भाषा

ENहिગુ
ग्रंथ पाठ

सार्धत्रिशतिकालोत्तरागम · अध्याय 19

19.1

पूर्वमेवं प्रतिज्ञातं शिवभेदो ऽष्टधा स्थितः
कथं भिद्येत देवेश तत्त्वतः कथय प्रभो ॥

19.2

सकलं निष्कलं शून्यं कलाढ्यं खमलङ्कृतम्
क्षपणं च तथान्तस्थं कण्ठोष्ठ्यं चाष्टमं विदुः ॥

19.3

प्रासादं षष्ठसंयुक्तं षडन्तेन समन्वितम्
सकलं सर्वभूतस्थं शिवतत्त्वं प्रकीर्तितम् ॥

19.4

निष्क्रामति स्वयं देवो देहं त्यक्त्वा समारुतः
निष्कलं तं विजानीयात् षड्वर्णरहितं शिवम् ॥

19.5

निश्वासोच्छ्वसने हित्वा स्थितो देहे तु काष्ठवत्
शून्यं तं तु विजानीयाद् धृदयेन तु भावयेत् ॥

19.6

चुम्बाकारेण वक्त्रेण यत्तत्त्वं परिकीर्तितम्
कलाढ्यं तं विजानीयाद् आकाशस्थमथ शृणु ॥

19.7

ऊर्ध्वनादस्य क्षीणस्य यदन्तं परिकीर्तितम्
तत्रस्थं तं विजानीयाद् आकाशेन त्वलङ्कृतम् ॥

19.8

व्यावृतेनैव वक्त्रेण ब्रूयदेवं जगद्गुरुम्
दुःखक्षपणमित्युक्तं तत्क्षयात्क्षपणं स्मृतम् ॥

19.9

अधोनादस्य क्षीणस्य यदन्तं परिकीर्तितम्
अन्तस्थं तं विजानीयाद् अनुच्चार्यं प्रकीर्तितम् ॥

19.10

सप्तवर्गाष्टमं कोटिः सप्तमस्य द्वितीयकम्
वर्गातीतं षडन्तं च सप्तमात्त्रिचतुर्थकम् ॥

19.11

आदिमं तु पुनर्योज्यं षष्ठं वै प्रथमस्य तु
खशेखरसमायुक्तं कण्ठोष्ठ्यं चाष्टमं स्मृतम् ॥

19.12

एते भेदाः समाख्याता अणिमादिप्रसाधने
अनुच्चार्यमसन्दिग्धं मोक्ष इत्यभिधीयते ॥

मूल पाठ: Sārdhatriśatikālottarāgama · Edition: N.R. Bhatt: Sardhatrisatikalottaragama, avec le commentaire de Bhatta Ramakantha. Pondicherry : Institut Francais d'Indologie 1979. (Publications de l'Institut Francais d'Indologie, 61) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc