सार्धत्रिशतिकालोत्तरागम · अध्याय 1
भगवन्देवदेवेश लोकनाथ जगत्पते
मन्त्रतन्त्रं त्वया प्रोक्तं विस्तराद्वस्तुसाधनम् ॥
अल्पायुषस्त्विमे मर्त्या अल्पवीर्याल्पबुद्धयः
अल्पसत्त्वाल्पवित्ताश्च लोभमोहासमन्विताः ॥
अल्पग्रन्थं महार्थं च पदार्थानीकसंकुलम्
वक्तुमर्हसि देवैषां प्रसादार्थं मम प्रभो ॥
अथातः सम्प्रवक्ष्यामि शास्त्रं परमदुर्लभम्
नाम्ना तु वातुलात्तन्त्राद् दध्नो घृतमिवोद्धृतम् ॥
नादाख्यं यत्परं बीजं सर्वभूतेष्ववस्थितम्
मुक्तिदं परमं किं च दिव्यसिद्धिप्रदायकम् ॥
तद्विदित्वा महासेन देशिकः पाशहा भवेत्
आगोपालाङ्गना बाला म्लेच्छाः प्राकृतभाषिणः ॥
अन्तर्जलगताः सत्त्वास्ते अपि नित्यं ब्रुवन्ति तम्
स्थूलं सूक्ष्मं परं ज्ञात्वा कर्म कुर्याद्यथेप्सितम् ॥
स्थूलं शब्द इति प्रोक्तं सूक्ष्मं चिन्तामयं भवेत्
चिन्तया रहितं यत्तु तत्परं परिकीर्तितम् ॥
सान्तं सर्वगतं शून्यं मात्राद्वादशके स्थितम्
ब्रह्माणि ह्रस्वाः प्रोक्तानि दीर्घा ह्यङ्गानि षण्मुख ॥
अनुस्वारो भवेन्नेत्रं सर्वेषां चोपरि स्थितः
सविसर्गं भवेदस्त्रम् अनुस्वारविवर्जितम् ॥
षष्ठं त्रयोदशान्तं च पञ्चमे विनियोजयेत्
शिवं तत्तु विजानीयान् मन्त्रमूर्तिं सदाशिवम् ॥
षष्ठमस्य द्वितीयं तु चतुर्थाद्येन संयुतम्
द्वितीयात्पञ्चमाच्चैव आदिमं योजयेत्पुनः ॥
हन्ति विघ्नाञ्शिवास्त्रेण शिखया मुक्तिदं स्मृतम्
एतत्पाशुपतं दिव्यं सर्वपाशनिकृन्तनम् ॥
ब्रह्माणि च शिवं साङ्गं नेत्रं पाशुपतं च यत्
समासात्कथितः सर्वो मन्त्रोद्धारस्त्वयं शुभः ॥
अस्य मुद्रां प्रवक्ष्यामि साधकानां हिताय वै
हस्ताभ्यां संस्पृशेत्पादाद् ऊर्ध्वं यावत्तु मस्तकम् ॥
एषा मुद्रा महामुद्रा सर्वकामार्थसाधिका
करन्यासं पुरा कृत्वा मुद्राबन्धं तु कारयेत् ॥
तलिकां हस्तपृष्ठं च अस्त्रबीजेन शोधयेत्
कनिष्ठामादितः कृत्वा अङ्गुष्ठं चाप्यपश्चिमम् ॥
ब्रह्माणि विन्यसेत्तत्र तथैवाङ्गानि यत्नतः
प्रासादं विन्यसेत्पश्चाद् व्यापिनं सर्वतोमुखम् ॥
मूल पाठ: Sārdhatriśatikālottarāgama · Edition: N.R. Bhatt: Sardhatrisatikalottaragama, avec le commentaire de Bhatta Ramakantha. Pondicherry : Institut Francais d'Indologie 1979. (Publications de l'Institut Francais d'Indologie, 61) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0