट् हुं फट् हुं फट् तथैव च
फट् फट् फट् फट् फडेवं स्याद् वारुणेन तु बुद्धिमान्
उद्घाताष्टशतेनैव क्षिप्रं नाशयति ज्वरम् ॥
मूल पाठ: Sārdhatriśatikālottarāgama · Edition: N.R. Bhatt: Sardhatrisatikalottaragama, avec le commentaire de Bhatta Ramakantha. Pondicherry : Institut Francais d'Indologie 1979. (Publications de l'Institut Francais d'Indologie, 61) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0