भाषा

ENहिગુ
ग्रंथ पाठ

सार्धत्रिशतिकालोत्तरागम · अध्याय 16

16.1

अतः परं प्रवक्ष्यामि प्रासादस्य तु लक्षणम्
ह्रस्वं दीर्घं प्लुतं चैव लक्षयेन्मन्त्रवित्सदा ॥

16.2

ह्रस्वो दहति पापानि दीर्घो मोक्षप्रदो भवेत्
आप्यायने प्लुतश्चैव बिन्दुना मूर्ध्नि भूषितः ॥

16.3

स्थूलभेदास्त्रयः प्रोक्ता वश्योच्चाटनमारणे
प्लुतेन तु सदा वश्यं कुरुते नात्र संशयः ॥

16.4

दीर्घस्तूच्चाटयेत्क्षिप्रं फट्कारेण न संशयः
आदावन्ते च ह्रस्वस्य फट्कारो मारणे स्मृतः ॥

16.5

आदावन्ते च हृदय योग आकर्षणे स्मृतः
आकर्षयेद्ध्रुवं युक्तो योजनानां शते स्थितम् ॥

16.6

एवमाकर्षयेत्साध्यं नाम विज्ञाय तत्त्वतः
साधकस्य भवेद्बह्वी न्यूना साध्यस्य कीर्तिता ॥

16.7

एवं विदित्वा मेधावी आकर्षं कुरुते ध्रुवम्
अविज्ञाय त्विदं सम्यङ् नैव सिद्ध्यते सर्वदा ॥

16.8

यागं कृत्वा तु पूर्वोक्तं मन्त्रस्यार्घ्यं च दापयेत्
अर्घ्यं दत्त्वा तु मन्त्रस्य जपं कुर्याद्विचक्षणः ॥

16.9

देवस्य दक्षिणे भागे पञ्चलक्षं स्थितो जपेत्
जपान्ते घृतहोमस्तु दशसाहस्रिको भवेत् ॥

16.10

एवमाप्यायितो मन्त्रः कर्मयोग्यो भवेत्ततः
उक्तानुक्तानि कर्माणि सिद्धिं यान्ति न संशयः ॥

16.11

दशलक्षाणि जपतो जनाः स्वस्थानवासिनः
वशमायान्ति ते क्षिप्रम् इति शास्त्रस्य निश्चयः ॥

16.12

त्रिपञ्चलक्षं जपतो दशग्रामनिवासिनः
ते जना वशमायान्ति आत्मना च धनेन च ॥

16.13

एवं विंशतिभिर्लक्षैः प्रासादस्य षडानन
देशदेशाधिपान्मन्त्री नियतं वशमानयेत् ॥

16.14

लक्षाणां पञ्चविंशत्या विषयं वशमानयेत्
त्रिंशल्लक्षजपादस्य वशो वै मण्डली भवेत् ॥

16.15

पञ्चत्रिंशच्च लक्षाणि जपन्पृथ्वीं वशं नयेत्
चत्वारिंशज्जपाद्देवम् ईक्षते हाटकेश्वरम् ॥

16.16

लक्षाणि जप्त्वा पञ्चाशद् विद्याधरसमो भवेत्
तत्रैव मोदते मन्त्री यावदाभूतसम्प्लवम् ॥

मूल पाठ: Sārdhatriśatikālottarāgama · Edition: N.R. Bhatt: Sardhatrisatikalottaragama, avec le commentaire de Bhatta Ramakantha. Pondicherry : Institut Francais d'Indologie 1979. (Publications de l'Institut Francais d'Indologie, 61) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc