सार्धत्रिशतिकालोत्तरागम · अध्याय 20
कथं व्यापी अधश्चोर्ध्वं तिर्यक् चैव कथं भवेत्
एतन्मे ब्रूहि तत्त्वेन कारुण्यात्त्वं महेश्वर ॥
यावद्देहे स्थितो जन्तोर् अधस्तावद्व्यवस्थितः
निर्गतो व्यापयेत्तिर्यग् अन्तस्थः सर्वतः स्थितः ॥
त्रिमार्गावस्थितो देवः सर्वदेहेषु वर्तते
अविदित्वा न मुच्येत यद्यप्येतल्लयो भवेत् ॥
तत्त्रिमार्गं त्र्यधिष्ठानं सर्वदेहेषु वर्तते
यो वेत्त्येवमिमां व्याप्तिं सर्वव्यापी न संशयः ॥
न तस्य गर्भसम्भूतिर् यथा देवः प्रभाषते
तावद्भ्रमति संसारे यावद्व्याप्तिं न विन्दति ॥
विदित्वा व्यापिनं जीवं मुच्यते नात्र संशयः
यथा तृणजलूका नु तृणाग्रं यावदागता ॥
उपरिष्टान्निरालम्बा तद्वज्जीवो ऽत्र संस्थितः
ऊर्ध्वशून्यमधः शून्यं शून्यं देहान्तरस्थितम् ॥
त्रिशून्यं यो विजानाति मुच्यते स ध्रुवं गुह
व्याप्तिश्चास्य मया प्रोक्ता संक्षेपान्न तु विस्तरात्
अतः परतरं नास्ति व्यापकं व्यापकस्य तु ॥
मूल पाठ: Sārdhatriśatikālottarāgama · Edition: N.R. Bhatt: Sardhatrisatikalottaragama, avec le commentaire de Bhatta Ramakantha. Pondicherry : Institut Francais d'Indologie 1979. (Publications de l'Institut Francais d'Indologie, 61) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0