भाषा

ENहिગુ
ग्रंथ पाठ

सार्धत्रिशतिकालोत्तरागम · अध्याय 18

18.1

कालचक्रविधानं तु प्रवक्ष्याम्यनुपूर्वशः
कालचक्रमिति ख्यातं येन कालः प्रबुध्यते ॥

18.2

त्र्यहोरात्रप्रचारेण त्रीण्यब्दानि स जीवति
द्व्यहोरात्रप्रचारेण जीवेद्वर्षद्वयं तु सः ॥

18.3

अहोरात्रप्रचारेण अब्दमेकं स जीवति
अहरेकं व्रजेद्यस्य रात्रिमेकां तथैव च ॥

18.4

षण्मासाज्जायते मृत्युर् इति शास्त्रस्य निश्चयः
द्वितीयस्यानुचारेण अहोरात्रं स जीवति ॥

18.5

यथा चाद्या तथा वामा मध्यमा च तथैव च
कालचक्रं समाख्यातं पुत्रस्नेहाद्विशेषतः ॥

मूल पाठ: Sārdhatriśatikālottarāgama · Edition: N.R. Bhatt: Sardhatrisatikalottaragama, avec le commentaire de Bhatta Ramakantha. Pondicherry : Institut Francais d'Indologie 1979. (Publications de l'Institut Francais d'Indologie, 61) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc