सार्धत्रिशतिकालोत्तरागम · अध्याय 17
अद्यापि संशयो देव ज्ञानविज्ञानयोः स्फुटम्
कथं वा ज्ञायते ज्ञानं कथं वा ज्ञेयमुच्यते ॥
विज्ञाय पूर्वमाधारं पश्चादाधेयमेव च
आधाराधेयवित्प्राज्ञः समर्थः सर्वकर्मसु ॥
आधारः पुरमित्युक्तम् आधेयस्त्वीश उच्यते
ईशं विज्ञाय मेधावी सदा यो नन्दति स्वयम् ॥
पुर्यष्टकसमायुक्तो ह्यध ऊर्ध्वं स गच्छति
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चकम् ॥
बुद्धिर्मनस्त्वहङ्कारः पुर्यष्टकमुदाहृतम्
यावदेतैर्न निर्मुक्तः कथं मुच्येत बन्धनात् ॥
ब्रह्मणि स्पर्शशब्दौ तु रसं वै केशवे त्यजेत्
रूपगन्धौ त्यजेद्रुद्रे बुद्ध्यहङ्कारमीश्वरे
मनो बिन्दुं शिवे त्यक्त्वा एभिर्मुक्तः शिवं व्रजेत् ॥
मूल पाठ: Sārdhatriśatikālottarāgama · Edition: N.R. Bhatt: Sardhatrisatikalottaragama, avec le commentaire de Bhatta Ramakantha. Pondicherry : Institut Francais d'Indologie 1979. (Publications de l'Institut Francais d'Indologie, 61) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0